रघुवंशम्/दशमः सर्गः

विकिस्रोतः तः
Jump to navigation Jump to search
← नवमः सर्गः रघुवंशम्
दशमसर्गः
कालिदासः
एकादशः सर्गः →
रघुवंशस्य सर्गाः
  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः
  14. चतुर्दशः सर्गः
  15. पञ्चदशः सर्गः
  16. षोडशः सर्गः
  17. सप्तदशः सर्गः
  18. अष्टादशः सर्गः
  19. एकोनविंशः सर्गः

पृथिवीं शासतस्तस्य पाकशासनतेजसः ।
किंचिदूनं अनूनर्द्धेः शरदां अयुतं ययौ । । १०.१ । ।

न चोपलेभे पूर्वेषां ऋणनिर्मोक्षसाधनं ।
सुताभिधानं स ज्योतिः सद्यः शोकतमोपहम् । । १०.२ । ।

अतिष्ठत्प्रत्ययापेक्षसंततिः स चिरं नृपः ।
प्राङ्मन्थादनभिव्यक्तरत्नोत्पत्तिरिवार्णवः । । १०.३ । ।

ऋष्यशृङ्गादयस्तस्य सन्तः संतानकाङ्क्षिणः ।
आरेभिरे जितात्मानः पुत्रीयां इष्टिं ऋत्विजः । । १०.४ । ।

तस्मिन्नवसरे देवाः पौलस्त्योपप्लुता हरिं ।
अभिजग्मुर्निदाघार्ताश्छायावृक्षं इवाध्वगाः । । १०.५ । ।

ते च प्रापुरुदन्वतं बुबुधे चादिपूरुषः ।
अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणं । । १०.६ । ।

भोगिभोगादनासीनं ददृशुस्तं दिवौकसः ।
तत्फणामण्डलोदर्चिर्मणिद्योतितविग्रहम् । । १०.७ । ।

श्रियः पद्मनिषण्णायाः क्ष्ॐआन्तरितमेखले ।
अङ्के निक्षिप्तचरणं आस्तीर्णकरपल्लवे । । १०.८ । ।

प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकं ।
दिवसं शारदं इव प्रारम्भसुखदर्शनं । । १०.९ । ।

प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणं ।
कौत्सुभाख्यं अपां सारं बिभ्राणं बृहतोरसा । । १०.१० । ।

बाहुभिर्विटपाकारैर्दिव्याभरणभूषितैः ।
आविर्भूतं अपां मध्ये पारिजातं इवापरम् । । १०.११ । ।

दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः ।
हेतिभिश्चेतनावद्भिरुदीरितजयस्वनं । । १०.१२ । ।

मुक्तशेषविरोधेन कुलिशव्रणलक्ष्मणा ।
उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता । । १०.१३ । ।

योगनिद्रान्तविशदैः पावनैरवलोकनैः ।
भृग्वादीननुगृह्णन्तं सौख शायनिकानृषीन् । । १०.१४ । ।

प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषां ।
अथैनं तुष्टुवुः स्तुत्यं अवाङ्मनसगोचरं । । १०.१५ । ।

नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते ।
अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधास्थितात्मने । । १०.१६ । ।

रसान्तराण्येकरसं यथा दिव्यं पयोऽश्नुते ।
देशे देशे गुणेष्वेवं अवस्थास्त्वं अविक्रियः । । १०.१७ । ।

अमेयो मितलोकस्त्वं अनर्थी प्रार्थनावहः ।
अजितो जिष्णुरत्यन्तं अव्यक्तो व्यक्तकारणम् । । १०.१८ । ।

एकः कारणतस्तां तां अवस्थां प्रतिपद्यसे ।
नानात्वं रागसंयोगात्स्फटिकस्य्ऽएव ते स्मृतम् । । १०.१९ । ।

हृदयस्थं अनासन्नं अकामं त्वां तपस्विनं ।
दयालुं अनघस्पृष्टं पुराणं अजरं विदुः । । १०.२० । ।

सर्वज्ञस्त्वं अविज्ञातः सर्वयोनिस्त्वं आत्मभूः ।
सर्वप्रभुरनीशस्त्वं एकस्त्वं सर्वरूपभाक् । । १०.२१ । ।

सप्तसामोपगीतं त्वां सप्तार्णवजलेशयं ।
सप्तार्चिर्मुखं आचख्युः सप्तलोकैकसंश्रयम् । । १०.२२ । ।

चतुर्वर्गफलं ज्ञानं कालावस्था चतुर्युगा ।
चतुर्वर्णमयो लोकस्त्वत्तः सर्वं चतुर्मुखाथ् । । १०.२३ । ।

अभ्यासनिगृहीतेन मनसा हृदयाश्रयं ।
ज्योतिर्मयं विचिन्वन्ति योगिनस्त्वां विमुक्तये । । १०.२४ । ।

अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः ।
स्वपतो जागरूकस्य याथात्म्यं वेद कस्तव । । १०.२५ । ।

शब्दादीन्विषयान्भोक्तुं चरितुं दुश्चरं तपः ।
पर्याप्तोऽसि प्रजाः पातुं औदासीन्येन वर्तितुं । । १०.२६ । ।

बहुधाप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः ।
त्वय्येव निपतन्त्योघा जाह्नवीया इवार्णवे । । १०.२७ । ।

त्वय्यावेशितचित्तानां त्वत्समर्पितकर्मणां ।
गतिस्त्वं वीतरागाणां अभूयःसंनिवृत्तये । । १०.२८ । ।

प्रत्यक्षोऽप्यपरिच्छेद्यो मह्यादिर्महिमा तव ।
आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा । । १०.२९ । ।

केवलं स्मरणेनैव पुनासि पुरुषं यतः ।
अनेन वृत्तयः शेषा निवेदितफलास्त्वयि । । १०.३० । ।

उदधेरिव रत्नानि तेजांसीव विवस्वतः ।
स्तुतिभ्यो व्यतिरिच्यन्ते दूरेण चरितानि ते । । १०.३१ । ।

अनवाप्तं अवाप्तव्यं न ते किंचन विद्यते ।
लोकानुग्रह एवैको हेतुस्ते जन्मकरमणोः । । १०.३२ । ।

महिमानं यदुत्कीर्त्य तव संह्रियते वचः ।
श्रमेण तदशक्त्या वा न गुणानां इयत्तया । । १०.३३ । ।

इति प्रसादयां आसुस्तव संह्रियते वचः ।
भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः । । १०.३४ । ।

तस्मै कुशलसंप्रश्नव्यञ्जितप्रीतये सुराः ।
भयं अप्रलयोद्वेलादाचख्युर्नैरृतोदधेः । । १०.३५ । ।

अथ वेलासमासन्नशैलरन्ध्रानुनादिना ।
स्वरेणोवाच भगवान्परिभूतार्णवध्वनिः । । १०.३६ । ।

पुराणस्य कवेस्तस्य वर्णस्थानसमीरिता ।
बभूव कृतसंस्कारा चरितार्थैव भारती । । १०.३७ । ।

बभौ स दशनज्योत्स्ना सा विभोर्वदनोद्गता ।
निर्यातशेषा चरणाद्गङ्गेवोर्ध्वप्रवर्तिनी । । १०.३८ । ।

जाने वो रक्षसाक्रान्तावनुभावपराक्रमौ ।
अङ्गिनां तमसेवोभौ गुणौ प्रथ्ममध्यमौ । । १०.३९ । ।

विदितं तप्यमानं च तेन मे भुवन्त्रयं ।
अकामोपनतेनेव साधोर्हृदयं एनसा । । १०.४० । ।

कार्येषु चैककार्यत्वादभ्यर्थ्योऽस्मि न वज्रिणा ।
स्वयं एव हि वातोऽग्नेः सारथ्यं प्रतिपद्यते । । १०.४१ । ।

स्वासिधारापरिहृतः कामं चक्रस्य तेन मे ।
स्थापितो दशमो मूर्धा लव्यांश इव रक्षसा । । १०.४२ । ।

स्रष्टुर्वरातिसर्गात्तु मया तस्य दुरात्मनः ।
अत्यारूढं रिपोः सोढं चन्दनेव भोगिनः । । १०.४३ । ।

धातारं तपसा प्रीतं ययाचे स हि राक्षसः ।
दैवात्सर्गादवध्यत्वं मर्त्येष्वास्थापराङ्मुखः । । १०.४४ । ।

सोऽहं दाशरथिर्भूत्वा रणभूमेर्बलिक्षमं ।
करिष्यामि शरैस्तीक्ष्णैस्तच्छिरःकमलोच्चयं । । १०.४५ । ।

अचिराद्वज्वभिर्भागं कल्पितं विधिवत्पुनः ।
मायाविभिरनालीढं आदास्यध्वे मिशाचरैः । । १०.४६ । ।

वैमानिकाः पुण्यकृतस्त्यजन्तु मरुतां पथि ।
पुष्पकालोकसंक्षोभं मेघावरणतत्पराः । । १०.४७ । ।

मोष्यध्वे स्वर्गबन्दीनां वेणीबन्धानदूषितान् ।
शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः । । १०.४८ । ।

रावणावग्रहक्लान्तं इति वागमृतेन सः ।
अभिवृष्य मरुत्सस्यं कृष्णमेघस्तिरोदधे । । १०.४९ । ।

पुरुहूतप्रभृतयः सुरकार्योद्यतं सुराः ।
अंशैरनुययुर्विष्णुं पुष्पैर्वायुं इव द्रुमाः । । १०.५० । ।

अथ तस्य विशांपत्युरन्ते काम्यस्य कर्मणः ।
पुरुषः प्रबभूवाग्नेर्विस्मयेन सहर्त्विजां । । १०.५१ । ।

हेमपात्रगतं दोर्भ्यां आदधानः पयश्चरुं ।
अनुप्रवेशादाद्यस्य पुंसस्तेनापि दुर्वहं । । १०.५२ । ।

प्राजापत्योपनीतं तद्(?) अन्नं प्रत्यग्रहीन्नृपः ।
वृषेव पयसां सारं आविष्कृतं उदन्वता । । १०.५३ । ।

अनेन कथिता राज्ञो गुणास्तस्यान्यदुर्लभाः ।
प्रसूतिं चकमे तस्मिंस्त्रैलोक्यप्रभवोऽपि यथ् । । १०.५४ । ।

स तेजो वैश्नवं पत्न्योर्विभेजे चरुसंज्ञितं ।
द्यावापृथिव्योः प्रत्यग्रं अहर्पतिरिवातपं । । १०.५५ । ।

अर्चिता तस्य कौसल्या प्रिया केकयवंशजा ।
अतः संभावितां ताभ्यां सुमित्रां ऐच्छदीश्वरः । । १०.५६ । ।

ते बहुज्ञस्य चित्तज्ञे पत्न्यौ पत्युर्महीषितः ।
चरोरर्धार्धभागाभ्यां तां अयोजयतां उभे । । १०.५७ । ।

सापि प्रणयवत्यासीत्सपत्न्योरुभयोरपि ।
भ्रमरी वारणस्येव मदनिस्यन्दलेखयोः । । १०.५८ । ।

ताभिर्गर्भः प्रजाभूत्यै दध्रे देवांशसम्भवः ।
सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः । । १०.५९ । ।

समं आपन्नसत्त्वास्ता रेजुरापाण्डुरत्विषः ।
अन्तर्गतफलारम्भाः सस्यानां इव संपदः । । १०.६० । ।

गुप्तं ददृशुरात्मानं सर्वाः स्वप्नेषु वामनैः ।
जलजासिगदाशार्ङ्गचक्रलाञ्छितमूर्तिभिः । । १०.६१ । ।

हेमपक्षप्रभाजालं गगने च वितन्वता ।
उह्यन्ते स्म सुपर्णेन वेगाकृष्टपय्ॐउचा । । १०.६२ । ।

बिभ्रत्या कौस्तुभं न्यासं स्तनान्तरविलम्बिनं ।
पर्युपास्यन्त लक्ष्म्या च पद्मव्यजनहस्तया । । १०.६३ । ।

कृताभिषेकैर्दिव्यायां त्रिस्रोतसि च सप्तभिः ।
ब्रह्म र्षिभिः परं ब्रह्म गृणध्बिरुपतस्थिरे । । १०.६४ । ।

ताभ्यस्तथाविधान्स्वप्नाञ्छ्रुत्वा प्रीतो हि पार्थिवः ।
मेने परार्ध्यं आत्मानं गुरुत्वेन जग्द्गुरोः । । १०.६५ । ।

विभक्तात्मा विभुस्तासां एकः कुषिष्वनेकधा ।
उवास प्रतिमाचन्द्रः प्रसन्नानां अपां इव । । १०.६६ । ।

अथाग्रमहिषी राज्ञः प्रसूतिसमये सती ।
पुत्रं तमोऽपहं लेभे नक्तं ज्योतिरिवौषधिः । । १०.६७ । ।

राम इत्यभिरामेण तेनाप्रतिम तेजसा ।
नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलं । । १०.६८ । ।

रघुवंशप्रदीपेन तेनाप्रतिम तेजसा ।
रक्षागृहगता दीपाः प्रत्यादिष्ट इवाभवन् । । १०.६९ । ।

शय्यागतेन रामेण माता शातोदरी बभौ ।
सैकताम्भोजबलिना जाह्नवीव शरत्कृशा । । १०.७० । ।

कैकेय्यास्तनयो जज्ञे भरतो नाम शीलवान् ।
जनयित्रीं अलंचक्रे यः प्रश्रय इव श्रियं । । १०.७१ । ।

सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ ।
सम्यगागमिता विद्या प्रबोधविनयाविव । । १०.७२ । ।

निर्दोषं अभवत्सर्वं आविष्कृतगुणं जगथ् ।
अन्वगादिव हि स्वर्गो गां गतं पुरुषोत्तमं । । १०.७३ । ।

तस्योदये चतुर्मूर्तेः पौलस्त्यचकितेश्वराः ।
विरजस्कैर्नभस्वद्भिर्दिश उच्छ्वसिता इव । । १०.७४ । ।

कृशानुरपधूमत्वात्प्रसन्नत्वात्प्रभाकरः ।
रक्षिविप्रकृतावास्तां अपविद्धशुचाविव । । १०.७५ । ।

दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः ।
मणिव्याजेन पर्यस्ताः पृथिव्यां अश्रुबिन्दवः । । १०.७६ । ।

पुत्रजन्मप्रवेश्यानां तूर्याणां तस्य पुत्रिणः ।
आरम्भं प्रथमं चक्रुर्देवधुन्दुभयो दिवि । । १०.७७ । ।

संतानकमयी वृष्टिर्भवने चास्य पेतुषी ।
समङ्गलोपचाराणां सैवादिरचनाभवथ् । । १०.७८ । ।

कुमाराः कृतसंस्कारास्ते धात्रिस्तन्य पायिनः ।
आनन्देनाग्रजेनेव समं ववृधिरे पितुः । । १०.७९ । ।

स्वाभाविकं विनीतत्वं तेषं विनयकर्मणा ।
मुमूर्छ सहजं तेजो हविषेव हविर्भुजां । । १०.८० । ।

परस्पराविरुद्धास्ते तद्रघोरनघं कुलं ।
अलं उद्द्योतयां आसुर्देवारण्यं इवर्तवः । । १०.८१ । ।

समानेऽपि हि सौभ्रात्रे यथोभौ रामलक्ष्मणौ ।
तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतुः । । १०.८२ । ।

तेषां द्वयोर्द्वयोरैक्यं बिभिदे न कदाचन ।
यथा वायुविभावस्वोर्यथा चन्द्रसमुद्रयोः । । १०.८३ । ।

ते प्रजानां प्रजानाथास्तेजसा प्रश्रयेण च ।
मनो जह्रुर्निदाघान्ते श्यामाभ्रा दिवसा इव । । १०.८४ । ।

स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः ।
धर्मार्थकाममोक्षाणां अवतार इवाङ्गभाक् । । १०.८५ । ।

गुणैराराधयां आसुस्ते गुरुं गुरुवत्सलाः ।
तं एव चतुर्नतेशं रत्नैरिव महार्णवाः । । १०.८६ । ।

सुरगज इव दन्तैर्भग्नदैत्यासिधारैर्नय इव पणबन्धव्यक्तयोगैरुपायैः ।
हरिरिव युगदीर्घैर्दोर्भिरंषैस्तदीयैः पतिरवनिपतीनां तैश्चकाशे चतुर्भिः । । १०.८७ । ।

"https://sa.wikisource.org/w/index.php?title=रघुवंशम्/दशमः_सर्गः&oldid=123223" इत्यस्माद् पुनः प्राप्तिः