सामवेदः/कौथुमीया/आर्षेयब्राह्मणम्/अध्यायः ६/पर्व १(अर्कपर्व)

विकिस्रोतः तः
Jump to navigation Jump to search

षष्ठोऽध्यायः

प्रथमपर्व

प्रथमः खण्डः

वेदसामगतानां हि साम्नां नामानि पञ्चभिः । अध्यायैरुदितान्यत्र षष्ठे पर्वचतुष्टये ।। अध्यायेनाभिधास्यन्ते छन्दसामानुयायिनाम् । साम्नां नामानि विस्पष्टं क्रमशः सुखवृ (बु)द्धये ॥

अष्टौ वैरूपाणि । अञ्जश्च वैरूपम् । ह्रस्वा च वृहदोपशा। पञ्चनिधनं च । षण्णिधनं च । सप्तनिधनं च । अष्टानिधनं च । द्वादशनिधनं च । पुष्यं च ॥६.१.१.१॥

यद्याव इन्द्र ते शतम् (सा. २७८) इत्यत्र अष्टौ सामान्युत्पन्नानि । तानि सर्वाणि वैरूपाणि । तत्र पदनिधनानि (दि?) भेदतः सर्वेषां नामविशेषमाह । ययावई (आ. गा. १. १.१) इति द्वितीयादिकम् आद्यम् अञ्जो वैरूपम् । समीचीनमित्यर्थः । यद्द्यावइन्द्रतेशतम् (आ. गा. १.१.२) इति क्रुष्टद्वितीयादिकं द्वितीयम् । हस्वा च बृहदोपशा एतन्नामधेयं वैरूपम् ॥ ययावइन्द्रतेशतम् । ए । शर्तभूमीरुत । स्योवा (आ. गा.१. १.३) इति क्रुष्टद्वितीयादिकं तृतीय पञ्चनिधनम् । ओवा । हिहिहिं ( हंह) इ[त्यादि] इट् [स्थि] इडेत्यन्तैः पञ्चभिनिधनैः उपेतम् ॥ ययावइन्द्रते शतम् (आ. गा. १.१.४) इति क्रुष्टद्वितीयादिकं चतुर्थ [षण्णिधनम् ।] २१० आर्षेयब्राह्मणम्

हाउहाउहाउवा इति [आदि] पण्णिधनैरुपेतम् ॥ यद्द्याव (आ. गा. १. १. ५) इत्यादि क्रुष्टद्वितीयादिकं पञ्चमं सप्तनिधनम् ॥ ययाव (आ. गा. १.१.६) इत्यादि [क्रुष्टद्वितीयादिकम् ] पष्ठं साम अष्टानिधनम् । हाउ. हाउहाउवा इत्यादि युवतिश्चकुमारिणीत्येतद्विशेषैः इडेत्यन्तैः अष्टभिनिधनै- रुपेतम् ॥ ययावइन्द्रतेशतम् (आ. गा. १.१.७) [इति क्रुष्टद्वितीयादिकं] सप्तमं साम द्वादशनिधनम् । ओहहाउहाउ इत्यादि हो। आ । ऊ । इत्यन्तैदशभिनिधनैरुपेतम् ॥ ययावहन्द्रतेशतम् (आ. गा. १.१.८) इत्यादि [क्रुष्टद्वितीयादिकम् ] हाओवाहाओवा इत्यादि अष्टमं साम पुष्य- नामधेयं वैरूपम् ॥ १॥

अन्तरिक्षे द्वे ॥६.१.१.२॥

पिबा सुतस्य रसिनः (सा. २३९) इत्यत्र सामद्वयम् । हाउपिबासुता (आ. गा. १.१.९) इति द्वितीयादिकम् । पिबासुता । स्यरसिनः (आ. गा. १.१.१०) इति द्वितीयादिकम् । एते द्वे अन्तरिक्षे अन्तरिक्षदेवत्ये ॥ २ ॥

अरिष्टे द्वे ॥६.१.१.३ ॥

पवित्रं ते विततम् (सा. ५६५) इत्यत्र सामद्वयम् । हाह । होइया इत्यादि पावी (आ. गा. १. १.११) इति तृतीयद्वितीया- दिकम् । हाह । हौ। पावी (आ. गा. १. १. १२) इति तृतीयद्वितीया- दिकम् । एते द्वे अरिष्टे अविनाशकरे मङ्गलकरणे इत्यर्थः । अनेनारि- पामेति तदरिष्टस्यारिष्टत्वम् (ता. ब्रा. १२. ५. २३) इति ब्राह्मणमनु- संधेयम् ॥ ३ ॥ षष्ठोऽध्यायः (१) २११


अहरीते द्वे ॥ ६.१.१.४॥

अभि त्वा पूर्वपीतये ((सा. २५६) इत्यत्र सामद्वयम् । हावामी । त्वापूर्वपीत (आ. गा.१.१.१३) इति क्रुष्टद्वितीयादिकम् । अभीहाउ (आ. गा. १. १. १४) इति क्रुष्टद्वितीयादिकम् । एते द्वे अहरीते एतन्नामधेये सामनी ॥ ४ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये षष्ठाध्याये प्रथमपर्वणि प्रथमः खण्डः ॥ १॥ द्वितीयः खण्डः


वरुणस्य देवस्थानम् ॥६.१.२.१॥

पिबा सुतस्य रसिनः (सा. २३९) इत्यत्र सामैकम् । हाउसुतापिबा ॥ स्यरसिनाः । होइहोइहोइ (आ. गा. १. २.१५) इति द्वितीयादिकं वरुणस्य देवस्थान [समुद्रशब्दयुक्तम्] । समुद्रसमचूकुपन इति निधने समुद्रशब्दो विद्यते ॥ ४ ॥

बृहदेवस्थानम् ॥ ६.१.२.२॥

बृहदिन्द्राय गायत (सा. २५८) इत्यत्रै साम । हाउहाउहाउ इत्यादि बृहदिन्द्रायगायाता (आ. गा. १. २. १६) इति द्वितीयादिकं बृह- च्छब्दयुक्तं देवस्थानम् एतत्संज्ञम् ॥ २ ॥

ऐरयैरिणे द्वे ॥ ६.१.२.३ ॥

पुनानः सोम धारय (सो. ५११) इत्यत्रैक साम। ऐरयात् इत्यादि पुनानःसोम (आ. गा. १. २. १७) इति क्रुष्टद्वितीयादिकम् । अमि त्वा वृषभा सुते (सा. १६१) इत्यत्रैकं साम । हावाहो( वो?) हाउ । अभित्वावार्षाभासुताइ (आ. गा. १. २. १८) इति द्वितीयादिकम् । एते द्वे ऐरयैरिणे ॥ ३ ॥

आङ्गिरसे द्वे ॥ ६.१.२.४ ॥

पुनानः सोम धारया (सो. ५११) इत्यत्रैक साम । हाउ- हाउहाउ । हौवाओ । हाहाउवा। पुनानः सोमधारया (आ. गा. षष्ठोऽध्यायः (२)

१. २. १९) इति द्वितीयादिकम् । अन्यस्तोभविशिष्टत्वात् पुनरपि गानम् । तवेदिन्द्रावमं वसु (सा. २७०) इत्यत्रैक साम । औहोवाऔहोवाऔहोवा। तवेदिन्द्रावमंवसु (आ. गा. १.२.२०) इति द्वितीयतृतीयादिकम् । एते ऋद्वयाश्रिते आङ्गिरसे ॥ ४ ॥

बार्हस्पत्यं च ॥ ६.१.२.५॥

तवेदिन्द्रावमं वसु (सा. २७०) इत्यत्रैक साम । औहोऔहोवा इत्यादि तवेदिन्द्रायमंवसु (आ. गा. १. २. २१) इति क्रुष्टद्वितीयादिकं बार्हस्पत्यम् । स्तोभान्तरविशिष्टत्वात् पुनरपि गीतम् ॥ ५ ॥

भारद्वाजं च ॥ ६.१.२.६॥

आ त्वा सहस्रमा शतम् (सा. २४५) इत्यत्रैक साम । हाउहाउहाउ । औहोआत्वासहस्रमाशतम् (आ. गा. १. २. २२) इति द्वितीयादिक भारद्वाजम् ॥ ६॥

आथर्वणं च ॥ ६.१.२.७ ॥

शं नो देवीरभिष्टये (सा. ३३) इत्यत्रैक साम । उहुवाओवा । औहोवा । शन्नोदेवीः (आ. गा. १. २. २३) इति द्वितीयादिकम् आथर्व- णम् ॥ ७॥

नारद्वसवं च ॥ ६.१.२.८॥

इन्द्र ज्येष्ठं न आ भर (सा. ५८६) इत्यत्रैक साम । हाउहाउ- हाउ। औहोइन्द्रज्येष्ठनआभराए (आ. गा. १. २. २४) इति द्वितीय- तृतीयादिकं नारद्वसवम् ॥ ८॥ २१४ आर्षेयब्राह्मणम्


बृहती वामदेव्ये द्वे ॥ ६.१.२.९॥

कया नश्चित्र आ भुवत् (सा. १६९) इत्यत्र सामद्वयम् । हाउ (त्रिः) । बृहद्वामम् इत्यादि कयानश्चित्रआभुवात् (आ. गा. १. २. २५) इत्यादि द्वितीयक्रुष्टादिकम् । बृहद्वामम् (त्रिः) कयानश्चाइ (आ. गा. १. २.२६) इति तृतीयद्वितीयादिकम् । एते द्वे बृहच्छब्दयुक्ते वामदेव्ये वामदेवेन दृष्टे ॥ ९॥

भरद्वाजस्य बृहत् ॥ ६.१.२.१०॥

स्वामिद्धि हवामहे (सा. २३४) इत्यत्रैक साम । औहोइ- स्वामिद्धिहवामहाए (आ. गा. १.२.२७) इति द्वितीयतृतीयादिकं भर- द्वाजस्य बृहन्नामधेयम् ॥ १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये षष्ठाध्याये प्रथमपर्वणि द्वितीयः खण्डः ॥ २॥ तृतीयः खण्डः

वसिष्ठजमदग्न्योरों द्वौ । अगस्त्यजमदग्न्योर्वा ॥६.१.३.१॥

इन्द्रं नरो नेमधिता हवन्ते (सा. ३१८) इत्यत्र सामद्वयम् । इयाहोइ इत्यादि इन्द्रंनरो (आ. गा. १. ३. २८) इति तृतीयद्वितीयादिकम् । ओहोइहा । इन्द्रन्नरो (आ. गा. १. ३. २९) इति तृतीयद्वितीयादिकम् । एते द्वे वसिष्ठजमदग्नेरौं । अथवा अगस्त्यजमदग्नेर्वा ॥ १ ॥

स्वाशिरामर्कः ॥६.१.३.२॥

स्वादिष्ठया मदिष्ठया (सा. ४६८) इत्यत्रक साम । अया- मायाम् इत्यादि स्वादिष्ठया (आ. गा. १. ३. ३०) इति तृतीयद्वितीयादिकं वाशिरामर्कः । वाशिरः प्राणाः तेषां साम । तथा च ब्राह्मणम् - खाशिरामर्को भवतीत्यादि प्राणा वै स्वाशिरः (तां ब्रा. १४. ११. ८-९) इत्यादि ॥ २॥

दीर्घतमसोऽर्कः ॥६.१.३.३॥

धर्ता दिवः पवते (सा. ५५८) इत्यत्रैक साम । हाउ- (त्रिः) । औहोवाएहियाहाउ । धर्ता (आ. गा. १. ३. ३१) इति द्वितीय- क्रुष्टादिकं दीर्घतमस ऋषेरर्कः ॥ ३ ॥

मरुतामर्को द्वौ । संस्तोभो वोत्तरः ॥ ६.१.३.४ ॥

प्र व इन्द्राय बृहते (सा. २५७) इत्यत्र सामद्वयम् । हाउ (त्रिः) प्रवइन्द्रायबृहताइ (आ. गा. १. ३. ३२ ) इति द्वितीयादिकम् । हाउ (त्रिः)। सन्त्वानोनवुः इत्यादि प्रवइन्द्रायबृहताइ (आ. गा. १. ३. ३३) इति आर्षेयब्राह्मणम्

द्वितीयक्रुष्टादिकम् । एते द्वे मरुतामकौं । अथवा उत्तरः द्वितीय संस्तोभः स्तोभसंयुक्तम् । स्तोभवानेतन्नामकम् ॥ ४ ॥

अग्नेरर्कः ॥ ६.१.३.५॥

अग्निर्मूर्धा दिवः ककुत् (सा. २७) इत्यत्रैक साम होहोवा । ई। ईया इत्यादि अग्निम॑र्धादिवाःककृत (आ. गा. १. ३. ३४) इति क्रुष्टद्वितीयादिकम् अग्नेरर्कनामकम् ॥ ५ ॥

प्रजापतेश्वार्कः ॥ ६.१.३.६॥

अयं पूपा (सा. ५४६) इत्यत्र सामैकम् । होवा । ईया । औहोआ । आयाम् (आ. गा. १. ३. ३५) इति क्रुष्टद्वितीयादिकं प्रजापतेरर्कसंज्ञकम् ॥ ६ ॥

इन्द्रस्याओं द्वौ । त्रिष्टुभां वा ॥ ६.१.३.७ ॥

इन्द्रो राजा जगतश्चर्षणीनाम् (सा. ५८७) इत्यत्र सामद्वयम् । हावीन्द्राः । राजा । जगतः (आ. गा. १. ३. ३६) इति क्रुष्टद्वितीयादिकम् । इन्द्रोहाउ । राजा (आ. गा. १. ३. ३७) इति क्रुष्टद्वितीयादिकम् । एते द्वे इन्द्रस्यार्कनामधेये । अथवा त्रिष्टुभामर्को ॥ ७ ॥

अर्कशिरश्च ॥ ६.१.३.८॥

यस्येदमा रजोयुजः (सा. ५८८) इत्यत्रैक साम । हाउयास्या । इदमारजोयूजाः (आ. गा. १. ३. ३८ ) इति क्रुष्टद्वितीयादिकम् । अर्कशिर एतन्नामधेयम् ।। ८॥

अर्कग्रीवाश्च ॥ ६.१.३.९॥

पातीः (त्रिः) । दिवाआ (आ. गा. १. ३. ३९) इत्यादिस्तोभमात्र साम । तस्यार्कग्रीवा इति नाम । एतेनार्कशब्देन ज्योतिरभिधीयते । ए । स्वज्योतिरिति निधनं तद् ग्रीवास्थानीयमित्यर्थः ॥ ९ ॥ षष्ठोऽध्यायः (३)

वरुणगोतमयोरर्कः ॥६.१.३.१०॥

उदुत्तमं वरुणपाशम् (सा. ५८९) इत्यत्रैकं साम । हाउ (त्रिः) । आयुश्चक्षुज्योतिः । औहोवा । ईया उदुत्तमंवरुणपाशमास्मात् (आ. गा.१. ३. ४०) इति द्वितीयक्रुष्टादिकं वरुणगोतमयोरर्कनामकम् । वरुणो देवता ऋषिर्गोतमः ॥१०॥

अर्कपुष्पे द्वे ॥ ६.१.३.११॥

इन्द्रं नरो नेमधिता हवन्ते (सा. ३१८) इत्यत्र सामद्वयम् । इयाहोइ इत्यादि इन्द्रनरो । ने (आ. गा. १. ३. ४१) इति क्रुष्टद्वितीयादि.कम् । उवाहोइ इत्यादि इंन्द्रनरो ने (आ. गा. १. ३. ४२) इति क्रुष्ट-द्वितीयादिकम् । एते द्वे अर्कपुष्पनामधेये ॥ ११ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्रामणभाष्ये षष्ठाध्याये प्रथमपर्वणि तृतीयः खण्डः ॥ ३ ॥ चतुर्थः खण्डः


अग्नेर्वैश्वानरस्य त्रीणि ॥६.१.४.१॥

मूर्धान दिव (सा. ६७) इत्यत्र सामत्रयम् । हाउ (त्रिः) । आज्यदोहं (त्रिः) मूर्द्धानं दाइ (आ. गा. १. ४. ४३) इति द्वितीयतृतीया- दिकम् । हाउ (त्रिः) । हि (हुम्?) । [स्थि] चिदोहम् (आ. गा. १. ४. ४४ ) इति द्वितीयक्रुष्टादिकम् । हाउ (त्रिः) । च्योहं (त्रिः) मूर्धा- नन्दाइ (आ. गा. १. ४. ४५) इति द्वितीयक्रुष्टादिकम् । एतानि त्रीणि वैश्वानरस्याग्नेः सामानि । एतद्देवतानिबन्धनं नाम ।। १ ॥

अत्र पदऋप्यादिभेदेन विकल्पं दर्शयति

आज्यदोहान्याचिदोहान्याच्यदोहानि वा । प्रजापतेर्वा विष्णोर्वा विश्वामित्रस्य वा ॥६.१.४.२॥

सर्वाणि आज्यदोहानि आज्यदोहपदयुक्तानि । सर्वाणि प्राणभृन्न्याय- वत् पदाभावेऽपि सर्वाण्याज्यदोहानीत्युच्यन्ते । अथवा एक बहु[भि]विव- क्षितम् । आचिदोहानि आन्यदोहानि वा । एतत् पदनिबन्धन नाम । अथवा एतानि प्रजापतेः संबन्धीनि । विष्णोर्वा अथवा विश्वामित्रस्य ।।२।।

रुद्रस्य त्रय ऋषभाः ॥६.१.४.३॥

सुरूपकृत्नुभूतये (सा. १६०) इत्यत्रैक साम । सुरूप- कृत्नुमूतये (आ. गा. १. ४. ४६) इति द्वितीयक्रुष्टादिकम् । पिबा सोम- मिन्द्र मन्दतु त्वा (सा. ३९८) इत्यत्रैक साम । हाउ (त्रिः)। आइही इत्यादि पित्रासोमाम् (आ. गा. १. ४. ४७) इति द्वितीयक्रुष्टादि- कम् । स्वादोरित्था विषूवतः (सा. ४०९) इत्यत्रैकं साम । ओम् (त्रिः) । स्वादोरेइत्थाएविषएवतआ (आ. गा. १. ४. ४८) इति द्वितीयतृतीयादिकम् । एतानि ऋक्त्रयाश्रितानि सामानि । त्रयो रुद्रस्य ऋषभाः । एतत्संज्ञकानि ॥ ३ ॥ २१९ षष्ठोऽध्यायः (४)


रैवतो वैराजः शाकरः इतीन्द्रस्य त्रयोऽतीषङ्गाः ॥६.१.४.४॥

पुरोजिती वो अन्धसः (सा. ५४५), उच्चा ते जात- मन्धसः (४६७) इति परस्परमिलितयोर्द्वयोरेकं साम । एपुरोजिती (आ. गा. १. ४. ४९) इति द्वितीयादिकम् । असर्जि वक्वा रथ्ये यथाजौ (सा. ५४३), असाव्यंशुर्मदाय (सा. ४७३) इति च] द्वयोः परस्परमिलितयोः एक साम । एआसा। जी (जि) वक्वारथ्येयथा (आ. गा. १. ४. ५०) इति क्रुष्टद्वितीयादिकम् । अभी नवन्ते अद्रुहः (सा. ५५०) इति तरत्स मन्दी धावति (सा. ५००) इति एतयोः अन्योन्य- मिलितयोः द्वयोरेक साम । एआभी नवन्तआ (आ. गा. १. ४. ५१) इति क्रुष्टद्वितीयादिकम् । एतानि मिलित्वा ऋग्द्वयाश्रितानि त्रीणि सामानि । इन्द्रस्य त्रयोऽतीपङ्गा रैवतवैराजशाक्कर (रा?) इत्येवंरूपः (पाः?) एतन्नाम- धेयानि सामानि । आदिमस्य रैवतो मध्यमस्य वैराजः तृतीयस्य शाक्करः । समुदायापेक्षया अतीषङ्गशब्दस्य बहुत्वम् ॥ ४ ॥

तत्र देवता- [भेदेन] त्रयाणामपि लोकं (विकल्पं ?) दर्शयितुं मतान्तरं प्रतिजानीते--

अथापरम् । रौद्रो वासवः पार्जन्यो वा वैश्वदेवो वा ॥६.१.४.५॥

अथापरम् इति । अथेत्यानन्तर्ये। उक्तार्थानन्तरं प्रश्नो हि – एकमेव मतम् । [उत] नामान्तरमस्ति ? इति । रौद्रो वासवः पार्जन्यो वा वैश्वदेवो वेति [उत्तरम् । ] तृतीयस्य विकल्पो वैश्वदेव इति । न तु सर्वेषाम् ॥ ५ ॥

प्राजापत्याश्चत्वारः पदस्तोभाः ॥ ६.१.४.६ ॥

धर्ता दिवः पवते कृत्व्यो रस (सा. ५५८) इत्यत्र पदस्तोभनाम- धेयानि सामान्युत्पन्नानि । हाहाहौवा ओवा इत्यादि । धर्तादिवःपवते (आ. गा. १. ४. ५२) इत्यादि तृतीय] द्वितीयादिकम् । हाउ (त्रिः) । आयब्राह्मणम् २२०

हौवाओवा इत्यादि धर्तादिवःपया (आ. गा. १. ४. ५३) इति द्वितीयतृतीया- दिकम् । औहोहोवा इत्यादि धादिवःपवा (आ. गा. १. ४. ५४) इति क्रुष्टद्वितीयादिकम् । आऔहोवाहाइ इत्यादि धर्ता (आ. गा. १. ४.५५) इति द्वितीयतृतीयादिकम् । एते चत्वारः प्राजापत्याः प्रजापतिदेवताका: पदस्तोभाः । प्रतिपदं स्तोभसंयुक्ताः । एतत्संज्ञकानि सामानीत्यर्थः । पदस्तोभो भवतीन्द्रो वृत्राय वज्रमुदयच्छत् इत्यादि पदोरुत्तममपश्यत्तत् पदस्तोभस्य पदस्तोभत्वम् (ता. ब्रा. १३. ५. २१-२४) इति ब्राह्मणमनुसं- घेयम् ॥ ६॥

अत्र ऋष्यादिभेदेन विकल्पं दर्शयति --

गौतमा वा । वैश्वामित्रा वा । ऐन्द्राग्ना वा ॥ ६.१.४.७ ॥

अथवा एते गौतमाः गोतमेन दृष्टाः । अथवा वैश्वामित्राः विश्वामित्र- दृष्टाः । अथवा ऐन्द्रामाः इन्द्राग्निदेवताकाः ॥ ७ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये षष्ठाध्याये प्रथमपर्वणि चतुर्थः खण्डः ॥ ४ ॥ पञ्चमः खण्डः


दश संसर्पाणि महासर्पाणि सर्पसामानि वा ॥६.१.५.१॥

चर्षणीधृतम् (सा. ३७४) इत्यादिपञ्चक्षु दश सामान्युत्पन्नानि । संसणि संसर्पपदयुक्तानि । चा महासर्पनामधेयानि । अथवा सर्पसामानि । का (ता?)नि सामान्याह - चर्षणीधृतम् (सा. ३७४) इत्यत्र सामत्रयम् । अभाइमाहे इत्यादि चर्षणीधृतम् (आ. गा. २. ५. ५६) इति क्रुष्ट- द्वितीयादिकम् । अस्य सर्पसुवाः इति निधनम् । अभिप्रमंहिराइमाहे इत्यादि चर्षणीधृतम् (आ. गा. २. ५. ५७) इति द्वितीयतृतीयादिकम् । अस्य प्रसर्पसुवा इति निधनम् । हाउ (त्रिः) । चर्षणीधृतम् (आ. गा. २. ५. ५८) इति द्वितीयक्रुष्टादिकम् । अस्य उत्सर्पसुवाः इति निधनम् । एवमस्या- स्त्रीणि सामानि । तवेदिन्द्रावमं वसु (सा. २७०) इत्यत्र सामद्वयम् । हाउ (त्रिः) सुवःसंसर्पन्तः । तवेदिन्द्रावमवसु (आ. गा. २. ५. ५९) इति द्वितीयक्रुष्टादिकम् । सुवः संसार्पसंसर्पा इत्यादि तवेदिन्द्रा (आ. गा. २. ५.६०) इति क्रुष्टद्वितीयादिकम् । अत्र स्वशब्दो विद्यते । [एवं] द्वे सामनी । अभि प्रियाणि पवते चनोहितः (सा. ५५४) इत्यत्रैकं साम । सृपायप्रसृ । पा। इया इत्यादि अभिप्रियाणिपवते (आ. गा. २. ५.६१) इति द्वितीयक्रुष्टादिकम् । अत्र सुपायेति शब्दो विद्यते । एवमेकं साम । त्वया वयं पवमानेन सोम (सा. ५९०) इत्यत्र सामद्वयम् । सुपायप्रस । पा । ओहा । इया इत्यादि त्वयावयंपवमानेनसोमा (आ. गा. २. ५. ६२) इति द्वितीयक्रुष्टादिकम् । मृपायप्रस । पा । ओहा इत्यादि त्वया- वयम् (आ. गा. २. ५. ६३) इति द्वितीयक्रुष्टादिकम् । अत्रापि सृपशब्दः । एते द्वे सामनी। स्वादोरित्था विष्वतः (सा. ४०९) इत्यत्र साम- द्वयम् । स्वादोरित्थाविषूनता ओहाउ (आ गा. २. ५. ६४) इति द्वितीय- क्रुष्टादिकम् । स्वादोरित्थाविपूवताओहाउ (आ. गा. २. ५. ६५) इति द्वितीयक्रुष्टादिकम् । एते द्वे सामनी । एवं दश सामानि संसर्पनामधेयानि । संसर्पशब्दाभावेऽपि तद्युक्तसामसंनियोगात् प्राणभृन्न्यायवत् संसर्पसामोपपन्नम् ॥ १ २२२ आर्षेयब्राह्मणम्

अत्र देवताभेदेन विकल्प दर्शयितुं प्रतिजानीते--

अथापरम् । अग्नेश्व । पृथिव्याश्च । वायोश्च । अन्तरिक्षस्य च। आदित्यस्य च । दिवश्च । अपां च । समुद्रस्य च । माण्डवे द्वे ॥६.१.५.२॥

अथापरमिति । तेषु दशसु सामसु मध्ये आद्यान्यष्ट वयादिदेवताकानि । सर्वत्र चकारो वाक्यभेदार्थः । अन्ये द्वे माण्डवे ॥ २ ॥

पुनरपि नामान्तरं प्रतिजानीते --

अथापरम् । बाभ्रवाणि चत्वारि । पावमानानि चत्वारि । दिशां संसर्प द्वे ॥ ६.१.५.३॥

आद्यानि चत्वारि बाभ्रवाणि । बभ्रुर्नाम ऋषिः तेन दृष्टानि । मध्यमानि चत्वारि पावमानानि पवमानसंबन्धीनि । तेषु त्वया वयं पव- मानेन सोमेति पवमानः श्रूयते खलु । अन्त्ये द्वे दिशां संसर्प एतन्नाम- धेये। पूर्ववदत्र नामोपपन्नमित्यर्थः ।। ३ ।।

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये षष्ठाध्याये प्रथमपर्वणि पञ्चमः खण्डः ॥ ५ ॥ षष्ठः खण्डः


त्रिषंधि च ॥६.१.६.१॥

त्वमिन्द्र प्रतूर्तिषु (सा. ३११) इत्यत्रैक साम। औहोइत्वमिन्द्र- प्रतूर्तिषू ए (आ. गा. २. ६. ६६) इति द्वितीयतृतीयादिकं त्रिषधि संधित्रयोपेतम् । प्रथमपादे एत्यन्त एकः संधिः । द्वितीयपादान्तः [द्वितीयः ।। परम उत्तमर्धर्चा न्त्योऽ]ऽन्यः । एवमेते त्रयः संधयः । त्रिपंधीति संहितायां पूर्वपदात् (पा. ८. ३. १०६ ) इति षत्वम् ।। १ ।।

यज्ञसारथि च ॥६.१.६.२॥

बण्महाँ असि मूर्य (सा. २७६) इत्यत्रैकं साम । एबाण्मा । हाँ असिमरिया (आ. गा. २. ६.६७) इति क्रुष्टद्वितीयादिकं यज्ञसारथि यज्ञस्य प्रणयनेन सारथिभूतम् एतन्नामधेयम् ॥ २ ॥

वृषा च ॥६.१.६.३॥

इमं वृषणं कृणुतैकमिन्माम् (सा. ५९१) इत्यस्मिन् पादे एक साम । इमाओवा (आ. गा. २.६.६८) इत्यादि तृतीयादिकं वृषा वृषशब्दयुक्तमेतत्संज्ञ साम । बृपाओवा इति साम्नि विद्यते ॥ ३ ।।

एकवृषं च ॥ ६.१.६.४॥

य एक इद्विदयते (सा. ३८९) इत्यत्रैकं साम । हाहुम् इत्यादि यकएइद्विदयते (आ. गा. २. ६.६९) इति क्रुष्टादिकम् एकवृषम् एकवृष- शब्दोपेतम् । एकोवृषाविराजतीति हि साम्नि विद्यते ॥ ४ ॥ २२४ आयब्राह्मणम्

विद्रथं च ॥ ६.१.६.५॥

यो न इदमिदं पुरा (सा. ४००) इत्यत्रैक साम। होवाहाइ । योनः (आ. गा. २. ६.७०) इति क्रुष्टद्वितीयादिक विद्रथम् एतन्नामधेयम् ।। ५ ॥

अभ्रातृव्यं च ॥ ६.१.६.६॥

अभ्रातृव्यो अना त्वम् (सा. ३९९) इत्यत्रैक साम । हाउ (त्रिः) हुवेविराजस्वराज्यम् इत्यादि अभ्रातृव्योअनात्वम् (आ. गा. २. ६.७१) इति द्वितीयक्रुष्टादिकम् अभ्रातृव्यम् अभ्रातृव्यशब्दयुक्तमेतन्नाम धेयं माम ।। ६॥

रैवते द्वे । रेवत्यो वा ॥ ६.१.६.७ ॥

रेवतीनः मधमाद (सा. १५३) इत्यत्र सामद्वयम् । हाउरेवा । तीर्णाः (आ. गा. २. ६. ७२ ) इति क्रुष्टद्वितीयादिकम् । रा । वताइः । नाः इह । औहोहो (आ. गा. २. ६.७३) इति क्रुष्टद्वितीयादिकम् । एते द्वे रैवते रेवतीशब्दयुक्त । अथवा रेवत्यः रूढिनामैतत् । अत एव बहुत्वम् ।। ७ ।।

शाक्वरवर्णं च ॥ ६.१.६.८॥

उच्चा ते जातमन्धसः (सा. ४६७) इत्यत्रैकं साम । एउच्चा (आ. गा. २. ६.७४) इति क्रुष्टद्वितीयादिकं शाक्वरवर्णम् ॥ ८ ॥

नित्यवत्साश्च ॥ ६.१.६.९॥

अया रुचा हिरण्या (सा. ४६३) इत्यत्रक साम । एआया (आ. गा. २. ६.७५) इति क्रुष्टद्वितीयादिकं नित्यवत्साः ।। ९ ।।

वसिष्ठस्य च रथंतरम् ॥ ६.१.६.१० ॥

अभि त्या शूर नोनुमः (मा. २३३) इत्यत्रैक साम । षष्ठाध्याये प्रथमपर्व (६) २२५

आभित्वाशूग्नोनुमोवा (अ. गा. २. ६. ७६) इति द्वितीयक्रुष्टादिकं वसि- ष्ठस्य रथन्तरम् ॥ १० ॥

जमदग्नेश्च सप्तहम् ॥ ६.१.६.११ ॥

स्वामिद्धि हवामहे (सा. ८०९) इत्यत्रैकं साम । अयंवायाउ(त्रिः)। स्वामिद्धाइ (आ. गा. २. ६.७७) इति तृतीयादिकं जमदग्नेश्च सप्तहम् । एतन्नामधेयं साम ।। ११ ॥

पञ्च पविमन्ति महासामानि । शर्वस्य प्रथमोत्तमे । रुद्रस्य त्रीणि ॥ ६.१.६.१२॥

आक्रन्दयं कुरुघोषम् (आ. गा. २. ७. ७८ -७९ ) इत्यत्रैक साम। आक्रन्दयोवा (आ. गा. २. ७. ८०) इति द्वितीयक्रुष्टादिकम् । प्रयच्चक्रमराणे (आ. गा. २.७. ७९ ) इत्यत्र सामत्रयम् । हाउ (त्रिः) अस् इत्यादि प्रयच्चक्राम् (आ. गा. २.७.८१) इति द्वितीयक्रुष्टादिकम् । अभ्याभूः (त्रिः) प्रायत् । चक्रम् (आ. गा. २.७.८२) इति द्वितीय- क्रुष्टादिकम् । हाउ (त्रिः)। क्षुरोहरोहरोहरः इत्यादि प्रयच्चक्रमराव्णे (आ. गा. २. ७. ८३) इति द्वितीयक्रुष्टादिकम् । अभि त्वा शूर नोनुमः (सा. ६८०) इत्यत्रैक साम । हाउ (त्रिः) वयोबृहदृतंहविर्भद्राम इत्यादि अभित्वाशूग्नोनुमोहस् (आ. गा. २.७.८४) इति द्वितीयक्रुष्टा- दिकम् । एतानि ऋक्त्रयाश्रितानि पञ्च महासामानि पविमन्ति । पविशब्द आयुर्वाची । शल्यचक्षुक्षुरशब्दाः साम्नि विद्यन्ते । ते त्वायुधवाचिनः । तस्मात् २२६ आर्षेयब्राह्मणम्

पविमन्ति महासामानि । शर्वस्य प्रथमोत्तमे आद्यान्तिमे शर्वस्य सामनी । रुद्रस्य त्रीणि । मध्यमानि त्रीणि रुद्रस्य सामानि ।। १२ ।।

अत्र विकल्प दर्शयितु प्रतिजानीते--

अथापरम् । अग्नेर्हरसी द्वे । क्षुरस्य हरसी द्वे । मृत्योर्हरः पञ्चमम् । सामनी वा त्रिकाद्ये लोकानाम् । शान्तिरुत्तरम् ॥ ६.१.६.१३ ॥

अथापरमिति । आद्ये द्वे अग्नेह सी। मध्यमे सुरस्य हरसी द्वे । मृत्योहरः पञ्चमं वा। अथवा त्रिकाये सामनी लोकानां सामनी । शान्तिरुत्तरम् ।। १३ ॥

पञ्चनिधनं वामदेव्यम् ॥ ६.१.६.१४ ॥

कया नश्चित्र आ भुवत् (सा. ६८२) इत्यत्रैक साम । होवाहा । आइ। हिया इत्यादि कयानश्चाइ (आ. गा. २. ७. ८५) इति क्रुष्टद्वितीयादिकं पञ्चनिधनं वामदेव्यम् । (१) इहप्रजामिहरयिरराणोहस् , (२) रायस्पोपायसुकृतायभूयसेहम् , (३) अगन्वाममिदंबृहद्धस् , (४) इदंबाममिदंबृहद्धस्, (५) चराचगयबृहतइदंवाममिदंबृहद्धस्- इत्येतैः पञ्चभिनिधनैरुपेतम् ॥ १४ ।।

इन्द्रस्य महावैराजम् । वसिष्ठस्य वा ॥ ६.१.६.१५ ॥

पिबा सोममिन्द्र मन्दतु त्वा (सा. ९२७) इत्यत्रैक साम । होइयाहोइयाहोइया पित्र (आ. गा. २.७.८६) इत्यादि द्वितीयतृतीया- दिकम् इन्द्रस्य महावैराजम् । वसिष्ठस्य ऋपेर्महावैराजं वा ॥ १५ ॥

अग्नेश्च प्रियम् ॥ ६.१.६.१६ ॥

अग्न आ याहि वीतये (सा. ६६०) इत्यत्रैक साम । हाउ(त्रिः) । प्रियहोइ इत्यादि अन्न आयाहिवाइतायाइ (आ. गा. २. ७.८७) इत्यादि षष्ठाध्याये प्रथमपर्व (६) २२७

द्वितीयादिकम् अग्नेः प्रियनामधेयम् । प्रियहोइ इति प्रियशब्दो विद्यते । तद्युक्तं साम ।। १६ ॥

सर्पसाम कल्माषं वा ॥ ६.१.६.१७ ॥

कया नश्चित्र आ भुवत् (सा. १६९) इत्यत्रैकं साम । वीहासवाइ इत्यादि कयानश्चाइ (आ. गा. २. ७.८८) इति द्वितीयक्रुष्टादिकं सर्पसाम । उदरसर्पिणस्तेभ्योनमाः इति निधने सर्पशब्दस्य विद्यमानत्वात् । अथवा कल्माषनामधेयम् ॥ १७ ॥

स्वर्ग्यं सेतुसाम । पुरुषगतिर्वा । विशोकं वा ॥ ६.१.६.१८ ॥

अहमस्मि प्रथमजा ऋतस्य (सा. ५९४) इत्यत्रैक साम । हाउ (त्रिः।) । सेतुस्तर इत्यादि अहमस्मिप्रथमजा (आ. गा. २. ७.८९) इति द्वितीयक्रुष्टादिकं स्वयं स्वर्गाय गीतं सेतुषाम सेतुशब्दयुक्तमेतत् साम । अथवा [पुरुषगतिः] पुरुषगतिनामकम् । एषागतिशब्दयुक्त [म् एतत् ] विद्यते । तदुपेतम् । यद्वा विशोकं शोकरहितम् एतत्संज्ञं साम । एतदमृतम् इति स्वर्गवाचकपदस्य विद्यमानत्वात् ॥ ८ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये षष्ठाध्याये प्रथमपर्वणि षष्ठः खण्डः ॥ ६॥

॥ आरण्यकप्रथमपर्वभाष्यं समाप्तम् ॥