पञ्चतन्त्रम् ०४ख

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

सृष्टा मूत्र-पुरीषार्थम् आहाराय च केवलम्।
धर्म-हीनाः परार्थाय पुरुषाः पशवो यथा॥पञ्च_३.१०१॥
स्थैर्यं सर्वेषु कृत्येषु शंसंति नय-पंडिताः।
बह्व्-अंतराय-युक्तस्य धर्मस्य त्वरिता गतिः॥पञ्च_३.१०२॥
संक्षेपात् कथ्यते धर्मो जनाः किं विस्तरेण वः।
परोपकारः पुण्याय पापाय पर-पीडनम्॥पञ्च_३.१०३॥
श्रूयतां धर्म-सर्वस्वं श्रुत्वा चैवावधार्यताम्।
आत्मनः प्रतिकूलानि परेषां न समाचरेत्॥पञ्च_३.१०४॥

अथ तस्य तां धर्मोपदेशनां श्रुत्वा शशक आह-भोः भोः कपिञ्जल! एष नदी-तीरे तपस्वी धर्म-वादी तिष्ठति। तद् एनं पृच्छावः।

कपिञ्जल आह-ननु स्वभावतो यम् अस्माकं शत्रु-भूतः। तद् दूरे स्थित्वा पृच्छावः। कदाचिद् अस्य व्रत-वैकल्यं संपद्येत। ततो दूरस्थो ताव् ऊचतुः-भोस् तपस्विन्! धर्मोपदेशक! आवयोर् विवादो वर्तते। तद् धर्म-शास्त्र-द्वारेणास्माकं निर्णयं कुरु। यो हीनवादी स ते भक्ष्य इति।

स आह-भद्रौ! मा मैवं वदतम्। निवृत्तो हं नरक-मार्गाद् धिंसा-कर्मणः। अहिंसैव धर्म-मार्गः। उक्तं च-

अहिंसा-पूर्वको धर्मो यस्मात् सर्व-हिते रतः।
यूका-मत्-कुण-दंशादींस् तस्मात् तान् अपि रक्षयेत्॥पञ्च_३.१०५॥
हिंसकांय् अपि भूतानि यो हिंसति स निर्घृणः।
स याति नरकं घोरं किं पुनर् यः शुभानि च॥पञ्च_३.१०६॥
एतेपि ये याज्ञिका यज्ञ-कर्मणि पशून् व्यापादयंति, ते मूर्खाः। परमार्थं श्रुतेर् न जानंति। तत्र किलैतद् उक्तम्-अजयैष्टव्यम्। अजा व्रीहयस् तावत् सप्त-वार्षिकाः कथ्यंते न पुनः पशु-विशेषः। उक्तं च-

वृक्षांश् छित्त्वा पशून् हत्वा कृत्वा रुधिर-कर्दमम्।
यद्य् एवं गम्यते स्वर्गं नरकं केन गम्यते॥पञ्च_३.१०७॥

तन् नाहं भक्षयामि। परं जय-पराजय-निर्णयं करिष्यामि। किंत्व् अहं वृद्धो दूरान् न यथावच् छृणोमि। एवं ज्ञात्वा मम समीप-वर्तिनो भूत्वा ममाग्रे अन्यायं वदतं, येन विज्ञाय, विवाद-परमार्थं वचो वदतो मे पर-लोक-बाधा न भवति। उक्तं च-

मानाद् वा यदि वा लोभात् क्रोधाद् वा यदि वा भयात्।
यो अंयायम् अंयथा ब्रूते स याति नरकं नरः॥पञ्च_३.१०८॥
पञ्च पश्व्-नृते हंति दश हंति गवानृते।
शतं कन्याऽनृते हंति सहस्रं पुरुषानृते॥पञ्च_३.१०९॥
उपविष्टः सभा-मध्ये यो न वक्ति स्फुटं वचः।
तस्माद् दूरेण स त्याज्यो न यो वा कीर्तयेद् ड़्तम्॥पञ्च_३.११०॥

तस्माद् विश्रब्धौ मम कर्णोपांतिके स्फुटं निवेदयतम्। किं बहुना, तेन क्षुद्रेण तथा तौ पूर्णं विश्वासितौ यथा तस्योत्संग-वर्तिनौ जातौ। ततश् च तेनापि सम-कालम् एवैकः पादांतेनाक्रांतो अन्यो दंष्ट्राक्रकचेन च ततो गत-प्राणौ भक्षिताव् इति। अतोऽहं ब्रवीमि-क्षुद्रम् अर्थ-पतिं प्राप्य (९१) इति।

भवन्तोऽप्य् एनं दिवांधं क्षुद्रम् अर्थ-पतिम् आसाद्य रात्र्य्-अंधाः सन्तः शशक-पिञ्जल-मार्गेण यास्यन्ति। एवं ज्ञात्वा यद् उचितं तद् विधेयम्। अथ तस्य तद्-वचनम् आकर्ण्य साध्व् अनेनाभिहितम् इत्य् उक्ता, भूयोऽपि पार्थिवार्थं समेत्य मंत्रयिष्यामहे इति ब्रुवाणाः सर्वे पक्षिणो यथाभिमतं जग्मुः। केवलम् अवशिष्टो भद्रासनोपविष्टो ऽभिषेकाभिमुखो दिवांधः कृकालिकया सहास्ते। आह च-कः कोऽत्र भोः! किम् अद्यापि न क्रियते ममाभिषेकः?

इति श्रुत्वा कृकालिकयाभिहितम्-भद्र! कृतोऽयं विघ्नस् ते काकेन? गताश् च सर्वेऽपि विहगा यथेप्सितासु दिक्षु केवलम् एकोऽयं वायसोऽवशिष्टस् तिष्ठति केनापि कारणेन। तत् त्वरितम् उत्तिष्ठ, येन त्वां स्वाश्रयं प्रापयामि।

तच् छ्रुत्वा स-विषादम् उलूको वायसम् आह-भो भो दुष्टात्मन्! किं मया तेऽपकृतं यद् राज्याभिषेको मे विघ्नितः? तद् अद्य-प्रभृति सान्वयम् आवयोर् वैरं सञ्जातम्। उक्तं च-

रोहते सायकैर् विद्धं छिन्नं रोहति चासिना।
वचो दुरुक्तं बीभत्सं न प्ररोहति वाक्-क्षतम्॥पञ्च_३.१११॥

इत्य् एवम् अभिधाय कृकालिकया सह स्वाश्रमं गतः। अथ भय-व्याकुलो वायसो व्यचिंतयत्-अहो! अकारणं वैरम् आसादितं मया। किम् इदं व्याहृतम्? उक्तं च-
अदेश-कालज्ञम् अनायति-क्षमं
यद् अप्रियं लाघव-कारि चात्मनः।
योऽत्राब्रवीत् कारण-वर्जितं वचो
न तद् वचः स्याद् विषमेव तद् भवेत्॥पञ्च_३.११२॥

बलोपपन्नोऽपि हि बुद्धिमान् नरः
परे नयेन् न स्वयम् एव वैरिताम्।
भिषङ् ममास्तीति विचिन्त्य भक्षयेद्
अकारणात् को हि विचक्षणो विषम्॥पञ्च_३.११३॥

परिवादः परिषदि न कथञ्चित् पंडितेन वक्तव्यः।
सत्यम् अपि तन् न वाच्यं यद् उक्तम् असुखावहं भवति॥पञ्च_३.११४॥

सुहृद्भिर् आप्तैर् असकृद्-विचारितं
स्वयं हि बुद्ध्या प्रविचारिताश्रयम्।
करोति कार्यं खलु यः स बुद्धिमान्
स एव लक्ष्म्या यशसां च भाजनम्॥पञ्च_३.११५॥
एवं विचिंत्य काको पि प्रयातः। तदा-प्रभृत्य् अस्माभिः सह कौशिकानाम् अंवया-गतं वैरम् अस्ति।

मेघवर्ण आह-तात! एवं गतेस्माभिः किं क्रियते?

स आह-वत्स! एवं गतेपि षाड्गुण्याद् अपरः स्थूलो भिप्रायो स्ति। तम् अंगीकृत्य स्वयम् एवाहं तद्-विजयाय यास्यामि। रिपून् वञ्चयित्वा वधिष्यामि। उक्तं च-

बहु-बुद्धि-समायुक्ताः सुविज्ञाना बलोत्कटान्।
शक्ता वञ्चयितुं धूर्ता ब्राह्मणं छागलद् इव॥पञ्च_३.११६॥

मेघवर्ण आह-कथम् एतत्?

सो ब्रवीत्-

कथा ३ मित्र-शर्म-ब्राह्मण-कथा[सम्पाद्यताम्]


कस्मिंश्चिद् अधिष्ठाने मित्रशर्मा नाम ब्राह्मणः कृताग्निहोत्र-परिग्रहः प्रतिवसति स्म। तेन कदाचिन् माघ-मासे सौम्यानिले प्रवाति, मेघाच्छादिते गगने मंदं मंदं प्रवर्षति पर्जंये, पशु-प्रार्थनार्थं किञ्चिद् ग्रामांतरं गत्वा, कश्चिद् यजमानो याचितः-भो यजमान! आगामिंयाम् अमावास्यायाम् अहं यक्ष्यामि यज्ञम्। तद् देहि मे पशुम् एकम्।

अथ तेन यस्य शास्त्रोक्तः पीवर-तनुः पशुः प्रदत्तः। सो पि तं समर्थम् इतश् चेतश् च गच्छंतं विज्ञाय स्कंधे कृत्वा सत्वरं स्व-पुराभिमुखः प्रतस्थे।

अथ तस्य गच्छतो मार्गे त्रयो धूर्ताः क्षुत्-क्षाम-कंठाः संमुखा बभूवुः। तैश् च तादृशं पीवर-तनुं स्कंध आरूढम् आलोक्य, मिथो भिहितं-अहो! अस्य पशोर् भक्षणाद् अद्यतनीयो हिम-पातो व्यर्थतां नीयते। तद् एनं वञ्चयित्वा पशुम् आदाय शीत-त्राणं कुर्मः।

अथ तेषाम् एकतमो वेश-परिवर्तनं विधाय संमुखो भूत्वापमार्गेण तम् आहिताग्निम् ऊचे-भो भोः! बालाग्निहोत्रिन्! किम् एवं जन-विरुढं हास्य-कार्यम् अनुष्ठीयते? यद् एष सारमेयो पवित्रः स्कंधाधिरूद्धो नीयते। उक्तं च यतः।

श्वान-कुक्कुट-चांडालाः सम-स्पर्शाः प्रकीर्तिताः।
रासभोष्ट्रौ विशेषेण तस्मात् तान् नैव संस्पृशेत्॥पञ्च_३.११७॥

ततश् च तेन कोपाभिभूतेनाभिहितम्-अहो! किम् अंधो भवान्? यत् पशुं सारमेयत्वेन प्रतिपादयसि?

सो ब्रवीत्-ब्रह्मन्! कोपस् त्वया न कार्यः। यथेच्छं गम्यताम्।

अथ यावत् किञ्चिद् अध्वनो अंतरं गच्छति, तावद् द्वितीयो धूर्तः संमुखम् अभ्युपेत्य तम् उवाच-भोः ब्रह्मन्! कष्टं कष्टम्! यद्यपि वल्लभो यं ते म्ड़्त-वत्सस् तथापि स्कंधम् आरोपयितुम् अयुक्तम्। उक्तं च यतः-

तिर्यञ्चं मानुषं वापि यो म्ड़्तं संस्पृशेत् कुधीः।
पञ्च-गव्येन शुढिः स्यात् तस्य चांद्रायणेन वा॥पञ्च_३.११८॥

अथासौ स-कोपम् इदम् आह-भोः! किम् अंधो भवान्? यत् पशुं म्ड़्त-वत्सं वदति।

सो ब्रवीत्-भगवन्! मा कोपं कुरु। अज्ञानान् मयाभिहितम्। तत् त्वम् आत्म-रुचिं समाचर इति।

अथ यावत् स्तोकं वनांतरं गच्छति तावत् तृतीयो अंय-वेश-धारी धूर्तः संमुखः समुपेत्य तम् उवाच-भोः! अयुक्तम् एतत्, यद् रासभं स्कंधाधिरूढं नयसि। तत् त्यज्यताम् एषः। उक्तं च-

यः स्पृशेद् रासभं मर्त्यो ज्ञानाद् अज्ञानतो पि वा।
स-चैलं स्नानम् उद्दिष्टं तस्य पाप-प्रशांतये॥पञ्च_३.११९॥

तत् त्यजैनं यावद् अंयः कश्चिन् न पश्यति।

अथासौ तं पशुं रासभं मंयमानो भयाद् भूमौ प्रक्षिप्य स्व-गृहम् उद्दिश्य पलायितुं प्रारब्धः। ततस् तेपि त्रयो मिलित्वा पशुम् आदाय यथेच्छं भक्षितुम् आरब्धाः।

---

अतो हं ब्रवीमि-बहु-बुद्धि-समायुक्ताः (११६) इति। अथवा साध्व् इदम् उच्यते-

अभिनव-सेवक-विनयैः प्राघुणकोक्तैर् विलासिनीर् उदितैः।
धूर्त-जन-वचन-निकरैर् इह कश्चिद् अवञ्चितो नास्ति॥पञ्च_३.१२०॥

किं च-दुर्बलैर् अपि बहुभिः सह विरोधो न युक्तः। उक्तं च-

बहवो न विरोढव्या दुर्जया हि महाजनाः।
स्फुरंतम् अपि नागेंद्रं भक्षयंति पिपीलिकाः॥पञ्च_३.१२१॥

मेघवर्ण आह-कथम् एतत्?

स्थिरजीवी कथयति-

कथा ४ अतिदर्प-नाम-सर्प-कथा[सम्पाद्यताम्]


अस्ति कस्मिंश्चिद् वल्मीके महा-कायः कृष्ण-सर्पो तिदर्पो नाम। स कदाचिद् विलानुसारि-मार्गम् उत्सृज्यांयेन लघु-द्वारेण निष्क्रमितुम् आरब्धः। निष्क्रामतश् च तस्य महा-कायत्वाद् दैव-वशतया लघु-विवरत्वाच् च शरीरे व्रणः समुत्पन्नः। अथ व्रण-शोणित-गंधानुसारिणीभिः पिपीलिकाभिः सर्वतो व्याप्तो व्याकुलीकृतश् च। कति व्यापादयति कति वा ताडयति? अथ प्रभूतत्वाद् विस्तारित-बहु-व्रणः क्षत-सर्वांगो तिदर्पः पञ्चत्वम् उपागतः।

---

अतो हं ब्रवीमि-बहवो न विरोढव्या (१२१) इति। तद् अत्रास्ति मे किञ्चिद् वक्तव्यम् एव। तद् अवधार्य यथोक्तम् अनुष्ठीयताम्।

मेघवर्ण आह-तत् समादेशय। तवादेशो नांयथा कर्तव्यः।

स्थिरजीवी प्राह-वत्स! समाकर्णय तर्हि। सामादीन् अतिक्रम्य यो मया पञ्चम उपायो निरूपितः। तन् मां विपक्ष-भूतं कृत्वानि निष्ठुर-वचनैर् निर्भर्त्स्य। यथा विपक्ष-प्रणिधीनां प्रत्ययो भवति, तथा समाहृत-रुधिरैर् आलिप्यास्यैव अंयग्रोधस्याधस्तात् प्रक्षिप्य मां गम्यतां पर्वतम् ड़्ष्यमूकं प्रति। तत्र स-परिवारस् तिष्ठ, यावद् अहं समस्तान् सपत्नान् सुप्रणीतेन विधिना विश्वास्याभिमुखान् कृत्वा कृतार्थो ज्ञात-दुर्ग-मध्यो दिवसे तान् अंधतां प्राप्तांस् त्वां नीत्वा व्यापादयामि। ज्ञातं मया सम्यक् नांयथास्माकं सिढिर् अस्ति। यतो दुर्गम् एतद् अपसार-रहितं केवलं वधाय भविष्यति। उक्तं च-

अपसार-समायुक्तं न यज्ञैर् दुर्गम् उच्यते।
अपसार-परित्यक्तं दुर्ग-व्याजेन बंधनम्॥पञ्च_३.१२२॥

न च त्वया मद्-अर्थं कृपा कार्या। उक्तं च-

अपि प्राण-समान् इष्टान् पालितान् लालितान् अपि।
भृत्यान् युद्धे समुत्पंने पश्येच् छुष्कम् इवेंधनम्॥पञ्च_३.१२३॥

तथा च-
प्राणवद् रक्षयेद् भृत्यान् स्वकायम् इव पोषयेत्।
सदैक-दिवसस्यार्थे यत्र स्याद् रिपु-संगमः॥पञ्च_३.१२४॥

तत् त्वयाहं नात्र विषये प्रतिषेधनीयः। इत्य् उक्त्वा तेन सह शुष्क-कलहं कर्तुम् आरब्धः। अथांये तस्य भृत्याः स्थिरजीविनम् उच्छृंखल-वचनैर् जल्पंतम् अवलोक्य तस्य वधायोद्यता मेघवर्णेनाभिहिताः-अहो! निवर्तध्वं यूयम्। अहम् एवास्य शत्रु-पक्षपातिनो दुरात्मनः स्वयं निग्रहं करिष्यांइ। इत्य् अभिधाय तस्योपरि समारुह्य, लघुभिश् चञ्चु-प्रहारैस् तं निहत्याहृत-रुधिरेण प्लावयित्वा तद्-उपदिष्टम् ड़्ष्यमूक-पर्वतं स-परिवारो गतः।

एतस्मिंन् अंतरे कृकालिकया द्विषत्-प्रणिधी-भूतया तत् सर्वं तद्-अमात्य-व्यसनं क्वचित् प्रचलितः स-परिवार इति।

अथोलूकाधिपस् तद् आकर्ण्यास्तम् अनवेलायां सामात्यः स-परिजनो वायस-वधार्थं प्रचलितः। प्राह च-त्वर्यतां त्वर्यतां भीतः शत्रुः पलायन-परः पुण्यैर् लभ्यते। उक्तं च-

शत्रोः प्रचलने छिद्रम् एकम् अंयं च संश्रयम्।
कुर्वाणो जायते वश्यो व्यग्रत्वे राज-सेविनाम्॥पञ्च_३.१२५॥

एवं ब्रुवाणः समंतान् अंयग्रोध-पादपम् अधः परिवेष्ट्य व्यवस्थितः। यावन् न कश्चिद् वायसो दृश्यते, तावच् छाखाग्रम् अधिरूढो हृष्ट-मना वंदिभिर् अभिष्टूयमानो रिमर्दनस् तान् परिजनान् प्रोवाच-अहो! ज्ञायतां तेषां मार्गः। कतमेन मार्गेण प्रनष्टाः काकाः? तद् यावन् न दुर्गं समाश्रयंति, तावद् एव पृष्ठतो गत्वा व्यापाद्या भवंति। उक्तं च-

वृत्तिम् अप्य् आश्रितः शत्रुर् अवध्यः स्याज् जिगीषुणा।
किं पुनः संश्रितो दुर्गं सामग्र्या परया युतम्॥पञ्च_३.१२६॥

अथैतस्मिन् प्रस्तावे स्थिरजीवी चिंतयामास-यद् एतेस्मच् छत्रवो नुलब्धास्मद्-वृत्तांता यथागतम् एव यांति ततो मया न किञ्चित् कृतं भवति। उक्तं च-

अनारंभो हि कार्याणां प्रथमं बुद्धि-लक्षणम्।
आरब्धस्यांत-गमनं द्वितीयं बुद्धि-लक्षणम्॥पञ्च_३.१२७॥

तद् वरम् अनारंभो न चारंभ-विघातः। तद् अहम् एतान् शब्दं संश्राव्य आत्मानं दर्शयामि इति विचार्य मंदं मंदं शब्दम् अकरोत्। तच् छ्रुत्वा ते सकला अप्य् उलूकास् तद्-वधाय प्रजग्मुः। अथ तेनोक्तं-अहो! अहं स्थिरजीवी नाम मेघवर्णस्य मंत्री। मेघवर्णेनैवेदृशीम् अवस्थां नीतः। तन् निवेदयतात्म-स्वामिने। तेन सह बहु वक्तव्यम् अस्ति।

अथ तैर् निवेदितः स उलूक-राजो विस्मयाविष्टस् तत्-क्षणात् तस्य सकाशं गत्वा प्रोवाच-भोः भोः! किम् एतां दशां गतस् त्वम्, तत् कथ्यताम्।

स्थिरजीवी प्राह-देव! श्रूयतां तद्-अवस्था-कारणम्। अतीत-दिने स दुरात्मा मेघवर्णो युष्मद्-व्यापादित-प्रभूत-वायसानां पीडया युष्माकम् उपरि कोप-शोक-ग्रस्तो युढार्थं प्रचलित आसीत्। ततो मयाभिहितं-स्वामिन्! न युक्तं भवतस् तद्-उपरि गंतुम्। बलवंत एते, बल-हीनाश् च वयम्। उक्तं च-

बलीयसा हीन-बलो विरोधं
न भूति-कामो मनसापि वाञ्छेत्।
न वध्यते वेतस-वृत्तिर् अत्र
व्यक्तं प्रणाशो स्ति पतंग-वृत्तेः॥पञ्च_३.१२८॥

तत् तस्योआयन-प्रदानेन संधिर् एव युक्तः। उक्तं च-

बलवंतं रिपुं दृष्ट्वा सर्वस्वम् अपि बुद्धिमान्।
दत्त्वा हि रक्षयेत् प्राणान् रक्षितैस् तैर् धनं पुनः॥पञ्च_३.१२९॥

तच् छ्रुत्वा दुर्जन-कोपितेन त्वत्-पक्ष-पातिनं माम् आशंकमानेनेमां दशां नीतः। तत् तव पादौ सांप्रतं मे शरणं। किं बहुना विज्ञप्तेन? यावद् अहं प्रचलितुं शक्नोमि तावत् त्वां तस्यावासं नीत्वा सर्व-वायस-क्षयं विधास्यामि इति।

अथारिमर्दनस् तद् आकर्ण्य पितृ-पितामह-क्रमागत-मंत्रिभिः सार्धं मन्त्रयांचक्रे। तस्य च पञ्च मंत्रिणः। तद् यथा-रक्ताक्षः, क्रूराक्षः, दीप्ताक्षः, वक्रनासः, प्राकारकर्णश् चेति। तत्रादौ रक्ताक्षम् अपृच्छत्-भद्र! एष तावत् तस्य रिपोर् मंत्री मम हस्त-गतः। तत् किं क्रियताम्? इति।

रक्ताक्ष आह-देव! किम् अत्र चिन्त्यते? अविचारितम् अयं हंतव्यः, यतः-

हीनः शत्रुर् निहंतव्यो यावन् न बलवान् भवेत्।
प्राप्त-स्व-पौरुष-बलः पश्चाद् भवति दुर्जयः॥पञ्च_३.१३०॥

किं च स्वयम् उपागता श्रीस् त्यज्यमाना शपतीति लोके प्रवादः। उक्तं च-

कालो हि सकृद् अभ्येति यन् नरं काल-कांक्षिणम्।
दुर्लभः स पुनस् तेन काल-कर्माचिकीर्षता॥पञ्च_३.१३१॥

श्रूयते च यथा-

कश्चित् क्षुद्र-समाचारः प्राणिनां काल-संनिभः।
विचचार महारण्ये घोरः शुनि-लुब्धकः॥पञ्च_३.१३२॥

अरिमर्दनः प्राह-कथम् एतत्?

रक्ताक्षः कथयति-

कथा ५ ब्राह्मण-सर्प-कथा[सम्पाद्यताम्]


अस्ति कस्मिश्चिदधिष्ठाने हरिदत्तो नाम ब्राह्मणः । तस्य च कृषिं कुर्वतः सदैव निष्फलः कालोऽतिवर्तते । अथैकस्मिन्दिवसे स ब्राह्मण उष्णकालावसाने घर्मार्तः स्वक्षेत्रमध्ये वृक्षच्छायायां प्रसुप्तोऽनतिदूरे वल्मीकोपरि प्रसारितं बृहत्फटायुक्तं भीषणं भुजङ्गं दृष्टवा चिन्तयामास- नूनमेषा क्षेत्रदेवता मया कदाचिदपि न पूजिता । तेनेदं मे कृषिकर्म विफलीभवति । तदस्या अहं पूजामद्य करिष्यामि ।' इत्यवधार्य कुतोऽपि क्षीरं याचित्वा शरावे निक्षिप्य वल्मीकान्तिकमुपगत्योवाच-'भोः! क्षेत्रपाल! मयैतावन्तं कालं न ज्ञातं यत्त्वमत्र वससि । तेन पूजा न कृता । तत्साम्प्रतं क्षमस्वेति ।' एवमुक्त्वा दुग्धं च निवेद्य गृहाभिमुखं प्रायात् । अथ प्रातर्यावदागत्य पश्यति तावद् दीनारमेकं शरावे दृष्टवान् । एवञ्च प्रतिदिनमेकाकी समागत्य तस्मै क्षीरं ददाति, एकैकञ्च दीनारं गृह्णाति ।

अथैकस्मिन्दिवसे क्षीरनयनाय पुत्रं निरूप्य ब्राह्मणो ग्रामान्तरं जगाम । पुत्रोऽपि क्षीरं तत्र नीत्वा संस्थाप्य च पुनर्गृहं समायातः । दिनान्तरे तत्र गत्वा दीनारकं दृष्ट्वा गृहीत्वा च चिन्तितवान् 'नूनं सौवर्णदीनारपूर्णो वल्मीकः । तदेनं हत्वा सर्वमेकवारं ग्रहीष्यामि' इत्येवं सम्प्रधार्यान्येद्युः क्षीरं ददता ब्राह्मणपुत्रेण सर्पो लगुडेन ताडितः । ततः कथमपि दैववशाद- मुक्तजीवित एव रोषात्तमेव तीव्रविषदशनैस्तथाऽदशत् यथा सद्यः पञ्चत्वमुपागतः । स्वजनैश्च नातिदूरे क्षेत्रस्य काष्ठसंचयैः संस्कृतः ।

अथ द्वितीयदिने तस्य पिता समायातः । स्वजनेभ्यः सुतविनाशकारणं श्रुत्वा तथैव समर्थितवान् । अब्रवीच्च-

भूतान् यो नानुगृह्णाति ह्यात्मनः शरणागतान् ।
भूतार्थास्तस्य नश्यन्ति हंसाः पद्मवने यथा । । पञ्च_३.१३३ । ।

पुरुषैरुक्तं -'कथमेतत् ?' ब्राह्मणः कथयति-

कथा ६ हैम-हंस-कथा, ब्राह्मण - सर्प कथा(सतत्)[सम्पाद्यताम्]


अस्ति कस्मिश्चिदधिष्ठाने चित्ररथो नाम राजा । तस्य योधैः सुरक्ष्यमाणं पद्मसरो नाम सरस्तिष्ठति तत्र च प्रभूता जान्बूनदमया हंसास्तिष्ठन्ति । षण्मासे षण्मासे पिच्छमेकैकं परित्यजन्ति । अथ तत्र सरसि सौवर्णो बृहत्पक्षी समायातः । तैश्चोक्तः-अस्माकं मध्ये त्वया न वस्तव्यम् । येन कारणेनास्माभिः षण्मासान्ते पिच्छैकैकदानं कृत्वा गृहीतमेतत्सरः ।' एवञ्च किं बहुना, परस्परं द्वैधमुत्पन्नम् । स च राज्ञः शरणं गतोऽब्रवीत्-'देव! एते पक्षिण एवं वदन्ति, यद् 'अस्माकं राजा किं करिष्यति ? न कस्याप्यावासं दद्मः ।'

मया चोक्तं - न शोभनं युष्माभिरभिहितम् । अहं गत्वा राज्ञे निवेदयिष्यामि । एवं स्थिते देवः प्रमाणम् ।'

ततो राजा भृत्यानब्रवीत्-भो भो गच्छत, सर्वान्पक्षिणो गतासून् कृत्वा शीघ्रमानयत ।' राजादेशानन्तरमेव प्रचेलुस्ते ।

अथ लगुडहस्तान् राजपुरुषान्दृष्ट्वा तत्रैकेन पक्षिणा वृद्धेनोक्तम्-'भोः! स्वजनाः! न शोभनमापतितम् । ततः सर्वैरेकमती भूयोत्पतितव्यम् ।' तैश्च तथाऽनुष्ठितम् ।

अतोऽहं ब्रवीमि-भूतान् यो नानुगृह्णाति ।' इति ।

इत्युक्त्वा पुनरपि ब्राह्मणः प्रत्यूषे क्षीरं गृहीत्वा तत्र गत्वा तार- स्वरेण सर्पमस्तौत् । तदा सर्पश्चिरं वल्मीकद्वारान्तर्लीन एव ब्राह्मणं प्रत्युवाच-त्वं लोभादत्रागतः पुत्रशोकमपि विहाय । अतः परं तव मम च प्रीतिर्नोचिता । तव पुत्रेण यौवनोन्मादेनाहं ताडितः मया स दष्टः । कथं मया लगुडप्रहारो विस्मर्तव्यः, त्वया च पुत्रशोकदुःखं कथं विस्मर्तव्यम् ।' इत्युक्त्वा बहूमूल्यं हीरकमणिं तस्मै दत्वा - अतः परं पुनस्त्वया मागन्तव्यम् इति पुनरुक्त्वा विवरान्तर्गतः । ब्राह्मणश्च मणिं गृहीत्वा पुत्रबुद्धिं निन्दन्स्वगृहमागतः । अतोऽहं ब्रवीमि - चितिकां दीपितां पश्य' इति । 'तदस्मिन्हतेऽयत्नादेव राज्यमकण्टकं भवतो भवति ।'

ब्राह्मण - सर्प कथायाः विवेचनम्

तस्यैतद्वचनं श्रुत्वा क्रूराक्षं पप्रच्छ-भद्र! त्वं तु किं मन्यसे ?'

सोऽब्रवीत्- 'देव! निर्दयमेतद्यदेनाभिहितम् ।' यत्कारणं शरणागतो न बध्यते सुष्ठु । खल्विदमाख्यानम्-

श्रूयते हि कपोतेन शत्रुः शरणमागतः ।
पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ।। पञ्च_३.१३४ ।।

अस्मिर्दनोऽब्रवीत्- कथमेतत् ?'
क्रूराक्षः कथयति-

कथा ७ कपोत-लुब्धक-कथा[सम्पाद्यताम्]


कश्चिद् क्षुद्र-समाचारः प्राणिनां काल-संनिभः।
विचचार महारण्ये घोरः शकुनि-लुब्धकः॥पञ्च_३.१३५॥
नैव कश्चित् सुहृत् तस्य न संबंधी न बांधवः।
स तैः सर्वैः परित्यक्तस् तेन रौद्रेण कर्मणा॥पञ्च_३.१३६॥

अथवा-
ये नृशंसा दुरात्मनः प्राणिनां प्राण-नाशकाः।
उद्वेजनीया भूतानां व्याला इव भवंति ते॥पञ्च_३.१३७॥
स पञ्जरकम् आदाय पाशं च लगुडं तथा।
नित्यम् एव वनं याति सर्व-प्राणि-विहिंसकः॥पञ्च_३.१३८॥
अंयेद्युर् भ्रमतस् तस्य वने कापि कपोतिका।
जाता हस्त-गता तां स प्राक्षिपत् पञ्ज्चरांतरे॥पञ्च_३.१३९॥
अथ कृष्णा दिशः सर्वा वनस्थस्याभवन् घनैः
वात-वृष्टिश् च महतो क्षय-काल इवाभवत्॥पञ्च_३.१४०॥
ततः स त्रस्त-हृदयः कंपमानो मुहुर् मुहुः।
अन्वेषयन् परित्राणम् आससाद वनस्पतिम्॥पञ्च_३.१४१॥
मुहूर्तं पश्यते यावद् वियद् विमल-तारकम्।
प्राप्य वृक्षं वदत्य् एवं यो त्र तिष्ठति कश्चन॥पञ्च_३.१४२॥
तस्याहं शरणं प्राप्तः स परित्रातु माम् इति।
शीतेन भिद्यमानं च क्षुधया गत-चेतनम्॥पञ्च_३.१४३॥
अथ तस्य तरोः स्कंधे कपोतः सुचिरोषितः।
भार्या-विरहितस् तिष्ठन् विललाप सुदुःखितः॥पञ्च_३.१४४॥
वात-वर्षो महान् आसीन् न चागच्छति मे प्रिया।
तया विरहितं ह्य् एतच् छून्यम् अद्य गृहं मम॥पञ्च_३.१४५॥
पतिव्रता पति-प्राणा पत्युः प्रिय-हिते रता।
यस्य स्याद् ईदृशी भार्या धन्यः स पुरुषो भुवि॥पञ्च_३.१४६॥
न गृहं गृहम् इत्य् आहुर् गृहिणी गृहम् उच्यते।
गृहं तु गृहिणी-हीनम् अरण्य-सदृशं मतम्॥पञ्च_३.१४७॥
पञ्जर-स्था ततः श्रुत्वा भर्तुर् दुःखान्वितं वचः।
कपोतिका सुसंतुष्टा वाक्यं चेदम् अथाह सा॥पञ्च_३.१४८॥
न सा स्त्रीत्य् अभिमंतव्या यस्यां भर्ता न तुष्यति।
तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्व-देवताः॥पञ्च_३.१४९॥
दावाग्निना विदग्धेव स-पुष्प-स्तबका लता।
भस्मीभवतु सा नारी यस्यां भर्ता न तुष्यति॥पञ्च_३.१५०॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. पञ्चतन्त्रम्
    1. कथा-मुखम् १-७
    2. प्रथमम् तन्त्रम् - मित्रभेदः १-५०
    3. प्रथमम् तन्त्रम् - मित्रभेदः ५१-१००
    4. प्रथमम् तन्त्रम् - मित्रभेदः १०१-१५०
    5. प्रथमम् तन्त्रम् - मित्रभेदः १५१-२००
    6. प्रथमम् तन्त्रम् - मित्रभेदः २०१-२५०
    7. प्रथमम् तन्त्रम् - मित्रभेदः २५१-३००
    8. प्रथमम् तन्त्रम् - मित्रभेदः ३०१-३५०
    9. प्रथमम् तन्त्रम् - मित्रभेदः ३५१-४००
    10. प्रथमम् तन्त्रम् - मित्रभेदः ४०१-४५०
    11. प्रथमम् तन्त्रम् - मित्रभेदः ४५१-४६१
    12. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १-५०
    13. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः ५१-१००
    14. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०
    15. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६
    16. तृतीयम् तन्त्रम् - काकोलूकीयम् १-५०
    17. तृतीयम् तन्त्रम् - काकोलूकीयम् ५१-१००
    18. तृतीयम् तन्त्रम् - काकोलूकीयम् १०१-१५०
    19. तृतीयम् तन्त्रम् - काकोलूकीयम् १५१-२००
    20. तृतीयम् तन्त्रम् - काकोलूकीयम् २०१-२५०
    21. तृतीयम् तन्त्रम् - काकोलूकीयम् २५१-२६०
    22. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०
    23. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४
    24. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् १-५०
    25. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् ५१-९८
  2. पंचतंत्र (hindi wikipedia)
  3. पंचतंत्र (हिन्दी में)]
  4. हितोपदेशम्

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=पञ्चतन्त्रम्_०४ख&oldid=64083" इत्यस्माद् पुनः प्राप्तिः