सामवेदः/कौथुमीया/संहिता/ऊहगानम्/क्षुद्रपर्व/विंशः ४/यामोत्तरम्

विकिस्रोतः तः
यामोत्तरम्.

पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः ।
शुम्भन्ति विप्रं धीतिभिः ।। ९२४ ।।
आ योनिमरुणो रुहद्गमदिन्द्रो वृषा सुतं ।
ध्रुवे सदसि सीदतु ।। ९२५ ।।
नू नो रयिं महामिन्दोऽस्मभ्यं सोम विश्वतः ।
आ पवस्व सहस्रिणं ।। ९२६ ।। ऋ. ९.४०.१

१२. यामोत्तरम् ॥ यमः । गायत्री । पवमानस्सोमः ॥
पुनानोअक्रमीदभि । ओहाऽ३ओहा ।।विश्वामृधोविचर्षणिः ।ओहाS३ओहा ।।शुम्भन्ताऽ२३इवि ।।प्रन्धाऽ३इताऽ५इ"भाऽ६५६इः ॥ श्रीः ।। आयोनिमरुणोरुहत् । ओहाऽ३ओहा ।।गमदिन्द्रोवृषासुतम् । ओहाऽ३ओहा ।।ध्रुवेसाs२३दा ।सिसाऽ३इदाऽ५"ताऽ६५६उ ।। श्रीः ।। नूनोरयिं महामिन्द ।ओहाऽ३ओहा ।। अस्मभ्यꣲसोमविश्वतः ।ओहाऽ३ओहा ।।आपवाऽ२३स्व ।।सहाऽ३स्राऽ५इ"णाऽ६५६म् ।।
दी. २२. उ.३. मा.२०. जौ. ॥९२१॥




[सम्पाद्यताम्]

टिप्पणी