शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ३/ब्राह्मण ३

विकिस्रोतः तः
शुक्रामन्थीग्रहप्रचारः
आग्रयण स्थाली
ऋतुग्रहौ
ऋतुग्रह

४.३.३ शुक्रः, मन्थी, आग्रयणः, मरुत्वतीयः, उक्थ्यः

इहा इहा इत्यभिषुणोति । इन्द्रमेवैतदाच्यावयति बृहद्बृहदितीन्द्रमेवैतदाच्यावयति - ४.३.३.१

स शुक्रामन्थिनौ प्रथमौ गृह्णाति । शुक्रवद्ध्येतत्सवनमथाग्रयणं सर्वेषु ह्येष सवनेषु गृह्यतेऽथ मरुत्वतीयमथोक्थ्यमुक्थानि ह्यत्रापि भवन्ति - ४.३.३.२

तद्धैके । उक्थ्यं गृहीत्वाथ मरुत्वतीयं गृह्णन्ति तदु तथा न कुर्यान्मरुत्वतीयमेव गृहीत्वाथोक्थ्यं गृह्णीयात् - ४.३.३.३

तान्वा एतान् । पञ्च ग्रहान्गृह्णात्येष वै वज्रो यन्माध्यन्दिनः पवमानस्तस्मात्पञ्चदशः पञ्चसामा भवति पञ्चदशो हि वज्रः स एतैः पञ्चभिर्ग्रहैः पञ्च वा इमा अङ्गुलयोऽङ्गुलिभिर्वै प्रहरति - ४.३.३.४

इन्द्रो वृत्राय वज्रं प्रजहार । स वृत्रं पाप्मानं हत्वा विजितेऽभयेऽनाष्ट्रे दक्षिणा निनाय तस्मादप्येतर्हि यदैवैतेन माध्यन्दिनेन पवमानेन स्तुवतेऽथ विजितेऽभयेऽनाष्ट्रे दक्षिणा नीयन्ते तथो एवैष एतैः पञ्चभिर्ग्रहैः पाप्मने द्विषते भ्रातृव्याय वज्रं प्रहरति स वृत्रं पाप्मानं हत्वा विजितेऽभयेऽनाष्ट्रे दक्षिणा नयति तस्माद्वा एतान्पञ्च ग्रहान्गृह्णाति - ४.३.३.५

तद्यन्मरुत्वतीयान्गृह्णाति । एतद्वा इन्द्रस्य निष्केवल्यं सवनं यन्माध्यन्दिनं सवनं तेन वृत्रमजिघांसत्तेन व्यजिगीषत मरुतो वा इत्यश्वत्थेऽपक्रम्य तस्थुः क्षत्रं वा इन्द्रो विशो मरुतो विशा वै क्षत्रियो बलवान्भवति तस्मादाश्वत्थे ऋतुपात्रे स्यातां कार्ष्मर्यमये त्वेव भवतः - ४.३.३.६

तानिन्द्र ऽउपमन्त्रयां चक्रे । उप मावर्तध्वं युष्माभिर्बलेन वृत्रं हनानीति ते होचुः किं नस्ततः स्यादिति तेभ्य एतौ मरुत्वतीयौ ग्रहावगृह्णात् - ४.३.३.७

ते होचुः । अपनिधायैनमोज उपावर्तामहा इति त एनमपनिधायैवौज उपाववृतुस्तद्वा इन्द्रोऽस्पृणुतापनिधाय वै मौज उपावृतन्निति - ४.३.३.८

स होवाच । सहैव मौजसोपावर्तध्वमिति तेभ्यो वै नस्तृतीयं ग्रहं गृहाणेति तेभ्य एतं तृतीयं ग्रहमगृह्णादुपयामगृहीतोऽसि मरुतां त्वौजस इति त एनं सहैवौजसोपावर्तन्त तैर्व्यजयत तैर्वृत्रमहन्क्षत्रं वा इन्द्रो विशो मरुतो विशा वै क्षत्रियो बलवान्भवति तत्क्षत्र एवैतद्बलं दधाति तस्मान्मरुत्वतीयान्गृह्णाति - ४.३.३.९

स वा इन्द्रायैव मरुत्वते गृह्णीयात् । नापि मरुद्भ्यः स यद्धापि मरुद्भ्यो गृह्णीयात्प्रत्युद्यामिनीं ह क्षत्राय विशं कुर्यादथैतदिन्द्रमेवानु मरुत आभजति तत्क्षत्रायैवैतद्विशं कृतानुकरामनुवर्त्मानं करोति तस्मादिन्द्रायैव मरुत्वते गृह्णीयान्नापि मरुद्भ्यः - ४.३.३.१०

अपक्रमादु हैवैषामेतद्बिभयां चकार । यदिमे मन्नापक्रामेयुर्यन्नान्यद्ध्रियेरन्निति तानेवैतदनपक्रमिणोऽकुरुत तस्मादिन्द्रायैव मरुत्वते गृह्णीयान्नापि मरुद्भ्यः - ४.३.३.११

ऋतुपात्राभ्यां गृह्णाति । ऋतवो वै संवत्सरो यज्ञस्तेऽदः प्रातःसवने प्रत्यक्षमवकल्प्यन्ते यदृतुग्रहान्गृह्णात्यथैतत्परोऽक्षं माध्यन्दिनेसवनेऽवकल्पयन्ते यदृतुपात्राभ्यां मरुत्वतीयान्गृह्णाति विशो वै मरुतोऽन्नं वै विश ऋतवो वा इदं सर्वमन्नाद्यं पचन्ति तस्मादृतुपात्राभ्याम्मरुत्वतीयान्गृह्णाति - ४.३.३.१२

अथातो गृह्णात्येव । इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य । तव प्रणीती तव शूर शर्मन्नाविवासन्ति कवयः सुयज्ञाः । उपयामगृहीतोऽसीन्द्राय त्वा मरुत्वत एष ते योनिरिन्द्राय त्वा मरुत्वते - ४.३.३.१३

मरुत्वन्तं वृषभम् । वावृधानमकवारिं दिव्यं शासमिन्द्रं विश्वासाहमवसे नूतनायोग्रं सहोदामिह तं हुवेम । उपयामगृहीतोऽसीन्द्राय त्वा मरुत्वत एष ते योनिरिन्द्राय त्वा मरुत्वते उपयामगृहीतोऽसि मरुतां त्वौजस इति तृतीयं ग्रहं गृह्णाति - ४.३.३.१४

अथ माहन्द्रं ग्रहं गृह्णाति । पाप्मना वा एतदिन्द्रः संसृष्टोऽभूद्यद्विशा मरुद्भिः स यथा विजयस्य कामाय विशा समाने पात्रेऽश्नीयादेवं तद्यदस्मा एतं मरुद्भिः समानं ग्रहमगृह्णन् - ४.३.३.१५

तं देवाः । सर्वस्मिन्विजितेऽभयेऽनाष्ट्रे यथेषीकां मुञ्जाद्विवृहेदेवं सर्वस्मात्पाप्मनो व्यवृहन्यन्माहेन्द्रं ग्रहमगृह्णंस्तथो एवैष एतद्यथेषीका विमुञ्जा स्यादेवं सर्वस्मात्पाप्मनो निर्मुच्यते यन्माहेन्द्रं ग्रहं गृह्णाति - ४.३.३.१६

यद्वेव माहेन्द्रं ग्रहं गृह्णाति । इन्द्रो वा एष पुरा वृत्रस्य वधादथ वृत्रं हत्वा यथा महाराजो विजिग्यान एवं महेन्द्रोऽभवत्तस्मान्माहेन्द्रं ग्रहं गृह्णाति महान्तमु चैवैनमेतत्खलु करोति वृत्रस्य वधाय तस्माद्वेव माहेन्द्रं ग्रहं गृह्णाति शुक्र पात्रेण गृह्णात्येष वै शुक्रो य एष तपत्येष उ एव महांस्तस्माच्छुक्रपात्रेण गृह्णाति - ४.३.३.१७

अथातो गृह्णात्येव । महां इन्द्रो नृवदा चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः अस्मद्र्यग्वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर्भूत् उपयामगृहीतोऽसि महेन्द्राय त्वैष ते योनिर्महेन्द्राय त्वेति सादयति महेन्द्राय ह्येनं गृह्णाति - ४.३.३.१८

अथोपाकृत्यैतां वाचं वदति । अभिषोतारोऽभिषुणुतौलूखलानुद्वादयताग्नीदाशिरं विनय सौम्यस्य वित्तादिति ते वै तृतीयसवनायैवाभिषोतारोऽभिषुण्वन्ति तृतीयसवनायौलूखलानुद्वादयन्ति तृतीयसवनायाग्नीदाशिरं विनयति तृतीयसवनाय सौम्यं चरुं श्रपयत्येते वै शुक्रवती रसवती सवने यत्प्रातःसवनं च माध्यन्दिनं च सवनमथैतन्निर्धीतशुक्रं यत्तृतीयसवनं तदेवैतस्मान्माध्यन्दिनात्सवनान्निर्मिमीते तथो हास्यैतच्छुक्रवद्रसवत्तृतीयसवनं भवति तस्मादेतामत्र वाचं वदति - ४.३.३.१९