सामवेदः/कौथुमीया/संहिता/ऊहगानम्/अहीनपर्व/विंशः १/स्वर्निधनसौहविषम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
स्वर्न्निधनसौहविषम्.

४. स्वर्न्निधनसौहविषम् ।। सुहविः। अक्षरपङ्क्तिः । पवमानस्सोमः॥

प꣣री꣢ऽ३हो꣡꣡इ । प्रधा꣣ऽ२३४न्वा꣥ ॥ इ꣣न्द्रा꣢ऽहो꣡। यसो꣣ऽ२३४मा꣥ । स्वा꣣꣯दू꣢ऽ३ र्हो꣡इ । मित्रा꣣ऽ२३४या꣥ । पू꣣꣯ष्णे꣢ऽ३हो꣡इ । भगा꣣ऽ२३४या꣥ ॥ पू꣤꣯ष्णे꣣꣯भगा꣤꣯य꣥ ॥ पू꣣꣯ष्णे꣢ऽ३४३ । हो꣢ऽ३४३इ । भा꣢ऽगा꣤ऽ५याऽ६५६ ।। श्रीः ॥ ए꣣꣯वा꣢ऽहो꣡इ । अमृता꣣ऽ२३४या꣥ ॥ म꣣हे꣢ऽ३हो꣡इ ।क्षया꣣ऽ२३४या꣥ । स꣣शू꣢ऽ३हो꣡ । क्रो꣯आ꣣ऽ२३४र्षा꣥। दि꣣व्या꣢ऽऽहो꣡इ । पी꣯यू꣣ऽ२३४षा꣥: ॥ दि꣤व्य꣣ᳲपी꣤꣯यू꣯ष꣥: ॥ दि꣣व्या꣢ऽ३४३ः ॥ हो꣢ऽ३४३इ । पी꣢ऽ३यू꣤ऽ५षाऽ६५६: ॥श्रीः॥ इ꣣न्द्रा꣢ऽ३हो꣡। ते꣯सो꣣ऽ२३४मा꣥ ।। सु꣣ता꣢ऽ३हो꣡। स्यपे꣣ऽ२३४या꣥त् । क्र꣣त्वे꣢ऽ३हो꣡इ। दक्षा꣣ऽ२३४या꣥। वि꣣श्वे꣢ऽ३हो꣡इ। चदा꣣ऽ२३४इवा꣥: ॥ वि꣤श्वे꣣꣯चदे꣤꣯वा꣥꣯: ॥ वि꣣श्वे꣢ऽ३४३ । हो꣯ऽ३४३इ । चा꣢ऽ३दा꣤ऽ५इवाऽ६५६ः ॥ ए꣢ऽ३ । सु꣡वर्व꣢ते꣣ऽ२३꣡४꣡५꣡।

दी. १५. उत्. न.मा. २२. वा. ॥५३६॥

परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय ॥ १३६७ ॥ ऋ. ९.१०९..१
एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः ॥ १३६८ ॥
इन्द्रस्ते सोम सुतस्य पेयात्क्रत्वे दक्षाय विश्वे च देवाः ॥ १३६९ ॥

४. स्वर्न्निधनसौहविषम् ।। सुहविः। अक्षरपङ्क्तिः । पवमानस्सोमः॥

परीऽ३होइ । प्रधाऽ२३४न्वा ॥ इन्द्राऽहो। यसोऽ२३४मा । स्वादूऽ३ र्होइ । मित्राऽ२३४या । पूष्णेऽ३होइ । भगाऽ२३४या ॥ पूष्णेभगाय ॥ पूष्णेऽ३४३ । होऽ३४३इ । भाऽगाऽ५याऽ६५६ ।। श्रीः ॥ एवाऽहोइ । अमृताऽ२३४या ॥ महेऽ३होइ ।क्षयाऽ२३४या । सशूऽ३हो । क्रोआऽ२३४र्षा। दिव्याऽऽहोइ । पीयूऽ२३४षाः ॥ दिव्यᳲपीयूषः ॥ दिव्याऽ३४३ः ॥ होऽ३४३इ । पीऽ३यूऽ५षाऽ६५६: ॥श्रीः॥ इन्द्राऽ३हो। तेसोऽ२३४मा ।। सुताऽ३हो। स्यपेऽ२३४यात् । क्रत्वेऽ३होइ। दक्षाऽ२३४या। विश्वेऽ३होइ। चदाऽ२३४इवाः ॥ विश्वेचदेवाः ॥ विश्वेऽ३४३ । होऽ३४३इ । चाऽ३दाऽ५इवाऽ६५६ः ॥ एऽ३ । सुवर्वतेऽ२३४५।

दी. १५. उत्. न.मा. २२. वा. ॥५३६॥


[सम्पाद्यताम्]

टिप्पणी

वाङ्निधनसौहविषम्

आर्षेयकल्पे (अध्यायः ६, पृ. २९५)अप्तोर्यामसंज्ञके सोमयागे आर्भवपवमाने स्वर्न्निधनसौहविषम् साम्नः गानस्य निर्देशमस्ति, किन्तु गार्गेयपुरम्, कर्नूल मध्ये यस्य ज्योतिअप्तोर्यामसोमयागस्य अनुष्ठानमभवत्, तस्मिन् अस्य लोपमासीत्