शतपथब्राह्मणम्/काण्डम् ४/अध्यायः २/ब्राह्मण २

विकिस्रोतः तः
Jump to navigation Jump to search
आग्रयण स्थाली

४.२.२ आग्रयणग्रहः

आत्मा ह वा अस्याग्रयणः । सोऽस्यैष सर्वमेव सर्वं ह्ययमात्मा तस्मादनया गृह्णात्यस्यै हि स्थाली भवति स्थाल्या ह्येनं गृह्णाति सर्वं वा इयं सर्वमेष ग्रहस्तस्मादनया गृह्णाति - ४.२.२.[१]

पूर्णं गृह्णाति । सर्वं वै पूर्णं सर्वमेष ग्रहस्तस्मात्पूर्णं गृह्णाति - ४.२.२.[२]

विश्वेभ्यो देवेभ्यो गृह्णाति । सर्वं वै विश्वे देवाः सर्वमेषग्रहस्तस्माद्विश्वेभ्यो देवेभ्यो गृह्णाति - ४.२.२.[३]

सर्वेषु सवनेषु गृह्णाति । सर्वं वै सवनानि सर्वमेष ग्रहस्तस्मात्सर्वेषु सवनेषु गृह्णाति - ४.२.२.[४]

स यदि राजोपदस्येत् । तमत एव तन्वीरन्नतः प्रभावयेयुरात्मा वा आग्रयण आत्मनो वा इमानि सर्वाण्यङ्गानि प्रभवन्त्येतस्मादन्ततो हारियोजनं ग्रहं गृह्णाति तदात्मन्येवास्यां प्रतिष्ठायामन्ततो यज्ञः प्रतितिष्ठति - ४.२.२.[५]

अथ यस्मादाग्रयणो नाम । यां वा अमूं ग्रावाणमाददानो वाचं यच्छत्यत्र वै साग्रेऽवदत्तद्यत्सात्राग्रेऽवदत्तस्मादाग्रयणो नाम - ४.२.२.[६]

रक्षोभ्यो वै तां भीषा वाचमयच्छन् । षड्वा अतः प्राचो ग्रहान्गृह्णात्यथैष सप्तमः षड्वा ऋतवः संवत्सरस्य सर्वं वै संवत्सरः - ४.२.२.[७]

तां देवाः । सर्वस्मिन्विजितेऽभयेऽनाष्ट्रेऽत्राग्रे वाचमवदंस्तथो एवैष एतां सर्वस्मिन्विजितेऽभयेऽनाष्ट्रेऽत्राग्रे वाचं वदति - ४.२.२.[८]

अथातो गृह्णात्येव । ये देवासो दिव्येकादश स्थ पृथिव्यामध्येकादश स्थ अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञमिमं जुषध्वमुपयामगृहीतोऽस्याग्रयणोऽसि स्वाग्रयण इति वाचमेवैतदयातयाम्नीं करोति तस्मादनया समानं सद्विपर्यासं वदत्यजामितायै जामि ह कुर्याद्यदाग्रयणोऽस्याग्रयणोऽसीति गृह्णीयात्तस्मादाहाग्रयणोऽसि स्वाग्रयण इति - ४.२.२.[९]

पाहि यज्ञं पाहि यज्ञपतिमिति । वाचमेवैतदुत्सृष्टामाह गोपाय यज्ञमिति पाहि यज्ञपतिमिति वाचमेवैतदुत्सृष्टामाह गोपाय यजमानमिति यजमानो हि यज्ञपतिर्विष्णुस्त्वामिन्द्रियेण पातु विष्णुं त्वं पाहीति वाचमेवैतदुत्सृष्टामाह यज्ञो वै विष्णुर्यज्ञस्त्वां वीर्येण गोपायत्विति विष्णुं त्वं पाहीति वाचमेवैतदुत्सृष्टामाह यज्ञं त्वं गोपायेत्यभि सवनानि पाहीति तदेतं ग्रहमाह सर्वाणि ह्येष सवनानि प्रति - ४.२.२.[१०]

अथ दशापवित्रमुपगृह्य हिङ्करोति । सा हैषा वागनुद्यमाना तताम तस्यां देवा वाचि तान्तायां हिङ्कारेणैव प्राणमदधुः प्राणो वै हिङ्कारः प्राणो हि वै हिङ्कारस्तस्मादपिगृह्य नासिके न हिङ्कर्तुं शक्नोति सैतेन प्राणेन समजिहीत यदा वै तान्तः प्राणं लभतेऽथ स संजिहीते तथो एवैष एतद्वाचि तान्तायां हिङ्कारेणैव प्राणं दधाति सैतेन प्राणेन संजिहीते त्रिष्कृत्वो हिङ्करोति त्रिवृद्धि यज्ञः - ४.२.२.[११]

अथाह सोमः पवत इति । स यामेवामूं भीषाऽसुररक्षसेभ्यो न निरब्रुवंस्तामेवैतत्सर्वस्मिन्विजितेऽभयेऽनाष्ट्रेऽत्र निराह तामाविष्करोति तस्मादाह सोमः पवत इति - ४.२.२.[१२]

अस्मै ब्रह्मणेऽस्मै क्षत्रायेति । तद्ब्रह्मणे च क्षत्राय चाहास्मै सुन्वते यजमानाय पवत इति तद्यजमानायाह - ४.२.२.[१३]

तदाहुः । एतावदेवोक्त्वा सादयेदेतावद्वा इदं सर्वं यावद्ब्रह्म क्षत्रं विडिन्द्राग्नी वा इदं सर्वं तस्मादेतावदेवोक्त्वा सादयेदिति - ४.२.२.[१४]

तदु ब्रूयादेव भूयः । इष ऊर्जे पवत इति वृष्ट्यै तदाह यदाहेष इत्यूर्ज इति यो वृष्टादूर्ग्रसो जायते तस्मै तदाहाद्भ्य ओषधीभ्यः पवत इति तदद्भ्यश्चौषधीभ्यश्चाह द्यावापृथिवीभ्यां पवत इति तदाभ्यां द्यावापृथिवीभ्यामाह ययोरिदं सर्वमधि सुभूताय पवत इति साधवे पवत इत्येवैतदाह - ४.२.२.[१५]

तदु हैक आहुः । ब्रह्मवर्चसाय पवत इति तदु तथा न ब्रूयाद्यद्वा आहास्मै ब्रह्मण इति तदेव ब्रह्मवर्चसायाह विश्वेभ्यस्त्वा देवेभ्य एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति विश्वेभ्यो ह्येनं देवेभ्यो गृह्णाति तं वै मध्ये सादयत्यात्मा ह्यस्यैष मध्य इव ह्ययमात्मा दक्षिणोक्थ्यस्थाली भवत्युत्तरादित्यस्थाली - ४.२.२.[१६]