पञ्चतन्त्रम् ०२ख

विकिस्रोतः तः
Jump to navigation Jump to search

सीमा वृद्धिं समायाति शुक्ल-पक्ष इवोडुराट्।
नियोग-संस्थिते यस्मिन् स भृत्योऽर्हो महीभुजाम्॥पञ्च_१.१०१॥
सीमा संकोचम् आयाति वह्नौ चर्म इवाहितम्।
स्थिते यस्मिन् स तु त्याज्यो भृत्यो राज्यं समीहता॥पञ्च_१.१०२॥

तथा शृगालोऽयम् इति मन्यमानेन ममोपरि स्वामिना यद्य् अवज्ञा क्रियते तद् अप्य् अयुक्तम्। उक्तं च यतः-

कौशेयं कृमिजं सुवर्णम् उपलाद् दुर्वापि गोरोमतः
पंकात् तामरसं शशांक उदधेर् इंदीवरं गोमयात्।
काष्ठाद् अग्निर् अहेः फणाद् अपि मणिर् गो-पित्ततो रोचना
प्राकाश्यं स्व-गुणोदयेन गुणिनो गच्छंति किं जन्मना॥पञ्च_१.१०३॥

मूषिका गृह-जातापि हंतव्या स्वाप-कारिणी।
भक्ष्य-प्रदानैर् जारो हितकृत् प्राप्यते जनैः॥पञ्च_१.१०४॥
एरंड-भिंडार्क-नलैः प्रभूतैर् अपि सञ्चितैः।
दारु-कृत्यं यथा नास्ति तथैवाज्ञैः प्रयोजनम्॥पञ्च_१.१०५॥
किं भक्तेनासमर्थेन किं शक्तेर्नापकारिणा।
भक्तं शक्तं च मां राजन् नावज्ञातुं त्वम् अर्हसि॥पञ्च_१.१०६॥

पिंगलक आह- भवत्व् एवं तावत्। असमर्थः समर्थो वा चिरंतनस् त्वम् अस्माकं मंत्रि-पुत्रः। तद् विश्रब्धं ब्रूहि यत् किञ्चिद् वक्तुकामः।

दमनक आह- देव जिज्ञाप्यं किञ्चिद् अस्ति।

पिंगलक आह- तन् निवेदयाभिप्रेतम्।

सो ब्रवीत्-
अपि स्वल्पतरं कार्यं यद् भवेत् पृथिवी-पतेः।
तन् न वाच्यं सभा-मध्ये प्रोवाचेदं बृहस्पतिः॥पञ्च_१.१०७॥

तद् ऐकांतिके मद्-विज्ञाप्यम् आकर्णयंतु देव-पादाः। यतः-

षट्-कर्णो भिद्यते मंत्रश् चतुष्कर्णः स्थिरो भवेत्।
तस्मात् सर्व-प्रयत्नेन षट्कर्णं वर्जयेत् सुधीः॥पञ्च_१.१०८॥

अथ पिंगलकाभिप्रायज्ञा व्याघ्र-द्वीपि-वृक-पुरःसरा सर्वेपि तद्-वचः समाकर्ण्य संसदि तत्-क्षणाद् एव दूरीभूताः। ततश् च दमनक आह- उदक-ग्रहणार्थं प्रवृत्तस्य स्वामिनः किम् इह निवृत्त्यावस्थानम्।

पिंगलक आह सविलक्ष-स्मितम्- न किञ्चिद् अपि।

सो ब्रवीत्- देव यद्य् अनाख्येयं तत् तिष्ठतु। उक्तं च-

दरिषु किञ्चित् स्वजनेषु किञ्चिद्
गोप्यं वयस्येषु सुतेषु किञ्चित्।
युक्तं न वा युक्तम् इदं विचिंत्य
वदेद् विपश्चिन् महतोऽनुरोधात्॥पञ्च_१.[*१००]

तच् छ्रुत्वा पिंगलकश् चिंतयामास- योग्योऽयं दृश्यते। तत् कथयाम्य् एतस्याग्रे आत्मनोऽभिप्रायम्। उक्तं च-

स्वामिनि गुणांतरज्ञे गुणवति भृत्येनुवर्तिनि कलये।
सुहृदि निरंतर-चित्ते निवेद्य दुःखं सुखी भवति॥पञ्च_१.[*१०१]

भो दमनक शृणोषि शब्दं दूरान् महांतम्।

सो ब्रवीत्- स्वामिन् शृणोमि। तत् किम्।

पिंगलक आह- भद्र अहम् अस्माद् वनाद् गंतुम् इच्छामि।
दमनक आह- कस्मात्।

पिंगलक आह - यतोऽद्यास्मद्-वने किम् अप्य् अपूर्वं सत्त्वं प्रविष्टं यस्यायं महा-शब्दः श्रूयते। तस्य च शब्दानुरूपेण पराक्रमेण भवितव्यम् इति।

दमनक आह- यच्-छब्द-मात्राद् अपि भयम् उपगतः स्वामी तद् अप्य् अयुक्तम्। उक्तं च-
अंभसा भिद्यते सेतुस् तथा मंत्रो प्य् अरक्षितः।
पैशुंयाद् भिद्यते स्नेहो भिद्यते वाग्भिर् आतुरः॥पञ्च_१.१११॥

तन् न युक्तं स्वामिनः पूर्वोपार्जितं वनं त्यक्तुम्। यतो भेरी-वेणु-वीणा-मृदंग-ताल-पटह-शंख-काहलादि-भेदेन शब्दा अनेक-विधा भवंति। तन् न केवलाच् छब्द-मात्राद् अपि भेतव्यम्। उक्तं च-

अत्युत्कटे च रौद्रे च शत्रौ प्राप्ते न हीयते।
धैर्यं यस्य महीनाथो न स याति पराभवम्॥पञ्च_१.११२॥
दर्शित-भयेपि धातरि धैर्य-ध्वंसो भवेन् न धीराणाम्।
शोषित-सरसि निदाघे नितराम् एवोढतः सिंधुः॥पञ्च_१.११३॥

तथा च-
यस्य न विपदि विषादः संपदि हर्षो रणे न भीरुत्वम्।
तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलम्॥पञ्च_१.११४॥

तथा च-
शक्ति-वैकल्य-नम्रस्य निःसारत्वाल् लघीयसः।
जन्मिनो मानहीनस्य तृणस्य च समा गतिः॥पञ्च_१.११५॥

अपि च-
अन्य-प्रतापम् आसाद्य यो दृढत्वं न गच्छति।
जतुजाभरणस्येव रूपेणापि हि तस्य किम्॥पञ्च_१.११६॥

तद् एवं ज्ञात्वा स्वामिना धैर्यावष्टंभः कार्यः। न शब्द-मात्राद् भेतव्यम्। अपि च-

पूर्वम् एव मया ज्ञातं पूर्णम् एतद्धि मेदसा।
अनुप्रविश्य विज्ञातं यावच् चर्म च दारु च॥पञ्च_१.११७॥

पिंगलक आह- कथम् एतत्।
पिंगलकोपरि टिप्पणी
सो ब्रवीत्-

कथा २ शृगाल-दुंदुभि-कथा[सम्पाद्यताम्]


कश्चिद् गोमायुर् नाम शृगालः क्षुत्क्षाम-कंठः इतस् ततः परिभ्रमन् वने सैन्य-द्वय-संग्राम-भूमिम् अपश्यत्। तस्यां च दुंदुभेः पतितस्य वायु-वशाद् वल्ली-शाखाग्रैर् हन्यमानस्य शब्दम् अशृणोत्। अथ क्षुभित-हृदयश् चिंतयामास अहो विनष्टोऽस्मि। तद् यावन् नास्य प्रोच्चारित-शब्दस्य दृष्टि-गोचरे गच्छामि तावद् अन्यतो व्रजामि। अथवा नैतद् युज्यते सहसैव।

भये वा यदि वा हर्षे संप्राप्ते यो विमर्शयेत्।
कृत्यं न कुरुते वेगान् न स संतापम् आप्नुयात्॥पञ्च_१.११८॥

तत् तावज् जानामि कस्यायं शब्दः। धैर्यम् आलंब्य विमर्शयन् यावन् मंदं मंदं गच्छति तावद् दुंदुभिम् अपश्यत्। स च तं परिज्ञाय समीपं गत्वा स्वयम् एव कौतुकाद् अताडयत्। भूयश् च हर्षाद् अचिंतयत्- अहो चिराद् एतद् अस्माकं महोद्भोजनम् आपतितम्। तन् नूनं मांस-मेदोऽसृग्भिः परिपूरितं भविष्यति। ततः परुष-चर्मावगुंठितं तत् कथम् अपि विदार्यैकदेशे छिद्रं कृत्वा संहृष्ट-मना मध्ये प्रविष्टः। परं चर्म-विदारणतो दंष्ट्राभंगः समजनि। अथ निराशीभूतस् तद्-दारु-शेषम् अवलोक्य श्लोकम् एनम् अपठत् पूर्वम् एव मया ज्ञातम् इति। अतो न शब्द-मात्राद् भेतव्यम्।

पिंगलक आह- भोः पश्यायं मम सर्वोऽपि परिग्रहो भय-व्याकुलित-मनाः पलायितुम् इच्छति। तत् कथम् अहं धैर्याद् अवष्टंभं करोमि।

सोऽब्रवीत्- स्वामिन् नैषाम् एष दोषः। यतः स्वामि-सदृशा एवं भवंति भृत्याः। उक्तं च-

अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश् च नारी च।
पुरुष-विशेषं प्राप्ता भवंत्य् अयोग्याश् च योग्याश् च॥पञ्च_१.११९॥

तत्-पौरुषावष्टं कृत्वा त्वं तावद् अत्रैव प्रतिपालय यावद् अहम् एतच् छब्द-स्वरूपं ज्ञात्वागच्छामि। ततः पश्चाद् यथोचितं कार्यम् इति।

पिंगलक आह- किं तत्र भवान् गंतुम् उत्सहते।

स आह- किं स्वाम्य्-आदेशात् सद्-भृत्य कृत्याकृत्यम् अस्ति। उक्तं च-

स्वाम्य्-आदेशात् सुभृत्यस्य न भोः सञ्जायते क्वचित्।
प्रविशेन् मुखम् आहेयं दुस्तरं वा महार्णवम्॥पञ्च_१.१२०॥

तथा च-
स्वाम्य्-आदिष्टस् तु यो भृत्यः समं विषमम् एव च।
मन्यते न स संधार्यो भूभुजा भूतिम् इच्छता॥पञ्च_१.१२१॥

पिंगलक आह- भद्रं, यद्य् एवं तद् गच्छ। शिवास् ते पंथानः संतु इति।

दमनको पि तम् प्रणम्य संजीवक-शब्दानुषरी प्रतस्थे।

अथ दमनके गते भय-व्याकुल-मनाः पिंगलकश् चिंतयामास- अहो न शोभनं कृतं मया। यत् तस्य विश्वासं गत्वात्माभिप्रायो निवेदितः। कदाचिद् दमनको यम् उभय-वेतनो भूत्वा ममोपरि दुष्ट-बुद्धिः स्याद् भ्रष्टाधिकारत्वात्। उक्तं च-

ये भवंति महीपस्य संमानित-विमानिताः।
यतंते तस्य नाशाय कुलीना अपि सर्वदा॥पञ्च_१.१२२॥

तत् तावद् अस्य चिकीर्षितं वेत्तुम् अन्यत् स्थानांतरं गत्वा प्रतिपालयामि। कदाचिद् दमनकस् तम् आदाय मां व्यापादयितुम् इच्छति। उक्तं च-

न बध्यंते ह्य् अविश्वस्ता बलिभिर् दुर्बला अपि।
विश्वस्तास् त्व् एव बध्यंते बलवंतोऽपि दुर्बलैः॥पञ्च_१.१२३॥
बृहस्पतेर् अपि प्राज्ञो न विश्वासे व्रजेन् नरः।
य इच्छेद् आत्मनो वृद्धिम् आयुष्यं च सुखानि च॥पञ्च_१.१२४॥
शपथैः संधितस्यापि न विश्वासे व्रजेद् रिपोः।
राज्य-लाभोद्यतो वृत्रः शक्रेण शपथैर् हतः॥पञ्च_१.१२५॥
न विश्वासं विना शत्रुर् देवानाम् अपि सिद्ध्यति।
विश्वासात् त्रिदशेंंद्रेण दितेर् गर्भो विदारितः॥पञ्च_१.१२६॥

एवं संप्रधार्य स्थानांतरं गत्वा दमनक-मार्गम् अवलोकयन्न् एकाकी तस्थौ। दमनकोऽपि सञ्जीवक-सकाशं गत्वा वृषभोऽयम् इति परिज्ञाय हृष्ट-मना व्यचिंतयत्- अहो शोभनम् आपतितम्। अनेनैतस्य संधि-विग्रह-द्वारेण मम पिंगलको वश्यो भविष्यतीति। उक्तं च-

न कौलींयान् न सौहार्दान् नृपो वाक्ये प्रवर्तते।
मंत्रिणां वावद् अभ्येति व्यसनं शोकम् एव च॥पञ्च_१.१२७॥
सदैवापद्गतो राजा भोग्यो भवति मंत्रिणाम्।
अतेव हि वाञ्छंति मंत्रिणः सापदं नृपम्॥पञ्च_१.१२८॥
यथा नेच्छति नीरोगः कदाचित् सुचिकित्सकम्।
तथापद् रहितो राजा सचिवं नाभिवाञ्छति॥पञ्च_१.१२९॥

एवं विचिंतयन् पिंगलकाभिमुखः प्रतस्थे। पिंगलको पि तम् आयांतं प्रेक्ष्य स्वाकारं रक्षन् यथा-पूर्व-स्थितः दमनकोऽपि पिंगलक-सकाशं गत्वा प्रणम्योपविष्टः। पिंगलक आह - किं दृष्टं भवता तत् सत्त्वम्?

दमनक आह- दृष्टं स्वामि-प्रसादात्।

पिंगलक आह- अपि सत्यम्।

दमनक आह- किं स्वामि-पादानाम् अग्रेसत्यं विज्ञाप्यते। उक्तं च-

अपि स्वल्पम् असत्यं यः पुरो वदति भूभुजाम्।
देवानां च विनश्यते स द्रुतं सुमहान् अपि॥पञ्च_१.१३०॥

तथा च-
सर्व-देव-मयो राजा मनुना संप्रकीर्तितः।
तस्मात् तं देववत् पश्येन् न व्यलीकेन कर्हिचित्॥पञ्च_१.१३१॥
सर्व-देवमयस्यापि विशेषो नृपतेर् अयम्।
शुभाशुभ-फलं सद्यो नृपाद् देवाद् भवांतरे॥पञ्च_१.१३२॥

पिंगलक आह- सत्यं दृष्टं भविष्यति भवता। न दीनिपरि महांतः कुप्यंतीति न त्वं तेन निपातितः। यतः-

तृणानि नोन्मूलयति प्रभञ्जनो
मृदूनि नीचैः प्रणतानि सर्वतः।
स्वभाव एवोन्नत-चेतसाम् अयं
महान् महत्स्व् एव करोति विक्रमम्॥पञ्च_१.१३३॥

अपि च-
गंडस्थलेषु मद-वारिषु बद्ध-राग-
मत्त-भ्रमद्-भ्रमर-पाद-तलाहतोऽपि।
कोपं न गच्छति नितांत-बलो पि नागस्
तुल्ये बले तु बलवान् परिकोपम् एति॥पञ्च_१.१३४॥

दमनक आह- अस्त्व् एवं स महात्मा। वयं कृपणाः। तथापि स्वामी यदि कथयति ततो भृत्यत्वे नियोजयामि।

पिंगलक आह सोच्छ्वासम्- किं भवान् शक्नोत्य् एवं कर्तुम्।

दमनक आह- किम् असाध्यं बुद्धेर् अस्ति। उक्तं च-

न तच् छस्त्रैर् न नागेंद्रैर् न हयैर् न पदातिभिः।
कार्यं संसिद्धिम् अभ्येति यथा बुद्ध्या प्रसाधितम्॥पञ्च_१.१३५॥

पिंगलक आह- यद्य् एवं तर्ह्य् अमात्य-पदेध्यारोपितस् त्वम्। अद्य-प्रभृति प्रसाद-निग्रहादिकं त्वयेव कार्यम् इति निश्चयः।

अथ दमनकः सत्वरं गत्वा साक्षेपं तम् इदम् आह- एह्य् एहीतो दुष्ट-वृषभ। स्वामी पिंगलकस् त्वाम् आकारयति। किं निःशंको भूत्वा मुहुर् मुहुर् नदसि वृथा इति।

तच् छ्रुत्वा सञ्जीवको ब्रवीत्- भद्र को यं पिंगलकः।

दमनक आह- किं स्वामिनं पिंगलकम् अपि न जानासि? तत्-क्षणम् प्रतिपालय। फलेनैव ज्ञास्यसि। नंव् अयं सर्व-मृग-परिवृतो बट-तले स्वामी पिंगलक-नामा सिंहस् तिष्ठति।

तच् छ्रुत्वा गतायुषम् इवात्मानम् मंयमानः सञ्जीवकः परं विषादम् अगमत्। आह च- भद्र भवान् साधु-समाचारो वचन-पटुश् च दृश्यते। तद् यदि माम् अवश्यं तत्र नयसि तद्-अभय-प्रदानेन स्वामिनः सकाशात् प्रसादः कारयितव्यः।

दमनक आह-भोः सत्यम् अभिहितं भवता। नीतिर् एषा यतः-

पर्यंतो लभ्यते भूमेः समुद्रस्य गिरेर् अपि।
न कथञ्चिन् महीपस्य चित्तांतः केनचित् क्वचित्॥पञ्च_१.१३६॥

तत्त्वम् अत्रैव तिष्ठ यावद् अहं तं समये दृष्ट्वा ततः पश्चात् त्वाम् अनयामि इति। तथानुष्ठिते दमनकः पिंगलक-सकाशं गत्वेदम् आह-स्वामिन् न तत् प्राकृतं सत्त्वम्। स हि भगवतो महेश्वरस्य वाहन-भूतो वृषभ इति। मया पृष्ट इदम् ऊचे। महेश्वरेण परितुष्टेन कालिंदी-परिसरे शष्पाग्राणि भक्षयितुं समादिष्टः। किं बहुना मम प्रदत्तं भगवता क्रीडार्थं वनम् इदम्।

पिंगलक आह सभयम्-सत्यं ज्ञातं मयाधुना। न देवता-प्रसादं विना शष्प-भोजिनो व्यालाकीर्ण एवंविधे वने निःशंका नंदतो भ्रमंति। ततस् त्वया किम् अभिहितम्।

दमनक आह-स्वामिन् एतद् अभिहितं मया यद् एतद्-वनं चंडिका-वाहन-भूतस्य पिंगलकस्य विषयीभूतम्। तद् भवान् अभ्यागतः प्रियो तिथिः। तत् तस्य सकाशं गत्वा भ्रातृ-स्नेहेनैकत्र भक्षण-पान-विहरण-क्रियाभिर् एक-स्थानाश्रयेण कालो नेयः इति। ततस् तेनापि सर्वम् एतत् प्रतिपन्नम्। उक्तं च सहर्षं स्वामिनः सकाशाद् अभय-दक्षिणा दापयितव्या इति। तद् अत्र स्वामी प्रमाणम्।

तच् छ्रुत्वा पिंगलक आह-साधु सुमते साधु। मंत्रि श्रोत्रिय साधु। मम हृदयेन सह संमंत्र्य भवेदम् अभिहितम्। तद् दत्ता मया तस्याभय-दक्षिणा। परं सो पि मद्-अर्थेभय-दक्षिणां याचयित्वा द्रुततरम् आनीयताम् इति। अथ साधु चेदम् उच्यते-

अंतः-सारैर् अकुटिलैर् अच्छिद्रैः सुपरीक्षितैः।
मंत्रिभिर् धार्यते राज्यं सुस्तंभैर् इव मंदिरम्॥पञ्च_१.१३७॥

तथा च-
मंत्रिणां भिन्न-संधाने भिषजां सांनिपातिके।
कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पंडितः॥पञ्च_१.१३८॥

दमनको पि तं प्रणम्य संजीवक-सकाश प्रस्थितः सहर्षम् अचिंतयत्- अहो प्रसाद-संमुखी नः स्वामी वचन-वशगश् च संवृत्तः। तन् नास्ति धंयतरो मम। उक्तं च-

अमृतं शिशिरे वह्निर् अमृतं प्रिय-दर्शनम्।
अमृतं राज-संमानम् अमृतं क्षीर-भोजनम्॥पञ्च_१.१३९॥

अथ संजीवक-सकाशम् आसाद्य स-प्रश्रयम् उवाच-भो मित्र प्रार्थितो सौ मया भवद्-अर्थे स्वाम्य्-अभय-प्रदानम्। तद्-विश्रब्धं गम्यताम् इति। परं त्वया राज-प्रसादम् आसाद्य मया सह समय-धर्मेण वर्तितव्यम्। न गर्वम् आसाद्य स्व-प्रभुतया विचरणीयम्। अहम् अपि तव संकेतेन सर्वा राज्य-धुरम् अमात्य-पदवीम् आश्रित्योढरिष्यामि। एवं कृते द्वयोर् अप्य् आवयो राज-लक्ष्मी-भाग्या भविष्यति। यतः-

आखेटकस्य धर्मेण विभवाः स्युर् वशे नृणाम्।
नृ-प्रजाः प्रेरयत्य् एको हंत्य् अंयो त्र मृगान् इव॥पञ्च_१.१४०॥

तथा च-
यो न पूजयते गर्वाद् उत्तमाधम-मध्यमान्।
नृपासन्नान् स मान्यो पि भ्रश्यते दंतिलो यथा॥पञ्च_१.१४१॥

संजीवक आह-कथम् एतत्? सो ब्रवीत्-

कथा ३ दंतिल-गोरंभ-कथा[सम्पाद्यताम्]



अस्त्य् अत्र धरातले वर्धमानं नाम नगरम्। तत्र दंतिलो नाम नाना-भांडपतिः सकल-पुर-नायकः प्रतिवसति स्म। तेन पुरकार्यं नृपकार्यं च कुर्वता तुष्टिं नीतास् तत्-पुर-वासिनो लोका नृपतिश् च। किं बहुना, न कोऽपि तादृक् केनापि चतुरो दृष्टो श्रुतो वा। अथवा सत्यम् एतद् उक्तम्-

नरपति-हित-कर्ता द्वेष्यता याति लोके
जनपद-हित-कर्ता त्यज्यते पार्थिवेंद्रैः।
इति महति विरोधे वर्तमाने समाने
नरपति-जन-पदानां दुर्लभः कार्य-कर्ता॥पञ्च_१.१४२॥

अथैव गच्छति काले दन्तिलस्य कदाचिद् विवाहः संप्रवृत्तः। तत्र तेन सर्वे पुर-निवासिनो राज-संनिधि-लोकाश् च सम्मान-पुरःसरम् आमंत्र्य भोजिता वस्त्रादिभिः सत्कृताश् च। ततो विवाहानंतरं राजा सांतःपुरः स्व-गृहम् आनीयाभ्यर्चितः। अथ तस्य नरपतेर् गृह-संमार्जन-कर्ता गोरंभो नाम राज-सेवको गृहायातोऽपि तेनानुचित-स्थान उपविष्टोऽवज्ञायाऽर्ध-चंद्र दत्त्वा निःसारितः। सोऽपि ततः प्रभृति निश्वसन् अपमानान् न रात्राव् अप्य् अधिशेते। कथं मया तस्य भांडपते राज-प्रसाद-हानिः कर्तव्या इति चिंतयंन् आस्ते। अथवा किम् अनेन वृथा शरीर-शोषणेन। न किंचिन् मया तस्यापकर्तुं शक्यम् इति। अथवा साध्व् इदम् उच्यते-

यो ह्य् अपकर्तुम् अशक्तः कुप्यति
किम् असौ नरोऽत्र निर्लज्जः।
उत्पतितोऽपि हि चणकः शक्तः
कि भ्राष्ट्रकं भंक्तुम्॥पञ्च_१.१४३॥

अथ कदाचित् प्रत्यूषे योग-निद्रा गतस्य राज्ञः शय्यांते मार्जन कुर्वन्न् इदम् आह-अहो दंतिलस्य महद् दृप्तत्वं यद् राज-महिषीम् आलिंगति।

तच् छ्रुत्वा राजा स-संभ्रमम् उत्थाय तम् उवाच-भो भो गोरंभ। सत्यम् एतत् यत् त्वया जल्पितम्। कि दंतिलेन समालिंगिता इति।

गोरंभः प्राह-देव! रात्रि-जागरणेन द्यूतासक्तस्य मे बलान् निद्रा समायाता। तन् न वेद्मि किं मयाभिहितम्। राजा सेर्ष्यं स्व-गतम्-एष तावद् अस्मद्-गृहे प्रतिहत-गतिस् तथा दंतिलोऽपि। तत् कदाचिद् अनेन देवी समालिंग्यमाना दृष्टा भविष्यति। तेनेदम् अभिहितम्। उक्तं च-

यद् वाञ्छति दिवा मर्त्यो वीक्षते वा करोति वा।
तत् स्वप्नेपि तद्-अभ्यासाद् ब्रूते वाथ करोति वा॥पञ्च_१.१४४॥

तथा च-
शुभं वा यदि पापं यन् नृणा हृदि संस्थितम्।
सुगूढम् अपि तज् ज्ञेय स्वप्न-वाक्यात् तथा मदात्॥पञ्च_१.१४५॥

अथवा स्त्रीणां विषये कोऽत्र संदेहः।
जल्पंति सार्धम् अन्येन पश्यंत्य् अन्यं स-विभ्रमाः।
हृद्-गतं चिंतयंत्य् अन्यं प्रियः को नाम योषिताम्॥पञ्च_१.१४६॥

अन्यच् च-
एकेन स्मित-पाटलाधर-रुचो जल्पंत्य् अनल्पाक्षरं
वीक्षंतेन्यम् इतः स्फुटत्-कुमुदिनी-फुल्लोल्लसल्-लोचनाः।
दूरोदार-चरित्र-चित्र-विभवं ध्यायंति चान्यं धिया
केनेत्थं परमार्थतोऽर्थवद् इव प्रेमास्ति वाम-भ्रुवाम्॥पञ्च_१.१४७॥

तथा च-
नाग्निस् तृप्यति काष्ठानां नापगानां महोदधिः।
नान्तकः सर्व-भूतानां न पुंसां वाम-लोचना॥पञ्च_१.१४८॥
रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः।
तेन नारद नारीणां सतीत्वम् उपजायते॥पञ्च_१.१४९॥
यो मोहान् मन्यते मूढो रक्तेयं मम कामिनी।
स तस्या वशगो नित्यं भवेत् क्रीडा-शकुंतवत्॥पञ्च_१.१५०॥

अग्रिम पुटम्

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. पञ्चतन्त्रम्
    1. कथा-मुखम् १-७
    2. प्रथमम् तन्त्रम् - मित्रभेदः १-५०
    3. प्रथमम् तन्त्रम् - मित्रभेदः ५१-१००
    4. प्रथमम् तन्त्रम् - मित्रभेदः १०१-१५०
    5. प्रथमम् तन्त्रम् - मित्रभेदः १५१-२००
    6. प्रथमम् तन्त्रम् - मित्रभेदः २०१-२५०
    7. प्रथमम् तन्त्रम् - मित्रभेदः २५१-३००
    8. प्रथमम् तन्त्रम् - मित्रभेदः ३०१-३५०
    9. प्रथमम् तन्त्रम् - मित्रभेदः ३५१-४००
    10. प्रथमम् तन्त्रम् - मित्रभेदः ४०१-४५०
    11. प्रथमम् तन्त्रम् - मित्रभेदः ४५१-४६१
    12. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १-५०
    13. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः ५१-१००
    14. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०
    15. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६
    16. तृतीयम् तन्त्रम् - काकोलूकीयम् १-५०
    17. तृतीयम् तन्त्रम् - काकोलूकीयम् ५१-१००
    18. तृतीयम् तन्त्रम् - काकोलूकीयम् १०१-१५०
    19. तृतीयम् तन्त्रम् - काकोलूकीयम् १५१-२००
    20. तृतीयम् तन्त्रम् - काकोलूकीयम् २०१-२५०
    21. तृतीयम् तन्त्रम् - काकोलूकीयम् २५१-२६०
    22. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०
    23. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४
    24. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् १-५०
    25. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् ५१-९८
  2. पंचतंत्र (hindi wikipedia)
  3. पंचतंत्र (हिन्दी में)]
  4. हितोपदेशम्

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=पञ्चतन्त्रम्_०२ख&oldid=61019" इत्यस्माद् पुनः प्राप्तिः