रघुवंशम्/षोडशः सर्गः
← पञ्चदशः सर्गः | रघुवंशम् षोडशः सर्गः कालिदासः |
सप्तदशः सर्गः → |
रघुवंशस्य सर्गाः |
---|
अथेतरे सप्त रघुप्रवीरा ज्येष्ठं पुरोजन्मतया जुणैश्च । |
ते सेतुवार्त्तागजबन्धमुख्यैरभ्युच्छ्रिताः कर्मभिरप्यवन्ध्यैः । |
चतुर्भुजांशप्रभवः स तेषां दानप्रवृत्तेरनुपारतानां । |
अथार्धरात्रे स्तिमितप्रदीपे शय्यागृहे सुप्तजने प्रबुद्धः । |
सा साधुसाधारणपार्थिवर्द्धेः स्थित्वा पुरस्तात्पुरुहूतभासः । |
अथानुपोढार्गलं अप्यगारं छायां इवादर्शतलं प्रविष्टां । |
लभ्दान्तरा सावरणेऽपि गेहे योगप्रभावो न च लक्ष्यते ते । |
का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते । |
तं अब्रवीत्सा गुरुणा नवद्या या नीतपौरा स्वपदोन्मुखेन । |
वसौकसारां अभिभूय साहं सौराज्यबद्धोत्सवया विभूत्या । |
विशीर्णतल्पाट्टशतो निवेशः पर्यस्तशालः प्रभुणा विना मे । |
निशासु भास्वत्कलनूपुराणां यः संचरोऽभूदभिसारिकाणां । |
आस्फालितं यत्प्रमदाकराग्रैर्मृदङ्गधीरध्वनिं अन्वगच्छथ् । |
चित्रद्विपाः पद्मवनावतीर्णाः करेणुभिर्दत्तमृणालभङ्गाः । |
स्तम्भेषु योषित्प्रतियातनानां उत्क्रान्तवर्णक्रमधूसराणां । |
कालान्तरश्यामसुधेषु नक्तं इतस्ततो रूढतृणाङ्कुरेषु । |
आवर्ज्य शाखाः सदयं च यासां पुष्पाण्युपात्तानि विलासिनीभिः । |
रात्रावनाविष्कृतदीपभासः कान्तामुखश्रीवियुता दिवापि । |
बलिक्रियावर्जितसैकतानि स्नानीयसंसर्गं अनापनुवन्ति । |
तदर्हसीमां वसतिं विसृज्य मां अभ्युपैतुं कुलराजधानीं । |
तथेति तस्याः प्रणयं प्रतीतः प्रत्यग्रहीत्प्राग्रहरो रघूणां । |
तदद्भुतं संसदि रार्त्रिवृत्तं प्रातर्द्विजेभ्यो नृपतिः शशंस । |
कुशावतीं श्रोत्रियसात्स कृत्वा यात्रानुकूलेऽहनि सावरोधः । |
सा केतुमालोपवना बृहद्भिर्विहारशैलानुगतेव नागैः । |
तेनातपत्रामलमण्डलेन प्रस्थापितः पूर्वनिवासभूमिं । |
तस्य प्रयातस्य वरूथिनीनां पीडां अपर्याप्तवतीव सोढुं । |
उद्यच्छमाना गमनाय पश्चात्पुरो निवेशे पथि च व्रजन्ती । |
तस्य द्विपानां मदवारिसेकात्खुराभिघाताच्च तुरंगमाणां । |
मार्गैषिणी सा कटकान्तरेषु वैन्ध्येषु सेना बहुधा विभिन्ना । |
स धातुभेदारुणयाननेमिः प्रभुः प्रयाणध्वनिमिश्रतूर्यः । |
तीर्थे तदीये गजसेतुबन्धात्प्रतीपगां उत्तरतोऽस्य गङ्गां । |
स पूर्वजानां कपिलेन रोषाद्भस्मावशेषीकृतविग्रहाणां । |
इत्यध्वनः कैश्चिदहोभिरन्ते कूलं समासाद्य कुशः सरय्वाः । |
आधूय शाखाः कुसुमद्रुमाणां स्पृष्ट्वा च शीतान्सरयूतरङ्गान् । |
अथोपशल्ये रिपुमग्नशल्यस्तस्याः पुरः पौर्सखः स राजा । |
तां शिल्पिसंघाः प्रभुणा नियुक्तास्तथागतां संभृतसाधनत्वाथ् । |
ततः सपर्यां सपशूपहारां पुरः परार्ध्यप्रतिमागृहायाः । |
तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं प्रविश्य । |
सा मन्दुरासंश्रयिभिस्तुरंगैः शालाविधिस्तम्भगतैश्च नागैः । |
वसन्स तस्यां वसतौ रघूणां पुराणशोभां अधिरोपितायां । |
अथास्य रत्नग्रथितोत्तरीयं एकान्तपाण्डुस्तनलम्बिहारं । |
अगस्त्यचिह्नादयनात्समीपं दिगुत्तरा भास्वति संनिवृत्ते । |
प्रवृद्धतापो दिवसोऽतिमात्रं अत्यर्थं एव क्षणदा च तन्वी । |
दिने दिने शैवलवन्त्यधस्तात्सोपानपर्वाणि विमुञ्चदम्भः । |
वनेषु सायनतनमल्लिकानां विजृम्भणोद्गन्धिषु कुड्मलेषु । |
स्वेदानुविद्धार्द्रनखक्षताङ्के संदष्टभूयिष्ठशिखं कपोले । |
यन्त्रप्रवाहैः शिशिरैः परीतान्रसेन धौतान्मलयोद्भवस्य । |
स्नानार्द्रमुक्तेष्वनुधूपवासं विन्यस्तसायन्तनमल्लिकेषु । |
आपिञ्जरा बद्धरजःकणत्वान्मञ्जर्युदाराशुशुभेऽर्जुनस्य । |
मनोज्ञगन्धं सहकारभङ्गं पुराणसीधुं नवपाटलं च । |
जनस्य तस्मिन्समये विगाढे बभूवतुर्द्वौ सविशेषकान्तौ । |
अथोर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वाः । |
स तीरभूमौ विहितोपकार्यां आनायिभिस्तां अपकृष्टनक्रां । |
सा तीरसोपानपथावतारादन्योन्यकेयूरविघट्टिनीभिः । |
परस्पराभ्युक्षणतत्पराणां तासां नृपो मज्जनरागदर्शी । |
पश्यावरोधैः शतशो मदीयैर्विगाह्यमानो गलिताङ्गरागैः । |
विलुप्तं अन्तःपुरसुन्दरीणां यदञ्जनं नौलुलिताभिरद्भिः । |
एता गुरुश्रोणिपयोधरत्वादात्मानं उद्वोहुढुं अशक्नुवन्त्यः । |
अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनां । |
आसां जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु । |
आवर्तशोभा नतनाभिकान्तेर्भङ्ग्यो भ्रुवां द्वन्द्वचराःस्तनानां । |
तीरस्थलीबर्हिभिरुत्कलापैः प्रस्निग्धकेकैरभिनन्द्यमानं । |
संदष्टवस्त्रेष्वबलानितम्बेष्विन्दुप्रकाशान्तरितोडुकल्पाः । |
एताः करोत्पीडितवारिधारा दर्पात्सखीभिर्वदनेषु सिक्ताः । |
उद्बद्धकेशश्च्युतपत्त्ररेखो विश्लेषिमुक्ताफलपत्त्रवेष्टः । |
स नौविमानादवतीर्य रेमे विलोलहारः सह ताभिरप्सु । |
ततो नृपेनानुगताः स्त्रियस्ता भ्राजिष्णुना सातिशयं विरेजुः । |
वर्णोदकैः काञ्चनशृङ्गमुक्तैस्तं आयताक्ष्यः प्रणयादसिञ्चन् । |
तेनावरोधप्रमदासखेन विगाहनानेन सरिद्वरां तां । |
यत्कुम्भयोनेरदिगम्य रामः कुशाय राज्येन समं दिदेश । |
स्नात्वा यथाकामं असौ सदारस्तीरोपकार्यां गतमात्र एव । |
जयश्रियः संवननं यतस्तदामुक्तपूर्वं गुरुणा च यस्माथ् । |
ततः समाज्ञापयदाशु सर्वानानायिनस्तद्विचये नदीष्णान् । |
कृतः प्रयत्नो न च देव लब्धं मग्नं पयस्याभरणोत्तमं ते । |
ततः स कृत्वा धनुराततज्यं धनुर्धरः कोपविलोहिताक्षः । |
तस्मिन्ह्रदः संहितमात्र एव क्षोभात्समाविद्धतरङ्गहस्तः । |
तस्मात्समुद्रादिव मथ्यमानादुद्वृत्तनक्रात्सहसोन्ममज्ज । |
विभूषणप्रत्युपहारहस्तं उपस्थितं वीक्ष्य विशांपतिस्तं । |
त्रैलोक्यनाथप्रभवं प्रभावात्कुशं द्विषां अङ्कुशं अस्त्रविद्वान् । |
अवैमि कार्यान्तरमानुषस्य विष्णोः सुताख्यां अपरां तनुं त्वां । |
कराभिघातोत्थितकन्दुकेयं आलोक्य बालातिकुतूहलेन । |
तदेतदाजानुविलम्बिना ते ज्याघातरेखाकिण लाञ्छनेन । |
इमां स्वसारं च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुं । |
इत्यूचिवानुपहृताभरणः क्षितीशं श्लाघ्यो भवान्स्वजन इत्यनुभाषितारं । |
तस्याः स्पृष्टे मनुजपतिना साहचर्याय हस्ते माङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य । |
इत्थं नागस्त्रिभुवनगुरोरौरसं मैथिलेयं लब्ध्वा बन्धुं तं अपि च कुशः पञ्चमं तक्षकस्य । |