सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ७/प्लवः
सखाय आ नि षीदत पुनानाय प्र गायत ।
शिशुं न यज्ञैः परि भूषत श्रिये ॥ ११५७ ॥ ऋ. ९.१०४.१
समी वत्सं न मातृभिः सृजता गयसाधनं ।
देवाव्या३ं मदमभि द्विशवसं ॥ ११५८ ॥
पुनाता दक्षसाधनं यथा शर्धाय वीतये ।
यथा मित्राय वरुणाय शन्तमं ॥ ११५९ ॥
१२. प्लवः । वसिष्ठः । उष्णिक् । पवमानस्सोमः॥
हा। वोऽ३हा। वोऽ३हाऽ३। हा। औऽ२३४वा । हाइ । साखायाऽ२३४आ। नीषीदा ऽ२३४ता॥ पूनानाऽ२३४या। प्राऽ२३४गा। याऽ२३४ता ॥ शाइशुन्नाऽ२३४या । ज्ञैᳲपाराऽ२३४इभू ॥ षाऽ२३४त । श्राऽ२३४याइ ॥ सामीवाऽ२३४त्साम् । नामातॄऽ२३४भाइः ॥ सार्जाताऽ२३४गा। याऽ२३४सा । धाऽ२३४नाम् ॥ दाइवावाऽ२३४याम् । मादामाऽ२३४भी ॥ द्वाऽ२३४इशा । वाऽ२३४साम् ।। श्रीः ॥ पूनाताऽ२३४दा । क्षासाधाऽ२३४नाम् ॥ याथाशाऽ२३४र्द्धा । याऽ२३४वी । ताऽ२३४याइ॥ याथामाऽ२३४इत्रा ।। यावारूऽ२३४णा॥ याऽ२३४श॥ ताऽ२३४माम् । हा। वोऽ३हा । वोऽ३हाऽ३ । हा। ओऽ२३४वा । हाऽ३४ । औहावा ॥ एऽ३ | अतिविश्वानिदुरितातरेमाऽ२३४५॥
दी. ६. उत्. न. मा. १७. हे. ॥१३२॥
.
टिप्पणी
तासु वाचस्साम। निष्कर्या देवास् सत्रम् आसते। ते स्वर्गं लोकं न प्रजानन्न् एतत् तृतीयम् अहः। ते ऽकामयन्त प्र स्वर्गं लोकं जानीयामेदं तृतीयम् अहर् इति। तान् वाक्साम गायमानोपाप्लवत। तद् अपश्यन्। तेनास्तुवत। तेनार्ध्नुवन्। तेन स्वर्गं लोकं प्रजानन्न् एतत् तृतीयम् अहः। तद् एतद् ऋद्धि स्वर्ग्यं साम। ऋध्नोति, गच्छति स्वर्गं लोकं य एवं वेद। यद् ध वै शिवं शान्तं वाचस् तत् साम। सामन् वदतीति वा आहुः। साधु वदन्तं तद् यद् एतत् साम भवति शिवेनैवैतद् वाचश् शान्तेन त्र्यहं शमयन्ति। यद् उ वाक्साम गायमानोपाप्लवत् तस्माद् वाचस्सामेत्य् आख्यायते। सखाय आ नि षीदत पुनानाय प्र गायतेति प्रवतीः परिवतीर् भवन्ति। तद् यत् प्रवतीर् भवन्ति चतुर्थस्यैवाह्नः प्रजात्यै। अथ यत् परिवतीर् अन्तस्य रूपम् - अन्तो ह्य् एतद् अहर् - यो ऽन्तस् सो ऽन्तो ऽसद् इति। परि परीति वा अन्तं पर्यन्ति॥ जै.ब्रा. ३.५२
तासु प्लवम्। यो वै समुद्रम् अप्लवः प्रस्नाति नैनं स व्यश्नुते, ऽथ यः प्लवी प्रस्नाति स व्यश्नुते। समुद्रो वै छन्दोमाः। तद् यत् प्लवं प्लविन एवैतेन। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। तद् एनान् प्लवम् एव भूत्वा स्वर्गं लोकम् अवहत्। ते ऽब्रुवन् स्वर्गं लोकं गत्वा - प्लवं वाव नो भूत्वेदं साम स्वर्गं लोकम् अवाक्षीद् इति। तद् एव प्लवस्य प्लवत्वम्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। तद् व् एवाचक्षते वसिष्ठस्य प्लवम् इति। वसिष्ठो वा अकामयत स्वस्तीमान् लोकान् सर्वान् संप्लवेयेति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स स्वस्तीमान् लोकान् सर्वान् समप्लवत। तद् व् एव प्लवस्य प्लवत्वम्। स्वस्तीमान् लोकान् सर्वान् संप्लवते य एवं वेद। वसिष्ठम् ऋषयो ऽमेधन् - वैश्यो ऽस्य् अब्राह्मण इति। सो ऽकामयत - तरेयं दुरितं पाप्मानम् इति। स एतत् सामापश्यत्। तेनास्तुत। तेन ए आति विश्वानि दुरिता तरेमेत्य् एव दुरितं पाप्मानम् अतरत्। तरति दुरितं पाप्मानं य एवं वेद। तद् द्वादशाक्षरणिधनं भवति - द्वादशाक्षरा वै जगती। पशवो जगती। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। यद् उ वसिष्ठो ऽपश्यत् तस्माद् वसिष्ठस्य प्लवम् इत्य् आख्यायते। - जैब्रा ३.१९५
सखाय आनिषीदत"इत्युद्धत्तमिव वै तृतीयमहर्यदाह निषीदतेत्यहरेवैतेन प्रतिष्ठापयति - तांब्रा. १२.५.५
सखाय आनिषीदत"इति वालखिल्या वालखिल्यावेतौ तृचौ षष्ठे चाहनि सप्तमे च यदेतौ वालखिल्यौ तृचौ भवतोऽह्नोरेव व्यतिषङ्गायाव्यवस्रंसाय सन्तत्यै - तां.ब्रा. १४.५.४