सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/गौरीवितम्(सुतासो)

विकिस्रोतः तः
Jump to navigation Jump to search
गौरीवितम्
गौरीवितम्

१५
सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः |
पवित्रवन्तो अक्षरं देवान्गच्छन्तु वो मदाः || ८७२ || ऋ. ९.१०१.४
इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् |
वाचस्पतिर्मखस्यते विश्वस्येशान ओजसाः || ८७३ ||
सहस्रधारः पवते समुद्रो वाचमीङ्खयः |
सोमस्पती रयीणां सखेन्द्रस्य दिवेदिवे || ८७४ ||







३. गौरीवितम् । गौरीवितिः । अनुष्टुप्। पवमानः सोमः ।

सुता । सोमाऽ३ । धुमत्तमाः ।। सोमाइन्द्रायमन्दिनाऽ२३ः । पावित्रवाऽ३१२३ । तोआऽ५क्षरान् ।। दाइवान्गच्छाऽ३१२३ ।। तुवोवा । माऽ५दोऽ६”हाइ ।। श्रीः ।। इन्दुः । इन्द्राऽ३ । यपवताइ ।। इतिदेवासो- अब्रुवाऽ२३न् । वाचस्पताऽ३१२३इः । मखाऽ५स्यताइ ।। वाइश्वस्येशा- ऽ३१२३ ।। नओवा । जाऽ५सोऽ६”हाइ ।। श्रीः ।। सह । स्रधाऽ३ । रᳲपवताइ ।। समुद्रोवाचमीङ्खयाऽ२३ः । सोमस्पताऽ३१२३इः । रयाऽ५इणाम् ।। साखेन्द्रस्याऽ३१२३ ।। दिवोवा । दाऽ५इवोऽ६”हाइ ।।

दी. १५. उत्. न. मा. २५. वु. ।।६३।।


[सम्पाद्यताम्]