सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् ४/अध्यायः २

विकिस्रोतः तः

ब्राह्मण १ शुक्रामन्थिनौ ग्रहौ

१ शुक्रामन्थिनौ ग्रहौ तत्र पूर्वं विधित्सितयोः शुक्रामन्थिनोर्ग्रहयोश्चक्षुरात्मना भोक्तृभोग्यात्मना च स्तवनम्, आख्यायिकया ग्रहयोर्ग्रहणहोमयोर्विस्पष्टीकरणं, तस्य याज्ञवल्क्यमतोपन्यासेन समर्थनं, विहिते शुक्रस्य ग्रहणे शाखान्तराभिमतं मंत्रं प्रत्याख्याय स्वाभिमतस्य सोपपत्तिकं विनियोजनं, होमे मंत्रं विधाय तद्व्याख्यानं, गृहीतस्यसोमरसस्य समंत्रकं सादनं विधाय मन्त्रार्थविवरणं, विहितं मन्थिनो ग्रहणमनूद्य तत्र मंत्रं विधाय च तदर्थविवरणं, गृहीतस्य सोमरसस्य यवपिष्टैर्मिश्रणविधानं तस्योपाख्यानेन हेतुनिरूपणं च, विहिते मिश्रणे मंत्रस्य विनियोजनं, ग्रहस्य समंत्रकं सादनं विधाय तन्मंत्रव्याख्यानं, प्रसंगा च्छुक्रामन्थिग्रहयोर्होमकाले कर्तव्यस्यानुष्ठानविशेषस्य विधानम्, उभयोः समंत्रकं निष्क्रमणविधानं, निष्कमणानंतरं कर्तव्यस्यारत्निसन्धानादिकस्य विधानम्, अध्वर्युप्रतिप्रस्थात्रोः परीतो गच्छतोः समंत्रकं गमनं विधाय मंत्रार्थविवरणम्, आह- वनीयस्य पश्चाद्भागे ग्रहयोराच्छादनस्य पुरस्ताद्गत्वा तदपनयनस्य च विधानं, मंत्रमंत्रार्थयुतं यूपस्य पश्चात्पुरतो वा तयोः पुनरभिसन्धानंकथनम्, अप्रोक्षितस्य यूपशकलस्य निरसनं प्रोक्षितस्याहवनीये प्रासनं च कुर्यादिति प्रयोजनपुरःसरं समंत्रकं विधानं, होमात्प्रागध्वर्योर्मंत्रजपविधानम्, आश्रावणपूर्वकं प्रैषविधानं, वषट्कारावसाने ग्रहचमसानां होमस्य तदर्थं स्थानविशेषस्य च कथनं, शुक्रामन्थिग्रहयोर् होमो याज्यया तदतिरिक्तमंत्रे विशेषेणापि च कर्तव्य इति सहेतुकं निरूपणं, विशिष्टे मंत्रप्रथमशब्दप्रयोगस्य तात्पर्याभिधानं, होमानंतरं कर्तव्यमध्वर्योः प्रैषकथनं, प्रतिप्रस्थात्राऽध्वर्युपात्रे शेषस्यावनयनं कर्तव्यमिति विधायाध्वर्युपात्रगतं सोमं भक्षार्थं होतृचमसंऽवनयेदिति कथनं, होत्रकाणां चमसाऽभ्युन्नयनस्य सहेतुकं विधानं, होत्रकाणां याजनविधानं, प्रथमहोतृकस्योत्तमहोतृकस्य याज्यापाठानंतरं हुत्वाऽध्वर्युरनुमंत्रयेदिति विधानं मंत्रार्थप्रसंगेन होत्रा शब्दप्रयोगस्योपपत्तिकथनं, चमसहोमानंतरं सदोगत्वोपविशेदिति कथनं, मैत्रावरुणादिपरित्यागेनाग्नीध्रकर्तृकयागसमाप्तिकथने कारणकथनंचेत्यादि


ब्राह्मण २ आग्रयणग्रहः

२ आग्रयणग्रहः-तत्र विधास्यमानस्याग्रयणस्य प्रोक्तानां प्राणाद्यात्मकानामु- पांश्वादीनामाश्रयभूतमध्यदेहात्मना स्तवनम्, उक्तेनात्मनाऽस्य ग्रहस्य लब्धं सर्वत्वमुपजीव्य पृथिव्या ग्रहस्य ग्रहणविधानम्, उक्तस्य ग्रहणस्य सोपपत्तिकं भूयिष्ठत्वविधानं, विहिते ग्रहणे देवतासम्बन्धप्रदर्शनम्, उक्तमेव सर्वत्वमवलम्ब्य ग्रहस्य सवनत्रयेऽपि ग्रहणा भिधानं, पात्रान्तरगतस्य सोमरसस्य क्षयेऽ- स्मादेव ग्रहात्तस्य सोपपत्तिकं समर्धनकथनं सवनत्रयपरिसमाप्त्यनंतरमेतस्मा- द्ग्रहाद्धारियोजनग्रहस्य ग्रहणविधानम्, आग्रयणशब्दनिर्ववनम्, आग्रयणग्रहेऽ- ध्वर्योर्वागवदनस्य सोपपत्तिकं समर्थनं, विहितं ग्रहग्रहणे मंत्रं विधाय तस्य चतुर्धा विभागेन व्याख्यानं, ग्रहणानंतरं दशापवित्रेण सह ग्रहं स्वीकृत्य हिंकुर्यादिति कथनं, ततोऽध्वर्योर्वाग्विसर्गसाधनभूतस्य मंत्रस्यादिधानं, मंत्रशेषविधानविषये मंत्रशेषं न ब्रूयादिति केषाञ्चिन्मतमभिधाय तत्प्रत्याख्याय च मंत्रशेषं ब्रूयादिति स्वमतस्था- पनपूर्वकं मंत्रशेषविधानम्, उक्तमंत्रशेषे ' सुभूताय ' इत्यादिपदपदार्थप्रदर्शनपूर्वकं ' ब्रह्मवर्चसाय ' इत्येतत्पदं पठितव्यमिति परमतं दूषयित्वा न पठितव्यमिति स्वमतस्थिरीकरणं, गृहीतस्य सोमरसस्य मंत्रमंत्रार्थयुतं कारणसहितं मध्यदेशे सादनविधानं चेत्यादि.


ब्राह्मण ३ उक्थ्यग्रहः

३ उक्थ्यग्रहः तत्र विधास्यमानस्योक्थ्यग्रहस्य सूक्ष्मशरीरात्मना स्तुतिं कृत्वाऽऽयुष्ट्वं च प्रतिपाद्य सहेतुकं पृथिव्या ग्रहणाभिधानं, विहितं ग्रहणमनूद्य तस्य संपूर्णताविधानम्, उक्थ्यग्रहेण सवनसन्धानप्रकारनिरूपणम्, उक्त- सवनसन्धानप्रकारो माध्यंदिनसम्बन्धिन्युक्थ्यविग्रहेऽपि कर्तव्य इति प्रतिपादनं, ग्रहस्यायुष्ट्वे व्यवहारोपपत्तिकथनम्, अस्य ग्रहस्य ऋतुरूपत्वात्कामधेनुत्वेन प्रशंसनम्, अस्य ग्रहस्य सोपपत्तिकमपुरोरुक्कं ग्रहणं कुर्यादिति प्रतिपादनं, पुरोरुक्त्वाभावेऽप्यस्य ग्रहस्य पुरोरुक्त्वमस्तीति समर्थनं, ग्रहग्रहणमनूद्य तत्र मंत्रं विधाय तस्य चतुर्धाविभागेन व्याख्यानम्, इत्थं ग्रहस्य ग्रहणादिकं विधाय होमकाले तस्यैव समंत्रकं विभज्य ग्रहणविधानम, उक्तमंत्रसाधने विग्रहणे ग्रहस्य साधारणलक्षणं दोषमुद्भाव्य तद्दोषपरिहाराय यथादेवतं. ग्रहं विगृह्णीयादिति कथनं, यथादेवतमुक्थ्यस्य पर्यायत्रये देवताप्रतिपादकमंत्रप्रदर्शनं, उक्तोक्थ्यपर्यायत्रये शाखा- न्तरीयमतमुपन्यस्य तन्निराकरणं चेत्यादि.


ब्राह्मण ४ ध्रुवग्रहः

४ ध्रुवग्रहः तत्र ध्रुवग्रहमायुरात्मकत्वेन विधातुं प्रस्तावः, एकस्यापि ग्रहस्य निष्पत्त्यभिव्यक्तिस्थानभेदाद्ग्रहद्वैविध्यकथनं, द्विविधयोर्ध्रुववैश्वानरयोर्ग्रहयोः पूर्वं ग्रहणमिति चरकशाखिमतमनूद्य तयोरन्यतरः सोऽपि ध्रुवग्रह एव ग्रहीतव्य इति स्वमतं प्रतिपाद्य चरकशाखिनां मतेनोभयोः पूर्वं ग्रहणे को ध्रुवः को वैश्वानरः इति जिज्ञासायां तत्प्रतिपत्तिप्रकारनिरूपणं ग्रहस्य स्थाल्या ग्रहणमुपपादयितुमायुरात्मकत्वकथनम्, उक्तं स्थाल्या ग्रहणं पूर्णं गृह्णीयादिति विधानं, प्रकृतग्रहस्य देवतासम्बंधप्रदर्शनम्, उपांश्वाद्या ग्रहाः प्रातःसवने एव गृह्यन्ते तत्रैव च हूयन्ते-अयं तु ग्रहस्तृतीयसवनेऽग्निमारुतशस्त्रकाले होतव्य इति निरूपणम्, अग्निष्टोमस्तोत्रावसरे स्वल्पस्यापि सोमशेषस्यानवस्थापनात्तदास्यावनयनप्रसक्तौ सोपपत्तिकं निषेधकथनं, कदा तर्ह्येनमवनयेदित्यपेक्षायामग्निमारुतशंसनकाले ध्रुवग्रहो होतव्य इति तत्कालविधानं, तदानींतनानुष्ठेयधर्मनिरूपणं, तत्र मूत्राद्यवसेचने बाधकथनं, अग्निष्टोमस्तोत्र- पर्यन्तं सदनस्यावश्यकर्तव्यत्वेन प्रशंसनं, तस्यैव पुनराख्यायिकया प्रशंसनं, सोपपत्तिकं सकारणं गृहीतस्य सोमरसस्य देशविशेषसादनविधानं, उक्तयो- रुपकीर्णयोरनुपकीर्णयोर्ग्रहसादनप्रदेशयोः प्रशंसनं, उपकीर्णे ग्रहाणां सादनात्ततो जाताः प्रजाः कथमात्मनोऽन्येन प्रतितिष्ठन्तीति जिज्ञासायां शफैरिति निरूपणम्, अस्य ग्रहस्यापानवाय्वात्मकत्वोपपादनं, ग्रहस्य ध्रुवनामधेयप्राप्तेराख्यायिकया प्रदर्शनम्, सप्रयोजनं ग्रहणमारम्य होमपर्यन्तं रक्षणविधानम्, प्रकारान्तरेण ग्रहणस्य रक्षण- प्रशंसनं, अध्वर्युप्रतिप्रस्थात्रोर्निर्गमनागमनाभ्यां ग्रहस्य वत्सरूपताप्रतिपादनम्, अस्य ग्रहस्यावनयनं विधाय तत्र मन्त्रं विनियुज्य च तद्व्याख्यानं, ग्रहग्रहणमनूद्य तत्र मन्त्रस्य विनियोजनं, विहितं सादनमनूद्य तत्र मंत्रस्य विनियोजनम्, मन्त्रगतवैश्वानरपदप्रयोगोपत्तिनिरूपणं चेत्यादि.


ब्राह्मण ५ विप्रुड्होमम्

४ ध्रुवग्रहः तत्र ध्रुवग्रहमायुरात्मकत्वेन विधातुं प्रस्तावः, एकस्यापि ग्रहस्य निष्पत्त्यभिव्यक्तिस्थानभेदाद्ग्रहद्वैविध्यकथनं, द्विविधयोर्ध्रुववैश्वानरयोर्ग्रहयोः पूर्वं ग्रहणमिति चरकशाखिमतमनूद्य तयोरन्यतरः सोऽपि ध्रुवग्रह एव ग्रहीतव्य इति स्वमतं प्रतिपाद्य चरकशाखिनां मतेनोभयोः पूर्वं ग्रहणे को ध्रुवः को वैश्वानरः इति जिज्ञासायां तत्प्रतिपत्तिप्रकारनिरूपणं ग्रहस्य स्थाल्या ग्रहणमुपपादयितुमायुरात्मकत्वकथनम्, उक्तं स्थाल्या ग्रहणं पूर्णं गृह्णीयादिति विधानं, प्रकृतग्रहस्य देवतासम्बंधप्रदर्शनम्, उपांश्वाद्या ग्रहाः प्रातःसवने एव गृह्यन्ते तत्रैव च हूयन्ते-अयं तु ग्रहस्तृतीयसवनेऽग्निमारुतशस्त्रकाले होतव्य इति निरूपणम्, अग्निष्टोमस्तोत्रावसरे स्वल्पस्यापि सोमशेषस्यानवस्थापनात्तदास्यावनयनप्रसक्तौ सोपपत्तिकं निषेधकथनं, कदा तर्ह्येनमवनयेदित्यपेक्षायामग्निमारुतशंसनकाले ध्रुवग्रहो होतव्य इति तत्कालविधानं, तदानींतनानुष्ठेयधर्मनिरूपणं, तत्र मूत्राद्यवसेचने बाधकथनं, अग्निष्टोमस्तोत्रपर्यन्तं सदनस्यावश्यकर्तव्यत्वेन प्रशंसनं, तस्यैव पुनराख्यायिकया प्रशंसनं, सोपपत्तिकं सकारणं गृहीतस्य सोमरसस्य देशविशेषसादनविधानं, उक्तयो- रुपकीर्णयोरनुपकीर्णयोर्ग्रहसादनप्रदेशयोः प्रशंसनं, उपकीर्णे ग्रहाणां सादनात्ततो जाताः प्रजाः कथमात्मनोऽन्येन प्रतितिष्ठन्तीति जिज्ञासायां शफैरिति निरूपणम्, अस्य ग्रहस्यापानवाय्वात्मकत्वोपपादनं, ग्रहस्य ध्रुवनामधेयप्राप्तेराख्यायिकया प्रदर्शनम्, सप्रयोजनं ग्रहणमारम्य होमपर्यन्तं रक्षणविधानम्, प्रकारान्तरेण ग्रहणस्य रक्षण- प्रशंसनं, अध्वर्युप्रतिप्रस्थात्रोर्निर्गमनागमनाभ्यां ग्रहस्य वत्सरूपताप्रतिपादनम्, अस्य ग्रहस्यावनयनं विधाय तत्र मन्त्रं विनियुज्य च तद्व्याख्यानं, ग्रहग्रहणमनूद्य तत्र मन्त्रस्य विनियोजनं, विहितं सादनमनूद्य तत्र मंत्रस्य विनियोजनम्, मन्त्रगतवैश्वानरपदप्रयोगोपत्तिनिरूपणं चेत्यादि.