सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ७/कार्तयशम्

विकिस्रोतः तः
कार्तयशम्
कार्तयशम्.

पुरोजिती वो अन्धसः सुताय मादयित्नवे ।
अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यं ॥ ६९७ ॥ ऋ. ९.१०१.१
यो धारया पावकया परिप्रस्यन्दते सुतः ।
इन्दुरश्वो न कृत्व्यः ॥ ६९८ ॥
तं दुरोषमभी नरः सोमं विश्वाच्या धिया ।
यज्ञाय सन्त्वद्रयः ॥ ६९९ ॥

१४. कार्तयशम् । कृतयशाः। अनुष्टुप् । पवमानस्सोमः॥

पुरोहाहाउ ॥ जाऽ२३४इती। वोआऔऽ३होऽ३ । धासाः । सुताऔऽ३होऽ३ । यामाऽ६ । हाउवा। दयित्नवेऽ२ ॥ उपा ॥ अपश्वानꣳ श्नथाऽ१इष्टाऽ३ना ॥ सखाऔऽ३होऽ३ । योदाऽ६। हाउवा ॥ घजिह्वियम् । उपाऽ२३४५ ॥ श्रीः ॥ सखाहाहाउ ॥ योऽ२३४दी । घजाऔऽ३होऽ३ । ह्वायाम् । योधाऔऽ३होऽ३ । रायाऽ६ । हाउवा । पावकयाऽ२ । उपा ॥ परिप्रस्यन्दताऽ१इसूऽ३ताः ॥ इन्दूरौऽ३होऽ३इ । आश्वाऽ६: । हाउवा ॥ नकृत्वियः । उपाऽ२३४५ ॥श्रीः॥ इन्दुर्हाहाउ ॥ आऽ२३४श्वाः । नकाऔऽ३होऽ३ । त्वायाः । तन्दूऔऽ३होऽ३ । रोषाऽ६म् । हाउवा । अभीनराऽ२: । उपा। सोमंविश्वाचियाऽ१धाऽ३या ॥ यज्ञाऔऽ३होऽ३ । यासाऽ६ । हाउवा ॥ तुवद्रयः । उपाऽ२३४५ ॥

दी. १२. उत् . १५. मा. ३३. ञि. ॥१३४।।


[सम्पाद्यताम्]

टिप्पणी

अथ कार्तवेशम्। त्रेधा भरतेषु राष्ट्रम् आसीत् - वैतहव्येषु तृतीयं, मित्रवत्सु तृतीयं, कृतवेशे तृतीयम्। सो ऽकामयत कृतवेशो - ह त्व् इमे द्वे राष्ट्रे एकधा राष्ट्रं स्याद् इति। स एतद् द्विनिधनं सामापश्यत्। तेनास्तुत। तेनेमे द्वे राष्ट्रे ह त्वैकधा राष्ट्रम् अभवत्। तद् एतच् छ्रीर् भ्रातृव्यहा साम। अश्नुते श्रियं हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। यद् उ कृतवेशो ऽपश्यत् तस्मात् कार्तवेशम् इत्य् आख्यायते। - जैब्रा ३.१९६