सामवेदः/कौथुमीया/संहिता/ऊहगानम्/अहीनपर्व/विंशः १/सोमसाम
१९
प्र सोमासो विपश्चितोऽपो नयन्त ऊर्मयः |
वनानि महिषा इव || ७६४ || ऋ. ९.३३.१
अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया |
वाजं गोमन्तमक्षरन् ||७६५ ||
सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः |
सोमा अर्षन्तु विष्णवे || ७६६ ||
१३ सोमसाम ।। सोमः । गायत्री । पवामानस्सोमः ।।
प्रसोमासाः ।। विपाश्चिताः । आपोनायाऽ३न्ताऽ३इ । ऊर्मयाः ।। वानानाइमाऽ३४ । हाउ ।। हिषाऽ५इवा ।।श्रीः।। अभाइद्रोणा ।। निबाभ्रवाः । शूक्राआर्ताऽ३स्याऽ३ । धारया ।। वाजाङ्गोमाऽ३४ । हाउ ।। तमाऽ५क्षरान् ।।श्रीः।। सुताइन्द्रा ।। यवायवाइ । वारूणायाऽ३माऽ३ । रुद्भियाः ।। सोमाआर्षाऽ३४ । हाउ ।। तुवाऽ५इष्णवाइ । होऽ५इ ।।डा।।
दी. ४. उत्. न. मा. २०. लौ. ।।५४५।।
टिप्पणी
सोमसाम भवति यथा वा इमा अन्या ओषधयः एवं सोम आसीत् स तपोऽतप्यत स एतत् सोमसामापश्यत् तेन राज्यमाधिपत्यमगच्छद्यशोऽभवद्राज्यमाधिपत्यं गच्छति यशो भवति सोमसाम्ना तुष्टुवानः - तांब्रा ११.३.१
सौभरे द्वे (ग्रामगेयः)
प्र सोमासो विपश्चितः, प्र सोम देववीतये, प्र तु द्रव परि कोशं नि षीदेति प्रवतीर् भवन्ति राथन्तरे ऽहन्। प्रणिनीषेण्यं वा एतद् अहः। प्रेति गायत्र्यै रूपम्। गायत्र्या एवैतद् रूपेण प्रयन्ति। यत् पञ्चसामा विलोम् तद् असमृद्धम्। प्राणो ऽपानो व्यानस् स तृचः। तं विच्छिन्दन्ति। आत्मानं प्रजां जायाम् इमान् लोकांस् तद् विच्छिन्दन्ति। त्रीणि सामानि। तत् क्लृप्तं त्रिवृत् त्रिषामा। अथाश्वं पदनिधनम् अपरिष्टोभं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। इळावान् पवमानस् सोमसाम्ना क्रियते। पञ्चसामा ह खलु वै संवत्सरं यन्तुम् अर्हति। तद् यत् षडक्षरणिधनं यौधाजयं भवति - षड् वा ऋतवस् संवत्सरस् - संवत्सरस्यैव युक्त्यै। अभि द्रोणानि बभ्रव इत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। सुता इन्द्राय वायवे वरुणाय मरुद्भ्य इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। तासु गायत्रम् उक्तब्राह्मणम्॥जैब्रा. ३.१३॥