सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ६/चतुर्थं वैदन्वतम्

विकिस्रोतः तः
चतुर्थं वैदन्वतम्
चतुर्थं वैदन्वतम्.

१७
परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् ।
मदेषु सर्वधा असि ॥ १०९३ ॥ ऋ. ९.१८.१
त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः ।
मदेषु सर्वधा असि ॥ १०९४ ॥
त्वे विश्वे सजोषसो देवासः पीतिमाशत ।
मदेषु सर्वधा असि ॥१०९५ ॥

११. चतुर्थं वैदन्वतम् ।। विदन्वान्भार्गवः । गायत्री । पवमानस्सोमः ।

औऽ३होइ । इहहाहहाइ । औेऽ२होऽ२३४वा । पराइस्वाऽ२३४नो । गिराऽ२३४इष्ठाः ।। पावित्रेऽ२३४सो। । मोअक्षाऽ२३४रात् ।। श्रीः ।। तुवांवाऽ२३४इप्रः । तुवांकाऽ२३४वीः ।। मधुप्राऽ२३४जा। तमान्धाऽ२३४साः ।। श्रीः ।। तुवेवाऽ२३४इश्वे । सजोषाऽ२३४साः ।। देवासाऽ२३४ᳲपी । तिमाशाऽ२३४ता ।। मदाइषूऽ२३४सा । र्वधाआऽ२३४सी ।। औऽ३होइ । इहहाहहाइ । औऽ२हो२३४५वाऽ६५६ ।। एऽ३ । उपाऽ२३४५ ।।

दी. ३. उत्. न. मा. ३७. रे. ।।१११।।

[सम्पाद्यताम्]

टिप्पणी