शतपथब्राह्मणम्/काण्डम् ४/अध्यायः २/ब्राह्मण ४

विकिस्रोतः तः
Jump to navigation Jump to search

४.२.४ ध्रुवग्रहः

अयं ह वा अस्यैष प्राणः । योऽयं पुरस्तात्स वै वैश्वानर एवाथ योऽयं पश्चात्स ध्रुवस्तौ ह स्मैतौ द्वावेवाग्रे ग्रहौ गृह्णन्ति ध्रुववैश्वानराविति तयोरयमप्येतर्ह्यन्यतर एव गृह्यते ध्रुव एव स यदि तं चरकेभ्यो वा यतो वानुब्रुवीत यजमानस्य तं चमसेऽवनयेदथैतमेव होतृचमसे - ४.२.४.[१]

यद्वा अस्यावाचीनं नाभेः । तदस्यैष आत्मनः सोऽस्यैष आयुरेव तस्मादनया गृह्णात्यस्यै हि स्थाली भवति स्थाल्या ह्येनं गृह्णात्यजरा हीयममृताऽजरं ह्यमृतमायुस्तस्मादनया गृह्णाति - ४.२.४.[२]

तं वै पूर्णं गृह्णाति । सर्वं वै तद्यत्पूर्णं सर्वं तद्यदायुस्तस्मात्पूर्णं गृह्णाति - ४.२.४.[३]

वैश्वानराय गृह्णाति । संवत्सरो वै वैश्वानरः संवत्सर आयुस्तस्माद्वैश्वानराय गृह्णाति - ४.२.४.[४]

स प्रातःसवने गृहीतः । एतस्मात्कालादुपशेते तदेनं सर्वाणि सवनान्यतिनयति - ४.२.४.[५]

तं न स्तूयमानेऽवनयेत् । न ह संवत्सरं यजमानोऽतिजीवेद्यत्स्तूयमानेऽवनयेत् - ४.२.४.[६]

तं शस्यमानेऽवनयति । तदेनं द्वादशं स्तोत्रमतिनयति तथा परम्परमायुः समश्नुते तथो ह यजमानो ज्योग्जीवति तस्माद्ब्राह्मणोऽग्निष्टोमसत्स्यादैतस्य होमान्न सर्पेन्न प्रस्रावयेत तथा सर्वमायुः समश्नुत आयुर्वा अस्यैष तथा सर्वमायुरेति - ४.२.४.[७]

यद्वा अस्यावाचीनं नाभेः । तदस्यैष आत्मनः स यत्पुरैतस्य होमात्सर्पेद्वा प्र वा स्रावयेत ध्रुवं हावमेहेन्नेद्ध्रुवमवमेहानीति तस्माद्वा अग्निष्टोमसद्भवति तद्वै तद्यजमान एव यजमानस्य ह्येष तदात्मनः - ४.२.४.[८]

स वा अग्निष्टोमसद्भवति । यशो वै सोमस्तस्माद्यश्च सोमे लभते यश्चनोभावेवागच्छतो यश एवैतद्द्रष्टुमागच्छन्ति तद्वा एतद्यशो ब्राह्मणाः सम्प्रसृप्यात्मन्दधते यद्भक्षयन्ति स ह यश एव भवति य एवं विद्वान्भक्षयति - ४.२.४.[९]

ते वा एते । सर्पन्त एवाग्निष्टोमसद्ये तद्यशः संनिधाय सर्पन्ति ते पराञ्चो यशसो भवन्ति तदेष परिगृह्यैव पुनरात्मन्यशो धत्ते तेषां हैष एव यशस्वितमो भूत्वा प्रैति य एवं विद्वानग्निष्टोमसद्भवति - ४.२.४.[१०]

देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिर एतस्मिन्यज्ञे प्रजापतौ पितरि संवत्सरेऽस्माकमयं भविष्यत्यस्माकमयं भविष्यतीति - ४.२.४.[११]

ततो देवाः । अर्चन्तः श्राम्यन्तश्चेरुस्त एतदग्निष्टोमसद्यं ददृशुस्त एतेनाग्निष्टोमसद्येन सर्वं यज्ञं समवृञ्जन्तान्तरायन्नसुरान्यज्ञात्तथो एवैष एतेनाग्निष्टोमसद्येन सर्वं यज्ञं संवृङ्क्तेऽन्तरेति सपत्नान्यज्ञात्तस्माद्वा ऽअग्निष्टोमसद्भवति - ४.२.४.[१२]

तं गृहीत्वोत्तरे हविर्धाने सादयति प्राणा वै ग्रहा नेत्प्राणान्मोहयानीत्युपकीर्णे वा इतरान्ग्रहान्सादयत्यथैतं व्युह्य न तृणं चनान्तर्धाय - ४.२.४.[१३]

यद्वा अस्योर्ध्वं नाभेः । तदस्यैत आत्मन उपरीव वै तद्यदूर्ध्वं नाभेरुपरीवैतद्यदुपकीर्णं तस्मादुपकीर्णे सादयत्यथैतं व्युह्य न तृणं चनान्तर्धाय - ४.२.४.[१४]

यद्वा अस्यावाचीनं नाभेः । तदस्यैष आत्मनोऽध इव वै तद्यदवाचीनं नाभेरध इवैतद्यद्व्युह्य न तृणं चनान्तर्धाय तस्मादेतं व्युह्य न तृणं चनान्तर्धाय सादयति - ४.२.४.[१५]

एष वै प्रजापतिः । य एष यज्ञस्तायते यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनु प्रजायन्ते स यानुपकीर्णे सादयति तस्माद्यास्ताननु प्रजाः प्रजायन्ते ता अन्येनात्मनोऽस्यां प्रतितिष्ठन्ति या वै शफैः प्रतितिष्ठन्ति ता अन्येनात्मनोऽस्यां प्रतितिष्ठन्त्यथ यदेतं व्युह्य न तृणं चनान्तर्धाय सादयति तस्माद्या एतमनु प्रजाः प्रजायन्ते या आत्मनैवास्यां प्रतितिष्ठन्ति मनुष्याश्च श्वापदाश्च - ४.२.४.[१६]

तद्वा एतत् । अस्या एवान्यदुत्तरं करोति यदुपकिरति स यानुपकीर्णे सादयति तस्माद्यास्ताननु प्रजाः प्रजायन्ते ता अन्येनैवात्मनोऽस्यां प्रतितिष्ठन्ति शफैः - ४.२.४.[१७]

तद्वा एतत् । आहवनीये जुह्वति पुरोडाशं धानाः करम्भं दध्यामिक्षामिति तद्यथा मुख आसिञ्चेदेवं तदथैष एकरूप उपशेत आप इवैव तस्माद्यदनेन मुखेन नानारूपमशनमश्नात्यथैतेन प्राणेनैकरूपमेव प्रस्रावयतेऽप इवैवाथ यस्माद्ध्रुवो नाम - ४.२.४.[१८]

देवा ह वै यज्ञं तन्वानाः । तेऽसुररक्षसेभ्य आसङ्गाद्बिभयांचक्रुस्तान्दक्षिणतोऽसुररक्षसान्यासेजुस्तेषामेतान्दक्षिणान्ग्रहानुज्जघ्नुरप्येतद्दक्षिणं हविर्धानमुज्जघ्नुरथैतमेव न शेकुरुद्धन्तुं तदुत्तरमेव हविर्धानं दक्षिणं हविर्धानमदृंहत्तद्यदेतं न शेकुरुद्धन्तुं तस्माद्ध्रुवो नाम - ४.२.४.[१९]

तं वै गोपायन्ति । शिरो वा एष एतस्यै गायत्र्यै यज्ञो वै गायत्री द्वादश स्तोत्राणि
द्वादश शस्त्राणि तच्चतुर्विंशतिश्चतुर्विंशत्यक्षरा वै गायत्री तस्या एष शिरः श्रीर्वै शिरः श्रीर्हि वै शिरस्तस्माद्योऽर्धस्य श्रेष्ठो भवत्यसावमुष्यार्धस्य शिर इत्याहुः श्रेष्ठो ह व्यथेत यदेष व्यथेत यजमानो वै श्रेष्ठो नेद्यजमानो व्यथाता इति तस्माद्वै गोपायन्ति - ४.२.४.[२०]

वत्सो वा एषः । एतस्यै गायत्र्यै यज्ञो वै गायत्री द्वादश स्तोत्राणि द्वादश शस्त्राणि
तच्चतुर्विंशतिश्चतुर्विंशत्यक्षरा वै गायत्री तस्या एष वत्सस्तं यद्गोपायन्ति गोपायन्ति वा इमान्वत्सान्दोहाय यदिदं पयो दुह्र एवमियं गायत्री यजमानाय सर्वान्कामान्दोहाता इति तस्माद्वै गोपायन्ति - ४.२.४.[२१]

अथ यदध्वर्युश्च प्रतिप्रस्थाता च । निश्च क्रामतः प्र च पद्येते यथा बद्धवत्सोपाचरेदेवमेतं ग्रहमुपाचरतस्तमवनयति गायत्रीमेवैतत्प्रस्रावयति प्रत्तेयं गायत्री यजमानाय सर्वान्कामान्दोहाता इति तस्माद्वा अवनयति - ४.२.४.[२२]

सोऽवनयति । ध्रुवं ध्रुवेण मनसा वाचा सोममवनयामीति गृह्णामीति वाथा न इन्द्र इद्विशोऽसपत्नाः समनसस्करदिति यथा न इन्द्र इमाः प्रजा विशः श्रियै यशसेऽन्नाद्यायासपत्नाः संमनसः करवदित्येवैतदाह - ४.२.४.[२३]

अथातो गृह्णात्येव । मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् ।
कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः । उपयामगृहीतोऽसि ध्रुवोऽसि ध्रुवक्षितिर्ध्रुवाणां ध्रुवतमोऽच्युतानामच्युतक्षित्तम एष ते योनिर्वैश्वानराय त्वेति(वा.सं. ७.२४ ) सादयति व्युह्य न तृणं चनान्तर्धाय वैश्वानराय ह्येनं गृह्णाति - ४.२.४.[२४]