शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ३
ब्राह्मण १ ऋतुग्रहाः
१ ऋतुग्रहाः तत्र पूर्वं तावदध्वर्युः सवनीयपुरोडाशशकलमच्छावाकस्य पाणौ प्रक्षिपेदिति विधानं, पाणौ पुरोडाशशकलप्रक्षेपस्य निगदानुवचनार्थस्य च सम्प्रैषस्य कारणाभिधानम्, अच्छावाककर्तृकयागस्यानन्तरकालमृतुग्रहाणां यागविधानं, पुनरपि तस्यैव कालस्य सर्वोत्पत्तिहेतुत्वेन प्रशंसनम्, ऋतुग्रहाणां द्वादशरूपसंख्याविशेषस्य विधानं, तत्र पक्षान्तरेण त्रयोदशसंख्याकत्वमभिधाय साभिप्रायं पूर्वमुक्तो द्वादशपक्ष एवानुष्ठेय इति कथनं, ध्रुवग्रहग्रहणांतरं धाराया विरतत्वादुक्तसंख्याकानामृतुग्रहाणां द्रोणकलशाद्ग्रहणविधानं, सप्रयोजनं ग्रहणसाधनपात्रयोरुभयतोमुखत्वोपवर्णनं, ग्रहणानंतरं ग्रहवत्प्राप्तस्य खरे सादनस्य निषेधकथनम्, ग्रहणावसरे कर्तव्याया अनुवाक्यायाः सोपपत्तिको निषेधः, सर्वेष्वपि ग्रहेषु वषट्कारानंतरं प्राप्तस्यानुवषट्कारस्य साभिप्रायं निषेध- करणं, प्रथमद्वितीययोरेकादशद्वादशयोश्च सकारणं सहग्रहणविधानम्, अध्वर्युप्रतिप्रस्थात्रोः पर्यायेण कर्तव्ययो- र्निष्क्रमणप्रवेशयोर्विपक्षे बाधप्रदर्शन- पूर्वक सप्रकारकं विधानं, यागकालेऽध्वर्युप्रतिप्रस्थात्रोः प्रैषमन्त्राणामुत्पा- दनद्वाराऽहोरात्रसृष्टिहेतुत्वेन प्रशंसनं, विहितानुक्तक्रमसहितानां प्रैषमन्त्राणां प्रकारान्तरेण प्रशंसनं, होममध्ये पात्रमुखयोर्विपर्यासविधानं, ऋतुग्रहाणां मध्ये प्रथमद्वितीयग्रहयोः कर्तृमन्त्र विशिष्टं ग्रहणविधानं, चैत्रवैशाखयोर्मधु- माधवनामधेयप्राप्तेर्दर्शन, ज्येष्ठाषाढयोः शुक्रशुचिनामधेयप्राप्तिसहितं तृतीय- चतुर्थयोः यथोक्तगुणविशिष्टं ग्रहण- विधानं, श्रावणभाद्रपदयोर्नभोनभस्यनाम- धेयप्राप्तियुतं पञ्चमषष्ठयोर्ग्रहणविधानम्, आश्विनकार्तिकयोरिडूर्ङ्नामधेयप्राप्तियुतं सतमाष्टमयोर्ग्रहणविधानं, मार्गशीर्षपौषयोः सहस्यसंज्ञाप्राप्तियुतं नवमदशमयोर्ग्रहणविधानं, माघफाल्गुनयोस्तपस्तपस्यसंज्ञाप्राप्तियुतमेकाद्वादशयोर्ग्रहणविधानं त्रयोदशस्य ग्रहणपक्षे तन्मंत्राभिधानं, होमोत्तरमध्वर्योः प्रतिप्रस्थातुर्वा पात्रे शेषस्यावनयनं विधाय संस्रवशेषस्य भक्षार्थमाहरणविधानम् ।
ऐन्द्राग्नग्रहः-तत्र कारणसहितं अभक्षितपात्रेणैन्द्राग्नस्यग्रहणविधानम्, ऐन्द्राग्नग्रहग्रहणस्य प्रयोजनाभिधानेन प्रशंसनं, पुनः प्रकारान्तरेण तस्यैव प्रशंसनं, विहितं ग्रहणमनूद्य तत्र मंत्रस्य विनियोजनं गृहीतस्य सोमरसस्य समंत्रकं खरे सादनविधानम् ।
वैश्वदेवग्रहः तत्र सार्थवादं शुक्रपात्रेण वैश्वदेवग्रहस्य ग्रहणं विधाय तदनुवादेन तन्मंत्रं विधाय च तदर्थ- विवरणं, गृहीतस्य सोमरसस्य समंत्रकं खरे सादनविधानं चेत्यादि.
ब्राह्मण २ माध्यन्दिनसवनग्रहाः
२ माध्यन्दिनसवनग्रहाः तत्र पूर्वस्मिन् ब्राह्मणे ऋतुग्रहैन्द्राग्नवैश्वदेवग्रहा विहिताः, तत्रैन्द्राग्नवैश्वदेवयोर्होत्रा शस्त्रे शंस्यमानेऽध्वर्युणा प्रतिगरः कर्तव्यः स्तोत्रमस्मिन्ब्राह्मणे कथ्यते । तत्र तावत्पूर्वं प्रतिगरशब्दस्य निर्वचनं, प्राञ्चमासीन- मध्वर्युं प्रति शस्त्रमुपक्रमेतेति कथनं, प्रसङ्गात्स्तोत्रशस्त्रयोः पौर्वापर्यमुपजीव्य शस्त्रशब्दस्य निर्वचनं, प्रतिगरावसरेऽध्वर्योः पर्यावृत्तिविधानं, प्रतिगरेऽध्वर्योः पराक्त्वे बाधं दर्शयित्वोक्तायाः पर्यावृत्तेर्दृढीकरणं, विहितस्य प्रतिगरस्य छन्दः-सम्बन्धिरसरूपेण प्रशंसनं, सकारणं प्रतिगरोच्चारणस्यावसानलक्षणकालविधानं, प्रसङ्गात्प्रातःसवनादीनां क्रमेण गायत्रत्रैष्टुभजागतत्वानि प्रदर्श्य सवनत्रयेऽपि प्रतिगरे विशेषविवक्षया प्रस्तावकरणं, प्रकृते प्रतिगरसवनत्रयेऽपि विशेषकथनं, प्रोक्तस्य प्रतिगरस्य कालप्रदर्शनं, प्रतिगरस्य स्वरूपविधानं, प्रतिगरे केषाञ्चिच्छाखिनां सोपपत्तिकं मतमनूद्य तन्निराकृत्य स्वमतमभिधाय च तन्निगमनं चेति.
ब्राह्मण ३ शुक्रः, मन्थी, आग्रयणः, मरुत्वतीयः, उक्थ्यः
३ शुक्रामन्थ्यादिग्रहाः-तत्र उक्थ्यग्रहान्तं प्रातःसवनं संस्थाप्य माध्यन्दिनसवनाय सोमाभिषवस्य विधानं, ततः शुक्रादिपञ्चग्रहाणां ग्रहणस्य क्रमेण विधानम्, उक्थ्यमरुत्वतीययोः पौर्वापर्ये शाखान्तरमतमनूद्य निराकरणपूर्वकं स्वमतस्य स्थापनं, सम्भूय पञ्चानां ग्रहाणां ग्रहणमनूद्य तत्प्रशंसनं, मरुत्वतीयानां ग्रहणमनूद्य कारणाभिधानम्, ग्रहाणां मरुदर्थकत्वात्तेभ्य एव ग्रहणप्रसक्तौ तत्सहितायेन्द्राय गृह्णीयादिति विधानं, कारणान्तरोपन्यासेनोक्तार्थस्य दृढीकरणं, प्रकृतग्रहाणामृतुपात्राभ्यां ग्रहणविधानं, क्रमेण ग्रहाणां ग्रहणसादनमन्त्राभिधानं, तदर्थ- विवरणं च, मरुत्वतीयग्रह्णानंतरं माहेन्द्रं ग्रहं विधाय तस्य पापनिरसनहेतुत्वेन प्रशंसनं, पुनरपि तस्यैव माहेन्द्रग्रहस्य यजमानसम्बन्धिमहत्त्वहेतुत्वेन प्रशंसनं, विहितं ग्रहणमनूद्य तत्र शुक्रपात्रं विधाय मन्त्रं च विनियुज्य तद्व्याख्यानं, माहेन्द्र ग्रहे पृष्ठस्तोत्रोपाकरणानन्तरमध्वर्योः प्रैषरूपाया वाच उत्पादनं, स च प्रैषस्तृतीयसवनार्थं इति व्याख्यानं, माध्यन्दिनसवने तृतीयसवनार्थाभिषवादि- सम्पादनार्थस्य प्रैषस्य प्रयोजननिरूपणं चेति.
ब्राह्मण ४ दक्षिणादानम्
४ दक्षिणादानं - तत्र पूर्वं प्रयोजनमुक्त्वा प्रसंगाद्दक्षिणापदनिरुक्तिं चाभिधाय दक्षिणादानविधानं, प्रसङ्गाद्धविर्यज्ञे दक्षिणाक्लृप्तिं प्रदर्श्य प्रकृते सोमयागे दक्षिणाक्लृप्तिकथनं, सोपपत्तिकं शतदक्षिणत्वेन यज्ञस्य समृद्धिनिरूपणम्, उक्तसंख्याया न्यूनत्वेनार्त्विज्यं न कुर्यादिति निषेधकथनं, विहितदक्षिणायाः प्रकारान्तरेण प्रशंसनम्, उक्ताया दक्षिणायाः सहोतृकर्त्विग्सम्बन्धविधानं, सकारणं वाससि हिरण्यबन्धनरूपविशेषसहितं दाक्षिणहोमविधानं, विहिते गार्हपत्याधिकरणकहोमे मन्त्रौ विधाय तयोश्छन्दःप्रयोजनसहितं निर्देशं कृत्वा तदर्थविवरणं, विकल्पेनैकाहुतिकस्य द्व्याहुतिकस्य वा आग्नीध्रहोमस्य विधानं, विदिते होमे प्रथमाहुतौ मन्त्रं विधाय द्वितीयाहुतेर्नैमित्तिकत्वमुपवर्ण्य च तस्याः कर्तव्यपक्षे मन्त्रं विधाय तद्गतवाजशब्दप्रयोगस्य तात्पर्याभिधानं, सेतिकर्तव्यताकं समन्त्रकं दक्षिणार्थानां गवामभिमन्त्रणविधानं तत्र मन्त्रस्य चतुर्धाविभागेन व्याख्यानं च, मन्त्रतत्तात्पर्यसहितं सदोगमनविधानं, समन्त्रकं सदस्यैः सह सदः प्रेक्षण- विधानं, मन्त्रमन्त्रार्थयुतं सहिरण्यमाग्नीध्रंप्रति गमनविधानम्, उपसदनानन्तरं मन्त्रमन्त्रार्थयुतमग्नीधे हिरण्यदानविविधानं, दक्षिणादाने आग्नीध्रस्य प्राथमिकत्वे कारणोपन्यासः, आग्नीध्राय हिरण्यं दत्वा तत आत्रेयाय हिरण्यं दद्यादिति विधानं, आत्रेयाय हिरण्यदाने हेतुनिरूपणं, ततो ब्रह्मादिभ्यः सप्रकारकं क्रमेण दक्षिणादानविधानं, दक्षिणादानानन्तरं मरुत्वद्ग्रहस्यानुवाक्यासम्प्रैषविधानम्, उक्तसम्प्रैषोच्चारणान्तरं न दद्यादित्यर्थविधायिन्याख्यायिका, विहितशतदक्षिणातिरिक्तानां चतुर्णां द्रव्याणां प्रयोजनाभिधानपूर्वकमृत्विग्विशेषेषु दानविधानं, क्रमशो विहितानां हिरण्यादीनां चतुर्णाम्प्रतिग्रहणमन्त्राणां प्रदर्शनं, हिरण्यादिदानानन्तरं मन्थादिदानस्य विधानम्, इच्छया दत्तस्य वस्तुनः प्रतिग्रहमन्त्रमभिधाय तस्य प्रश्नोत्तररूपार्थस्याभिधानं च, प्रतिग्रहमन्त्रेषु तत्तद्देवतावाचकपदोच्चारणस्य प्रयोजनाभिधानम्, अस्मिन्विषये देवतापदं नोच्चरेदिति केषाञ्चिन्मतनिरूपणं चेत्यादि.
ब्राह्मण ५ तृतीयसवनग्रहाः(आदित्यग्रहः)
५ तृतीयसवनग्रहाः - तत्र प्रथममादित्यग्रहः - तृतीयसवनादावादित्यग्रहयागं विधातुमुपोद्घातः, प्रकृतादित्यग्रहोपयोगिन्याख्यायिका, तत्र द्विदेवत्यानामनुवषट्कारं दर्शयितुं द्विदेवत्ययागकाले तदुपयुक्तप्रयोगकथनं, प्रति- प्रस्थातृकृतया द्वितीयाहुत्या द्विदेवत्यानामनुवषट्कारसिद्धिकथनमुक्तहोमस्योत्तरार्द्धदेशकथनं, विहितस्य प्रतिनिग्रहणस्य द्विदेवत्यसंसृष्टादित्योत्पादकत्वेन च प्रशंसनं, सप्रयोजनं समन्त्रकं द्विदेवत्यग्रहे यागादनन्तरमादित्यपात्रेणा- दित्यस्थाल्याऽऽच्छादनविधानं, विहिते काले ग्रहस्य ग्रहणात्प्रागनुष्ठेयानुष्ठान- विशेषस्य विधानं, समन्त्रकं ग्रहणविधानं, तत्र मन्त्रान्ते उपयामगृहीतोऽसि इति शेषो न वक्तव्य इति सकारणं निषेधकरणम्, उक्तमन्त्रविशिष्ट. ग्रहणानन्तरं पात्रमपगृह्य पुनश्च समंत्रकं ग्रहणविधानम्,
दधिग्रहः - तत्र गृहीते सोमरसे सार्थवादं दधिग्रहणविधानं, दधिग्रहस्य स्थानविषये केषाञ्चिन्मतमुक्त्वा स्वमतस्य स्थापनम्, आदित्यग्रहस्य सम्पूर्णताहेतुत्वेन प्रशंसनं, विहिते दधिग्रहणे मन्त्रस्य विनियोजनं, आदित्यग्रहस्योपांशुसवनाख्येन ग्राव्णाऽऽलोडनविधानं, ग्रहान्तरसाधारण्येन ग्रहणानन्तरं प्राप्तस्य दशापवित्रेण मार्जनस्यसप्रयोजनं निषेधकरणम्, उपांशुसवनेन ग्रहस्य विहितं मेक्षणमनूद्य तत्र मंत्रस्य विनियोजनं, ग्रहणानन्तरं कर्तव्यकथनं, द्वारपिधानापनयनानन्तरं निष्क्रमणादिकस्य विधानम्, अध्वर्योः प्रैषमुत्पाद्य कालविशिष्टस्य होमस्य विधानं, ग्रहान्तर- साधारण्येन प्राप्तस्यानुवषट्कारस्य निषेधः, यथावत्प्रतिप्रस्थात्रे विशेष- प्रदानकथनम्, आदित्यग्रहयागानन्तरं हविर्द्धानगमनपूर्वकमाग्रयणस्य ग्रहणप्रकारविधानं, धाराचतुष्टयाद्ग्रहणस्य प्रशंसनम्, आग्रयणस्य ग्रहणे प्रतिप्रस्थातृकृतं संस्रवासेचनमादित्यग्रहस्यानुवषट्कारलाभहेतुत्वेन प्रशंस्य पुनः प्रकारान्तरेणापि तस्य प्रशंसनं चेत्यादि.