पञ्चतन्त्रम् ०६क

विकिस्रोतः तः
(पञ्चतन्त्रम् 06क इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

पूर्वपुटम्


अपरं त्वदीयं गीतं न मधुर-स्वरं, शंख-शब्दानुकारं दूराद् अपि श्रूयते। तद् अत्र क्षेत्रे रक्षा-पुरुषाः सुसुप्ताः संति। ते उत्थाय वधं बंधनं वा करिष्यंति। तद् भक्षय तावद् अमृतमयीश् चिर्भटीः। मा त्वम् अत्र गीत-व्यापार-परो भव।

तच् छ्रुत्वा राभस आह-भोः वनाश्रयत्वात् त्वं गीत-रसं न वेत्सि, तेनैतद् ब्रवीषि। उक्तं च-

शरज्-ज्योत्स्नाहते दूरं तमसि प्रिय-संनिधौ।
धन्यानां विशति श्रोत्रे गीत-झंकारजा सुधा॥पञ्च_५.५१॥

शृगाल आह-माम, अस्त्य् एतत्। परं न वेत्सि त्वं गीतम्। केवलम् उन्नदसि। तत् किं तेन स्वार्थ-भ्रंशकेन?

रासभ आह-धिग् धिङ् मूर्ख! किम् अहं न जानामि गीतम्? तद् यथा तस्य भेदान् शृणु-
सप्त स्वरास् त्रयो ग्रामा मूर्च्छनाश् चैकविंशतिः।
तानास् त्व् एकोनपंचाशत् तिस्रो मात्रा लयास् त्रयः॥पञ्च_५.५२॥
स्थान-त्रयं यतीनां च षड्-अस्यानि रसा नव।
रागा षट्-त्रिंशतिर् भावाश् चत्वारिंशत् ततः स्मृताः॥पञ्च_५.५३॥
पञ्चाशीत्य्-अधिकं ह्य् एतद् गीतांगानां शतं स्मृतम्।
स्वयम् एव पुरा प्रोक्तं भरतेन श्रुतेः परम्॥पञ्च_५.५४॥
नान्यद् गीतात् प्रियं लोके देवानां अपि दृश्यते।
शुष्क-स्नायु-स्वराह्लादात् त्र्य्-अक्षं जग्राह रावणः॥पञ्च_५.५५॥

तत् कथं भगिनी-सुत माम् अनभिज्ञं वदन् निवारयति?

शृगाल आह-माम! यद्य् एवं यावद् वृत्तेर् द्वार-स्थितः क्षेत्रपालम् अवलोकयामि, त्वं पुनः स्वेच्छया गीतं कुरु।

तथानुष्ठिते रासभ-रटनम् आकर्ण्य क्षेत्रपः क्रोधात् दंतान् धर्षयन् प्रधावितः। यावद् रासभो दृष्टस् तावल् लगुड-प्रहारैस् तथा हतो, यथा प्रताडितो भू-पृष्ठे पतितः। ततश् च सच्-छिद्रम् उलूखलं तस्य गले बद्ध्वा क्षेत्रपालः प्रसुप्तः। रासभोपि स्वजाति-स्वभावाद् गत-वेदनः क्षणेनाभ्युत्थितः। उक्तं च-
सारमेयस्य चाश्वस्य रासभस्य विशेषतः।
मुहूर्तात् परतौ न स्यात् प्रहार-जनिता व्यथा॥पञ्च_५.५६॥

तत तम् एवोलूखलम् आदाय वृत्तिं चूर्णयित्वा पलायितुम् आरब्धः। अत्रांतरे शृगालोऽपि दूराद् एव दृष्ट्वा स-स्मितम् आह-

साधु मातुल गीतेन मया प्रोक्तोऽपि न स्थितः।
अपूर्वोऽपि मणिर् बद्धः सांप्रतं गीत-लक्षणम्॥पञ्च_५.५७॥

तद् भवान् अपि मया वार्यमाणोऽपि न स्थितः।

रासभ - शृगाल कथोपरि टिप्पणी

तच् छ्रुत्वा चक्रधर आह-भो मित्र! सत्यम् एतत्। अथवा साध्व् इदम् उच्यते-

यस्य नास्ति स्वयं प्रज्ञा मित्रोक्तं न करोति यः।
स एव निधनं याति यथा मंथर-कोलिकः॥पञ्च_५.५८॥

सुवर्णसिद्धिर् आह-कथम् एतत्?

सो ब्रवीत्-

कथा ७ मंथर-कौलिक-कथा[सम्पाद्यताम्]


कस्मिंश्चिद् अधिष्ठाने मंथरको नाम कौलिकः प्रतिवसति स्म। तस्य कदाचित् पट-कर्माणि कुर्वतः सर्व-पट-कर्म-काष्ठानि भग्नानि। ततः स कुठारम् आदाय वने काष्ठार्थं गतः। स च समुद्र-तटे यावद् भ्रमन् प्रयातः तावत् तत्र शिंशपा-पादपस् तेन दृष्टः। ततश् चिंतितवान्-महान् अयं वृक्षो दृश्यते। तद् अनेनैव कर्तितेन प्रभूतानि पट-कर्मोपकरणानि भविष्यंति। इत्य् अवधार्य तस्योपरि कुठारम् उत्क्षिप्तवान्।

अथ तत्र वृक्षे कश्चित् व्यंतरः समाश्रित्य आसीत्। अथ तेनाभिहितम्-भोः! मद्-आश्रयोऽयं पादपः सर्वथा रक्षणीयः। यतोऽहम् अत्र महा-सौख्येन तिष्ठामि। समुद्र-कल्लोल-स्पर्शनाच् छीत-वायुनाप्यायितः।

कौलिक आह-भोः! किम् अहं करोमि? दारु-सामग्रीं विना मे कुटुंबं बुभुक्षया पीड्यते। तस्माद् अन्यत्र शीघ्रं गम्यताम्। अहम् एनं कर्तयिष्यामि।

व्यंतर आह-भोः! तुष्टस् तवाहम्। तत् प्रार्थ्यताम् अभीष्टं किञ्चित्। रक्षैमं पादपम् इति।

कौलिक आह-यद्य् एव तद् अहं स्व-गृहं गत्वा स्व-मित्रं स्व-भार्यां च पृष्ट्वा आगमिष्यामि। ततस् त्वया देयम्।

अथ तथेति व्यंतरेण प्रतिज्ञाते स कौलिकः प्रहृष्टः स्व-गृहं प्रति निवृत्तो यावद् अग्रे गच्छति, तावद् ग्राम-प्रवेशे निज-सुहृदं नापितम् अपश्यत्। ततः तस्य व्यंतर-वाक्यं निवेदयामास, यत्-अहो मित्र! मम कश्चित् व्यंतरः सिद्धः। तत् कथय, किं प्रार्थये? अहं त्वां प्रष्टुम् आगतः।

नापित आह-भद्र! यद्य् एवं तद् राज्यं प्रार्थयस्व, येन त्वं राजा भवसि अहं त्वन्मंत्री। द्वाव् अपीह सुखम् अनुभूय पर-लोक-सुखम् अनुभवावः। उक्तं च-

राजा दान-परो नित्यम् इह कीर्तिम् अवाप्य च।
तत् प्रभावात् पुनः स्वर्गं स्पर्धते त्रिदशैः सह॥पञ्च_५.५९॥

कौलिक आह-अस्त्य् एतत् तथापि गृहिणीं पृच्छामि।

स आह-भद्र! शास्त्र-विरूढम् एतत् यत् स्त्रिया सह मंत्रः। यतस् ताः स्वल्प-मतयो भवंति। उक्तं च-

भोजनाच्छादने दद्याद् ऋतु-काले च संगमम्।
भूषणाद्यं च नारीणां न ताभिर् मंत्रयेत् सुधीः॥पञ्च_५.६०॥
यत्र स्त्री यत्र कितवो बालो यत्र प्रशासिता।
तद् गृहं क्षयम् आयाति भार्गवो हीदम् अब्रवीत्॥पञ्च_५.६१॥
तावत् स्यात् सुप्रसन्नास्यस् तावद् गुरु-जने रतः।
पुरुषो योषितां यावन् न शृणोति वचो रहः॥पञ्च_५.६२॥
एताः स्वार्थ-परा नार्यः केवलं स्व-सुखे रताः।
न तासां वल्लभः कोऽपि सुतोऽपि स्व-सुखं विना॥पञ्च_५.६३॥

कौलिक आह-तथापि प्रष्टव्या सा मया। यतः पतिव्रता सा। अपरं ताम् अपृष्ट्वाहं न किञ्चित् करोमि।

एवं तम् अभिधाय सत्वरं गत्वा ताम् उवाच-प्रिये! अद्यास्माकं कश्चिद् व्यंतरः सिद्धः। स वाञ्छितं प्रयच्छति। तद् अहं त्वां प्रष्टुम् आगतः। तत् कथय किं प्रार्थये? एष तावन् मम मित्रं नापितो वदत्येवं यत्-राज्यं प्रार्थयस्व।

साऽऽह-आर्यपुत्र! का मतिर् नापितानाम्? तन् न कार्यं तद् वचः। उक्तं च-

चारणैर् बंदिभिर् नीचैर् नापितैर् बालकैर् अपि।
न मंत्रं मतिमान् कुर्यात् सार्धं भिक्षुभिर् एव च॥पञ्च_५.६४॥

अपरं महती क्लेश-परंपरैषा राज्य-स्थितिः संधि-विग्रह-यानासन-संश्रय-द्वैधीभावादिभिः कदाचित् पुरुषस्य सुखं न प्रयच्छतीति। यतः-

यदैव राज्ये क्रियतेऽभिषेकस् तदैव याति व्यसनेषु बुद्धिः।
घटा नृपाणाम् अभिषेक-काले सहाऽम्भसैवापदम् उद्गिरंति॥पञ्च_५.६५॥

तथा च-
रामस्य व्रजनं वने निवसनं पांडोः सुतानां वने
वृष्णीनां निधनं नलस्य नृपते राज्यात् परिभ्रंशनम्।
सौदासं तद्-अवस्थम् अर्जुन-वधं सञ्चिंत्य लंकेश्वरं
दृष्ट्वा राज्य-कृते विडंबन-गतं तस्मान् न तद् वाञ्छयेत्॥पञ्च_५.६६॥

यद्-अर्थं भ्रातरः पुत्रा अपि वाञ्छंति ये निजाः।
वधः राज्य-कृतां राज्ञां तद् राज्यं दूरतस् त्यजेत्॥पञ्च_५.६७॥

कौलिक आह-सत्यम् उक्तं भवत्या। तत् कथय किं प्रार्थये?

साह-त्वं तावद् एकं पटं नित्यम् एव निष्पादयसि। तेन सर्वा व्यय-शुद्धिः संपद्यते। इदानीं त्वम् आत्मनो अन्यद् बाहु-युगलं द्वितीयं शिरश् च याचस्व, येन पट-द्वयं संपादयसि पुरतः पृष्ठतश् च। एकस्य मूल्येन गृहे यथा-पूर्वं व्ययं संपादयिष्यसि, द्वितीयस्य मूल्येन विशेष-कृत्यानि करिष्यसि। एवं सौख्येन स्वजाति-मध्ये श्लाघ्यमानस्य कालो यास्यति, लोक-द्वयस्योपार्जना च भविष्यति।

सोऽपि तद् आकर्ण्य प्रहृष्टः प्राह-साधु पतिव्रते! साधु! युक्तम् उक्तं भवत्या। तद् एवं करिष्यामि। एष मे निश्चयः।

ततोऽसौ गत्वा व्यंतरं प्रार्थयांचक्रे-भो, यदि ममेप्सितं प्रयच्छसि तत् देहि मे द्वितीयं बाहु-युगलं शिरश् च।

एवम् अभिहिते तत्-क्षणाद् एव स द्विशिराश् चतुर्बाहुश् च सञ्जातः। ततो हृष्ट-मना यावद् गृहम् आगच्छति तावल्-लोकैः राक्षसोऽयम् इति मान्यमानैर् लगुड-पाषाण-प्रहारैस् ताडितो मृतश् च।

अतोऽहं ब्रवीमि-यस्य नास्ति स्वयं प्रज्ञा इति।

चक्रधर आह-भोः! सत्यम् एतत्। सर्वोऽपि जनो श्रद्धेयाम् आशापिशाचिकां प्राप्य हास्य-पदवीं याति। अथवा साध्व् इदम् उच्यते केनापि-

अनागतवतीं चिंताम् असंभाव्यां करोति यः।
स एव पांडुरः शेते सोम-शर्म-पिता यथा॥पञ्च_५.६८॥

सुवर्णसिद्धिर् आह-कथम् एतत्?

सो ब्रवीत्-

कथा ८ सोम-शर्म-पितृ-कथा[सम्पाद्यताम्]


कस्मिंश्चिन् नगरे कश्चित् स्वभाव-कृपणो नाम ब्राह्मणः प्रतिवसति स्म। तस्य भिक्षार्जितैः सक्तुभिर् भुक्त-शेषैः कलशः संपूरितः। तं च घटं नागदंतेऽवलंब्य तस्याधस्तात् खट्वां निधाय सततम् एक-दृष्ट्या तम् अवलोकयति।

अथ कदाचिद् रात्रौ सुप्तश् चिंतयामास-यत् परिपूर्णोऽयं घटस् तावत् सक्तुभिर् वर्तते। तद् यदि दुर्भिक्षं भवति, तद् अनेन रूप्यकाणां शतम् उत्पत्स्यते। ततस् तेन मयाजाद्वयं ग्रहीतव्यम्। ततः षाण्-मासिकम् आप्रसव-वशात् ताभ्यां यूथं भविष्यति। ततो ऽजाभिः प्रभूता गा ग्रहीष्यामि। गोभिर् महिषीः। महिषीभिर् बडवाः। बडवा-प्रसवतः प्रभूता अश्वा भविष्यंति। तेषां विक्रयात् प्रभूतं सुवर्णं भविष्यति। सुवर्णेन चतुःशालं गृहं संपत्स्यते।

ततः कश्चिद् ब्राह्मणो मम गृहम् आगत्य प्राप्त-वयस्कां रूपाढ्यां कन्यां मह्यं दास्यति। तत्-सकाशात् पुत्रो मे भविष्यति। तस्याऽहं सोमशर्मा इति नाम करिष्यामि। ततस् तस्मिन् जानु-चलन-योग्ये सञ्जातेहं पुस्तकं गृहीत्वाश्व-शालायाः पृष्ठ-देशे उपविष्टस् तद्-अवधारयिष्यामि। अत्रांतरे सोमशर्मा मां दृष्ट्वा जनन्य्-उत्संगाज् जानु-चलन-परो ऽश्व-खुरासन्न-वर्ती मत्-समीपम् आगमिष्यति। ततोऽहं ब्राह्मणीं कोपाविष्टोऽभिधास्यामि-गृहाण तावद् बालकम्। सापि गृह-कर्म-व्यग्रतयास्मद्-वचनं न श्रोष्यति। ततोऽहं समुत्थाय तां पाद-प्रहारेण ताडयिष्यामि।

एवं तेन ध्यान-स्थितेन तथैव पाद-प्रहारो दत्तो यथा स घटो भग्नः, स्वयं च सक्तुभिः पांडुरतां गतः। अतोऽहं ब्रवीमि-अनागतवतीं चिंताम् इति।

---

सुवर्णसिद्धिर् आह-एवम् एतत्। कस् ते दोषः, यतः सर्वोऽपि लोभेन विडंबितो बाध्यते? उक्तं च-

यो लौल्यात् कुरुते कर्म नैवोदर्कम् अवेक्षते।
विडंबनाम् अवाप्नोति स यथा चंद्र-भूपतिः॥पञ्च_५.६९॥

चक्रधर आह-कथम् एतत्?

स आह-

कथा ९ चंद्र-भूपति-कथा[सम्पाद्यताम्]


कस्मिंश्चिन् नगरे चंद्रो नाम भूपतिः प्रतिवसति स्म। तस्य पुत्रा वानर-क्रीडा-रता वानर-यूथं नित्यम् एवानेक-भोजन-भक्ष्यादिभिः पुष्टिं नयंति स्म। अथ वानराधिपो यः स औशनस-बार्हस्पत्य-चाणक्य-मत-वित् तद्-अनुष्ठाता च तत्-सर्वान् अप्य् अध्यापयति स्म।

अथ तस्मिन् राज-गृहे लघु-कुमार-वाहन-योग्यं मेष-यूथम् अस्ति। तन्-मध्याद् एको जिह्वा-लौल्याद् अहर्-निशं निःशंकं महानसे प्रविश्य यत् पश्यति तत् सर्वं भक्षयति। ते च सूपकारा यत् किञ्चित् काष्ठं मृण्-मयं भाजनं कांस्य-पात्रं ताम्र-पात्रं वा पश्यंति तेनाशु ताडयंति।

सोऽपि वानर-यूथपस् तद् दृष्ट्वा व्यचिंतयत्-अहो मेष-सूपकार-कलहोऽयं वानराणां क्षयाय भविष्यति। यतोऽन्न-रसास्वाद-लंपटोऽयं मेषो, महा-कोपाश् च सूपकारा यथासन्न-वस्तुना प्रहरंति। तद् यदि वस्तुनो भावात् कदाचिद् उल्मुकेन ताडयिष्यंति, तदोर्णा-प्रचुरोऽयं मेषः स्वल्पेनापि वह्निना प्रज्वलयिष्यति। तद् दह्यमानः पुनर् अश्व-कुट्यां समीप-वर्तिन्यां प्रवेक्ष्यति। सापि तृण-प्राचुर्याज् ज्वलिष्यति। ततो ऽश्वा वह्नि-दाहम् अवाप्स्यंति।

शालिहोत्रेण पुनर् एतद् उक्तं यत्-वानर-वसयाऽश्वानां वह्नि-दाह-दोषः प्रशाम्यति। तन् नूनम् एतेन भाव्यम् अत्र निश्चयः। एवं निश्चित्य सर्वान् वानरान् आहूय रहसि प्रोवाच, यत्-

मेषेण सूपकाराणां कलहो यत्र जायते।
स भविष्यत्य् असंदिग्धं वानराणां क्षयावहः॥पञ्च_५.७०॥
तस्मात् स्यात् कलहो यत्र गृहे नित्यम् अकारणः।
तद्-गृहं जीवितं वाञ्छन् दूरतः परिवर्जयेत्॥पञ्च_५.७१॥
कलहांतानि हर्म्याणि कुवाक्यांतं च सौहृदम्।
कुराजांतानि राष्ट्राणि कुकर्मान्तं यशो नृणाम्॥पञ्च_५.७२॥

तन् न यावत् सर्वेषां संक्षयो भवति, तावद् एवैतद् राज-गृहं संत्यज्य वनं गच्छामः। अथ तत् तस्य वचनम् अश्रद्धेयं श्रुत्वा मदोद्धता वानराः प्रहस्य प्रोचुः-भो भवतो वृद्ध-भावाद् बुद्धि-वैकल्यं सञ्जातं, येनैतद् ब्रवीषि। उक्तं च-

वदनं दशनैर् हीनं लाला स्रवति नित्यशः।
न मतिः स्फुरति क्वापि बाले वृद्धे विशेषतः॥पञ्च_५.७३॥

न वयं स्वर्ग-समानोपभोगान् नाना-विधान् भक्ष्य-विशेषान् राज-पुत्रैः स्व-दत्तान् अमृत-कल्पान् परित्यज्य तत्राटव्यां कषाय-कटु-तिक्त-क्षार-रूक्ष-फलानि भक्षयिष्यामः।

तच् छ्रुत्वाश्रु-कलुषां दृष्टिं कृत्वा स प्रोवाच-रे रे मूर्खाः! यूयम् एतस्य सुखस्य परिणामं न जानीथ। किं पाक-रसास्वादन-प्रायम् एतत् सुखं परिणामे विषवद् भविष्यति। तद् अहं कुल-क्षयं स्वयं नावलोकयिष्यामि। सांप्रतं वनं यास्यामि। उक्तं च-

मित्रं व्यसन-संप्राप्तं स्व-स्थानं पर-पीडनम्।
धन्यास् ते ये न पश्यंति देश-भंगं कुल-क्षयम्॥पञ्च_५.७४॥

एवम् अभिधाय सर्वांस् तान् परित्यज्य स यूथाधिपोऽटव्यां गतः। अथ तस्मिन् गतेन्यस्मिन् अहनि स मेषो महानसे प्रविष्टो, यावत् सूपकारेण नान्यत् किञ्चित् समासादितं तावद् अर्ध-ज्वलित-काष्ठेन ताड्यमानो जाज्वल्यमान-शरीरः शब्दायमानो ऽश्व-कुट्यां प्रत्यासन्न-वर्तिन्यां प्रविष्टः।

तत्र तृण-प्राचुर्य-युक्तायां क्षितौ तस्य प्रलुठतः सर्वत्रापि वह्नि-ज्वालास् तथा समुत्थि ता यथा केचिद् अश्वाः स्फुटित-लोचनाः पञ्चत्वं गताः। केचिद् बंधनानि त्रोटयित्वा अर्ध-दग्ध-शरीरा इतश् चेतश् च ह्रेषायमाणा धावमाना सर्वम् अपि जन-समूहम् आकुलीचक्रुः।

अत्रांतरे राजा सविषादः शालिहोत्रज्ञान् वैद्यान् आहूय प्रोवाच-भोः! प्रोच्यताम् एषाम् अश्वानां कश्चिद् दाहोपशमनोपायः।

तेपि शास्त्राणि विलोक्य प्रोचुः-देव! प्रोक्तम् अत्र विषये भगवता शालिहोत्रेण, यत्-

कपीनां मेदसा दोषो वह्नि-दाह-समुद्भवा।
अश्वानां नाशम् अभ्येति तमः सूर्योदये यथा॥पञ्च_५.७५॥

तत् क्रियताम् एतच् चिकित्सितां द्राक्, यावद् एते न दाह-दोषेण विनश्यंति।

सोऽपि तद् आकर्ण्य समस्त-वानर-वधम् आदिष्टवान्। किं बहुना, सर्वेपि ते वानरा विविधायुध-लगुड-पाषाणादिभिर् व्यापादिताः इति।

अथ सोऽपि वानर-यूथपस् तं पुत्र-पौत्र-भ्रातृ्-सुत-भागिनेयादि-संक्षयं ज्ञात्वा विषादम् उपगतः। संत्यक्ताहार-क्रियो वनाद् वनं पर्यटति। अचिंतयच् च-कथम् अहं तस्य नृपापसदस्यानृणतां-कृत्येनाऽपकृत्यं करिष्यामि। उक्तं च-

मर्षयेद् धर्षणां योऽत्र वंशजां पर-निर्मिताम्।
भयाद् वा यदि वा कामात् स ज्ञेयः पुरुषाधमः॥पञ्च_५.७६॥

अथ तेन वृढ-वानरेण कुत्रचित् पिपासाकुलेन भ्रमता पद्मिनी-खंड-मंडितं सरः समासादितम्। तद् यावत् सूक्ष्मेक्षिकयावलोकयति तावद् वनचर-मनुष्याणां पद-पंक्ति-प्रदेशोऽस्ति न निष्क्रमणम्। ततश् चिंतितम्-नूनम् अत्र आक्रांते दुष्ट-ग्राहेण भाव्यम्। तत्-पद्मिनी-नालम् आदाय दूरस्थोऽपि जलं पिबामि।

तथानुष्ठिते तन्-मध्याद् राक्षसो निष्क्रम्य रत्न-माला-विभूषित-कंठस् तम् उवाच-भोः! अत्र यः सलिले प्रवेशं करोति स मे भक्ष्यः इति। तन् नास्ति धूर्ततरस् त्वत्-समो अन्यो यः पानीयम् अनेन विधिना पिबति। ततस् तुष्टोऽहं, प्रार्थयस्व हृदय-वाञ्छितम्।

कपिर् आह-भोः! कियती मे भक्षण-शक्तिः?

स आह-शत-सहस्रायुत-लक्षाण्य् अपि जल-प्रविष्टानि भक्षयामि। बाह्यतः शृगालोऽपि मां धर्षयति।

वानर आह-अस्ति मे केनचिद् भूपतिना सहात्यन्तं वैरम्। यद्य् एनां रत्न-मालां मे प्रयच्छसि, तत् परिवारम् अपि तं भूपतिं वाक्य-प्रपञ्चेन लोभयित्वात्र सरसि प्रवेशयामि।

सोपि श्रद्धेयं वचस् तस्य श्रुत्वा रत्न-मालां दत्त्वा प्राह-भो मित्र! यत् समुचितं भवति तत् कर्तव्यम् इति।

वानरोऽपि रत्न-माला-विभूषित-कंठो वृक्ष-प्रासादेषु परिभ्रमन् जनैर् दृष्टः। पृष्टश् च-भो यूथप! भवान् इयंतं कालं कुत्र स्थितः? भवता ईदृग् रत्न-माला कुत्र लब्धा? दीप्त्या सूर्यम् अपि तिरस्करोति।

वानरः प्राह-अस्ति कुत्रचिद् अरण्ये गुप्ततरं महत् सरो धनद-निर्मितम्। तत्र सूर्येर्धोदिते रवि-वारे यः कश्चिन् निमज्जति, स धनद-प्रसादाद् ईदृग्-रत्न-माला-विभूषित-कंठो निःसरति।

अथ भूभुजा तद् आकर्ण्य, स वानरः समाहूतः। पृष्टश् च-भो यूथाधिप! किं सत्यम् एतत्? रत्न-माला-सनाथं सरोऽस्ति क्वापि?

कपिर् आह-स्वामिन्! एष प्रत्यक्षतया मत्-कंठ-स्थितया रत्न-मालया प्रत्ययस् ते। तद् यदि रत्न-मालया प्रयोजनं तन् मया सह कम् अपि प्रेषय, येन दर्शयामि।

तच् छ्रुत्वा नृपतिर् आह-यद्य् एवं तद् अहं स-परिजनः स्वयम् एष्यामि, येन प्रभूता रत्न-माला उत्पद्यते।

वानर आह-एवं क्रियताम्।

तथानुष्ठिते भूपतिना सह रत्न-माला-लोभेन सर्वे कलत्र-भृत्याः प्रस्थिताः। वानरोऽपि राज्ञा दोलाधिरूढेन स्वोत्संगे आरोपितः सुखेन प्रीति-पूर्वम् आनीयते। अथवा साध्व् इदम् उच्यते-
तृष्णे देवि नमस् तुभ्यं यया वित्ताऽन्विता अपि।
अकृत्येषु नियोज्यंते भ्रामंते दुर्गमेष्व् अपि॥पञ्च_५.७७॥

तथा च-
इच्छति शती सहस्रं सहस्री लक्षम् ईहते।
लक्षाधिपस् तथा राज्यं राज्यस्थः स्वर्गम् ईहते॥पञ्च_५.७८॥
जीर्यंते जीर्यतः केशाः दंता जीर्यंति जीर्यतः।
जीर्यतश् चक्षुषी श्रोत्रे तृष्णैका तरुणायते॥पञ्च_५.७९॥

अथ तत्-सरः समासाद्य वानरः प्रत्यूष-समये राजानम् उवाच-देव! अत्रार्धोदिते सूर्येंतः-प्रविष्टानां सिद्धिर् भवति तत् सर्वोऽपि जन एकदैव प्रविशतु। त्वया पुनर् मया सह प्रवेष्टव्यं, येन पूर्व-दृष्ट-स्थानम् आसाद्य, प्रभूतास् ते रत्न-माला दर्शयामि।

अथ प्रविष्टास् ते लोकाः सर्वे भक्षिता राक्षसेन। अथ तेषु चिरमाणेषु राजा वानरम् आह-भो यूथाधिप किम् इति चिरायते मे परिजनः?

तच् छ्रुत्वा वानरः सत्वरं वृक्षम् आरुह्य राजानम् उवाच-भो दुष्ट-नरपते! राक्षसेनांतः-सलिल-स्थितेन भक्षितास् ते परिजनः। साधितं मया कुल-क्षयजं वैरम्, तद् गम्यताम्। त्वं स्वामीति मत्वा नात्र प्रवेशितः। उक्तं च-

कृते प्रतिकृतं कुर्याद् धिंसिते प्रतिहिंसितम्।
न तत्र दोषं पश्यामि यो दुष्टे दुष्टम् आचरेत्॥पञ्च_५.८०॥

तत् त्वया मम कुल-क्षयः कृतः मया पुनस् तव इति।

अथैतद् आकर्ण्य राजा कोपाविष्टः पदातिर् एकाकी यथायात-मार्गेण निष्क्रांतः। अथ तस्मिन् भूपतौ गते राक्षस-स्पृष्टो जलान् निष्क्रम्य सानंदम् इदम् आह-

हतः शत्रुः कृतं मित्रं रत्न-माला न हारिता।
नालेन पिबता तोयं भवता साधु वानर॥पञ्च_५.८१॥

अतोऽहं ब्रवीमि-यो लौल्यात् कुरुते कर्म इति।

---

एवम् उक्त्वा भूयोऽपि स चक्रधरम् आह-भो मित्र! प्रेषय मां, येन स्व-गृहं गच्छामि।

चक्रधर आह-भद्र! आपद्-अर्थे धन-मित्र-संग्रहः क्रियते। तन् माम् एवंविधं त्यक्त्वा क्व यास्यसि? उक्तं च-

यस् त्यक्त्वा सापदं मित्रं याति निष्ठुरतां वहन्।
कृतघ्नस् तेन पापेन नरके यात्य् असंशयम्॥पञ्च_५.८२॥

सुवर्णसिद्धिर् आह-भोः, सत्यम् एतद् यदि गम्य-स्थाने शक्तिर् भवति। एतत् पुनर् मनुष्याणाम् अगम्य-स्थानम्। नास्ति कस्यापि त्वाम् उन्मोचयितुं शक्तिः अपरं यथा यथा चक्र-भ्रम-वेदनया तव मुख-विकारं पश्यामि तथा तथाऽहम् एतज् जानामि यत् द्राग् गच्छामि मा कश्चिन् ममाप्य् अनर्थो भवेद् इति। यतः-

यादृशी वदन-च्छाया दृश्यते तव वानर।
विकालेन गृहीतोऽसि यः परैति स जीवति॥पञ्च_५.८३॥

चक्रधर आह-कथम् एतत्?

सो ब्रवीत्-

कथा १० विकाल-वानर-कथा[सम्पाद्यताम्]


कस्मिंश्चिन् नगरे भद्रसेनो नाम राजा प्रतिवसति स्म। तस्य सर्व-लक्षण-संपन्ना रत्नवती नाम कन्यास्ति। तां कश्चिद् राक्षसो जिहीर्षति। रात्राव् आगत्योपभुंक्ते, परं कृत-रक्षोपधानां तां हर्तुं न शक्नोति। सापि तत्-समये रक्षः-सांनिध्यजाम् अवस्थाम् अनुभवति कंपादिभिः।

एकम् अतिक्रामति काले कदाचित् स राक्षसो मध्य-निशायां गृह-कोणे स्थितः। साऽपि राज-कन्या स्व-सखीम् उवाच-सखि! पश्यैष विकालः समये नित्यम् एव मां कदर्थयति। अस्ति तस्य दुरात्मनः प्रतिषेधोपायः कश्चित्?

तच् छ्रुत्वा राक्षसोऽपि व्यचिंतयत्-नूनं यथाहं तथान्योऽपि कश्चिद् विकाल-नामास्या हरणाय नित्यम् एवागच्छति। परं सोऽप्य् एनां हर्तुं न शक्नोति। तत् तावद् अश्व-रूपं कृत्वाश्व-मध्य-गतो निरीक्षयामि। किं-रूपः स किं-प्रभावश् चेति? एवं राक्षसोऽश्व-रूपं कृत्वाऽश्वानां मध्ये तिष्ठति।

तथानुष्ठिते निशीथ-समये राज-गृहे कश्चिद् अश्व-चौरः प्रविष्टः। स च सर्वान् अश्वान् अवलोक्य तं राक्षसम् अश्वतमं विज्ञायाधिरूढः।

अत्रांतरे राक्षसश् चिंतयामास-नूनम् एष विकाल-नामा मां चौरं मत्वा कोपान् निहंतुम् आगतः। तत् किं करोमि? एवं चिंतयन् सोऽपि तेन खलीनं मुखे निधाय कशाघातेन ताडितः। अथाऽसौ भय-त्रस्त-मनाः प्रधावितुम् आरब्धः।

चौरोऽपि दूरं गत्वा खलीनाकर्षणेन तं स्थिरं कर्तुम् आरब्धवान्। स तु वेगाद् वेगतरं गच्छति। अथ तं तथाऽगणित-खलीनाकर्षणं मत्वा चौरश् चिंतयामास-अहो नैवं-विधा वाजिनो भवंत्य् अगणित-खलीनाः। तन् नूनम् अनेनाश्व-रूपेण राक्षसेन भवितव्यम्। यद्यपि कञ्चित् पांसुलं भूमि-देशम् अवलोकयामि तद् आत्मानं तत्र पातयामि। नान्यथा मे जीवितव्यम् अस्ति।

एवं चिंतयत इष्ट-देवतां स्मरतस् तस्य सोऽश्वो वट-वृक्षस्य तले निष्क्रांतः। चौरो ऽपि वट-प्ररोहम् आसाद्य तत्रैव विलग्नः। ततो द्वाव् अपि तौ पृथग्-भूतौ परमानंद-भाजौ जीवित-विषये लब्ध-प्रत्याशौ संपन्नौ।

अथ तत्र वटे कश्चिद् राक्षस-सुहृद् वानरः स्थित आसीत्। तेन राक्षसं त्रस्तम् आलोक्य व्याहृतम्-भो मित्र! किम् एव पलाय्यतेऽलीक-भयेन? तद् भक्ष्योऽयं मानुषः भक्ष्यताम्।

सोऽपि वानर-वचो निशम्य, स्वरूपम् आधाय शंकित-मनाः स्खलित-गतिर् निवृत्तः। चौरोऽपि तं वानराहूतं ज्ञात्वा कोपात् तस्य लांगूलं लंबमानं मुखे निधाय चर्वितवान्।

वानरोऽपि तं राक्षसाभ्यधिकं मन्यमानो भयान्न किञ्चिद् उक्तवान्। केवलं व्यथार्तो निमीलित-नयनस् तिष्ठति। राक्षसोऽपि तं तथा-भूतम् अवलोक्य श्लोकम् एनम् अपठत्-

यादृशी वदन-च्छाया दृश्यते तव वानर। विकालेन गृहीतोऽसि यः परैति स जीवति॥पञ्च_५.८४॥

विकाल - वानर कथायाः विवेचनम्

कथा ११ अन्धक-कुब्जक-त्रिस्तनी-कथा[सम्पाद्यताम्]



अस्त्य् अत्र धरा-तल उत्तरा-पथे मधु-पुरं नाम नगरम्। तत्र मधुसेनो नाम राजा बभूव। तस्य कदाचिद् विषय-सुखम् अनुभवतस् त्रिस्तनी कन्या बभूव। अथ तां त्रिस्तनीं जातां श्रुत्वा स राजा कञ्चुकिनः प्रोवाच, यद्-भोस् त्यज्यताम् इयं त्रस्तनीं गत्वा दूरेऽरण्ये यथा कश्चिन् न जानाति।

तच् छ्रुत्वा कञ्चुकिनः प्रोचुः-महाराज ज्ञायते यद् अनिष्ट-कारिणी त्रिस्तनी कन्या भवति। तथापि ब्राह्मणम् आहूय प्रष्टव्याः, येन लोक-द्वयं न विरुध्यते, यतः-
यः सततं परिपृच्छति शृणोति संधारयत्य् अनिशम्।
तस्य दिवाकर-किरणैर् नलिनीव विवर्धते बुद्धिः॥पञ्च_५.८७॥

तथा च-
पृच्छकेन सदा भाव्यं पुरुषेण विजानता।
राक्षसेंद्र-गृहीतोऽपि प्रश्नान् मुक्तो द्विजः पुरा॥पञ्च_५.८८॥

राजा आह--कथम् एतत्?

ते प्रोचुः-

कथा १२ चंडकर्म-नाम-राक्षस-कथा[सम्पाद्यताम्]


देव! कस्मिश्चिद् वनोद्देशे चंडकर्मा नाम राक्षसः प्रतिवसति स्म। एकदा तेन भ्रमताऽटव्यां कश्चिद् ब्राह्मणः समासादितः। ततस् तस्य स्कंधम् आरुह्य प्रोवाच-भो अग्रेसरो गम्यताम्।

ब्राह्मणोऽपि भय-त्रस्त-मनास् तम् आदाय प्रस्थितः। अथ तस्य कमलोदर-कोमलौ पादौ दृष्ट्वा ब्राह्मणो राक्षसम् अपृच्छत्-भोः! किम् एवं-विधौ ते पादाव् अतिकोमलौ?

राक्षस आह-भोः! व्रतम् अस्ति, नाहम् आर्द्र-पादो भूमिं स्पृशामि।

ततस् तच् छ्रुत्वात्मनो मोक्षोपायं चिंतयंस् तत्-सरः प्राप्तः। ततो राक्षसेनाभिहितं-भोः! यावद् अहं स्नानं कृत्वा देवतार्चन-विधिं विधायागच्छामि तावत् त्वयाऽतः स्थानाद् अन्यत्र न गंतव्यम्।

तथानुष्ठिते द्विजश् चिंतयामास-नूनं देवतार्चन-विधेर् ऊर्ध्वं माम् एष भक्षयिष्यति। तद् द्रुततरं गच्छामि, येनैष आर्द्र-पादो न मम पृष्ठम् एष्यति।

तथानुष्ठिते राक्षसो व्रत-भंग-भयात् तस्य पृष्ठं न गतः। अतोऽहं ब्रवीमि-पृच्छकेन सदा भाव्यम् इति।

अथ तेभ्यस् तच् छ्रुत्वा राजा द्विजान् आहूय प्रोवाच-भो ब्राह्मणाः! त्रिस्तनी मे कन्या समुत्पन्ना, तत् किं तस्याः प्रतिविधानम् अस्ति, न वा?

हीनांगी वाधिकांगी वा या भवेत् कन्यका नृणाम्।
भर्तुः स्यात् सा विनाशाय स्व-शील-निधनाय च॥पञ्च_५.८९॥
या पुनस् त्रिस्तनी कन्या याति लोचन-गोचरम्।
पितरं नाशत्य् एव सा द्रुतं नात्र संशयः॥पञ्च_५.९०॥

तस्माद् अस्या दर्शनं परिहरतु देवः। तथा यदि कश्चिद् उद्वाहयति, तद् एनां तस्मै दत्त्वा, देश-त्यागेन स नियोजयितव्यः इति। एवं-कृते लोक-द्वयाविरुद्धता भवति।

अथ तेषां तद्-वचनम् आकर्ण्य स राजा पटह-शब्देन सर्वत्र घोषणाम् आज्ञापयामास-अहो! त्रिस्तनीं राजकन्यां यः कश्चिद् उद्वाहयति स सुवर्ण-लक्षं आप्नोति देश-त्यागं च।

एवं तस्यां आघोषणायां क्रियमाणायां महान् कालो व्यतीतः। न कश्चित् तां प्रतिगृह्णाति। सापि यौवनोन्मुखी सञ्जाता सुगुप्त-स्थान-स्थिता यत्नेन रक्ष्यमाणा तिष्ठति।

अत्र तत्रैव नगरे कश्चिद् अन्धस् तिष्ठति। तस्य च मंथरक-नामा कुब्जोऽग्रेसरो यष्टि-ग्राही। ताभ्यां तं पटह-शब्दम् आकर्ण्य, मिथो मंत्रित-स्पृश्यतेऽयं पटहः। यदि कथम् अपि दैवात् कन्या लभ्यते। सुवर्ण-प्राप्तिश् च भवति, तथा सुखेन सुवर्ण-प्राप्त्या कालो व्रजति। अथ यदि तस्य दोषतो मृत्युर् भवति। तदा दारिद्र्योपात्तस्याऽस्य क्लेशस्य पर्यन्तो भवति। उक्तं च-

लज्जा स्नेहः स्वर-मधुरता बुद्धयो यौवन-श्रीः
कांतासंगः स्वजन-ममता दुःख-हानिर् विलासः।
धर्मः शास्त्रं सुर-गुरु-मतिः शौचम् आचार-चिंता
पूर्णे सर्वे जठर-पिठरे प्राणिनां संभवन्ति॥पञ्च_५.९१॥

एवम् उक्त्वान्धेन गत्वा, स पटहः स्पृष्टः। उक्तं च-भोः! अहं तां कन्याम् उद्वाहयामि, यदि राजा मे प्रयच्छति।

ततस् तै राज-पुरुषैर् गत्वा राज्ञे निवेदितम्-देव! अन्धेन केनचित् पटहः स्पृष्टः। तद् अत्र विषये देवः प्रमाणम्।

राजा प्राह-

अन्धो वा बधिरो वाऽथ कुष्ठी वाप्य् अन्त्यजोऽपि वा।
परिगृह्णातु तां कन्यां स-लक्षां स्याद् विदेशगः॥पञ्च_५.९२॥

अथ राजादेशात् तै राज-पुरुषैस् तं नदी-तीरे नीत्वा सुवर्ण-लक्षेण समं विवाह-विधिना त्रिस्तनीं तस्मै दत्त्वा, जल-याने निधाय कैवर्ताः प्रोक्ताः-भो! देशांतरं नीत्वा कस्मिंश्चिद् अधिष्ठानेऽन्धः सपत्नीकः कुब्जकेन सह मोचनीयः।

तथानुष्ठिते विदेशम् आसाद्य कस्मिंश्चिद् अधिष्ठाने कैवर्त-दर्शिते त्रयोऽपि मूल्येन गृहं प्राप्ताः सुखेन कालं नयन्ति स्म। केवलम् अन्धः पर्यंके सुप्तस् तिष्ठति, गृह-व्यापारं मंथरकः करोति। एवं गच्छता कालेन त्रिस्तन्या कुब्जकेन सह विकृतिः समपद्यत। अथवा साध्व् इदम् उच्यते-

यदि स्याच् छीतलो वह्निश् चंद्रमा दहनात्मकः।
सुस्वादुः सागरः स्त्रीणां तत्-सतीत्वं प्रजायते॥पञ्च_५.९३॥

अथान्येद्युस् त्रिस्तन्या मंथरकोऽभिहितः-भोः सुभग! यद्य् एषो अन्धः कथञ्चित् व्यापाद्यते, तद् आवयोः सुखेन कालो याति। तद् अन्विष्यतां कुत्रचिद् विषम्, येनास्मै तत् प्रदाय सुखिनी भवामि।

अन्यदा कुब्जकेन परिभ्रमता मृतः कृष्णसर्पः प्राप्तः। तं गृहीत्वा प्रहृष्ट-मना गृहम् अभ्येत्य ताम् आह-सुभगे! लब्धोऽयं कृष्ण-सर्पः। तद् एनं खंडशः कृत्वा प्रभूत-शुंठ्य्-आदिभिः संस्कार्यास्मै विकल-नेत्राय मत्स्यामिषं भणित्वा प्रयच्छ येन द्राग् विनश्यति। यतोऽस्य मत्स्यामिषं सदा प्रियम्। एवम् उक्त्वा मंथरको बहिर् गतः।

सापि प्रदीप्ते वह्नौ कृष्ण-सर्पं खंडशः कृत्वा तक्र-स्थाल्याम् आधाय गृह-व्यापाराकुला तं विकलाऽक्षं स-प्रश्रयम् उवाच-आर्य-पुत्र! तवाभीष्टं मत्स्य-मांसं समानीतम्। यतस् त्वं सदैव तत् पृच्छसि। ते च मत्स्या वह्नौ पाचनाय तिष्ठन्ति। तद् यावद् अहं गृहकृत्यं करोमि, तावत् त्वं दर्वीम् आदाय क्षणम् एकं तान् प्रचालय।

सोऽपि तद् आकर्ण्य हृष्ट-मनाः सृक्कणी परिलिहन् द्रुतम् उत्थाय दर्वीम् आदाय प्रमथितुम् आरब्धः। अथ तस्य मत्स्यान् मथ्नतो विष-गर्भ-बाष्पेण संस्पृष्टं नील-पटलं चक्षुर्भ्याम् अगलत्। असाव् अप्य् अन्धस् तं बहु-गुणं मन्यमानो विशेषान् नेत्राभ्यां बाष्प-ग्रहणम् अकरोत्।

ततो लब्ध-दृष्टिर् जातो यावत् पश्यति, तावत् तक्र-मध्ये कृष्ण-सर्प-खंडानि केवलान्य् एवावलोकयति। ततो व्यचिंतयत्-अहो, किम् एतत्? मम मत्स्यामिषं कथितम् आसीद् अनया। एतानि तु कृष्ण-सर्प-खंडानि। तत् तावद् विजानामि सम्यक् त्रिस्तन्याश् चेष्टितम्। किं मम वधोपाय-क्रमः कुब्जस्य वा? उताहो अन्यस्य वा कस्यचित्? एवं विचिन्त्य स्वाकारं गूहयन्न् अन्धवत् कर्म करोति यथा पुरा।

अत्रांतरे कुब्जः समागत्य निःशंकतयालिंगन-चुंबनादिभिस् त्रिस्तनीं सेवितुम् उपचक्रमे। सोऽप्य् अन्धस् तम् अवलोकयन्न् अपि यावन् न किञ्चिच् छस्त्रं पश्यति, तावत् कोप-व्याकुल-मनाः पूर्ववच् छयनं गत्वा कुब्जं चरणाभ्यां संगृह्य सामर्थ्यात् स्व-मस्तकोपरि भ्रामयित्वा त्रिस्तनीं हृदये व्यताडयत्।

अथ कुब्ज-प्रहारेण तस्यास् तृतीयः स्तन उरसि प्रविष्टः। तथा बलान् मस्तकोपरिं भ्रमणेन कुब्जः प्राञ्जलतां गतः।
त्रिस्तना-अन्धः - कुब्जक कथोपरि टिप्पणी

अतोऽहं ब्रवीमि-अन्धकः कुब्जकश् चैव (८४) इति।

सुवर्णसिद्धिर् आह-भोः सत्यम् एतत्। दैवानुकूलतया सर्वं कल्याणं संपद्यते। तथापि पुरुषेण सतां वचनं कार्यम्। पुनर् एवम् एव वर्तितव्यम्। अथ एवम् एव यो वर्तते, स त्वम् इव विनश्यति। तथा च-

एकोदराः पृथग् ग्रीवा अन्योन्य-फल-भक्षिणः।
असंहता विनश्यंति भारुंडा इव पक्षिणः॥पञ्च_५.९४॥

चक्रधर आह-कथम् एतत्?

सोऽब्रवीत्-

कथा १३ भारुंड-पक्षि-कथा[सम्पाद्यताम्]


कस्मिंश्चित् सरोवरे भारुंड-नामा पक्षी एकोदरः पृथग्-ग्रीवः प्रतिवसति स्म। तेन च समुद्र-तीरे परिभ्रमता कञ्चित् फलम् अमृत-कल्पं तरंग-क्षिप्तं संप्राप्तम्। सोऽपि भक्षयन्न् इदम् आह-अहो! बहूनि मयामृत-प्रायाणि समुद्र-कल्लोलाहृतानि फलानि भक्षितानि। परम् अपूर्वो ऽस्यास्वादः। तत् किं पारिजात-हरिचंदन-तरु-संभवम्? किं वा, किञ्चिद् अमृत-मय-फलम् इदम् अव्यक्तेनापि विधिनाऽपातितम्।

एवं तस्य ब्रुवतो द्वितीय-मुखेनाऽभिहितम्-भो, यद्य् एवं तन् ममापि स्तोकं प्रयच्छ, येनाऽहम् अपि जिह्वा-सौख्यम् अनुभवामि।

ततो विहस्य प्रथम-वक्त्रेणाभिहितम्-आवयोस् तावद् एकम् उदरम्। एका तृप्तिश् च भवति। ततः किं पृथग् भक्षितेन? वरम् अनेन शेषेण प्रिया तोष्यते।

एवम् अभिधाय तेन शेषं भारुंड्याः प्रदत्तम्। सापि तद् आस्वाद्य प्रहृष्टतमालिंगन-चुंबन-संभावनाद्य्-अनेक-चाटु-परा च बभूव। द्वितीयं मुखं तद्-दिनाद् एव प्रभृति सोद्वेगं स-विषादं च तिष्ठति।

अथान्येद्युर् द्वितीय-मुखेन विष-फलं प्राप्तम्। तद् दृष्ट्वाऽपरम् आह-भो निस्त्रिंश! पुरुषाधम! निरपेक्ष! मया विष-फलम् आसादितम्। तत् तवापमानाद् भक्षयामि।

अपरेणाभिहितम्-मूर्ख! मा मैवं कुरु। एवं कृते द्वयोर् अपि विनाशो भविष्यति। अथैवं वदता तेनापमानेन तत् फलं भक्षितम्। किं बहुना, द्वाव् अपि विनष्टौ।

सिन्धु घाटी मुद्रायां भारुण्डः

भारुण्ड सामस्य विवेचनम् ---

अतोऽहं ब्रवीमि-एकोदराः पृथग्-ग्रीवाः (९२) इति।

चक्रधर आह-सत्यम् एतत्। तद् गच्छ गृहम्। परम् एकाकिना न गंतव्यम्। उक्तं च-

एकः स्वादु न भुञ्जीत एकश् चार्थान् न चिंतयेत्।
एको न गच्छेद् अध्वानं नैकः सुप्तेषु जागृयात्॥पञ्च_५.९५॥

अपि च-
अपि कापुरुषो मार्गे द्वितीयः क्षेम-कारकः।
कर्कटेन द्वितीयेन जीवितं परिरक्षितम्॥पञ्च_५.९६॥

सुवर्ण-सिद्धिः प्राह-कथम् एतत्?

सो ब्रवीत्-

कथा १४ ब्राह्मण-कर्कटक-कथा[सम्पाद्यताम्]



कस्मिंश्चिदधिष्ठाने ब्रह्मदत्तनामा ब्राह्मणः प्रतिवसति स्म ।
स च प्रयोजनवशाद्ग्रामे प्रस्थितः स्वमात्राभिहितः यद्वत्स कथमेकाकी व्रजसि । तदन्विष्यतां कश्चिद्वितीयः सहायः ।
स आह अम्ब मा भैषीः । निरुपद्रवोऽयं मार्गः । कार्यवशादेकाकी गमिष्यामि ।
अथ तस्य तं निश्चयं ज्ञात्वा समीपस्थवाप्याः सकाशात्कर्कटमादाय मात्राभिहितः - वत्स अवश्यं यदि गन्तव्यं तदेष कर्कटोऽपि सहायः । तदेनं गृहीत्वा गच्छ ।
सोऽपि मातुर्वचनादुभाभ्यां पाणिभ्यां तं संगृह्य कर्पूरपुटिकामध्ये निधाय पात्रमध्ये संक्षिप्य शीघ्रं प्रस्थितः ।
अथ गच्छन्ग्रीष्मोष्मणा संतप्तः कंचिन्मार्गस्थं वृक्षमासाद्य तत्रैव प्रसुप्तः ।
अत्रान्तरे वृक्षकोटरान्निर्गत्य सर्पस्तत्समीपमागतः । सोपि कर्पूरसुगन्धसहजप्रियत्वात्तं परित्यज्य वस्त्रं विदार्याभ्यन्तरगतां कर्पूरपुटिकामतिलौल्यादभक्षयत् ।
सोऽपि कर्कटस्तत्रैव स्थितः सन्सर्पप्राणानपाहरन् ।
ब्राह्मणोपि यावत्प्रबुद्धः पश्यति तावत्समीपे कृष्णसर्पो निजपार्श्वे कर्पूरपुटिकोपरि मृतस्तिष्ठति । तं दृष्ट्वा व्यचिन्तयत् कर्कटेनाऽयं हतः । इति प्रसन्नो भूत्वाऽब्रवीन्- भोः सत्यमभिहितं मम मात्रा यत्पुरुषेण कोऽपि सहायः कार्यो नैकाकिना गन्तव्यम् । ततो मया श्रद्धापूरितचेतसा तद्वचनमनुष्ठितम् । तेनाऽहं कर्कटेन सर्पव्यापादनाद्रक्षितः । अथवा साध्विदमुच्यते-

क्षीणः श्रयति शशी रविम् ऋद्धो वर्धयति पयसां नाथम्।
अन्ये विपदि सहाया धनिनां श्रियम् अनुभवंत्य् अन्ये॥पञ्च_५.९७॥
मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ।
यादृशी भावना यस्य सिद्धिर्भवति तादृशी ।। ९८ ।।
एवमुक्त्वाऽसौ ब्राह्मणो यथाभिप्रेतं गतः ।

ब्राह्मण - कर्कट कथोपरि टिप्पणीः

अतोऽहं ब्रवीमि । अपि कापुरुषो मार्गे । इति
ततश्च सुवर्णसिद्धिरपि तं चक्रधरं ब्राह्मणो यथानुज्ञाप्य स्वगृहं गतः ।
समाप्तं चेदमपरीक्षितकारकं नाम पञ्चमं तन्त्रम् ।
इति श्रीविष्णुशर्मविरचिते पञ्चतन्त्रके अपरी
क्षितकारकं नाम पञ्चमं तन्त्रं समाप्तम् ।
समाप्तं चेदं पञ्चतन्त्रकं नाम नीतिशास्त्रम् ।

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. पञ्चतन्त्रम्
    1. कथा-मुखम् १-७
    2. प्रथमम् तन्त्रम् - मित्रभेदः १-५०
    3. प्रथमम् तन्त्रम् - मित्रभेदः ५१-१००
    4. प्रथमम् तन्त्रम् - मित्रभेदः १०१-१५०
    5. प्रथमम् तन्त्रम् - मित्रभेदः १५१-२००
    6. प्रथमम् तन्त्रम् - मित्रभेदः २०१-२५०
    7. प्रथमम् तन्त्रम् - मित्रभेदः २५१-३००
    8. प्रथमम् तन्त्रम् - मित्रभेदः ३०१-३५०
    9. प्रथमम् तन्त्रम् - मित्रभेदः ३५१-४००
    10. प्रथमम् तन्त्रम् - मित्रभेदः ४०१-४५०
    11. प्रथमम् तन्त्रम् - मित्रभेदः ४५१-४६१
    12. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १-५०
    13. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः ५१-१००
    14. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०
    15. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६
    16. तृतीयम् तन्त्रम् - काकोलूकीयम् १-५०
    17. तृतीयम् तन्त्रम् - काकोलूकीयम् ५१-१००
    18. तृतीयम् तन्त्रम् - काकोलूकीयम् १०१-१५०
    19. तृतीयम् तन्त्रम् - काकोलूकीयम् १५१-२००
    20. तृतीयम् तन्त्रम् - काकोलूकीयम् २०१-२५०
    21. तृतीयम् तन्त्रम् - काकोलूकीयम् २५१-२६०
    22. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०
    23. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४
    24. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् १-५०
    25. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् ५१-९८
  2. पंचतंत्र (hindi wikipedia)
  3. पंचतंत्र (हिन्दी में)]
  4. हितोपदेशम्

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=पञ्चतन्त्रम्_०६क&oldid=112803" इत्यस्माद् पुनः प्राप्तिः