सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ३/द्वन्द्वपर्व/संकृति-पार्थुरश्मे(स्वादोरित्था)

विकिस्रोतः तः
संकृति-पार्थुरश्मे द्वे.
संकृति-पार्थुरश्मे द्वे.

स्वादोरित्था विषूवतो मधोः पिबन्ति गौर्यः ।
या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यं ॥ ४०९ ॥ ऋ. १.८४.१०

[सम्पाद्यताम्]

टिप्पणी

द्र. पार्थुरश्मम् (स्वादो) (ऊह्यगानम्)

पार्थुरश्मं ब्रह्मसाम भवति रश्मिना वा अश्वो यत ईश्वरो वा अश्वोऽयतोऽधृतोऽप्रतिष्ठितः परां परावतं गन्तोर्यत्पार्थुरश्मं ब्रह्मसाम भवत्यश्वस्यैव धृत्यै ५। संकृत्यच्छावाकसाम भवति उत्सन्नयज्ञ इव वा एष यदश्वमेधः किं वा ह्येतस्य क्रियते किं वा न यत्संकृत्यच्छावाकसाम भवत्यश्वस्यैव सर्वत्वाय सर्वस्तोमोऽतिरात्र उत्तममहर्भवति सर्वं वै सर्वस्तोमोऽतिरात्रः सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै - माश १३.३.३.६]

तस्य पार्थुरश्मं ब्रह्मसाम भवत्य् अथकारेण समृद्धम्। अथग् अथग् इतीव ह्य अश्वो धावति। अथो पुथुर् वाव रश्मिर् अश्वं यन्तुम् अर्हति। तद् उ पांक्तं भवति। पांक्तं हि महानाम्नीनां ब्रह्मसाम। तस्यैकविंशतिर् यूपा भवन्य् एकविंशत्यरत्नयः। जै.ब्रा. २.२७४