रघुवंशम्/षष्ठः सर्गः
← पञ्चमः सर्गः | रघुवंशम् षष्ठमसर्गः कालिदासः |
सप्तमः सर्गः → |
रघुवंशस्य सर्गाः |
---|
स तत्र मञ्चेषु मनोज्ञवेषान्सिंहासनस्थानुपचारवस्तु । |
रतेर्गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गं इवेश्वरेण । |
वैदर्भनिर्दिष्टं असौ कुमारः क्ëप्तेन सोपानपथेन मञ्चं । |
परार्ध्यवर्णास्तरणोपपन्नं आसेदिवान्रत्नवदासनं सः । |
तासु श्रिया राजपरंपरासु प्रभाविशेषोदयदुर्निरीक्ष्यः । |
तेषां महार्हासनसंस्थितानां उदारनेपथ्यभृतां स मध्ये । |
नेत्रव्रजाः पौरजनस्य तस्मिन्विहाय सर्वान्नृपतीन्निपेतुः । |
अथ स्तुते बन्दिभिरन्वयज्ञैः स्ॐआर्कवंश्ये नरदेवलोके । |
पुरोपकण्ठोपवनाश्रयाणां कलापिनां उद्धतनृत्यहेतौ । |
मनुष्यवाह्यं चतुरश्रयानं अध्यास्य कन्या परिवारशोभि । |
तस्मिन्विधानातिशये विधातुः कन्यामये नेत्रशतैकलक्ष्ये । |
तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः । |
कश्चित्कराभ्यां उपगूढनालं आलोलपत्त्राभिहतद्विरेफं । |
विस्रस्तं अंसादपरो विलासी रत्नानुविद्धाङ्गदकोटिलग्नं । |
आकुञ्चिताग्राङ्गुलिना ततोऽन्यः किंचित्समावर्जितनेत्रशोभः । |
निवेश्य वामं भुजं आसनार्धे ततसंनिवेशादधिकोन्नतांसः । |
विलासिनीविभ्रमदन्तपत्त्रं आपाण्डु रं केतकबर्हं अन्यः । |
कुशेशयाताम्रतलेन कश्चित्करेण रेखाध्वजलाञ्छनेन । |
कश्चिद्यथाभागं अवस्थितेऽपि स्वसंनिवेशाद्व्यतिलङ्घिनीव । |
ततो नृपाणां श्रुतवृत्तवंशा पुंवत्प्रगल्भा प्रतिहाररक्षी । |
असौ शरण्यः शरणोन्मुखानां अगाधसत्त्वो मगधप्रतिष्ठः । |
कामं ण्र्पाः सन्तु सहरशोऽन्ये राजन्वतीं आहुरनेन भूमिं । |
क्रियाप्रबन्धादयं अध्वराणां अजस्रं आहूतसहस्रनेत्रः । |
अनेन चेदिच्छसि गृह्यमाणं पाणिं वरेण्येन कुरु प्रवेशे । |
एवं तयोक्ते तं अवेक्ष्य किंचिद्विस्रंसिदूर्वाङ्कमधूकमाला । |
तां सैव वेत्रग्रहणे नियुक्ता राजान्तरं राजसुतां निनाय । |
जगाद चैनां अयं अङ्गनाथः सुराङ्गनाप्रार्थितयौवनश्रीः । |
अनेन पर्यासयतास्रबिन्दून्मुक्ताफल्स्थूलतमान्स्तनेषु । |
निसर्गभिन्नास्पदं एकसंस्थं अस्मिन्द्वयं श्रीश्च सरस्वती च । |
अथाङ्गराजादवतार्य चक्षुर्याह्जन्यां अवदत्कुमारी । |
ततः परं दुष्प्रसहं द्विषद्भिर्नृपं नियुक्ता प्रतिहारभूमौ । |
अवन्तिनाथोऽयं उदग्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः । |
अस्य प्रयाणेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुत्थितानि । |
असौ महाकालनिकेतनस्य वसन्नदूरे किल चन्द्रमौलेः । |
अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन्मनसो रुचिस्ते । |
तस्मिन्नभिद्योतितबन्धुपद्मे प्रतापसंशोषितशत्रुपङ्के । |
तां अग्रतस्तामरसान्तराभां अनूपराजस्य गुणैरनूनां । |
संग्रामनिर्विष्टसहस्रबाहुरष्टदासद्वीपनिखातयूपः । |
अकार्यचिन्तासमकालं एव प्रादुर्भवंश्चापधरः पुरस्ताथ् । |
ज्याबन्धनिष्पन्दभुजेन यस्य विनिश्वसद्वक्त्रपरंपरेण । |
तस्यान्वये भूपतिरेष जातः प्रतीप इत्यागमवृद्धसेवी । |
आयोधने कृष्णगतिं सहायं अवाप्य यः क्षत्रियकालरात्रिं । |
अस्याङ्कलक्ष्मीर्भव दीर्घबाहोर्माहिष्मतीवप्रनितम्बकाञ्चीं । |
तस्याः प्रकामं प्रियदर्शनोऽपि न स क्षितीशो रुचये बभूव । |
सा शूरसेन्दाधिपतिं सुषेणं उद्दिश्य लोकान्तरगीतकीर्तिं । |
नीपान्वयः पार्थिव एष वज्वा गुणैर्यं आश्रित्य परस्परेण । |
यस्य्ऽ आत्मगेहे नयनाभिरामा कान्तिर्हिमांशोरिव संनिविष्ट । |
यस्यावरोधस्तनचन्दनानां प्रक्षालनाद्वारिविहारकाले । |
त्रस्तेन ताक्र्ष्यात्किल कालियेन मणिं विसृष्टं यमुनौकसा यः । |
संभाव्य भर्तारं अमुं युवानं मृदुप्रवालोत्तरपुष्पशय्ये । |
अध्यास्य चाम्भःपृषतोक्षितानि शैलेयगन्धीनि शिलातलानि । |
नृपं तं आवर्तमनोज्ञनाभिः सा व्यत्यगादन्यवधूर्भवित्री । |
अथाङ्गदाश्लिष्टभुजं भुजिष्या हेमाङ्गदं नाम कलिङ्गनाथं । |
असौ महेन्द्राद्रिसमानसारः पतिर्महेन्द्रस्य महोदधेश्च । |
ज्याघातरेखे सुभुजो भुजाभ्यां बिभर्ति यश्चापभृतां पुरोगः । |
रणेऽमितत्रीणतया प्रकाशः शरासनज्यानिकषौ भुजाभ्यां । |
यं आत्मनः सद्मनि संनिकृष्टो मन्द्रध्वनित्याजितयामतूर्यः । |
अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु । |
प्रलोभिताप्याकृतिलोभनीया पतिं पुरस्योरुगपूर्वनाम्नः । |
अथाधिगम्याभुवराजकल्पं पतिं पुरस्योरुगपूर्वनाम्नः । |
अथोराख्यस्य पुरस्य नाथं दौवारिकी देवसरूपं । |
पाण्ड्योऽयं अंसार्पितलम्बहारः क्ëप्ताङ्गरागो हरिचन्दनेन । |
विन्ध्यस्य संस्तम्भयिता महाद्रेर्निःशेषपीतोज्झितसिन्धुराजः । |
अस्त्रं हरादाप्तवता दुरापं येनेन्द्रलोकाव जयाय दृप्तः । |
अनेन पाणौ विधिवद्गृहीते महाकुलीनेन महीव गुर्वी । |
ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालिङ्गितचन्दनासु । |
इन्दीवरश्यामतनौर्नृपोऽसौ त्वं रोचनागौरशरीरयष्टिः । |
स्वसुर्विदर्भाधिपतेस्तदीयो लेभेऽन्तरं चेतसि नोपदेशः । |
संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा । |
तस्यां रघोः सूनुरुपस्थितायां वृणीत मां नेति समाकुलोऽभूथ् । |
तं प्राप्य सर्वावयवानवद्यं व्यावर्ततान्योपगमात्कुमारी । |
तस्मिन्समावेशितचित्तवृत्तिं इन्दुप्रभां इन्दुमतीं अवेक्ष्य । |
इक्ष्वाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणोऽभूथ् । |
महेन्द्रं आस्थाय महोक्षरूपं यः संयति प्राप्तपिनाकि लीलः । |
ऐरावतास्फालनविश्लथं यः संघट्टयन्नङ्गदं अङ्गदेन । |
जातः कुले तस्य किलोरुकीर्तिः कुलप्रदीपो नृपतिर्दिलीपः । |
यस्मिन्महीं शासति वाणिनीनां निद्रां विहारार्धपथे गतानां । |
पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता । |
आरूढं अद्रीनुदधीन्वितीर्णं भुजंगमानां वसतिं प्रविष्टं । |
असौ कुमारस्तं अजोऽनुजातस्त्रिविष्टपस्येव पतिं जयन्तः । |
कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानैः । |
ततः सुनन्दावचनावसाने लज्जां तनू कृत्य नरेन्द्रकन्या । |
सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुं । |
तथागतायां परिहासपूर्वं सख्यां सखी वेत्रधरा बभाषे । |
सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरूः । |
तया स्रजा मङ्गलपुष्पमय्या विशालवक्षःस्थललम्बया सः । |
शशिनं उपगतेयं कौमुदी मेघमुक्तं जलनिधिं अनुरूपं । |
प्रमुदितवरपक्षं एकतस्तत्क्षितिपतिमण्डलं अन्यतो वितानं । |
|