शतपथब्राह्मणम्/काण्डम् ४/अध्यायः २/ब्राह्मण ५

विकिस्रोतः तः
Jump to navigation Jump to search

४.२.५ विप्रुड्होमम्

ग्रहान्गृहीत्वा । उपनिष्क्रम्य विप्रुषां होमं जुहोति तद्यद्विप्रुषां होमं जुहोति या एवास्यात्र विप्रुष स्कन्दन्ति ता एवैतदाहवनीये स्वगाकरोत्याहवनीयो ह्याहुतीनां प्रतिष्ठा तस्माद्विप्रुषां होमं जुहोति - ४.२.५.[१]

स जुहोति । यस्ते द्रप्स स्कन्दति यस्ते अंशुरिति यो वै स्तोक स्कन्दति स द्रप्सस्तत्तमाह यस्ते अंशुरिति तदंशुमाह ग्रावच्युतो धिषणयोरुपस्थादिति ग्राव्णा हि च्युतोऽधिषवणाभ्यां स्कन्दत्यध्वर्योर्वा परि वा यः पवित्रादित्यध्वर्योर्वा हि पाणिभ्यां स्कन्दति पवित्राद्वा तं ते जुहोमि मनसा वषट्कृतं स्वाहेति तद्यथा वषट्कृतं हुतमेवमस्यैतद्भवति - ४.२.५.[२]

अथ स्तीर्णायै वेदेः । द्वे तृणे अध्वर्युरादत्ते तावध्वर्यू प्रथमौ प्रतिपद्येते प्राणोदानौ यज्ञस्याथ प्रस्तोता वागेव यज्ञस्याथोद्गातात्मैव प्रजापतिर्यज्ञस्याथ प्रतिहर्ता भिषग्वा व्यानो वा - ४.२.५.[३]

तान्वा एतान् । पञ्चर्त्विजो यजमानोऽन्वारभत एतावान्वै सर्वो यज्ञो यावन्त एते पञ्चर्त्विजो भवन्ति पाङ्क्तो वै यज्ञस्तद्यज्ञमेवैतद्यजमानोऽन्वारभते - ४.२.५.[४]

अथान्यतरत्तृणम् । चात्वालमभिप्रास्यति देवानामुत्क्रमणमसीति यत्र वै देवा यज्ञेन स्वर्गं लोकं समाश्नुवत त एतस्माच्चात्वालादूर्ध्वाः स्वर्गंलोकमुपोदक्रामंस्तद्यजमानमेवैतत्स्वर्ग्यं पन्थानमनुसंख्यापयति - ४.२.५.[५]

अथान्यतरत्तृणम् । पुरस्तादुद्गातॄणामुपास्यति तूष्णीमेव स्तोमो वा एष प्रजापतिर्यदुद्गातारः स इदं सर्वं युत इदं सर्वं सम्भवति तस्मा एवैतत्तृणमपिदधाति तथो हाध्वर्युं न युते नैनं सम्भवत्यथ यदा जपन्ति जपन्ति ह्यत्रोद्गातारः - ४.२.५.[६]

अथ स्तोत्रमुपाकरोति । सोमः पवत इति स वै परागेव स्तोत्रमुपाकरोति पराञ्च स्तुवते देवान्वा एतानि स्तोत्राण्यभ्युपावृत्तानि यत्पवमानाः पराञ्चो ह्येतैर्देवाः स्वर्गं लोकं समाश्नुवत तस्मात्परागेव स्तोत्रमुपाकरोति पराञ्च स्तुवते - ४.२.५.[७]

उपावर्तध्वमिति वा अन्यानि स्तोत्राणि । अभ्यावर्तं धुर्यै स्तुवत इमा वै प्रजा एतानि
स्तोत्राण्यभ्युपावृत्तास्तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्ते - ४.२.५.[८]

अथ यदत्र बहिष्पवमानेन स्तुवते । अत्र ह वा असावग्र आदित्य आस तमृतवः परिगृह्यैवात ऊर्ध्वाः स्वर्गं लोकमुपोदक्रामन्त्स एष ऋतुषु प्रतिष्ठितस्तपति तथो एवैतदृत्विजो यजमानं परिगृह्यैवात ऊर्ध्वाः स्वर्गं लोकमुपोत्क्रामन्ति तस्मादत्र बहिष्पवमानेन स्तुवते - ४.२.५.[९]

नौर्ह वा एषा स्वर्ग्या । यद्बहिष्पवमानं तस्या ऋत्विज एव स्फ्याश्चारित्राश्च स्वर्गस्य लोकस्य सम्पारणास्तस्या एक एव मज्जयिता य एव निन्द्यः स यथा पूर्णामभ्यारुह्य मज्जयेदेवं हैनां स मज्जयति तद्वै सर्व एव यज्ञो नौः स्वर्ग्या तस्मादु सर्वस्मादेव यज्ञान्निन्द्यं परिबिबाधिषेत - ४.२.५.[१०]

अथ स्तुत एतां वाचं वदति । अग्नीदग्नीन्विहर बर्हि स्तृणीहि पुरोडाशां अलंकुरु पशुनेहीति विहरत्यग्नीदग्नीन्त्समिन्द्ध एवैनानेतत्स्तृणाति बर्हिः स्तीर्णे बर्हिषि समिद्धे देवेभ्यो जुहवानीति पुरोडाशां अलंकुर्विते पुरोडाशैर्हि प्रचरिष्यन्भवति पशुनेहीति पशुं ह्युपाकरिष्यन्भवति - ४.२.५.[११]

अथ पुनः प्रपद्य । आश्विनं ग्रहं गृह्णात्याश्विनं ग्रहं गृहीत्वोपनिष्क्रम्य यूपं परिव्ययति परिवीय यूपं पशुमुपाकरोति रसमेवास्मिन्नेतद्दधाति - ४.२.५.[१२]

स प्रातःसवन आलब्धः । आ तृतीयसवनाच्छ्रप्यमाण उपशेते सर्वस्मिन्नेवैतद्यज्ञे रसं दधाति सर्वं यज्ञं रसेन प्रसजति - ४.२.५.[१३]

तस्मादाग्नेयमग्निष्टोम आलभते । तद्धि सलोम यदाग्नेयमग्निष्टोम आलभेत यद्युक्थ्यः स्यादैन्द्राग्नं द्वितीयमालभेतैन्द्राग्नानि ह्युक्थानि यदि षोडशी स्यादैन्द्रं तृतीयमालभेतेन्द्रो हि षोडशी यद्यतीरात्रः स्यात्सारस्वतं चतुर्थमालभेत वाग्वै सरस्वती योषा वै वाग्योषा रात्रिस्तद्यथायथं यज्ञक्रतून्व्यावर्तयति - ४.२.५.[१४]

अथ सवनीयैः पुरोडाशैः प्रचरति । देवो वै सोमो दिवि हि सोमो वृत्रो वै सोम आसीत्तस्यैतच्छरीरं यद्गिरयो यदश्मानस्तदेषोशाना नामौषधिर्जायत इति ह स्माह
श्वेतकेतुरौद्दालकिस्तामेतदाहृत्याभिषुण्वन्तीति - ४.२.५.[१५]

स यत्पशुमालभते । रसमेवास्मिन्नेतद्दधात्यथ यत्सवनीयैः पुरोडाशैः प्रचरति मेधमेवास्मिन्नेतद्दधाति तथो हास्यैष सोम एव भवति - ४.२.५.[१६]

सर्व ऐन्द्रा भवन्ति । इन्द्रो वै यज्ञस्य देवता तस्मात्सर्व ऐन्द्रा भवन्ति - ४.२.५.[१७]

अथ यत्पुरोडाशः धानाः करम्भो दध्यामिक्षेति भवति या यज्ञस्य देवतास्ताः सुप्रीता असन्निति - ४.२.५.[१८]

इदं वा अपूपमशित्वा कामयते । धानाः खादेयं करम्भमश्नीयां दध्यश्नीयामामिक्षामश्नीयामिति ते सर्वे कामा या यज्ञस्य देवतास्ताः सुप्रीता असन्नित्यथ यदेषा प्रातःसवन एव मैत्रावरुणी पयस्यावकॢप्ता भवति नेतरयोः सवनयोः - ४.२.५.[१९]

गायत्री वै प्रातःसवनं वहति । त्रिष्टुम्माध्यन्दिनं सवनं जगती तृतीयसवनं तद्वा अनेकाकिन्येव त्रिष्टुम्माध्यन्दिनं सवनं वहति गायत्र्या च बृहत्या चानेकाकिनी जगती तृतीयसवनं गायत्र्योष्णिहककुब्भ्यामनुष्टुभा - ४.२.५.[२०]

गायत्र्येवैकाकिनी प्रातःसवनं वहति । सैताभ्यां पङ्क्तिभ्यां स्तोत्रपङ्क्त्या च हविष्पङ्क्त्या च चत्वार्याज्यानि बहिष्पवमानं पञ्चमं पञ्चपदा पङ्क्तिः सैतया स्तोत्रपङ्क्त्यानेकाकिनी गायत्री प्रातःसवनं वहति - ४.२.५.[२१]

इन्द्रस्य पुरोडाशः । हर्योर्धानाः पूष्णः करम्भः सरस्वत्यै दधि मित्रावरुणयोः पयस्या पञ्चपदा पङ्क्तिः सैतया हविष्पङ्क्त्यानेकाकिनी गायत्री प्रातःसवनं वहत्येतस्या एव पङ्क्तेः सम्पदः कामाय प्रातःसवन एवैषा मैत्रावरुणी पयस्यावकॢप्ता भवति नेतरयोः सवनयोः - ४.२.५.[२२]