सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १/कालेयम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
कालेयम्.
कालेयम्.

१४
तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये ।
बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणं ॥ ६८७ ॥ ऋ. ८.६६.१
न यं दुध्रा वरन्ते न स्थिरा मुरो मदेषु शिप्रमन्धसः ।
य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यं ॥ ६८८ ॥



७. कालेयम् ॥ कलिः । बृहती। इन्द्रः।
तरोभाऽ३इर्वो विदद्वसूम् ॥ इन्द्राꣳसबा । धऊतयाऽ२३इ। बृहद्गायाऽ३ । ताऽ२३४ः । सुतसोमेअ । ध्वाऽ३राइ ॥ हुवाइभरौ । वाऽ३४३ओऽ३४वा ॥ नकाऽ५रिणाम् ॥ श्रीः ॥ हुवेभाऽ३रन्नकारिणाम् ॥ हुवाइभराम् । नकारिणाऽ२३म् । नयन्दुध्राऽ३ः । वाऽ२३४ । रन्तेनस्थिराः । मूऽ३राः ॥ मदाइषुशौ । वाऽ३४३ओऽ३४वा ॥ प्रमाऽ५न्धसाः ॥ श्रीः॥ मदेषूऽ३शाइप्रमन्धसाः ॥ मदाइषुशाइ। प्रमन्धसाऽ२३:। यआदृत्या ऽ३शाऽ२३४ ॥ शमानायसु । न्वाऽ३ताइ ॥ दाताजरौ । वाऽ३४३ओऽ३४वा ॥ त्रऊऽ५क्थियाम् । होऽ५इ ॥डा॥
दी. १६. उत्. ३. मा. ३१. ग. ॥७॥


कालेयम्(अच्छावाक शस्त्रम्)

१३२. अच्छावाकशस्त्रम
रथन्तरपृष्ठे

अध्वर्यो शोंसावो३म् तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये ।
बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणो३म् हुवे भरं न कारिणं
न यं दुध्रा वरन्ते न स्थिरा मुराः।
मदे सुशिप्रमन्धसो३म् मदे सुशिप्रमन्धसो
य आदृत्या शशमानाय सुन्वते।
दाता जरित्र उक्थ्यो३म् ( ८.६६.१-२)
शोंसावो३म् तरणिरित सिषासति वाजं पुरंध्या युजा ।
आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्र्वो३म् नेमि तष्टेव सुद्रवं
न दुष्टुती मर्त्यो विन्दते वसु ।
न स्रेधन्तं रयिर्नशो३म् न स्रेधन्तं रयिर्नशत्
सुशक्तिरिन्मघवन् तुभ्यं मावते ।
देष्णं यत् पार्ये दिवो३म् (७.३२.२०-२१)
शोंसावो३म् उदिन्न्वस्य रिच्यतेंऽशो धनं न जिग्युषः।
य इन्द्रो हरिवान् न दभन्ति तं रिपो दक्षं दधाति सोमिनो३म्
मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा ।
पूर्वीश्चन प्रसितयस्तरन्ति तं
य इन्द्रे कर्मणा भुवो३म् (७.३२.१२-१३ )
शोंसावो३म् भूय इद्वावृधे वीर्याय ।
एको अजुर्यो दयते वसूनो३म्
प्र रिरिचे दिव इन्द्रः पृथिव्याः।
अर्धमिदस्य प्रति रोदसी उभो३म्
अधा मन्ये बृहदसुर्यमस्य ।
यानि दाधार नकिरा मिनातो३म्
दिवेदिवे सूर्यो दर्शतो भूत् ।
वि सद्मान्युर्विया सुक्रतुर्धो३म्
अद्या चिन्नू चित् तदपो नदीनाम् ।
यदाभ्यो अरदो गातुमिन्द्रो३म्
नि पर्वता अद्मसदो न सेदुः ।
त्वया दृळहानि सुक्रतो रजांसो३म्
सत्यमित् तन्न त्वावाँ अन्यो
अस्ति । इन्द्र देवो न मर्त्यो ज्यायो३म्
अहन्नहिं परिशयानमर्णः ।
अवासृजो अपो अच्छा समुद्रो३म्
त्वमपो वि दुरो विषूचीः।
इन्द्र दृळ्हमरुजः पर्वतस्यो३म्
राजाभवो जगतश्चर्षणीनाम् ।
साकं सूर्यं जनयन् द्यामुषासो३म् (६.३० )
इमामू षु प्रभृतिं सातये धाः ।
शश्वच्छश्वदूतिभिर्यादमानो३म्
सुतेसुते वावृधे वर्धनेभिः।
यः कर्मभिर्महद्भिः सुश्रुतो भो३म्
इन्द्राय सोमाः प्रदिवो विदानाः।
ऋभुर्येभिर्वृषपर्वा विहायो३म्
प्रयम्यमानान् प्रति षू गृभाय ।
इन्द्र पिब वृषधूतस्य वृष्णो३म्
पिबा वर्धस्व तव घा सुतासः।
इन्द्र सोमासः प्रथमा उतेमो३म्
यथापिबः पूर्व्याँ इन्द्र सोमान् ।
एवा पाहि पन्यो अद्या नवीयो३म्
महाँ अमत्रो वृजने विरप्शी।
उग्रं शवः पत्यते धृष्ण्वोजो३म्
नाह विव्याच पृथिवी चनैनम् ।
यत् सोमासो हर्यश्वममन्दो३म्
महाँ उग्रो वावृधे वीर्याय ।
समाचक्रे वृषभः काव्येनो३म्
इन्द्रो भगो वाजदा अस्य गावः।
प्र जायन्ते दक्षिणा अस्य पूर्वो३म्
प्र यत् सिन्धवः प्रसवं यथायन् ।
आपः समुद्रं रथ्येव जग्मो३म्
अतश्चिदिन्द्रः सदसो वरीयान् ।
यदीं सोमः पृणति दुग्धो अंशो३म्
समुद्रेण सिन्धवो यादमानाः ।
इन्द्राय सोमं सुषुतं भरन्तो३म्
अंशुं दुहन्ति हस्तिनो भरित्रैः।
मध्वः पुनन्ति धारया पवित्रो३म्
हृदाइव कुक्षयः सोमधानाः।
समी विव्याच सवना पुरूणो३म्
अन्ना यदिन्द्रः प्रथमा व्याश ।
वृत्रं जघन्वाँ अवृणीत सोमो३म्
आ तू भर माकिरेतत् परि ष्ठात् ।
विद्मा हि त्वा वसुपतिं वसूनो३म्
इन्द्र यत् ते माहिनं दत्रमस्ति ।
अस्मभ्यं तद्धर्यश्व प्र यन्धो३म् (३.३६.१-९)
शोंसावो३म् 'शुनं हुवेम मघवानमिन्द्रम् ।
अस्मिन् भरे नृतमं वाजसातो३म्
शृण्वन्तमुग्रमूतये समत्सु ।
घ्नन्तं वृत्राणि संजितं धनानो३म् (३.३६.११)॥


[सम्पाद्यताम्]

टिप्पणी

लौशे इत्यादि (ग्रामगेयः)

कलि/कालेयोपरि टिप्पणी

देवासुरा यज्ञे ऽस्पर्धन्त। ते देवा असुरान् बहिष्पवमानान् निरवाघ्नन्। ते ऽसुरा आग्नेयम् आज्यं पर्यवायन्। ते देवा मैत्रावरुणम्। ते ऽसुरा ऐन्द्रम्। ते देवा ऐन्द्राग्नम्। ते ऽसुरा माध्यंदिनं पवमानम्। ते देवा रथन्तरम्। ते ऽसुरा वामदेव्यम्। ते देवा नौधसम्। ते ऽसुराः कालेयम्। तान् कालेय एवान्वभ्यवायन्। तान् कालेयेनैव कालेयाद् अकालयन्त। यद् अकालयन्त तत् कालेयस्य कालेयत्वम्। कालयते वै द्विषन्तं भ्रातृव्यं य एवं वेद॥ ते दिशो व्युदसीदन्। तान् कालेयेनैवानुपर्यायम् अकालयन्त। यद् अनुपर्यायम् अकालयन्त तच् चैव कालेयस्य कालेयत्वम्। अनुपर्यायम् एव द्विषन्तं भ्रातृव्यं कालयते य एवं वेद॥ तरो वै यज्ञस् स्तोमो विदद्वसुः।यज्ञेन च वाव ते तान् स्तोमेन चाकालयन्त। यज्ञेन चैव स्तोमेन च द्विषन्तं भ्रातृव्यं कालयते य एवं वेद॥जैब्रा १.१५३

यद् उ कलिर वैतदन्यो ऽपश्यत् तस्मात् कालेयम् इत्य् आख्यायते॥.......तरो वै यज्ञस् स्तोमो विदद्वसुः। यज्ञेन च वाव ते तत् स्तोमेन चेमान् लोकान् समदधुस् सं यज्ञम् अदधुः। यज्ञेन चैवास्य स्तोमेन च यज्ञस् संहितो भवतीमे च लोका य एवं वेद॥ सोमो ह खलु वै राजा कालेयम्। सदेवो हास्य यज्ञो भवति। यथा ह वा इदं बद्धवत्सा हिंकरी तुरीयत्य् एवं ह वाव तम् इन्द्रस् सोमम् आगच्छति यस्मिन् कालेयेन स्तुवन्ति। तस्माद् उ हैतस्मात् साम्नो नैव कदा चनेयात् सेन्द्रो मे सदेवो यज्ञो ऽसद् इति। जैब्रा. १.१५५

अथ कालेयम् ऐळम्। पशवो वा इळान्नं पशवः। यद् एव जाताभ्यो ऽन्नाद्यं प्रतिधीयते तद् एवैतत्॥ - जैब्रा १.३०५

अथ कालेयम्। स ह स रस एव स्तोमः। अन्नम् एव तत्। स यो हान्नस्य रसस्य लोकस् सो ऽस्य लोको भवति य एवं वेद। स ह सैव ( देवता भूत्वैतम् आस्तावम् आसीदति। - जैब्रा १.३१३ -

तद् उ होवाच शाट्यायनिर् अग्निर् वै रथन्तरं वायुर् वामदेव्यम् इन्द्रो नौधसं विश्वे देवाः कालेयम्। अथैष स्वर्ग एव लोको विश्व एव देवाः। - जैब्रा. १.३२५

अच्छावाकोपरि टिप्पणी