शतपथब्राह्मणम्/काण्डम् ४/अध्यायः २/ब्राह्मण १

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
शुक्रामन्थिनौ ग्रहौ

४.२.१ शुक्रामन्थिनौ ग्रहौ

चक्षुषी ह वा अस्य शुक्रामन्थिनौ । तद्वा एष एव शुक्रो य एष तपति तद्यदेष एतत्तपति तेनैष शुक्रश्चन्द्रमा एव मन्थी - ४.२.१.१

तं सक्तुभिः श्रीणाति । तदेनं मन्थं करोति तेनो एष मन्थ्येतौ ह वा आसाम्प्रजानां चक्षुषी स यद्धैतौ नोदियातां न हैवेह स्वौ चन पाणी निर्जानीयुः - ४.२.१.२

तयोरत्तैवान्यतरः । आद्योऽन्यतरोऽत्तैव शुक्र ऽआद्यो मन्थी - ४.२.१.३

तयोरत्तैवान्यतरमनु । आद्योऽन्यतरमन्वत्तैव शुक्रमन्वाद्यो मन्थिनमनु तौ वा अन्यस्मै गृह्येते अन्यस्मै हूयेते शण्डामर्कावित्यसुररक्षसे ताभ्यां गृह्येते देवताभ्यो हूयेते तद्यत्तथा - ४.२.१.४

यत्र वै देवाः । असुररक्षसान्यपजघ्निरे तदेतावेव न शेकुरपहन्तुं यद्ध स्म देवाः किं च कर्म कुर्वते तद्ध स्म मोहयित्वा क्षिप्र एव पुनरपद्रवतः - ४.२.१.५

ते ह देवा ऊचुः । उपजानीत यथेमावपहनामहा इति ते होचुर्ग्रहावेवाभ्यां गृह्णाम तावभ्यवैष्यतस्तौ स्वीकृत्यापहनिष्यामह इति ताभ्यां ग्रहौ जगृहुस्तावभ्यवैतां तौ स्वीकृत्यापाघ्नत तस्माच्छण्डामर्काभ्यामिति गृह्येते देवताभ्यो हूयेते - ४.२.१.६

अपि होवाच याज्ञवल्क्यः । नो स्विद्देवताभ्य एव गृह्णीयामा ३ विजितरूपमिव हीदमिति तद्वै स तन्मीमांसामेव चक्रे नेत्तु चकार - ४.२.१.७

इमामु हैके शुक्रस्य पुरोरुचं कुर्वन्ति । अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमान इति तदेतस्य रूपं कुर्मो य एष तपतीति यदाह ज्योतिर्जरायुरिति - ४.२.१.८

इमां त्वेव शुक्रस्य पुरोरुचं कुर्यात् । तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदं स्वर्विदमित्यत्ता ह्येतमन्वत्ता हि ज्येष्ठस्तस्मादाह ज्येष्ठतातिं बर्हिषदं स्वर्विदं प्रतीचीनं वृजनं दोहसे धुनिमाशुं जयन्तमनु यासु वर्धसे उपयामगृहीतोऽसि शण्डाय त्वैष ते योनिर्वीरतां पाहीति सादयत्यत्ता ह्येतमन्वत्ता हि वीरस्तस्मादाहैष ते योनिर्वीरतां पाहीति दक्षिणार्धे सादयत्येतां ह्येष दिशमनु संचरति - ४.२.१.९

अथ मन्थिनं गृह्णाति । अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने इममपां संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति उपयामगृहीतोऽसि मर्काय त्वेति - ४.२.१.१०

तं सक्तुभिः श्रीणाति । तद्यत्सक्तुभिः श्रीणाति वरुणो ह वै सोमस्य राज्ञोऽभीवाक्षि प्रतिपिपेष तदश्वयत्ततोऽश्वः समभवत्तद्यच्छ्वयथात्समभवत्तस्मादश्वो नाम तस्याश्रु प्रास्कन्दत्ततो यवः समभवत्तस्मादाहुर्वरुण्यो यव इति तद्यदेवास्यात्र चक्षुषोऽमीयत तेनैवैनमेतत्समर्धयति कृत्स्नं करोति तस्मात्सक्तुभिः श्रीणाति - ४.२.१.११

स श्रीणाति । मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्रवन्ता आ यः शर्याभिस्तुविनृम्णो अस्याश्रीणीतादिशं गभस्तावेष ते योनिः प्रजाः पाहीतिसादयत्याद्यो ह्येतमन्वाद्या हीमाः प्रजा विशस्तस्मादाहैष ते योनिः प्रजाः पाहीति - ४.२.१.१२

द्वौ प्रोक्षितौ यूपशकलौ भवतः । द्वावप्रोक्षितौ प्रोक्षितं चैवाध्वर्युरादत्तेऽप्रोक्षितं चैवमेव प्रतिप्रस्थाता प्रोक्षितं चैवादत्तेऽप्रोक्षितं च शुक्रमेवाध्वर्युरादत्ते मन्थिनं प्रतिप्रस्थाता - ४.२.१.१३

सोऽध्वर्युः । अप्रोक्षितेन यूपशकलेनापमार्ष्ट्यपमृष्टः शण्ड इत्येवमेव प्रतिप्रस्थातापमृष्टौ मर्क इति तदाददानावेवासुररक्षसे अपहतो देवास्त्वा शुक्रपाः प्रणयन्त्वित्येवाध्वर्युर्निष्क्रामति देवास्त्वा मन्थिपाः प्रणयन्त्विति प्रतिप्रस्थाता तदेतौ देवताभ्य एव प्रणयतः - ४.२.१.१४

तौ जघनेनाहवनीयमरत्नी संधत्तः । ता उत्तरवेदौ सादयतो दक्षिणायामेव श्रोणावध्वर्युः सादयत्युत्तरायां प्रतिप्रस्थाता अननुसृजन्तावेवानाधृष्टासीति तद्रक्षोभिरेवैतदुत्तरवेदिमनाधृष्टां कुरुतो विपर्येष्यन्तौ वा एतावग्निम्भवतोऽत्येष्यन्तौ तस्मा एवैतन्निह्नुवाते तथो हैनौ विपरियन्तावग्निर्न हिनस्ति - ४.२.१.१५

सोऽध्वर्युः पर्येति । सुवीरो वीरान्प्रजनयन्परीहीत्यत्ता ह्येतमन्वत्ता हि वीरस्तस्मादाह सुवीरो वीरान्प्रजनयन्परीहीत्यभि रायस्पोषेण यजमानमिति तद्यजमानायाशिषमाशास्ते यदाहाभि रायस्पोषेण यजमानमिति - ४.२.१.१६

अथ प्रतिप्रस्थाता पर्येति । सुप्रजाः प्रजाः प्रजनयन्परीहीत्याद्यो ह्येतमन्वाद्या हीमाः प्रजा विशस्तस्मादाह सुप्रजाः प्रजाः प्रजनयन्परीहीत्यभि रायस्पोषेण यजमानमिति तद्यजमानायाशिषमाशास्ते यदाहाभि रायस्पोषेण यजमानमिति - ४.२.१.१७

तावपिधाय निष्क्रामतः । तिर एवैनावेतत्कुरुतस्तस्मादिमौ सूर्याचन्द्रमसौ प्राञ्चौ यन्तौ न कश्चन पश्यति तौ पुरस्तात्परीत्यापोर्णुतः पुरस्तात्तिष्ठन्तौ जुहुत आविरेवैनावेतत्कुरुतस्तस्मादिमौ सूर्याचन्द्रमसौ प्रत्यञ्चौ यन्तौ सर्व एव पश्यति तस्मात्पराग्रेतः सिच्यमानं न कश्चन पश्यति तदु पश्चात्प्रजायमानं सर्व एव पश्यति - ४.२.१.१८

तौ जघनेन यूपमरत्नी संधत्तः । यद्यग्निर्नोद्बाधेत यद्यु अग्निरुद्बाधेताप्यग्रेणैव यूपमरत्नी संदध्यातां संजग्मानो दिवा पृथिव्याशुक्रः शुक्रशोचिषेत्येवाध्वर्युः संजग्मानो दिवा पृथिव्या मन्थी मन्थिशोचिषेति प्रतिप्रस्थाता चक्षुषोरेवैते आरमणे कुरुतश्चक्षुषी एवैतत्संधत्तस्तस्मादिमे अभितोऽस्थिनी चक्षुषी संहिते - ४.२.१.१९

सोऽध्वर्युः । अप्रोक्षितं यूपशकलं निरस्यति निरस्तः [१]शण्ड इत्येवमेव प्रतिप्रस्थाता निरस्तो मर्क इति तत्पुराहुतिभ्योऽसुररक्षसे अपहतः - ४.२.१.२०

अथाध्वर्युः । प्रोक्षितं यूपशकलमाहवनीये प्रास्यति शुक्रस्याधिष्ठानमसीत्येवमेव प्रतिप्रस्थाता मन्थिनोऽधिष्ठानमसीति चक्षुषोरेवैते समिधौ चक्षुषी एवैतत्समिन्द्धे तस्मादिमे समिद्धे चक्षुषी - ४.२.१.२१

तत्र जपति । अच्छिन्नस्य ते देव सोम सुवीर्यस्य रायस्पोषस्य ददितारः स्यामेत्याशीरेवैषैतस्य कर्मण आशिषमेवैतदाशास्ते - ४.२.१.२२

अथाश्राव्याह । प्रातःप्रातः सवस्य शुक्रवतो मधुश्चुत इन्द्राय सोमान्प्रस्थितान्प्रेष्येति वषट्कृतेऽध्वर्युर्जुहोति तदनु प्रतिप्रस्थाता तदनु चमसाध्वर्यवः - ४.२.१.२३

तौ वै पुरस्तात्तिष्ठन्तौ जुहुतः । चक्षुषी वा एतौ तत्पुरस्तादेवैतच्चक्षुषी धत्तस्तस्मादिमे पुरस्ताच्चक्षुषी - ४.२.१.२४

अभितो यूपं तिष्ठन्तौ जुहुतः । यथा वै नासिकैवं यूपस्तस्मादिमे अभितो नासिकां चक्षुषी - ४.२.१.२५

तौ वै वषट्कृतौ सन्तौ मन्त्रेण हूयते । एतेनो हैतौ तदुदश्नुवाते यदेनौ सर्वं सवनमनुहूयते यद्वेवैतौ सर्वं सवनमनुहूयत एतौ वै प्रजापतेः प्रत्यक्षतमां चक्षुषी ह्येतौ सत्यं वै चक्षुः सत्यं हि प्रजापतिस्तस्मादेनौ सर्वं सवनमनुहूयते - ४.२.१.२६

स जुहोति । स प्रथमा संस्कृतिर्विश्ववारा स प्रथमो वरुणो मित्रो अग्निः स प्रथमो बृहस्पतिश्चिकित्वांस्तस्मा इन्द्राय सुतमाजुहोत स्वाहेति - ४.२.१.२७

स यज्जुहोति । सा प्रथमा स प्रथम इति शश्वद्ध वै रेतसः सिक्तस्य चक्षुषी एव प्रथमे सम्भवतस्तस्माज्जुहोति सा प्रथमा इति - ४.२.१.२८

अथ सम्प्रेष्यति । प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातॄणां प्रयजमानस्य प्रयन्तु सदस्यानां होत्राणां चमसाध्वर्यव उपावर्तध्वं शुक्रस्याभ्युन्नयध्वमिति सम्प्रैष एवैष पर्येत्य प्रतिप्रस्थाताध्वर्योः पात्रे संस्रवमवनयत्यत्त्र एवैतदाद्यं बलिं हारयति तमध्वर्युर्होतृचमसेऽवनयति भक्षाय वषट्कर्तुर्हि भक्षः प्राणो वै वषट्कारः सोऽस्मादेतद्वषट्कुर्वतः पराङिवाभूत्प्राणो वै भक्षस्तत्प्राणं पुनरात्मन्धत्ते - ४.२.१.२९

अथ यदेते प्रतीची पात्रे न हरन्ति । हरन्त्यन्यान्ग्रहांश्चक्षुषी ह्येते संस्रवमेव होतृचमसेऽवनयति - ४.२.१.३०

अथ होत्राणां चमसानभ्युन्नयन्ति । हुतोच्छिष्टा वा एते संस्रवा भवन्ति नालमाहुत्यै तानेवैतत्पुनराप्याययन्ति तथाऽलमाहुत्यै भवन्ति तस्माद्धोत्राणां चमसानभ्युन्नयन्ति - ४.२.१.३१

अथ होत्राः संयाजयन्ति । होत्रा ह वै युक्ता देवेभ्यो यज्ञं वहन्ति ता एवैतत्संतर्पयन्ति तृप्ताः प्रीता देवेभ्यो यज्ञं वहानिति तस्माद्धोत्राः संयाजयन्ति - ४.२.१.३२

स प्रथमायां वा होत्रायाम् । इष्टायामुत्तमायां वानुमन्त्रयते तृम्पन्तु होत्रा मध्वो याः स्विष्टा याः सुप्रीताः सुहुता यत्स्वाहेति होत्राणामेवैषा तृप्तिरथेत्य प्रत्यङ्ङुपविशत्ययाडग्नीदित्यग्नीद्ध्यत्र यजतामुत्तमः संयजति तस्मादाहायाडग्नीदिति - ४.२.१.३३


[सम्पाद्यताम्]

  1. आधुनिकचिकित्साविज्ञाने अस्थिमज्जा(बोनमैरो)याः एका संज्ञा एपोप्टिक भवति। एपोप्टिकशब्दस्य अर्थं भवति यत् अस्थिमज्जायाः एकः अंशः नवीनकोशिकानां जनने असमर्थः अस्ति। अपोप्टिकमज्जायाः वैदिकसंज्ञा शण्डः अस्ति, अयं प्रस्तावः। शण्डः अर्थात् नपुंसकः। एवमेव, मर्कशब्दस्य अर्थः मरणअर्थे अस्ति।