रघुवंशम्/अष्टमः सर्गः

विकिस्रोतः तः
Jump to navigation Jump to search
← सप्तमः सर्गः रघुवंशम्
अष्टमसर्गः
कालिदासः
नवमः सर्गः →
रघुवंशस्य सर्गाः
  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः
  14. चतुर्दशः सर्गः
  15. पञ्चदशः सर्गः
  16. षोडशः सर्गः
  17. सप्तदशः सर्गः
  18. अष्टादशः सर्गः
  19. एकोनविंशः सर्गः

अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः ।
वसुधां अपि हस्तगामिनीं अकरोदिन्दुमतीं इवापरां । । ८.१ । ।

दुरितैरपि कर्तुं आत्मसात्प्रयतन्ते नृपसूनवो हि यथ् ।
तदुपस्थितं अग्रहीदजः पितुराज्ञेति न भोगतृष्णया । । ८.२ । ।

अनुभूय वसिष्ठसंभृतैः सलिलैस्तेन सहाभिषेचनं ।
विशदोच्छवसितेन मेदिनी कथयां आस कृतार्थतां इव । । ८.३ । ।

स बभूव दुरासदः परैर्गुरुणाथर्वविदा कृतक्रियः ।
पवनाग्निसमागमो ह्ययं सहितं ब्रह्म यदस्त्रतेजसा । । ८.४ । ।

रघुं एव निवृत्तयौवनं तं अमन्यन्त नवेश्वरं प्रजाः ।
स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान्गुणानपि । । ८.५ । ।

अधिकं शुशुभे शुभंयुना द्वितयेन द्वयं एव संगतं ।
पदं ऋद्धं अजेन पैतृकं विनयेनास्य नवं च यौवनं । । ८.६ । ।

सदयं बुभुजे महाभुजः सहसोद्वेगं इयं व्रजेदिति ।
अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूं इव । । ८.७ । ।

अहं एव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयथ् ।
उदधेरिव निमगाशतेष्वभवन्नास्य विमानना क्वचिथ् । । ८.८ । ।

न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहानिव ।
स पुरस्कृतमध्यमक्रमो नमयां आस नृपाननुद्धरन् । । ८.९ । ।

अथ वीक्स्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजं आत्मवत्तया ।
विषयेषु विनाशधर्मसु त्रिदिवस्तेष्वपि निःस्पृहोऽभवथ् । । ८.१० । ।

गुणवत्सुतरोपितश्रियः परिणामे हि दिलीपवंशजाः ।
पदवीं तरुवल्कवाससां प्रयताः संयमिनां प्रपेदिरे । । ८.११ । ।

तं अरण्यसमाश्रयोन्मुखं शिरसा वेष्टनशोभिना सुतः ।
पितरं प्रणिपत्य पादयोरपरित्यागं अयाचतात्मनः । । ८.१२ । ।

रघुरश्रुमुखस्य तस्य तत्कृतवानीप्सितं आत्मजप्रियः ।
न तु सर्प इव त्वचं पुनः प्रतिपेदे व्यपवर्जितां श्रियं । । ८.१३ । ।

स कीलश्रमं अन्त्यं आश्रितो निवसन्नावसथे पुराद्बहिः ।
समुपास्यत पुत्रभोग्यया स्नूषयेवाविकृतेन्द्रियः श्रिया । । ८.१४ । ।

प्रशमस्थितपूर्वपार्थिवं कुलं अभ्युद्यत नूतनेश्वरं ।
नभसा निभृतेन्दुना तुलां उदितार्केण समारुरोह तथ् । । ८.१५ । ।

यतिपार्थिवलिङ्गधारिणौ ददृशते रघुराघवौ जनैः ।
अपवर्गमहोदयार्थयोर्भुवं अंशाविव धर्मयोर्गतौ । । ८.१६ । ।

अजिताधिगमाय मन्त्रिभिर्युयुजे नीतिविशरदैरजः ।
अनपायिपदोपलब्धये रघुराप्तैः समियाय योगिभिः । । ८.१७ । ।

समयुजय्त भूपतिर्युवा सचिवैः प्रत्यहं अर्थसिद्धये ।
अपुनर्जननोपत्तये प्रययाः संयमिभिर्मनीषिभिः । । ८.१७* । ।

नृपतिः प्रकृतीरवेक्षितुं व्यवहारासनं आददे युवा ।
परिचेतुं उपांशु धारणां कुशपूतं प्रवयास्तु विष्टरं । । ८.१८ । ।

अनुरण्जयितुं प्रजाः प्रभुर्व्यहारासनं आददे नवः ।
अपरः शुचिविष्टरस्थितः परिचेतुं यतते स्म धारणाः । । ८.१८* । ।

अनयत्प्रभुशक्तिसंपदा वशं एको नृपतीननन्तरान् ।
अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान् । । ८.१९ । ।

नयचक्षुरजो दिदृक्षया पररन्ध्रस्य ततान मण्डले ।
हृदये समरोपयन्मनः परमं ज्योतिरवेक्षितुं रघुः । । ८.१९* । ।

अकरोदचिरेश्वरः क्षितौ द्विषदारम्भफलानि भस्मसाथ् ।
अपरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना । । ८.२० । ।

पणबन्धमुखान्गुणानजः षडुपायुङ्क्त समीक्ष्य तत्फलं ।
रघुरप्यजयद्गुणत्रयं प्रकृतिस्थं समलोष्टकाञ्चनः । । ८.२१ । ।

न नवः प्रभुरा फलोदयात्स्थिरकर्मा विरराम कर्मणः ।
न च योगविधेर्नवेतरः स्थिरधीरा परमात्मदर्शनाथ् । । ८.२२ । ।

इति शत्रुषु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ ।
प्रसितावुदयापवर्गयोरुभयीं सिद्धिं उभाववापतुः । । ८.२३ । ।

अथ काश्चिदजव्यपेक्षया गमयित्वा सम्दर्शनः समाः ।
तमसः परं आपदव्ययं पुरुषं योगसमाधिना रघुः । । ८.२४ । ।

शुतदेहविसर्जनः पितुश्चिरं अश्रूणि विमुच्य राघवः ।
विदधे विधिं अस्य नैष्ठिकं यतिभिः सार्धं अनग्निं अग्निचिथ् । । ८.२५ । ।

अकरोत्स तदौर्ध्वदैहिकं पितृभक्त्या पितृकार्यकल्पविथ् ।
न हि तेन पथा तनुत्यजस्तनयावर्जितपिण्डकाङ्क्षिणः । । ८.२६ । ।

स परार्ध्यगतेरशोच्यतां पितुरुद्दिश्य सदर्थवेदिभिः ।
शमिताधिरधिज्यकार्मुकः कृतवानप्रतिशासनं जगथ् । । ८.२७ । ।

क्षितिरिन्दुमती च भामिनी पतिं आसाद्य तं अग्र्यपौरुषं ।
प्रथमा बहुरत्नसूरभूदपरा वीरं अजीजनत्सुतं । । ८.२८ । ।

दशरास्मिशतोपमद्युतिं यशसा दिक्षु दशवपि श्रुतं ।
दशपूर्वरथं यं आख्यया दशकण्ठारिगुरुं विदुर्बुधाः । । ८.२९ । ।

ऋषिदेवगणस्वधाभुजां श्रुतयागप्रस्वैः स पार्थिवः ।
अनृणत्वं उपेयिवान्बभौ परिधेर्मुक्त इवोष्णदीधितिः । । ८.३० । ।

बलं आर्तभयोपशान्तये विदुषां संनतये बहु श्रुतं ।
वसु तस्य न केवलं गुणवत्तापि परप्रयोजना । । ८.३१ । ।

स कदाचिदवेषितप्रजः सह देव्या विजहार सुप्रजाः ।
नगरोपवने शचीसखो मरुतां पालयितेव नन्दने । । ८.३२ । ।

अथ रोधसि दक्षिणोदधेः श्रित गोकर्णनिकेतं ईश्वरं ।
उपवीणयितुं ययौ रवेरुदगावृत्तिपथेन नारदः । । ८.३३ । ।

कुसुमैर्ग्रथितां अपार्थिवैः स्रजं आतोद्यशिरोनिवेशितां ।
अहरत्किल तस्य वेगवानधिवासस्पृहयेव मारुतः । । ८.३४ । ।

भ्रमरैः कुसुमानुसारिभिः परिकीर्णा परिवादिनी मुनेः ।
ददृशे पवनावलेपजं सृजती बाष्पं इवाञ्जनाविलं । । ८.३५ । ।

अभिभूय विभूतिं आर्तवीं मधुगन्धातिशयेन वीरुधां ।
नृपतेरमरस्रगाप सा दयितोरुस्तनकोटिसुस्थितिं । । ८.३६ । ।

क्षणमात्रसखीं सुजातयोः स्तनयोस्तां अवलोक्य विहला ।
निमिमील नरोत्तमप्रिया हृतचन्द्रा तमसेव क्ॐउदी । । ८.३७ । ।

वपुषा करणोज्झितेन सा निपतन्ती पतिं अप्यपातयथ् ।
ननु तैलनिषेकबिन्दुना सह दीपार्चिरुपैति मेदिनीं । । ८.३८ । ।

समं एव नराधिपेन सा गुरुसंमोहविलुप्तचेतना ।
गुरुसंमोहविलुप्तचेतना नवदीपार्चिरिव क्षितेस्तलं । । ८.३८* । ।

उभयोरपि पार्श्ववर्तिनां तुमु लेनार्तरवेण वेजिताः ।
विहगाः कमलाकरालयाः समदुःखा इव तत्र चुक्रुशुः । । ८.३९ । ।

नृपतेर्व्यजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता ।
प्रतिकारविधानं आयुषः सति शेषे हि फलाय कल्पते । । ८.४० । ।

प्रतियोजयितव्यवल्लकीसमवस्थां अथ सत्त्वविप्लवाथ् ।
स निनाय नितान्तवत्सलः परिगृह्योचितं अङ्कं अङ्गनां । । ८.४१ । ।

स निनाय नितान्तवत्सलः परिवृत्तप्रथमच्छविं क्षणाथ् ।
सलिलोद्धृतपद्मिनीनिभां दयितां अङ्कं उदशुलोचनः । । ८.४१* । ।

स निनाय नितान्तवत्सलः करणापायविभिन्नवर्णया ।
समलक्ष्यत बिभ्रदाविलां मृगलेखां उषसीव चन्द्रमाः । । ८.४२ । ।

विललाप स बाष्पगद्गदं सहजां अप्यपहाय धीरतां ।
अभितप्तं अयोऽपि मार्दवं भजते कैव कथा शरीरिषु । । ८.४३ । ।

कुसुमान्यपि गात्रसंगमात्प्रभवन्त्यायुरपोहितुं यदि ।
न भविष्यति हन्त साधनं किं इवानयत्प्रहरिष्यतो विधेः । । ८.४४ । ।

अथ वा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः ।
हिमसेकविपत्तिरत्र मे नलिनी पूर्वनिदर्शनं मता । । ८.४५ । ।

स्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति मां ।
विषं अप्यमृतं क्वचिद्भवेदमृतं वा विषं ईश्वरेच्छया । । ८.४६ । ।

अथ वा मम भाग्यविप्लवादशनिः कल्पित एष वेधसा ।
यदनेन तरुर्न पातितस्क्षपिता तद्विटपाश्रितलता । । ८.४७ । ।

कृतवत्यसि नावधीरणां अपराध्हेऽपि यदा चिरं मयि ।
कथं एकपदे निरागसं जनं आभाष्यं इमं न मन्यसे । । ८.४८ । ।

ध्रुवं अस्मि शठः शुचिस्मिते विधितः कैतववत्सलस्तव ।
परलोकं असंनिवृत्तये यदनापृच्छ्य गतासि मां इतः । । ८.४९ । ।

दयितां यदि तावदन्वगाद्विनिवृत्तं किं इदं तया विना ।
सहतां हतजीवितं मम प्रबलां आत्मकृतेन वेदनां । । ८.५० । ।

सुरतश्रमसंभृतो मुखे ध्रियते स्वेदलवोद्गमोऽपि ते ।
अथ चास्तमिताऽस्यहो बत धिगिमां देहभृतां असारतां । । ८.५१ । ।

सुरतश्रमवारिबिन्दवो न हि तावद्विरमन्ति ते मुखे ।
कथं अस्तमिताऽस्यहो बत धिगिमां देहवतां असारतां । । ८.५१* । ।

मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि मां ।
ननु शब्दपतिः क्षितेरहं त्वयि मे भावनिबन्धना रतिः । । ८.५२ । ।

कुसुमोत्कचितान्वलीमतश्चलयन्भृङ्गरुचस्तवालकान् ।
करभोरु करोति मारुतस्त्वदुपावर्तन्शङ्कि मे मनः । । ८.५३ । ।

तदपोहितुं अर्हसि प्रिये प्रतिबोधेन विषादं आषु मे ।
ज्वलितेन गुहागतं तमस्तुहिनाद्रेरिव नतं ओषधिः । । ८.५४ । ।

इदं उच्छ्वसितालकं मुखं विश्रान्तकथं दुनोति मां ।
निशि सुप्तं इवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनं । । ८.५५ । ।

शशिनं पुनरेति शार्वरी दयिता द्वन्द्वचरं पतत्रिणं ।
इति तौ विर्हान्तरक्षमौ कथं अत्यन्तगता न मां दहेः । । ८.५६ । ।

नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गं अर्पितं ।
तदिदं विषहिष्यते कथं वद वामोरु चिताधिरोहणं । । ८.५७ । ।

इयं अप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी ।
गतिविभ्रमसाद नीरवा न शुचा नानुमृतेव लक्ष्य्ते । । ८.५८ । ।

कलं अन्यभृतासु भाषितं कलहंसीषु गतं मदालसं ।
पृटतीषु विलोलं ईक्षितं पवनाधूतलतासु विभ्रमः । । ८.५९ । ।

त्रिदिवोत्सुकयाप्यवेक्ष्य मां निहिताः सत्यं अमी गुणास्त्वया ।
विरहे तव मे गुरुव्यथं हृदयं न त्ववलम्बितुं क्षमाः । । ८.६० । ।

मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ ।
अविधाय विवाहसत्क्रियां अनयोर्गम्यत इव्यसांप्रतं । । ८.६१ । ।

कुसुमं कृतदोहदस्त्वया यदशोकोऽयं उदीरयिष्यति ।
अलकाभरणं कथं नु तत्तव नेष्यामि निवापलाल्यतां । । ८.६२ । ।

स्मरतेव सशब्दनूपुरं चरणानुग्रहं अन्यदुर्लभं ।
अमुना कुसुमाश्रुवर्षिणा त्वं अशोकेन सुगात्रि शोच्यसे । । ८.६३ । ।

तव निःश्वसितानुकारिभिर्बकुलैरर्धचितां समं मया ।
असमाप्य विलासमेखलां किं इदं किंनरकण्ठि सुप्यते । । ८.६४ । ।

समदुःखसुखः सखीजनः प्रतिपच्चन्द्रनिभोऽयं आत्मजः ।
अहं एकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः । । ८.६५ । ।

धृतिरस्तमिता रतिश्च्युता विरतं गेयं ऋतुर्निरुत्सवः ।
गतं आभरणप्रयोजनं परिशून्यं शयनीयं अद्य मे । । ८.६६ । ।

गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ ।
करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतं । । ८.६७ । ।

मदिराक्षि मदाननार्पितं मधु पीत्वा रसवत्कथं नु मे ।
अनुपास्यसि बाष्पदूषितं परलोकोपनतं जलाञ्जलिं । । ८.६८ । ।

विभवेऽपि सति त्वया विना सुखं एतावदजस्य गण्यतां ।
अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्तदाश्रयाः । । ८.६९ । ।

विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति ।
अकरोत्पृथिवीरुहानपि स्रुतशाखारसभाष्पदुर्दिनान् । । ८.७० । ।

अथ तस्य कथंचिदङ्कतः स्वजनस्तां अपनीय सुन्दरीं ।
विससर्ज कृतान्त्यमण्डनां अनलाय्ऽ आगुरुचन्दनदिहसे । । ८.७१ । ।

प्रमदां अनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनाथ् ।
न चकार शरीरं अग्निसात्सह देव्या न तु जीविताशया । । ८.७२ । ।

अथ तेन दशाहतः परे गुणशेषां उपदिष्य गेहिनीं ।
विदुषा विधयो महर्द्धयः पुर एवोपवने समापिताः । । ८.७३ । ।

स विवेश पुरीं तया विना क्षणदापायशशाङ्कदर्शनः ।
परिवाहं इवावलोकयन्स्वशुचः पौरवधूमुखाश्रुषु । । ८.७४ । ।

अथ तं सवनाय दिषितः प्रणिधानाद्गुरुराश्रमस्थितः ।
अभिषङ्गजडं विजज्ञिवानिति शिष्येण किलान्वबोधयथ् । । ८.७५ । ।

असमाप्तविधिर्यतो मुनिस्तव विद्वानपि तापकारणं ।
न भवन्तं उपस्थितः स्वयं प्रकृतौ स्थापयितुं कृतस्थितिः । । ८.७६ । ।

मयि तस्य सुवृत्त वर्तते लघुसंदेशपदा सरस्वती ।
शृणु विश्रुतसत्त्वसार तां हृदि चैनां उपधातुं अर्हसि । । ८.७७ । ।

पुरुषस्य पदेष्वजन्मनः समतीतं च भवच्च भावि च ।
स हि निष्प्रतिघेन चक्षुषा त्रितयं ज्ञानमयेन पश्यति । । ८.७८ । ।

चरतः किल दुश्चरं तपस्तृणबिन्दोः परिशङ्कितः पुरा ।
प्रजिघाय समाधिबेदिनीं हरिरस्मै हरिणीं सुराङ्गनां । । ८.७९ । ।

स तपःप्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविभ्रमां ।
अशपद्भव मानुषीति तां शमवेलाप्रलयोर्मिणा मुनिः । । ८.८० । ।

भगवन्परवानयं जनः प्रतिकूलाचरितं क्षमस्व मे ।
इति चोपनतां क्षितिपृशं विवशा शापनिवृत्तिकारणं । । ८.८१ । ।

क्रथकैशिकवंशसंभवा तव भूत्वा महिषी चिराय सा ।
उपलब्धवती दिवश्च्युतं विवशा शापनिवृत्तिकारणं । । ८.८२ । ।

तदलं तदपायचिन्तया विपदुत्पत्तिमतां उपस्थिता ।
वसुधेयं अवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः । । ८.८३ । ।

उदये मदवाच्यं उज्झता श्रुतं आविष्कृतं आत्मवत्तया ।
मनसस्तदुपस्थिते ज्वरे पुनरक्लीबतया प्रकाश्यतां । । ८.८४ । ।

रुदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते ।
परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनां । । ८.८५ । ।

रुदितेन न सा निवर्तते नृप तत्तावदन्र्थकं तव ।
न भवाननुसंस्थितोऽपि तां लभते कर्मवशा हि देहिनः । । ८.८५* । ।

अपशोकमनाः कुटुम्बिनीं अनुगृह्णीष्व निवापदत्तिभिः ।
स्वजनाश्रु किलात्रिसंततं दहति प्रेतं इति प्रचक्षते । । ८.८६ । ।

मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितं उच्यते बुधैः ।
क्षणं अप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ । । ८.८७ । ।

अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यं अर्पितं ।
स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतं । । ८.८८ । ।

स्वशरीरशरीरिणावपि श्रुतसंयोगविपर्ययौ यदा ।
विरहः किं इवानुतापयेद्वद बाह्यैर्विषयैर्विपश्चितम् । । ८.८९ । ।

न पृथग्जनवच्छुचो वशं वशिनां उत्तम गन्तुं अर्हसि ।
द्रुमसानुमतां किं अन्तरं यदि वायौ द्वितयेऽपि ते चलाः । । ८.९० । ।

स तथेति विनेतुरुदारमतेः प्रतिगृह्य वचो विससर्ज मुनिम् ।
तदलब्धपदं हृदि शोकघने प्रतियातं इवान्तिकं अस्य गुरोः । । ८.९१ । ।

तेनाष्टौ परिगमिताः समाः कथंचिद्बालत्वादवितथसूनृतेन सूनोः ।
सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागम्तोसवैश्च । । ८.९२ । ।

तस्य प्रसह्य हृदयं किल शोकशङ्कुः प्लक्षप्ररोह इव सौधतलं बिभेद ।
प्राणान्तहेतुं अपि तं भिषजां असाध्यं लाभं प्रियानुगमने त्वरया स मेने । । ८.९३ । ।

सम्यग्विनीतं अथ वर्महरं कुमारं आदिश्य रक्षणविधौ विधिवत्प्रजानां ।
रोगोपसृष्टतनुदुर्वसतिं मुमुक्षुः प्रायोपवेशनमतिर्नृपतिर्बभूव । । ८.९४ । ।

तीर्थे तोयव्यतिकरभवे जह्नुकन्यासर्य्वोर्देहत्यागादमरगणनालेख्यं आसाद्य सद्यः ।
पूर्वाकाराधिकतररुचा संगतः कान्तयासौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु । । ८.९५ । ।