रघुवंशम्/तृतीयः सर्गः
← द्वितीयः सर्गः | रघुवंशम् तृतीयसर्गः कालिदासः |
चतुर्थः सर्गः → |
रघुवंशस्य सर्गाः |
---|
अवन्ध्ययत्नाश्च बभूवुरत्र ते क्रिया हि वस्तूपहिता प्रसीदति । । ३.२९* । ।
अथेप्सितं भर्तुरुपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखम् । |
शरीरसादादसमग्रभूषणा मुखेन सालक्ष्यत लोध्रपाण्डुना । |
ततो विशांपत्युरनन्यसंततेर्मनोरथं किंचिदिवोदयोन्मुखम् । |
मुखेन सा केतकपत्रपाण्डुना कृशाङ्गयष्टिः परिमेयभूषणा । |
तदाननं मृत्सुरभि क्षितीश्वरो रहस्युपाघ्राय न तृप्तिम् आययौ । |
दिवं मरुत्वानिव भोक्ष्यते भुवं दिगन्तविश्रान्तरथो हि तत्सुतः । |
न मे ह्रिया शंसति किंचिदीप्सितं स्पृहावती वस्तुषु केषु मागधी । |
उपेत्य सा दोहददुःखशीलतां यदेव वव्रे तदपश्यदाहृतम् । |
क्रमेण निस्तीर्य च दोहदव्यथां प्रचीयमानावयवा रराज सा । |
दिनेषु गच्छत्सु नितान्तपीवरं तदीयं आनीलमुखं स्तनद्वयम् । |
निधानगर्भां इव सागराम्बरां शमीं इवाभ्यन्तरलीनपावकाम् । |
प्रियानुरागस्य मनःसमुन्नतेर्भुजार्जितानां च दिगन्तसंपदाम् । |
सुरेन्द्रमात्राश्रितगर्भगौरवात्प्रयत्नमुक्तासनया गृहागतः । |
कुमारभृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्मणि । |
ग्रहैस्ततः पञ्चभिरुच्चसंश्रयैरसूर्यगैः सूचितभाग्यसंपदम् । |
दिशः प्रसेदुर्मरुतो ववुः सुखाः प्रदक्षिणार्चिर्हविरग्निराददे । |
अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा । |
जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसंमिताक्षरम् । |
समीक्ष्य पुत्रस्य चिरान्मुखं पिता निधानकुम्भस्य युवेव दुर्गतः । |
निवातपद्मस्तिमितेन चक्षुषा नृपस्य कान्तं पिबतः सुताननम् । |
स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते । |
सुखश्रवा मङ्गलतूर्यनिस्वनाः प्रमोदनृत्यैः सह वारयोषिताम् । |
न संयतस्तस्य बभूव रक्षितुर्विसर्जयेद्यं सुतजन्महर्षितः । |
शुतस्य यायादयं अन्तं अर्भकस्तथा परेषां युधि चेति पार्थिवः । |
पितुः प्रयत्नात्स समग्रसंपदः शुभैः शरीरावयवैर्दिने दिने । |
उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरंदरौ । |
रथाङ्गनाम्नोरिव भावबन्धनं बभूव यत्प्रेम परस्पराश्रयम् । |
उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयां अवलम्ब्य चाङ्गुलिम् । |
तं अङ्कं आरोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तं इवामृतं त्वचि । |
तं अङ्कं आरोप्य शरीरयोगजैः स्थितेरभेत्ता स्थितिमन्तं अन्वयम् । |
स वृत्तचूलश्चलकाकपक्षकैरमात्यपुत्रैः सवयोभिरन्वितः । |
अथोपनीतं विधिवद्विपश्चितो विनिन्युरेनं गुरवो गुरुप्रियम् । |
धियः समग्रैः स गुणैरुदारधीः क्रमाच्चतस्रश्चतुरर्णवोपमाः । |
त्वचं स मेध्यां परिधाय रौरवीं अशिक्षतास्त्रं पितुरेव मन्त्रवत् । |
महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रभावं कलभः श्रयन्निव । |
अथास्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयद्गुरुः । |
युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणद्धकंधरः । |
ततः प्रजानां चिरं आत्मना धृतां नितान्तगुर्वीं लघयिष्यता धुरम् । |
नरेन्द्रमूलायतनादनन्तरं तदास्पदं श्रीर्युवराजसंज्ञितम् । |
विभावसुः सारथिनेव वायुना घनव्यपायेन गभस्तिमानिव । |
नियुज्य तं होमतुरङ्गरक्षणे धनुर्धरं राजसुतैरनुद्रुतम् । |
ततः परं तेन मखाय यज्वना तुरंगं उत्सृष्टं अनर्गलं पुनः । |
विषादलुप्तप्रतिपत्ति विस्मितं ममैव येनेह तुरंगं ईक्षसे । |
स्वेदाम्बुना मार्जय पुत्र लोचने ममैव येनेह तुरंगं ईक्षसे । |
तदङ्गनिस्यन्दजलेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सताम् । |
स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसंभवः । |
स पूर्वतः पर्वतपक्षशातनं हरिं विदित्वा हरिभिश्च वाजिभिः । |
शतैस्तमक्ष्णामनिमेषवृत्तिभिर्हरिं विदित्वा हरिभिश्च वाजिभिः । |
मखांशभाजां प्रथमो मनीषिभिस्त्वं एव देवेन्द्र सदा निगद्यसे । |
त्रिलोकनाथेन सदा मखद्विषस्त्वया नियम्या ननु दिव्यचक्षुषा । |
तदङ्गम् अग्र्यं मघवन्महाक्रतोरमुं तुरंगं प्रतिमोक्तुम् अर्हसि । |
इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर्दिवौकसाम् । |
यदात्थ राजन्यकुमार तत्तथा यशस्तु रक्ष्यं परतो यशोधनैः । |
हरिर्यथैकः पुरुषोत्तमः स्मृतो महेश्वरस्त्र्यम्बक एव नापरः । |
अतोऽयम् अश्वः कपिलानुकारिणा पितुस्त्वदीयस्य मयापहारितः । |
ततः प्रहस्यापभयः पुरंदरं पुनर्बभाषे तुरगस्य रक्षिता । |
स एवम् उक्त्वा मघवन्तं उन्मुखः करिष्यमाणः सशरं शरासनम् । |
रघोरवष्टम्भमयेन पत्रिणा हृदि क्षतो गोत्रभिदप्यमर्षणः । |
दिलीपसूनोः स बृहद्भुजान्तरं प्रविश्य भीमासुरशोणितोचितः । |
हरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ । |
जहार चान्येन मयूरपत्रिरिणा शरेण शक्रस्य महाशनिध्वजम् । |
तयोरुपान्तस्थितसिद्धसैनिकं गरुत्मदाशीविषभीमदर्शनैः । |
अतिप्रबन्धप्रहितास्त्रवृष्टिभिस्तम् आश्रयं दुष्प्रसहस्य तेजसः । |
ततः प्रकोष्ठे हरिचन्दनाङ्किते प्रमथ्यमानार्णवधीरनादिनीम् । |
स चापं उत्सृज्य विवृद्धमत्सरः प्रणाशनाय प्रबलस्य विद्विषः । |
रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः । |
तथापि शस्त्रव्यवहारनिष्ठुरे बिपक्षभावे चिरं अस्य तस्थुषः । |
असङ्गं अद्रिष्वपि सारवत्तया न मे त्वदन्येन विसोढं आयुधम् । |
ततो निषङ्गादसमग्रं उद्धृतं सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिम् । |
अमोच्यं अश्वं यदि मन्यसे प्रभो ततः समाप्ते विधिनैव कर्मणि । |
यथा च वृत्तान्तं इमं सदोगतस्त्रिलोचनैकांशतया दुरासदः । |
तथेति कामं प्रतिशुश्रुवान्रघोर्यथागतं मातलिसारथिर्ययौ । |
तं अभ्यनन्दत्प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः । |
इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः । |
अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणम् । |
|