सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ७/अभिनिधनं काण्वम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अभिनिधनं काण्वम्
अभिनिधनं काण्वम्

वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः ।
पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ।। ८६४ ।। ऋ. ८.३३.१
स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः ।
कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ।। ८६५ ।।
कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणं ।
पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे ।। ८६६ ।।

८. अभिनिधनं काण्वम् ।। कण्वः । बृहती। इन्द्रः॥

औहोहोहाइ । आइही। वायाम् ॥ घाऽ२३४त्वा । सूतावाऽ२३४न्ताः । अपोनाऽ२३४वॄ । क्ताबर्हिषाः। ऐहोइ । आऽ२३४इही । पावित्राऽ२३४स्या । प्रास्रावाऽ२३४णे । षूवृत्रहान् । ऐहोइ। आऽ२३४इही । पारिस्तोऽ२३४ता ।। रआऽ३साऽ५ताऽ६५६इ ॥श्रीः।। औहोहोहाइ । आइही। स्वारा॥ ताऽ२३४इत्वा । सूतेनाऽ२३४राः। वासोनाऽ२३४इरे। काउक्थिनाः। ऐहोइ । आऽ२३४इही ॥ आइन्द्रास्वाऽ२३४ब्दी ॥ ववाऽ३ꣳसाऽ५गाऽ६५६ः ॥श्रीः।। औहोहोहाइ । आइही । काण्वे ॥ भाऽ२३४इर्द्धा। ष्णावाधाऽ२३४र्षात् । वाजन्दाऽ२३४र्षी । साहस्रिणाम् । ऐहोइ । आऽ२३४इही। पाइशंगाऽ२३४रू। पंमाघाऽ२३४वान् । वीचर्षणाइ । ऐहोइ । आऽ२३४इही । माक्षूगोऽ२३४मा । तमाऽ३इमाऽ५हाऽ६५६इ ॥ आऽ२३४भी ॥

दी. १६. उत्. १५. मा. ४३. ङि. ॥१२८।।


[सम्पाद्यताम्]

टिप्पणी

वयं घ त्वा सुतावन्त इति सतोबृहतीर् आक्रमन्ते ऽनपभ्रंशाय। तास्व् अभिनिधनं काण्वम्।तद् आहुर् - विरुद्धं वा एतद् ब्रह्मसाम्नो यद् अन्यतरद् रूपम् अभिवदतीति। तद् यद् अभीति भवति तेन रथन्तरस्य रूपान् न यन्ति। इन्द्रो वै वृत्रम् अजिघांसत्। स कण्वम् उपाधावद् - ऋष उप त्वा धावाम, इह नो ऽधिब्रूहीति। स एतत् कण्वस् सामापश्यत्। तेनास्तुत। ततो वा इन्द्रो वृत्रम् अहन्। हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। यद् व् एवास्मा एतेन साम्ना कण्वो ऽभीति वज्रम् अभ्यनदत्, तस्माद् अभिनिधनं काण्वम् इत्य् आख्यायते। - जैब्रा ३.१८९