सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ११/वाङ्निधनसौहविषम्

विकिस्रोतः तः
वाङ्निधनसौहविषम्
वाङ्निधनसौहविषम्

परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय ॥ १३६७ ॥ ऋ. ९.१०९..१
एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः ॥ १३६८ ॥
इन्द्रस्ते सोम सुतस्य पेयात्क्रत्वे दक्षाय विश्वे च देवाः ॥ १३६९ ॥


२०. वाङ्निधनसौहविषम् ।। सुहविः। अक्षरपङ्क्तिः । पवमानस्सोमः॥
प। र्येपारी ॥ प्रधन्वा । होवाऽ३होइ । इन्द्रायसोमा । होवाऽ३होइ। स्वादुर्मित्राया। होवाऽ३होऽ२३इ ॥ पूष्णौवाओऽ२३४वा ॥ भगाऽ५याउ ॥ श्रीः ॥ एव । एआइवा । एव । एआइवा ॥ अमृताया। होवाऽ३होइ । महेक्षयाया। होवाऽ३होइ । सशुक्रोअर्षा । होवाऽ३हो२३इ ॥ दिव्यौवाओऽ२३४वा ॥ पीयूऽषाउ ॥ ॥ श्रीः ॥ इन्द्रः । एआइन्द्राः । इन्द्रः । एआइन्द्राः ॥ तेसोमा । होवाऽ३होइ । सुतस्यपेयात् । होवाऽ३होइ । क्रत्वेदक्षाया । होवाऽ३होऽ२३इ ॥ विश्वौवाओऽ२३४वा ॥ चदाऽ५इवाउ । वा॥
दी. १७. उत् . ५. मा. ३०. ञौ. ॥२२०॥

[सम्पाद्यताम्]

टिप्पणी

इन्द्रस्य संक्रमे द्वे, सौहविषाणि त्रीणि (ग्रामगेयः)

स्वर्न्निधनसौहविषम्

ता एता भवन्ति परि प्र धन्वेन्द्राय सोमेति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः। तासु सौहविषम् उक्तब्राह्मणम्। तद् वाङ्निधनं भवति। तद् आहुर् - यन्ति वा एते तृतीयसवनाद् ये यज्ञायज्ञीयं मध्यन्दिनम् अभि प्रत्याहरन्तीति। तद् यद् वाङ्निधनं भवति, तेनैव यज्ञायज्ञीयस्य रूपान् न यन्ति, तेन तृतीयसवनान् न यन्ति। तस्माद् उ हैतत् सामैतस्माद् अह्नो नान्तरित्यम्। - जैब्रा ३.२९८