शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ३/ब्राह्मण ४

विकिस्रोतः तः
Jump to navigation Jump to search

४.३.४ दक्षिणादानम्

घ्नन्ति वा एतद्यज्ञम् । यदेनं तन्वते यन्न्वेव राजानमभिषुण्वन्ति तत्तं घ्नन्ति यत्पशुं संज्ञपयन्ति विशासति तत्तं घ्नन्त्युलूखलमुसलाभ्यां दृषदुपलाभ्यां हविर्यज्ञं घ्नन्ति - ४.३.४.[१]

स एष यज्ञो हतो न ददक्षे । तं देवा दक्षिणाभिरदक्षयंस्तद्यदेनं दक्षिणाभिरदक्षयंस्तस्माद्दक्षिणा नाम तद्यदेवात्र यज्ञस्य हतस्य व्यथते तदेवास्यैतद्दक्षिणाभिर्दक्षयत्यथ समृद्ध एव यज्ञो भवति तस्माद्दक्षिणा ददाति - ४.३.४.[२]

तद्वै षड्द्वादशेत्येव हविर्यज्ञे ददति । न ह त्वेवाशतदक्षिणः सौम्योऽध्वरः स्यादेष वै प्रत्यक्षं यज्ञो यत्प्रजापतिः पुरुषो वै प्रजापतेर्नेदिष्ठं सोऽयं शतायुः शततेजाः शतवीर्यस्तं शतेनैव दक्षयति नाशतेन तस्मान्नाशतदक्षिणः सौम्योऽध्वरः स्यान्नो हैवाशतदक्षिणेन यजमानस्यऽर्त्विक्ष्यान्नेदस्याक्षिभूरसानि यमिमे हनिष्यन्त्येव न दक्षयिष्यन्तीति - ४.३.४.[३]

द्वया वै देवा देवाः । अहैव देवा अथ ये ब्राह्मणाः शुश्रुवांसोऽनूचानास्ते मनुष्यदेवास्तेषां द्वेधाविभक्त एव यज्ञ आहुतय एव देवानां दक्षिणा मनुष्यदेवानां ब्राह्मणानां शुश्रुवुषामनूचानानामाहुतिभिरेव देवान्प्रीणाति दक्षिणाभिर्मनुष्यदेवान्ब्राह्मणाञ्छुश्रुवुषोऽनूचानांस्त एनमुभये देवाः प्रीताः स्वर्गं लोकमभिवहन्ति - ४.३.४.[४]

ता वा एताः । ऋत्विजामेव दक्षिणा अन्यं वा एत एतस्यात्मानं संस्कुर्वन्त्येतं यज्ञमृङ्मयं यजुर्मयं साममयमाहुतिमयं सोऽस्यामुष्मिंलोक आत्मा भवति तद्ये माऽजीजनन्तेति तस्मादृत्विग्भ्य एव दक्षिणा दद्यान्नानृत्विग्भ्यः - ४.३.४.[५]

अथ प्रतिपरेत्य गार्हपत्यम् । दक्षिणानि जुहोति स दशाहोमीये वाससि हिरण्यम्प्रबध्यावधाय जुहोति देवलोके मेऽप्यसदिति वै यजते यो यजते सोऽस्यैष यज्ञो देवलोकमेवाभिप्रैति तदनूची दक्षिणा यां ददाति सैति दक्षिणामन्वारभ्य यजमानः - ४.३.४.[६]

चतस्रो वै दक्षिणाः । हिरण्यं गौर्वासोऽश्वो न वै तदवकल्पते यदश्वस्य पादमवध्याद्यद्वा गौः पादमवदध्यात्तस्माद्दशाहोमीये वाससि हिरण्यम्प्रबध्यावधाय जुहोति - ४.३.४.[७]

सौरीभ्यामृग्भ्यां जुहोति । तमसा वा असौ लोकोऽन्तर्हितः स एतेन ज्योतिषा तमो
ऽपहत्य स्वर्गं लोकमुपसंक्रामति तस्मात्सौरीभ्यामृग्भ्यां जुहोति - ४.३.४.[८]

स जुहोति । उदु त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यं स्वाहेत्येतया गायत्र्या गायत्री वा इयं पृथिवी सेयं प्रतिष्ठा तदस्यामेवैतत्प्रतिष्ठायां प्रतितिष्ठति - ४.३.४.[९]

अथ द्वितीयां जुहोति । चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च स्वाहेत्येतया त्रिष्टुभा लोकमेवैतयोपप्रैति - ४.३.४.[१०]

अथाग्नीध्रे । द्वे वैकां वा जुहोति तद्यदग्नावाग्नीध्रे द्वे वैकां वा जुहोत्यग्निर्वै पशूनामीष्टे त एनमभितः परिणिविशन्ते तमेतयाहुत्या प्रीणाति सोऽस्मै प्रीतोऽनुमन्यते तेनानुमतां ददाति - ४.३.४.[११]

स जुहोति । अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् ।युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम स्वाहेत्यथ यद्यश्वं युक्तं वाऽयुक्तं वा दास्यन्त्स्यादथ द्वितीयां जुहुयाद्यद्यु न नाद्रियेत - ४.३.४.[१२]

स जुहोति । अयं नो अग्निर्वरिवस्कृणोत्वयं मृधः पुर एतु प्रभिन्दन्। अयं वाजाञ्जयतु वाजसातावयं शत्रून्जयतु जर्हृषाणः स्वाहेति वाजसा ह्यश्वः - ४.३.४.[१३]

अथ हिरण्यमादाय शालामभ्यैति । दक्षिणेन वेदिं दक्षिणा उपतिष्ठन्ते सोऽग्रेण शालां तिष्ठन्नभिमन्त्रयते रूपेण वो रूपमभ्यागामिति न ह वा अग्रे पशवो दानाय चक्षमिरे तेऽपनिधाय स्वानि रुपाणि शरीरैः प्रत्युपातिष्ठन्त तानेतद्देवाः स्वैरेव रूपैर्यज्ञस्यार्धादुपायंस्ते स्वानि रूपाणि जानाना अभ्यवायंस्ते रातमनसोऽलं दानायाभवंस्तथो एवैनानेष एतत्स्वैरेव रूपैर्यज्ञस्यार्धादुपैति ते स्वानि रूपाणि जानाना अभ्यवायन्ति ते रातमनसोऽलं दानाय भवन्ति - ४.३.४.[१४]

तुथो वो विश्ववेदा विभजत्विति । ब्रह्म वै तुथस्तदेना ब्रह्मणा विभजति ब्रह्म वै दक्षिणीयं चादक्षिणीयं च वेद तथो हास्यैता दक्षिणीयायैव दत्ता भवन्ति नादक्षिणीयाय - ४.३.४.[१५]

ऋतस्य पथा प्रेतेति । यो वै देवानां पथैति स ऋतस्य पथैति चन्द्रदक्षिणा इति तदेतेन ज्योतिषा यन्ति - ४.३.४.[१६]

अथ सदोऽभ्यैति । वि स्वः पश्य व्यन्तरिक्षमिति वि त्वया दक्षिणया लोकं ख्येषमित्येवैतदाह - ४.३.४.[१७]

अथ सदः प्रेक्षते । यतस्व सदस्यैरिति मा त्वा सदस्या अतिरिक्षतेत्येवैतदाह - ४.३.४.[१८]

अथ हिरण्यमादायाग्नीध्रमभ्यैति । ब्राह्मणमद्य विदेयं पितृमन्तम्पैतृमत्यमिति यो वै ज्ञातो ज्ञातकुलीनः स पितृमान्पैतृमत्यो या वै ज्ञातायापि कतिपयीर्दक्षिणा ददाति ताभिर्महज्जयत्यृषिमार्षेयमिति यो वै ज्ञातोऽनूचानः स ऋषिरार्षेयः सुधातुदक्षिणामिति स हि सुधातुदक्षिणः - ४.३.४.[१९]

अथैवमुपसद्य । अग्नीधे हिरण्यं ददात्यस्मद्राता देवत्रा गच्छतेति यां वै रातमना अविचिकित्सन्दक्षिणां ददाति तया महज्जयति देवत्रा गच्छतेति देवलोके मेऽप्यसदिति वै यजते यो यजते तद्देवलोक एवैनमेतदपित्विनं करोति प्रदातारमाविशतेति मामाविशतेत्येवैतदाह तथो हास्मादेताः पराच्यो न प्रणश्यन्ति तद्यदग्नीधे प्रथमाय दक्षिणां ददात्यतो हि विश्वे देवा अमृतत्वमपाजयंस्तस्मादग्नीधे प्रथमाय दक्षिणां ददाति - ४.३.४.[२०]

अथैवमेवोपसद्य । आत्रेयाय हिरण्यं ददाति यत्र वा अदः प्रातरनुवाकमन्वाहुस्तद्ध स्मैतत्पुरा शंसन्त्यत्रिर्वा ऋषीणां होताऽऽसाथैतत्सदोऽसुरतमसमभिपुप्रुवे तऽऋषयोऽत्रिमब्रुवन्नेहि प्रत्यङ्ङिदं तमोऽपजहीति स एतत्तमोऽपाहन्नयं वै ज्योतिर्य इदं तमोऽपावधीदिति तस्मा एतज्ज्योतिर्हिरण्यं दक्षिणामनयन् ज्योतिर्हि हिरण्यं तद्वै स तत्तेजसा वीर्येणऽर्षिस्तमोऽपजघानाथैष एतेनैवैतज्ज्योतिषा तमोऽपहन्ति तस्मादात्रेयाय हिरण्यं दधाति - ४.३.४.[२१]

अथ ब्रह्मणे । ब्रह्मा हि यज्ञं दक्षिणतोऽभिगोपायत्यथोद्गात्रेऽथ होत्रेऽथाध्वर्युभ्यां हविर्धान आसीनाभ्यामथ पुनरेत्य प्रस्तोत्रेऽथ मैत्रावरुणायाथ ब्राह्मणाच्छंसिनेऽथ पोत्रेऽथ नेष्ट्रेऽथाच्छावाकायाथोन्नेत्रेऽथ ग्रावस्तुतेऽथ सुब्रह्मण्यायै प्रतिहर्त्र उत्तमाय ददाति प्रतिहर्ता वा एष सोऽस्मा एतदन्ततः प्रतिहरति तथो हास्मादेताः पराच्यो न प्रणश्यन्ति - ४.३.४.[२२]

अथाहेन्द्राय मरुत्वतेऽनुब्रूहीति । यत्र वै प्रजापतिरग्रे ददौ तद्धेन्द्र ईक्षां चक्रे सर्वं वा अयमिदं दास्यति नास्मभ्यं किं चन परिशेक्ष्यतीति स एतं वज्रमुदयच्छदिन्द्राय मरुत्वतेऽनुब्रूहीत्यदानाय ततो नाददात्स एषोऽप्येतर्हितथैव वज्र उद्यम्यत इन्द्राय मरुत्वतेऽनुब्रूहीत्यदानाय ततो न ददाति - ४.३.४.[२३]

चतस्रो वै दक्षिणाः । हिरण्यमायुरेवैतेनात्मनस्त्रायत आयुर्हि हिरण्यं तदग्नय आग्नीध्रं कुर्वतेऽददात्तस्मादप्येतर्ह्यग्नीधे हिरण्यं दीयते - ४.३.४.[२४]

अथ गौः । प्राणमेवैतयात्मनस्त्रायते प्राणो हि गौरन्नं हि गौरन्नं हि प्राणस्तां रुद्राय होत्रेऽददात् - ४.३.४.[२५]

अथ वासः । त्वचमेवैतेनात्मनस्त्रायते त्वग्घि वासस्तद्बृहस्पतय उद्गायतेऽददात् - ४.३.४.[२६]

अथाश्वः । वज्रो वा अश्वो वज्रमेवैतत्पुरोगां कुरुते यमलोके मेऽप्यसदिति वै यजते यो यजते तद्यमलोक एवैनमेतदपित्विनं करोति तं यमाय ब्रह्मणेऽददात् - ४.३.४.[२७]

स हिरण्यं प्रत्येति । अग्नये त्वा मह्यं वरुणो ददात्वित्यग्नये ह्येतद्वरुणोऽदधात्सोऽमृतत्वमशीयायुर्दात्र एधि मयो मह्यं प्रतिग्रहीत्र इति - ४.३.४.[२८]

अथ गां प्रत्येति । रुद्राय त्वा मह्यं वरुणो ददात्विति रुद्राय ह्येतां वरुणोऽददात्सोऽमृतत्वमशीय प्राणो दात्र एधि वयो मह्यं प्रतिग्रहीत्र इति - ४.३.४.[२९]

अथ वासः प्रत्येति । बृहस्पतये त्वा मह्यं वरुणो ददात्विति बृहस्पतये ह्येतद्वरुणोऽददात्सोऽमृतत्वमशीय त्वग्दात्र एधि मयो मह्यं प्रतिग्रहीत्र इति - ४.३.४.[३०]

अथाश्वं प्रत्येति । यमाय त्वा मह्यं वरुणो ददात्विति यमाय ह्येतं वरुणोऽददात्सोऽमृतत्वमशीय हयो दात्र एधि वयो मह्यं प्रतिग्रहीत्र इति - ४.३.४.[३१]

अथ यदन्यद्ददाति । कामेनैव तद्ददातीदं मेऽप्यमुत्रासादिति तत्प्रत्येति कोऽदात्कस्मा अदात्कामोऽदात्कामायादात् कामो दाता कामः प्रतिग्रहीता कामैतत्त इति तद्देवताया अतिदिशति - ४.३.४.[३२]

तदाहुः । न देवताया अतिदिशेदिदं वै यां देवतां समिन्द्धे सा दीप्यमाना श्वःश्वः श्रेयसी भवतीदं वै यस्मिन्नग्नावभ्यादधति स दीप्यमान एव श्वःश्वः श्रेयान्भवति श्वःश्वो ह वै श्रेयान्भवति य एवं विद्वान्प्रतिगृह्णाति तद्यथा समिद्धे जुहुयादेवमेतां जुहोति यामधीयते ददाति तस्मादधीयन्नातिदिशेत् - ४.३.४.[३३]