सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ६/आद्यं वैदन्वतम्

विकिस्रोतः तः
आद्यं वैदन्वतम्.
आद्यं वैदन्वतम्.

१७
परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् ।
मदेषु सर्वधा असि ॥ १०९३ ॥ ऋ. ९.१८.१
त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः ।
मदेषु सर्वधा असि ॥ १०९४ ॥
त्वे विश्वे सजोषसो देवासः पीतिमाशत ।
मदेषु सर्वधा असि ॥ १०९५ ॥


१०. आद्यं वैदन्वतम् ।। विदन्वान्भार्गवः । गायत्री । पवमानस्सोमः ।।

पारी ।। स्वानोगिरिष्ठाः । पवाऽ२इत्रेऽ२३४सो । मोअक्षाराऽ२त् ।। श्रीः ।। तूवाम् ।। विप्रस्त्वंकविः । मधूऽ२प्राऽ२३४जा । तमन्धासाऽ२ः ।। श्रीः ।। तूवे ।। विश्वेसजोषसः । देवाऽ२साऽ२३४ᳲपी । तिमाशाताऽ२ ।। मदाइषूसाऽ३ । ईऽ३याऽ३ ।। र्वधोऽ२३४वा । आऽ५प्रसोऽ६”हाइ ।।

दी. ८. उत्. ५. मा. १०. णौ ।।११०।।

[सम्पाद्यताम्]

टिप्पणी