सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ६/वाजजित्

विकिस्रोतः तः
वाजजित्
वाजजित्

१२
मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि |
रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि || १०७९ ||
पुनानो वारे पवमानो अव्यये वृषो अचिक्रदद्वने |
देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि || १०८० ||



४. वाजजित् । प्रजापतिः। बृहती। पवमानस्सोमः ।
मृज्यमानस्सुहा ॥ स्तियाऽ२ । समूऽ२हो । द्रवाऽ२हो । चामिन्वसाइ। रयाऽ२इꣳहोइ । पिशाऽ२हो । गंबहुलाम् । पूरुस्पृहाम् ॥ पवाऽ२हो। मानाऽ२हो ॥ भीयर्षसाऽ३१उवाऽ२३ ॥ श्रीः ॥ पवमानाभिया ॥ षसाऽ२इ । पवाऽ२हो । मानाऽ२हो । भीयर्षसाइ । पुनाऽ२हो । नोवाऽ२हो। रेपवमा। नोअव्ययाइ ॥ वृषोऽ२होइ । अचाऽ२इहोइ ॥ क्रादद्वनाऽ३१उवाऽ२३ ॥श्रीः॥ वृषोअचिक्रदात् ॥ वनाऽ२इ । वृषोऽ२होइ । अचाऽ२इहोइ । क्रादद्वनाइ। देवाऽ२हो। नाꣳसोऽ२हो। मपवमा । नानिष्कृताम् ॥ गोभाऽ२इर्होइ । अञ्जाऽ२हो ॥ नोअर्षसाऽ३१उवाऽ२३ ॥ वाजीजिगोऽ३वꣳऽ१ ॥
दी. २३. उत् . १४. मा. २६. ढू.॥१०४।।

[सम्पाद्यताम्]

टिप्पणी

वाजजित् (ग्रामगेयः)

अथ वाजजित्। अन्नं वै वाजः। यदा वै गौर् अश्वः पुरुषो ऽन्नस्य सुहितो भवति, अथ स वाजी भवति। देवासुरा अन्नाद्ये अस्पर्धन्त। ते देवा अकामयन्त वृञ्जीमह्य् अन्नाद्यम् असुराणाम् इति। त एतत् सामापश्यन्। तेनास्तुवत। ते वाजिजिगीवेत्य् एवान्नाद्यम् असुराणाम् अवृञ्जत। तद् एव वाजिजितो वाजजित्त्वम्। तद् एतद् अन्नाद्यस्यावरुद्धिस्साम। अवान्नाद्यं रुन्द्धे, वृंक्ते द्विषतो भ्रातृव्यस्यान्नाद्यं य एवं वेद। तत् पञ्चाक्षरणिधनं भवति। पांक्तो वै यज्ञः। अतीव वा एते यज्ञस्य मात्रां क्रामन्ति य एतद् अहर् आगच्छन्ति। तद् यत् पञ्चाक्षरणिधनं भवति - पांक्तो यज्ञो - यावती यज्ञस्य मात्रा तां नेद् अतिक्रामामेति॥जैब्रा ३.१५१