शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ३/ब्राह्मण १

विकिस्रोतः तः
Jump to navigation Jump to search
ऋतुग्रहप्रचारः
ऋतुग्रहौ
ऋतुग्रहः

४.३.१ ऋतुग्रहाः

भक्षयित्वा समुपहूताः स्म इत्युक्त्वोत्तिष्ठति । पुरोडाशबृगलमादाय तद्यत्रैतदुपसन्नोऽच्छावाकोऽन्वाह तदस्मै पुरोडाशबृगलम्पाणावादधदाहाच्छावाक वदस्व यत्ते वाद्यमित्यहीयत वा अच्छावाकः - ४.३.१.[१]

तमिन्द्राग्नी अनुसमतनुताम् । प्रजानां प्रजात्यै तस्मादैन्द्राग्नोऽच्छावाकः स एतेन च हविषा यदस्मा एतत्पुरोडाशबृगलं पाणावादधात्येतेन चार्षेयेण यदेतदन्वाह तेनानुसमश्नुते - ४.३.१.[२]

स वै सन्नेऽच्छावाके । ऋतुग्रहैश्चरति तद्यत्सन्नेऽच्छावाक ऋतुग्रहैश्चरति मिथुनं वा अच्छावाक ऐन्द्राग्नो ह्यच्छावाको द्वौ हीन्द्राग्नी द्वन्द्वं हि मिथुनं प्रजननं स एतस्मान्मिथुनात्प्रजननादृतून्त्संवत्सरं प्रजनयति - ४.३.१.[३]

यद्वेव सन्नेऽच्छावाके । ऋतुग्रहैश्चरति सर्वं वा ऋतवः संवत्सरः सर्वमेवैतत्प्रजनयति तस्मात्सन्नेऽच्छावाक ऋतुग्रहैश्चरति - ४.३.१.[४]

तान्वै द्वादश गृह्णीयात् । द्वादश वै मासाः संवत्सरस्य तस्माद्द्वादश गृह्णीयादथो अपि त्रयोदश गृह्णीयादस्ति त्रयोदशो मास इति द्वादश त्वेव गृह्णीयादेषैव सम्पत् - ४.३.१.[५]

द्रोणकलशाद्गृह्णाति । प्रजापतिर्वै द्रोणकलशः स एतस्मात्प्रजापतेर्ऋतून्त्संवत्सरम् प्रजनयति - ४.३.१.[६]

उभयतोमुखाभ्यां पात्राभ्यां गृह्णाति । कुतस्तयोरन्ता ये उभयतोमुखे तस्मादयमन्तः संवत्सरः परिप्लवते तं गृहीत्वा न सादयति तस्मादयमसन्नः संवत्सरः - ४.३.१.[७]

नानुवाक्यामन्वाह । ह्वयति वा अनुवाक्यया ऽऽगतो ह्येवायमृतुर्यदि दिवा यदि नक्तं। नानुवषट्करोति नेदृतूनववृणजा इति सहैव प्रथमौ ग्रहौ गृह्णीतः सहोत्तमाविदमेवैतत्सर्वं संवत्सरेण परिगृह्णीतस्तदिदं सर्वं संवत्सरेण परिगृहीतम् - ४.३.१.[८]

निरेवान्यतरः क्रामति । प्रान्यतरः पद्यते तस्मादिमेऽन्वञ्चो मासा यन्त्यथ यदुभौ वा सह निष्क्रामेतामुभौ वा सह प्रपद्येयातां पृथगु हैवेमे मासा ईयुस्तस्मान्निरेवान्यतरः क्रामति प्रान्यतरः पद्यते - ४.३.१.[९]

तौ वा ऋतुनेति षट्प्रचरतः । तद्देवा अहरसृजन्तर्तुभिरिति चतुस्तद्रात्रिमसृजन्त स यद्धैतावदेवाभविष्यद्रात्रिर्हैवाभविष्यन्न व्यवत्स्यत् - ४.३.१.[१०]

तौ वा ऋतुनेत्युपरिष्टाद्द्विश्चरतः । तद्देवाः पुरस्तादहरददुस्तस्मादिदमद्याहरथ रात्रिरथ श्वोऽहर्भविता - ४.३.१.[११]

ऋतुनेति वै देवाः । मनुष्यानसृजन्तर्तुभिरिति पशून्त्स यत्तन्मध्ये येन पशूनसृजन्त तस्मादिमे पशव उभयतः परिगृहीता वशमुपेता मनुष्याणाम् - ४.३.१.[१२]

तौ वा ऋतुनेति षट्प्रचर्य । इतरथा पात्रे विपर्यस्येते ऋतुभिरिति चतुश्चरित्वेतरथा पात्रे विपर्यस्येते अन्यतरत एव तद्देवा अहरसृजन्तान्यतरतो रात्रिमन्यतरत एव तद्देवा मनुष्यानसृजन्तान्यतरतः पशून् - ४.३.१.[१३]

अथातो गृह्णात्येव । उपयामगृहीतोऽसि मधवे त्वेत्येवाध्वर्युर्गृह्णात्युपयामगृहीतोऽसि माधवाय त्वेति प्रतिप्रस्थातैतावेव वासन्तिकौ स यद्वसन्त ओषधयो जायन्ते वनस्पतयः पच्यन्ते तेनो हैतौ मधुश्च माधवश्च - ४.३.१.[१४]

उपयामगृहीतोऽसि । शुक्राय त्वेत्येवाध्वर्युर्गृह्णात्युपयामगृहीतोऽसि शुचये त्वेति प्रतिप्रस्थातैतावेव ग्रैष्मौ स यदेतयोर्बलिष्ठं तपति तेनो हैतौ शुक्रश्च शुचिश्च - ४.३.१.[१५]

उपयामगृहीतोऽसि नभसे त्वेत्येवाध्वर्युर्गृह्णात्युपयामगृहीतोऽसि नभस्याय त्वेति प्रतिप्रस्थातैतावेव वार्षिकावमुतो वै दिवो वर्षति तेनो हैतौ नभश्च नभस्यश्च - ४.३.१.[१६]

उपयामगृहीतोऽसि । इषे त्वेत्येवाध्वर्युर्गृह्णात्युपयामगृहीतोऽस्यूर्जे त्वेति प्रतिप्रस्थातैतावेव शारदौ स यच्छरद्यूर्ग्रस ओषधयः पच्यन्ते तेनो हैताविषश्चोर्जश्च - ४.३.१.[१७]

उपयामगृहीतोऽसि सहसे त्वेत्येवाध्वर्युर्गृह्णात्युपयामगृहीतोऽसि सहस्याय त्वेति प्रतिप्रस्थातैतावेव हैमन्तिकौ स यद्धेमन्त इमाः प्रजाः सहसेव स्वं वशमुपनयते तेनो हैतौ सहश्च सहस्यश्च - ४.३.१.[१८]

उपयामगृहीतोऽसि तपसे त्वेत्येवाध्वर्युर्गृह्णात्युपयामगृहीतोऽसि तपस्याय त्वेति प्रतिप्रस्थातैतावेव शैशिरौ स यदेतयोर्बलिष्ठं श्यायति तेनो हैतौ तपश्च तपस्यश्च - ४.३.१.[१९]

उपयामगृहीतोऽसि । अंहसस्पतये त्वेति त्रयोदशं ग्रहं गृह्णाति यदि त्रयोदशं गृह्णीयादथ प्रतिप्रस्थाताध्वर्योः पात्रे संस्रवमवनयत्यध्वर्युर्वा प्रतिप्रस्थातुः पात्रे संस्रवमवनयत्याहरति भक्षम् - ४.३.१.[२०]

अथ प्रतिप्रस्थाता भक्षितेन पात्रेण । ऐन्द्राग्नं ग्रहं गृह्णाति तद्यदभक्षितेन पात्रेणैन्द्राग्नं ग्रहं गृह्णाति न वा ऋतुग्रहाणामनुवषट्कुर्वन्त्येतेभ्यो वा ऐन्द्राग्नं ग्रहं ग्रहीष्यन्भवति तदस्यैन्द्राग्नेनैवानुवषट्कृता भवन्ति - ४.३.१.[२१]

यद्वेवैन्द्राग्नं ग्रहं गृह्णाति । सर्वं वा इदं प्राजीजनद्य ऋतुग्रहानग्रहीत्स इदं सर्वं प्रजनय्येदमेवैतत्सर्वं प्राणोदानयोः प्रतिष्ठापयति तदिदं सर्वं प्राणोदानयोः प्रतिष्ठितमिन्द्राग्नी हि प्राणोदानाविमे हि द्यावापृथिवी प्राणोदानावनयोर्हीदं सर्वं प्रतिष्ठितम् - ४.३.१.[२२]

यद्वेवैन्द्राग्नं ग्रहं गृह्णाति । सर्वं वा इदं प्राजीजनद्य ऋतुग्रहानग्रहीत्स इदं सर्वं प्रजनय्यास्मिन्नेवैतत्सर्वस्मिन्प्राणादानौ दधाति ताविमावस्मिन्त्सर्वस्मिन्प्राणोदानौ हितौ - ४.३.१.[२३]

अथातो गृह्णात्येव । इन्द्राग्नी आगतं सुतं गीर्भिर्नभो वरेण्यम् । अस्य पातं धियेषिता । उपयामगृहीतोऽसीन्द्राग्निभ्यां त्वैष ते योनिरिन्द्राग्निभ्यां त्वेति सादयतीन्द्राग्निभ्यां ह्येनं गृह्णाति - ४.३.१.[२४]

वैश्वदेवग्रहः
अथ वैश्वदेवं ग्रहं गृह्णाति । सर्वं वा इदं प्राजीजनद्य ऋतुग्रहानग्रहीत्स यद्धैतावदेवाभविष्यद्यावत्या हैवाग्रे प्रजाः सृष्टास्तावत्यो हैवाभविष्यन्न प्राजनिष्यन्त - ४.३.१.[२५]

अथ यद्वैश्वदेवं ग्रहं गृह्णाति । इदमेवैतत्सर्वमिमाः प्रजा यथायथं व्यवसृजति तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्ते शुक्रपात्रेण गृह्णात्येष वै शुक्रो य एष तपति तस्य ये रश्मयस्ते विश्वे देवास्तस्माच्छुक्रपात्रेण गृह्णाति - ४.३.१.[२६]

अथातो गृह्णात्येव । ओमासश्चर्षणीधृतो विश्वे देवास आगत दाश्वांसो दाशुषः सुतम् उपयामगृहीतोऽसि विश्वेभ्यस्त्वा देवेभ्य एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति विश्वेभ्यो ह्येनं देवेभ्यो गृह्णाति - ४.३.१.[२७]


[सम्पाद्यताम्]