सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ८/अच्छिद्रम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अच्छिद्रम्
अच्छिद्रम्.

अभि सोमास आयवः पवन्ते मद्यं मदं ।
समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ।। ८५६ ।। ऋ. ९.१०७.१४
तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् ।
अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् ।।८५७ ।।

[सम्पाद्यताम्]

टिप्पणी

अथाछिद्रं पदनिधनं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। प्रजापतिर् वा अकामयताछिद्रः प्रजया पशुभि स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽछिद्रः प्रजया पशुभिर् अभवत्। तद् एवाछिद्रस्याछिद्रत्वम्। अछिद्र एव प्रजया पशुभिर् भवति य एवं वेद। देवा वा आप्तां वाचम् अछिद्रेणैवैभ्यो लोकेभ्यस् समदलुम्पन्। आप्तेव वा एतर्हि वाग् भवति छन्दोमेषु। ताम् अछिद्रेणैव संलुम्पन्ति। यो वै छिद्रेण संचिनोति न तद् उत्पूर्यते। अथ यो ऽछिद्रेण संचिनोति तद् उत्पूर्यते। ज्यायो ऽभ्यारम्भं भवत्य्, अति नवमम् अहर् जिहीते, दशमम् अहर् अभ्यारभते, प्रति सप्तमम् अपधावति। प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा अपाक्रामन्। सो ऽकामयत न मत् पशवो ऽपक्रामेयुर्, अभि मा वर्तेरन्न् इति। स एतत् सामापश्यत्। तेनैनान् पर्यास्यत्। तान् श्रैष्ठ्येनोपागृह्णात्। ते ऽस्मिन्न् अरमन्त। रमन्ते ऽस्मिन् पशवः पशुमान् भवति य एवं वेद॥जैब्रा ३.२१८

अछिद्रं भवति। यद्वा एतस्याह्नश्छिद्रमासीत् तद्देवा अच्छिद्रेणाप्यौहंस्तदच्छिद्रस्याच्छिद्रत्वम् - तांब्रा १४.९.