सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः १/अर्कपर्व १/पार्जन्यः(अभीनवन्ते)

विकिस्रोतः तः
पार्जन्यम्.
पार्जन्यम्.

अभी नवन्ते अद्रुहः प्रियमिन्द्रस्य काम्यं ।
वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः ॥ ५५० ॥ ऋग्वेदः ९.१००
तरत्स मन्दी धावति धारा सुतस्यान्धसः ।
तरत्स मन्दी धावति ॥ ५००


( ३१।१) ।। पार्जन्यो वैश्वदेवो वा इन्द्रोऽनुष्टुप् गायत्री सोमेन्द्रौ ।।
एआभी ।। नवन्तआऽ२ । द्रुहआऽ३१उवाऽ२ । तरत्समन्दीधावति ।। प्रायम्।। इन्द्रस्यकाऽ२ । मियमाऽ३१उवाऽ२ । धारासुतस्यान्धसः ।। वात्सम् ।। नपूर्वआऽ२ । युनियाऽ३१उवाऽ२ । तरत्समन्दीधावति ।। जातम् ।। रिहन्तिमाऽ२ । तरआऽ३१उवाऽ२३ ।। इट्स्थिइडाऽ२३४५ ।।

  ( दी० ८ । प० १६ । मा० १४)२४(टी।५१)

[सम्पाद्यताम्]

टिप्पणी

रैवतो वैराजः शाकरः इतीन्द्रस्य त्रयोऽतीषङ्गाः ॥४॥ अथापरम् । रौद्रो वासवः पार्जन्यो वा वैश्वदेवो वा ॥आर्षेयब्राह्मणम् ६.१.४.५

यथा सायणभाष्ये कथितमस्ति, त्रयाः सामाः सामद्वयोः मेलनेन निर्मिताः सन्ति। अपि च, पर्जन्यस्य अस्तित्वं एकलं नास्ति। यत्र क्वापि रौद्रता अस्ति, तस्याः निवारणार्थं पर्जन्यः अपेक्षितमस्ति। मध्यमस्य साम्नः किं प्रयोजनमस्ति, न ज्ञातम्।

द्र. पर्जन्योपरि संदर्भाः