रघुवंशम्/पञ्चमः सर्गः
← चतुर्थः सर्गः | रघुवंशम् पञ्चममसर्गः कालिदासः |
षष्ठः सर्गः → |
रघुवंशस्य सर्गाः |
---|
तं अध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातं । |
स मृन्मये वीतहिरण्मयत्वात्पात्रे निधायार्गह्यं अनर्घशीलः । |
तं अर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी । |
अप्यग्रणीर्मन्त्रकृतां ऋषीणां कुशाग्रबुद्धे कुशली गुरुस्ते । |
कायेन वाचा मनसापि शश्वद्यत्संभृतं वासवधैर्यलोपि । |
आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषं । |
क्रियानिमित्तेष्वपि वत्सलत्वादभग्नकामा मुनिभिः कुशेषु । |
निर्वर्त्यते यैर्नियमाभिषेको येभ्यो निवापाञ्जलयः पितःणां । |
नीवारपाकादि कडम्गरीयैरामृश्यते जानपदैर्न कच्चिथ् । |
अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय । |
तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे । |
इत्यर्घ्यपात्रानुमितव्ययस्य रघोरुदारां अपि गां निशम्य । |
सर्वत्र नो वार्त्तं अवेहि राजन्नाथे कुतस्त्वव्यशुभं प्रजानां । |
भक्तिः प्रतीक्ष्येषु कुलोचिता ते पूर्वान्महाभाग तयाऽतिशेषे । |
शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितर्द्धिः । |
स्थाने भवानेकनराधिपः सन्नकिंचनत्वं मखजं व्यनक्ति । |
तदन्यतस्तावदनन्यकार्यो गुर्वर्थं आहर्तुं अहं यतिष्ये । |
एतावदुक्त्वा प्रतियातुकामं शिष्यं महर्षेर्नृपतिर्निषिध्य । |
ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय । |
समाप्तविद्येन मया महर्षिर्विज्ञापितोऽभूद्गुरुदक्षिणायै । |
निर्बन्धसंजातरुषार्थकार्श्यं अचिन्तयित्वा गुरुणाहं उक्तः । |
सोऽहं सपर्याविधिभाजनेन मत्वा बह्वन्तं प्रभुशब्दशेषं । |
इत्थं द्विजेन द्विजराकान्तिरावेदितो वेदविदां वरेण । |
गुर्वर्थं अर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामं । |
स त्वं प्रशस्ते महिते मदीये वसंश्चतुर्थोऽग्निरिवाग्न्यगारे । |
तथेति तस्य्ऽ आवितथं प्रतीतः प्रत्यग्रहीत्संगरं अग्रजन्मा । |
वसिष्ठमन्त्रोक्षणजात्प्रभावादुदन्वदाकाशमहीधरेषु । |
अथाधिशिश्ये प्रयथः प्रदोषे रथं रघुः कल्पितशस्त्रगर्भं । |
प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयाः कोशगृहे नियुक्ताः । |
तं भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानाथ् । |
जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतां अभिनन्द्यसत्त्वौ । |
अथोष्ट्रवामीशतवाहितार्थं प्रजेष्वरं प्रीतमना महर्षिः । |
किं अत्र चित्रं यदि कामसूर्भूर्वृत्ते स्थितस्याधिपतेः प्रजानां । |
आशास्यं अन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते । |
इत्थं प्रयुज्याशिषं अग्रजन्मा राज्ञे प्रतीयाय गुरोः सकाशं । |
ब्राह्मे मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारं । |
रूपं तदोजस्वि तदेव वीर्यं तदैव नैसर्गिकं उन्नतत्वं । |
उपात्तविद्यं विधिवद्गुरुभ्यस्तं यौवनोद्भेदविशेषकान्तं । |
अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थं स्वसुरिन्दुमत्याः । |
तं श्लाघ्यसंबन्धं असौ विचिन्त्य दारक्रियायोग्यदशं च पुत्रं । |
तस्योपकार्यारचितोपकारा वन्येतरा जानपदोपदाभिः । |
स नर्मदारोधसि शीकरार्द्रैर्मरुद्भिरानर्तितनक्तमाले । |
अथोपरिष्टाद्भ्रमरैर्भ्रमद्भिः प्राक्सूचितान्तःसलिलप्रवेशः । |
निःशेषविक्षालितधातुनापि वप्रक्रियां ऋक्षवतस्तटेषु । |
संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दं । |
स भोगिभोगाधिकपीवरेण हस्तेन तीराभिमुखः सशब्दं । |
शैलोपमः शैवलमञ्जरीणां जालानि कर्षन्नुरसा स पश्चाथ् । |
कारण्डवोत्सृष्टमृदुप्रत्नानाः पुलिन्दयोषाम्बुविहारकाञ्चीः । |
तस्यैकनागस्य कपोलभित्त्योर्जलावगाहक्षणमात्रशान्ता । |
सप्तच्छदक्षीरकटुप्रवाहं असह्यं आघ्राय मदं तदीयं । |
स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन । |
तं आपतन्तं नृपतेरवध्यो वन्यः करीति श्रुतवान्कुमारः । |
स विद्धमात्रः किल नागरूपं उत्सृज्य तद्विस्मितसैन्यदृष्टः । |
अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैरवकीर्य पुष्पैः । |
मतङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वं । |
स चानुनीतः प्रणतेन पश्चान्मया महर्षिर्मृदुतां अगच्छथ् । |
इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्यजः कुम्भं अय्ॐउखेन । |
संमोचितः सत्त्ववता त्वयाहं शापाच्चिरप्रार्थितदर्शनेन । |
संमोहनं नाम सखे ममास्त्रं प्रयोगसंहारविभक्तमन्त्रं । |
अलं ह्रिया मां प्रति यन्मुहूर्तं दयापरोऽभुः प्रहरन्नपि त्वं । |
तथेत्युपस्पृश्य पयः पवित्रं स्ॐओध्बवायाः सरितो नृस्ॐअः । |
एवं तयोरध्वनि दैवयोगादासेदुषोः सख्यं अचिन्त्यहेतु । |
तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्षः । |
प्रवेश्य चैनं पुरं अग्रयायी नीचैस्तथोपाचरदर्पितश्रीः । |
तस्य्ऽ आधिकारपुरुषैः प्रणतैः प्रदिष्टां प्राग्द्वारवेदिविनिवेशितपूर्ण कुम्भां । |
तत्र स्वयंवरसमाहृतराजलोकं कन्याललाम कमनीयं अजस्य लिप्सोः । |
तं कर्णभूषणनिपीडितपीवरांसं शय्योत्तरच्छदविमर्दकृशाङ्गरागं । |
रात्रिर्गता मतिमतां वर मुञ्च शय्यां धात्रा द्विधैव ननु धूर्जगतो विभक्ता । |
निद्रावशेन भवताप्यनपेक्षमाणा पर्युत्सुकत्वं अबला निशि खण्डितेव । |
तद्वल्गुना युगपदुन्मिषितेन तावत्सद्यः परपरतुलां अधिरोहतां द्वे । |
वृन्ताच्छ्लथं हरति पुष्पं अनोकहानां संसृज्यते सरसिजैररुणाम्शुभिन्नैः । |
ताम्रोदरेषु पैतं तरुपल्लवेषु निर्धौत हारगुलिकाविशदं हिमाम्भः । |
यावत्प्रतापनिधिराक्रमते न भानुरह्नाय तावदरुणेन तमो निरस्तं । |
शय्यां जहत्युभयपक्षविनीतनिद्राः स्तम्बेरमा मुखरशृङ्खलकर्षिणस्ते । |
दीर्घेष्वमी नियमिताः पटमण्डपेषु निद्रां विहाय वनजाक्ष वनायुदेश्याः । |
भवति विरलभक्तिर्म्लानपुष्पोपहारः स्वकिरण्परिवेषोध्बेदशून्याः प्रदीपाः । |
इति विरचितवाग्भिर्बन्दिपुत्रैः कुमारः सपदि विगतनिद्रस्तल्पं उज्झां चकार । |
अथ विधिं अवसाय्य शास्त्रदृष्टं दिवसमुखोचितं अञ्चिताक्षिपक्ष्मा । |