सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः १/अर्कपर्व १/वासवः(असाव्यꣳशु)

विकिस्रोतः तः
Jump to navigation Jump to search
वासवः.

असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमा मनीषा ।
दश स्वसारो अधि सानो अव्ये मृजन्ति वह्निं सदनेष्वच्छ ॥ ५४३ ॥ ऋग्वेदः ९.९१.१
असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः ।
श्येनो न योनिमासदत् ॥४७३ ॥ ऋग्वेदः ९.६२.४


( ३०।१) ।। वासवः इन्द्रस्त्रिष्टुप् गायत्री सोमश्येनौ ।।

एआसा।। जिवक्वारथ्येयथाऽ२जाउ । इडा।। आसा ।। व्यꣳशुर्मदाऽ२या । अथा।। धाया।। मनोताप्रथमामनाऽ२इषा । इडा।। आप्सू।। दक्षोगिराऽ२इष्ठाः । अथा ।। दाशा ।। स्वसारोअधिसानोऽ२अव्याइ । इडा।। श्याइनो।। नयोनिमाऽ२सदात् । अथा ।। मार्जा।। तिवह्निꣳसदनेषुवाऽ२च्छाऽ३१उ । वाऽ२३ ।। इट्स्थिइडाऽ२३४५ ।।

( दी० ११ । प० २२ । मा०) २३( खा । ५०)



[सम्पाद्यताम्]

टिप्पणी

रैवतो वैराजः शाकरः इतीन्द्रस्य त्रयोऽतीषङ्गाः ॥४॥ अथापरम् । रौद्रो वासवः पार्जन्यो वा वैश्वदेवो वा ॥आर्षेयब्राह्मणम् ६.१.४.५

यथा सायणभाष्ये कथितमस्ति, त्रयाः सामाः सामद्वयोः मेलनेन निर्मिताः सन्ति। अपि च, पर्जन्यस्य अस्तित्वं एकलं नास्ति। यत्र क्वापि रौद्रता अस्ति, तस्याः निवारणार्थं पर्जन्यः अपेक्षितमस्ति। मध्यमस्य साम्नः किं प्रयोजनमस्ति, न ज्ञातम्। यजुर्वेदे शतरुद्रीयहोमोपरि वसुधाराहोमं करणीयं भवति। रौद्रत्वस्य शान्तिहेतु शतरुद्रीयं करणीयमस्ति। तदोपरि पर्जन्यस्य तुल्यत्वेन वसुधारा अस्ति, अयं प्रतीयते। पुराणेषु, विष्णुधर्मोत्तरपुराणे ३.३४५ उपरिचरवसोः राज्ञः आख्यानमस्ति यत्र बृहस्पतिः उपरिचरवसवे वसुधारां प्रयच्छति।