शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ३/ब्राह्मण २

विकिस्रोतः तः

४.३.२ माध्यंदिनसवनग्रहाः

गृणाति ह वा एतद्धोता यच्छंसति । तस्मा एतद्गृणते प्रत्येवाध्वर्युरागृणाति तस्मात्प्रतिगरो नाम - ४.३.२.१

तं वै प्राञ्चमासीनमाह्वयते । सर्वे वा अन्य उद्गातुः प्राञ्च आर्त्विज्यं कुर्वन्ति तथो हास्यैतत्प्रागेवार्त्विज्यं कृतं भवति - ४.३.२.२

प्रजापतिर्वा उद्गाता । योषर्ग्घोता स एतत्प्रजापतिरुद्गाता योषायामृचि होतरि रेतः सिञ्चति यत्स्तुते तद्धोता शस्त्रेण प्रजनयति तच्छ्यति यथायं पुरुषः शितस्तद्यदेनच्छ्यति तस्माच्छस्त्रं नाम - ४.३.२.३

तदुपपल्यय्य प्रतिगृणाति । इदमेवैतद्रेतः सिक्तमुपनिमदत्यथ यत्पराङ्तिष्ठन्प्रतिगृणीयात्परागु हैवैतद्रेतः सिक्तं प्रणश्येत्तन्न प्रजायेत सम्यञ्चा उ चैवैतद्भूत्वैतद्रेतः सिक्तं प्रजनयतः - ४.३.२.४

यातयामानि वै देवैश्छन्दांसि । च्छन्दोभिर्हि देवाः स्वर्गं लोकं समाश्नुवत मदो वै प्रतिगरो यो वा ऋचि मदो यः सामन्रसो वै स तच्छन्दः स्वेवैतद्रसं दधात्ययातयामानि करोति तैरयातयामैर्यज्ञं तन्वते - ४.३.२.५

तस्माद्यद्यर्धर्चशः शंसेत् । अर्धर्चेऽर्धर्चे प्रतिगृणीयाद्यदि पच्छः शंसेत्पदेपदे प्रतिगृणीयाद्यत्र वै शंसन्नवानिति तदसुररक्षसानि यज्ञमन्ववचरन्ति तत्प्रतिगरेण संदधाति नाष्ट्राणां रक्षसामनन्ववचाराय यजमानस्यो चैवैतद्भ्रातृव्यलोकं छिनत्ति - ४.३.२.६

चतुरक्षराणि ह वा अग्रे च्छन्दांस्यासुः । ततो जगती सोममच्छापतत्सा त्रीण्यक्षराणि
हित्वा जगाम ततस्त्रिष्टुप्सोममच्छापतत्सैकमक्षरं हित्वा जगाम ततो गायत्री सोममच्छापतत्सैतानि चाक्षराणि हरन्त्यागच्छत्सोमं च ततोऽष्टाक्षरा गायत्र्यभवत्तस्मादाहुरष्टाक्षरा गायत्रीति - ४.३.२.७

तया प्रातःसवनमतन्वत । तस्माद्गायत्रं प्रातःसवनं तयैव माध्यन्दिनं सवनमतन्वत तां ह त्रिष्टुबुवाचोप त्वाहमायानि त्रिभिरक्षरैरुप मा ह्वयस्व मा मा यज्ञादन्तर्गा इति तथेति तामुपाह्वयत तत एकादशाक्षरा त्रिष्टुबभवत्तस्मादाहुस्त्रैष्टुभं माध्यन्दिनं सवनमिति - ४.३.२.८

तयैव तृतीयसवनमतन्वत । तां ह जगत्युवाचोप त्वाहमायान्येकेनाक्षरेणोप मा ह्वयस्व मा मा यज्ञादन्तर्गा इति तथेति तामुपाह्वयत ततो द्वादशाक्षरा जगत्यभवत्तस्मादाहुर्जागतं तृतीयसवनमिति - ४.३.२.९

तदाहुः । गायत्राणि वै सर्वाणि सवनानि गायत्री ह्येवैतदुपसृजमानैदिति तस्मात्संसिद्धं प्रातःसवने प्रतिगृणीयात्संसिद्धा हि गायत्र्यागच्छत्सकृन्मद्वन्माध्यन्दिने सवन एकं हि साऽक्षरं हित्वाऽऽगच्छत्तेनैवैनामेतत्समर्धयति कृत्स्नां करोति - ४.३.२.१०

यत्र त्रिष्टुभः शस्यन्ते । त्रिमद्वत्तृतीयसवने त्रीणि हि साऽक्षराणि हित्वाऽऽगच्छत्तैरेवैनामेतत्समर्धयति कृत्स्नां करोति - ४.३.२.११

यत्र द्यावापृथिव्यं शस्यते । इमे ह वै द्यावापृथिवी इमाः प्रजा उपजीवन्ति तदनयोरेवैतद्द्यावापृथिव्यो रसं दधाति ते रसवत्या उपजीवनीये इमाः प्रजा उपजीवन्ति स वा ओमित्येव प्रतिगृणीयात्तद्धि सत्यं तद्देवा विदुः - ४.३.२.१२

तद्धैके । ओथामो दैव वागिति प्रतिगृणन्ति वाक्प्रतिगर एतद्वाचमुपाप्नुम इति वदन्तस्तदु तथा न कुर्याद्यथा वै कथा च प्रतिगृणात्युपाप्तैवास्य वाग्भवति वाचा हि प्रतिगृणाति तस्मादोमित्येव प्रतिगृणीयात्तद्धि सत्यं तद्देवा विदुः - ४.३.२.१३