पञ्चतन्त्रम् ०३

विकिस्रोतः तः
(पञ्चतन्त्रम् 03 इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

लेखक: विष्णु शर्मा

पञ्चतन्त्रम्

अथ मित्र-संप्राप्तिः

अथेदम् आरभ्यते मित्र-संप्राप्तिर् नाम द्वितीयं तंत्रम्। यस्यायम् आद्यः श्लोकः-

असाधना अपि प्राज्ञा बुद्धिमन्तो बहु-श्रुताः।
साधयन्त्य् आशु कार्याणि काकाखु-मृग-कूर्मवत्॥पञ्च_२.१॥

तद् यथानुश्रूयते-

प्रस्तावना-कथा लघुपतनक-चित्रग्रीव-वृत्तांतः(तुलनीय-कथासरित्सागरः १०.५.५८)[सम्पाद्यताम्]



अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम्। तस्य नातिदूरस्थो महोच्छ्रायवान् नाना-विहंगोपभुक्त-फलः कीटैर् आवृत-कोटरश् छायाश्वासित-पथिक-जन-समूहो न्यग्रोध-पादपो महान्। अथवा युक्तम्-

छाया-सुप्त-मृगः शकुंत-निवहैर् विष्वग्-विलुप्त-च्छदः
कीटैर् आवृत-कोटरः कपि-कुलैः स्कंधे कृत-प्रश्रयः।
विश्रब्धं मधुपैर् निपीत-कुसुमः श्लाघ्यः स एव द्रुमः
सर्वांगैर् बहु-सत्त्व-संग-सुखदो भू-भार-भूतोऽपरः॥पञ्च_२.२॥

तत्र च लघुपतनको नाम वायसः प्रतिवसति स्म। स कदाचित् प्राण-यात्रार्थं पुरम् उद्दिश्य प्रचलितो यावत् पश्यति, तावज् जाल-हस्तो अतिकृष्ण-तनुः स्फुटित-चरण ऊर्ध्व-केशो यम-किंकराकारो नरः संमुखो बभूव। अथ तं दृष्ट्वा शंकित-मना व्यचिंतयत्-यद् अयं दुरात्माद्य ममाश्रय-वट-पादप-संमुखोऽभ्येति। तन् न ज्ञायते किम् अद्य वट-वासिनां विहंगमानां संक्षयो भविष्यति न वा।

एवं बहुविधं विचिंत्य तत्-क्षणान् निवृत्य तम् एव वट-पादपं गत्वा सर्वान् विहंगमान् प्रोवाच-भोः! अयं दुरात्मा लुब्धको जाल-तंडुल-हस्तः समभ्येति। तत् सर्वथा तस्य न विश्वसनीयम्। एष जालं प्रसार्य तंडुलान् प्रक्षेप्स्यति। ते तंडुला भवद्भिः सर्वैर् अपि कालकूट-सदृशा द्रष्टव्याः।

एवं वदतस् तस्य स लुब्धकस् तत्र वट-तल आगत्य जालं प्रसार्य सिंदु-वार-सदृशाँस् तंडुलान् प्रक्षिप्य नातिदूरम् गत्वा निभृतः स्थितः। अथ ये पक्षिणस् तत्र स्थितास् ते लघु-पतनक-वाक्यार्गलया निवारितास् ताँस् तंडुलान् हालाहालांकुरान् इव वीक्षमाणा निभृतास् तस्थुः।

अत्रांतरे चित्रग्रीवो नाम कपोतराजः सहस्र-परिवारः प्राण-यात्रार्थ-परिभ्रमँस् ताँस् तंडुलान् दूरतोऽपि पश्यन् लघुपतनकेन निवार्यमाणोऽपि जिह्वा-लौल्याद् भक्षणार्थम् अपतत्। स-परिवारो निबद्धश् च। अथवा साध्व् इदम् उच्यते-

जिह्वा-लौल्य-प्रसक्तानां जल-मध्य-निवासिनाम्।
अचिंतितो वधोऽज्ञानां मीनानाम् इव जायते॥पञ्च_२.३॥

अथवा दैव-प्रतिपतिकूलतया भवत्य् एवम्। न तस्य दोषोऽस्ति। उक्तं च-

पौलस्त्यः कथम् अन्य-दार-हरणे दोषं न विज्ञातवान्
रामेणापि कथं न हेम-हरिणस्यासंभवो लक्षितः।
अक्षैश् चापि युधिष्ठिरेण सहसा प्राप्तो ह्य् अनर्थः कथं
प्रत्यासन्न-विपत्ति-मूढ-मनसां प्रायो मतिः क्षीयते॥पञ्च_२.४॥

तथा च-
कृतांत-पाश-बद्धानां दैवोपहत-चेतसाम्।
बुद्धयः कुब्ज-गामिन्यो भवंति महताम् अपि॥पञ्च_२.५॥

अत्रांतरे लुब्धकस् तान् बद्धान् विज्ञाय प्रहृष्ट-मनाः प्रोद्यत-यष्टिस् तद्-वधार्थं प्रधावितः। चित्रग्रीवोऽप्य् आत्मानं स-परिवारं बद्धं मत्वा लुब्धकम् आयांतं दृष्ट्वा तान् कपोतान् ऊचे-अहो, न भेतव्यम्। उक्तं च-

व्यसनेष्व् एव सर्वेषु यस्य बुद्धिर् न हीयते।
स तेषां पारम् अभ्येति तत्-प्रभावाद् असंशयम्॥पञ्च_२.६॥
संपत्तौ च विपत्तौ च महताम् एक-रूपता।
उदये सविता रक्तो रक्तश् चास्तमये तथा॥पञ्च_२.७॥

तत् सर्वे वयं हेलयोड्डीय स-पाश-जाला अस्यादर्शनं गत्वा मुक्तिं प्राप्नुमः। नो चेद् भय-विक्लवाः संतो हेलया समुत्पातं न करिष्यथ। ततो मृत्युम् अवाप्स्यथ। उक्तं च-
तंतवो अपि आयता नित्यं तंतवो बहुलाः समाः।
बहून् बहुत्वाद् आयासान् सहन्तीत्य् उपमा सताम्॥पञ्च_२.८॥

तथानुष्ठिते लुब्धको जालम् आदायाकाशे गच्छतां तेषां पृष्ठतो भूमिस्थोऽपि पर्यधावत्। तत ऊर्ध्वाननः श्लोकम् एनम् अपठत्।

जालम् आदाय गच्छंति संहताः पक्षिणोऽप्य् अमी।
यावच् च विवदिष्यंते पतिष्यंति न संशयः॥पञ्च_२.९॥

लघुपतनकोऽपि प्राण-यात्रा-क्रियां त्यक्त्वा किम् अत्र भविष्यतीति कुतूहलात् तत्-पृष्ठतोऽनुसरति। अथ दृष्टेर् अगोचरतां गतान् विज्ञाय लुब्धको निराशः श्लोकम् अपठन् निवृत्तश् च-

नहि भवति यन् न भाव्यं भवति च भाव्यं विनापि यत्नेन।
करतल-गतम् अपि नश्यति यस्य हि भवितव्यता नास्ति॥पञ्च_२.१०॥

तथा च-
पराङ्मुखे विधौ चेत् स्यात् कथञ्चिद् द्रविणोदयः।
तत् सो अन्यद् अपि संगृह्य याति शंख-निधिर् यथा॥पञ्च_२.११॥

तद् आस्तां तावद् विहंगामिष-लोभो यावत् कुटुंब-वर्तनोपाय-भूतं जालम् अपि मे नष्टम्। चित्रग्रीवोऽपि लुब्धकम् अदर्शनीभूतं ज्ञात्वा तान् उवाच-भोः! निवृत्तः स दुरात्मा लुब्धकः। तत् सर्वैर् अपि स्वस्थैर् गम्यतां महिलारोप्यस्य प्राग्-उत्तर-दिग्-भागे। तत्र मम सुहृद् धिरण्यको नाम मूषकः सर्वेषां पाश-च्छेदं करिष्यति। उक्तं च-

सर्वेषाम् एव मर्त्यानां व्यसने समुपस्थिते।
वाङ्-मात्रेणापि साहाय्यं मित्राद् अन्यो न संदधे॥पञ्च_२.१२॥

एवं ते कपोताश् चित्रग्रीवेण संबोधिता महिलारोप्ये नगरे हिरण्यक-बिल-दुर्गं प्रापुः। हिरण्यकोऽपि सहस्र-मुख-बिल-दुर्गं प्रविष्टः सन्न् अकुतोभयः सुखेनास्त। अथवा साध्व् इदम् उच्यते-

दंष्ट्रा-विरहितः सर्पो मद-हीनो यथा गजः।
सर्वेषां जायते वश्यो दुर्ग-हीनस् तथा नृपः॥पञ्च_२.१३॥

तथा च-
न गजानां सहस्रेण न च लक्षेण वाजिनाम्।
तत् कर्म सिध्यते राज्ञां दुर्गेणैकेन यद् रणे॥पञ्च_२.१४॥
शतम् एकोऽपि संधत्ते प्राकारस्थो धनुर्धरः।
तस्माद् दुर्गं प्रशंसंति नीति-शास्त्र-विदो जनाः॥पञ्च_२.१५॥

अथ चित्रग्रीवो बिलम् आसाद्य तार-स्वरेण प्रोवाच-भो भो मित्र हिरण्यक! सत्वरम् आगच्छ। महती मे व्यसनावस्था वर्तते।

तच् छ्रुत्वा हिरण्यकोऽपि बिल-दुर्गांतर्गतः सन् प्रोवाच-भोः! को भवान्? किम् अर्थम् आयातः? किं कारणम्? कीदृक्ते ते व्यसनावस्थानाम्? तत् कथ्यताम् इति।

तच् छ्रुत्वा चित्रग्रीव आह-भोः! चित्रग्रीवो नाम कपोत-राजोऽहं ते सुहृत्। तत् सत्वरम् आगच्छ। गुरुतरं प्रयोजनम् अस्ति।
तद् आकर्ण्य पुलकित-तनुः प्रहृष्टात्मा स्थिर-मनास् त्वरमाणो निष्क्रांतः। अथवा साध्व् इदम् उच्यते-
सुहृदः स्नेह-संपन्ना लोचनानंद-दायिनः।
गृहे गृहवतां नित्यं नागच्छंति महात्मनाम्॥पञ्च_२.१६॥
आदित्यस्योदयं तात तांबूलं भारती कथा।
इष्टा भार्या सुमित्रं च अपूर्वाणि दिने दिने॥पञ्च_२.१७॥
सुहृदो भवने यस्य समागच्छंति नित्यशः।
चित्ते च तस्य सौख्यस्य न किञ्चित् प्रतिमं सुखम्॥पञ्च_२.१८॥

अथ चित्रंग्रीवं सपरिवारं पाश-बद्धम् आलोक्य हिरण्यकः स-विषादम् इदम् आह-भोः, किम् एतत्?

स आह-भोः, जानन्न् अपि किं पृच्छसि? उक्तं च यतः-

यस्माच् च येन च यदा च यथा च यच् च
यावच् च यत्र च शुभाशुभम् आत्म-कर्म।
तस्माच् च तेन च तदा च तथा च तच् च
तावच् च तत्र च कृतांत-वशाद् उपैति॥पञ्च_२.१९॥

तत् प्राप्तं मयैतद् बंधनं जिह्वा-लौल्यात्। सांप्राप्तं त्वं सत्वरं पाश-विमोक्षं कुरु। तद् आकर्ण्य हिरण्यकः प्राह-

अर्धार्धाद् योजन-शताद् आमिषं वीक्षते खगः।
सोऽपि पार्श्व-स्थितं दैवाद् बंधनं न च पश्यति॥पञ्च_२.२०॥

तथा च-
रवि-निशाकरयोर् ग्रह-पीडनं
गज-भुजंग-विहंगम-बंधनम्।
मतिमतां च निरीक्ष्य दरिद्रता
विधिर् अहो बलवान् इति मे मतिः॥पञ्च_२.२१॥

तथा च-
व्योमैकान्त-विचारिणोऽपि विहगाः संप्राप्नुवन्त्य् आपदं
बध्यन्ते निपुणैर् अगाध-सलिलान् मीनाः समुद्राद् अपि।
दुर्नीतं किम् इहास्ति किं च सुकृतं कः स्थान-लाभे गुणः
कालः सर्व-जनान् प्रसारित-करो गृह्णाति दूराद् अपि॥पञ्च_२.२२॥

एवम् उक्त्वा चित्रग्रीवस्य पाशं छेत्तुम् उद्यतं स तम् आह-भद्र, मा मैवं कुरु। प्रथमं मम भृत्यानां पाश-च्छेदं कुरु। तद् अनु ममापि च।

तच् छ्रुत्वा कुपितो हिरण्यकः प्राह-भोः! न युक्तम् उक्तं भवता। यतः स्वामिनोऽनंतरं भृत्याः।

स आह-भद्र, मा मैवं वद। मद्-आश्रयाः सर्व एते वराकाः। अपरं स्व-कुटुंबं परित्यज्य समागताः। तत् कथम् एतावन्-मात्रम् अपि संमानं न करोमि। उक्तं च-

यः संमानं सदा धत्ते भृत्यानां क्षितिपोऽधिकम्।
वित्ताभावेपि तं दृष्ट्वा ते त्यजंति न कर्हिचित्॥पञ्च_२.२३॥

तथा च-
विश्वासः संपदां मूलं तेन यूथपतिर् गजः।
सिंहो मृगाधिपत्येपि न मृगैः परिवार्यते॥पञ्च_२.२४॥

अपरं मम कदाचित् पाश-च्छेदे कुर्वतस् ते दंत-भंगो भवति। अथवा दुरात्मा लुब्धकः समभ्येति। तन् नूनं नरक-पात एव। उक्तं च-

सदाचारेषु भृत्येषु संसीदत्सु च यः प्रभुः।
सुखी स्यान् नरकं याति परत्रेह च सीदति॥पञ्च_२.२५॥

तच् छ्रुत्वा प्रहृष्टो हिरण्यकः प्राह-भोः, वेद्म्य् अहं राज-धर्मम्। परं मया तव परीक्षा कृता। तत् सर्वेषां पूर्वं पाश-च्छेदं करिष्यामि। भवान् अप्य् अनेन विधिना बहु-कपोत-परिवारेण भविष्यति। उक्तं च-

कारुण्यं संविभागश् च यथा भृत्येषु लक्ष्यते।
चित्तेनानेन ते शंक्या त्रैलोक्यस्यापि नाथता॥पञ्च_२.२६॥

एवम् उक्त्वा सर्वेषां पाश-च्छेदं कृत्वा हिरण्यकश् चित्रग्रीवम् आह-मित्र, गम्यताम् अधुना स्वाश्रयं प्रति। भूयोऽपि व्यसने प्राप्ते समागंतव्यम् इति।

तान् संप्रेष्य पुनर् अपि दुर्गं प्रविष्टः। चित्रग्रीवोऽपि सपरिवारः स्वाश्रयम् अगमत्। अथवा साध्व् इदम् उच्यते-

मित्रवान् साधयत्य् अर्थान् दुःसाध्यान् अपि वै यतः।
तस्मान् मित्राणि कुर्वीत समानान्य् एव चात्मनः॥पञ्च_२.२७॥

लघुपतनकोऽपि वायसः सर्वं तं चित्रग्रीव-बंधु-मोक्षम् अवलोक्य विस्मितमना व्यचिंतयत्-अहो बुद्धिर् अस्य हिरण्यकस्य शक्तिश् च दुर्ग-सामग्री च। तद् ईदृग् एव विधि-विहंगानां बंधन-मोक्षात्मकः। अहं च न कस्यचिद् विश्वसिमि चल-प्रकृतिश् च। तदाप्य् एनं मित्रं करोमि। उक्तं च-

अपि संपूर्णता-युक्तैः कर्तव्याः सुहृदो बुधैः।
नदीशः परिपूर्णोऽपि चंद्रोदयम् अपेक्षते॥पञ्च_२.२८॥

एवं संप्रधार्य पादपाद् अवतीर्य बिल-द्वारम् आश्रित्य चित्रग्रीववच् छब्देन हिरण्यकं समाहूतवान्-एह्य् एहि भो हिरण्यक, एहि।

तच् छब्दं श्रुत्वा हिरण्यको व्यचिंतयत्-किम् अन्योऽपि कश्चित् कपोतो बंधन-शेषस् तिष्ठति येन मां व्याहरति। आह च-भोः! को भवान्?

स आह-अहं लघुपतनको नाम वायसः।

तच् छ्रुत्वा विशेषाद् अंतर्लीनो हिरण्यक आह-भोः! द्रुतं गम्यताम् अस्मात् स्थानात्।

वायस आह-अहं तव पार्श्वे गुरु-कार्येण समागतः। तत् किं न क्रियते मया सह दर्शनम्?

हिरण्यक आह-न मेस्ति त्वया सह संगमेन प्रयोजनम् इति।

स आह-भोः! चित्रग्रीवस्य मया तव सकाशात् पाश-मोक्षणं दृष्टम्। तेन मम महती प्रीतिः सञ्जाता। तत् कदाचिन् ममापि बंधने जाते तव पार्श्वान् मुक्तैर् भविष्यति। तत् क्रियतां मया सह मैत्री।

हिरण्यक आह-अहो त्वं भोक्ता। अहं ते भोज्य-भूतः। तत् का त्वया सह मम मैत्री? तद् गम्यताम्। मैत्री विरोध-भावात् कथम्? उक्तं च-

ययोर् एव समं वित्तं ययोर् एव समं कुलम्।
तयोर् मैत्री विवाहश् च न तु पुष्ट-विपुष्टयोः॥पञ्च_२.२९॥

तथा च-
यो मित्रं कुरुते मूढ आत्मनोऽसदृशं कुधीः।
हीनं वाप्य् अधिकं वापि हास्यतां यात्य् असौ जनः॥पञ्च_२.३०॥

तद् गम्यताम् इति।

वायस आह-भो हिरण्यक! एषोऽहं तव दुर्ग-द्वार उपविष्टः। यदि त्वं मैत्री न करोषि ततोऽहं प्राण-मोक्षणं तवाग्रे करिष्यामि। अथवा प्रायोपवेशनं मे स्यात् इति।

हिरण्यक आह-भोः! त्वया वैरिणा सह कथं मैत्रीं करोमि? उक्तं च-

वैरिणा न हि संदध्यात् सुश्लिष्टेनापि संधिना।
सुतप्तम् अपि पानीयं शमयत्य् एव पावकम्॥पञ्च_२.३१॥

वायस आह-भोः! त्वया सह दर्शनम् अपि नास्ति। कुतो वैरम्? तत् किम् अनुचितं वदसि?

हिरण्यक आह-द्विविधं वैरं भवति। सहजं कृत्रिमं च। तत् सहज-वैरी त्वम् अस्माकम्। उक्तं च-

कृत्रिमं नाशम् अभ्येति वैरं द्राक् कृत्रिमैर् गुणैः।
प्राण-दानं विना वैरं सहजं याति न क्षयम्॥पञ्च_२.३२॥

वायस आह-भोः! द्विविधस्य वैरस्य लक्षणं श्रोतुम् इच्छामि। तत् कथ्यताम्।

हिरण्यक आह-भोः! कारणेन निर्वृत्तं कृत्रिमम्। तत्-तद्-अर्होपकार-करणाद् गच्छति। स्वाभाविकं पुनः कथम् अपि न गच्छति। तद् यथा नकुल-सर्पाणां, शष्पभुङ्-नखायुधानां, जल-वह्न्योः, देव-दैत्यानां, सारमेय-मार्जराणां, ईश्वर-दरिद्राणां, सपत्नीनां, सिंह-गजानां, लुब्धक-हरिणानां, श्रोत्रिय-भ्रष्ट-क्रियाणां, मूर्ख-पण्डितानां, पतिव्रता-कुलटानां, सज्जन-दुर्जनानाम्। न कश्चित् केनापि व्यापादितः, तथापि प्राणान् सन्तापयन्ति।

वायस आह-भोः! अकारणम् एतत्। श्रूयतां मे वचनम्-

कारणान् मित्रताम् एति कारणाद् याति शत्रुताम्।
तस्मान् मित्रत्वम् एवात्र योज्यं वैरं न धीमता॥पञ्च_२.३३॥

तस्मात् कुरु मया सह समागमं मित्र-धर्मार्थम्।

हिरण्यक आह-भोः, श्रूयतां नीति-सर्वस्वम्-

सकृद् दुष्टम् अपीष्टं यः पुनः संधातुम् इच्छति।
स मृत्युम् उपगृह्णाति गर्भम् अश्वतरी यथा॥पञ्च_२.३४॥

अथवा गुणवान् अहं, न मे कश्चिद् वैर-यातनां करिष्यति। एतद् अपि न संभाव्यम्। उक्तं च-

सिंहो व्याकरणस्य कर्तुर् अहरत् प्राणान् प्रियान् पाणिनेर्
मीमांसा-कृतम् उन्ममाथ सहसा हस्ती मुनिं जैमिनिम्।
छंदो-ज्ञान-निधिं जघान मकरो वेला-तटे पिंगलम्
अज्ञानावृत-चेतसाम् अतिरुषा कोऽर्थस् तिरश्चां गुणैः॥पञ्च_२.३५॥

पाणिनि उपरि टिप्पणी

पिंगलोपरि टिप्पणी
वायस आह-अस्त्य् एतत्। यथापि श्रूयताम्-

उपकाराच् च लोकानां निमित्तान् मृग-पक्षिणाम्।
भयाल् लोभाच् च मूर्खाणां मैत्री स्याद् दर्शनात् सताम्॥पञ्च_२.३६॥
मृद्-घट इव सुख-भेद्यो दुःसंधानश् च दुर्जनो भवति।
सुजनस् तु कनक-घट इव दुर्भेदः सुकर-संधिश् च॥पञ्च_२.३७॥
इक्षोर् अग्रात् क्रमशः पर्वणि पर्वणि यथा रस-विशेषः।
तद्वत् सज्जन-मैत्री-विपरीतानां तु विपरीता॥पञ्च_२.३८॥

तथा च-
आरंभ-गुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्ध-परार्ध-भिन्ना छायेव मैत्री खल-सज्जनानाम्॥पञ्च_२.३९॥

तत् साधुर् अहम्। अपरं त्वां शपथादिभिर् निर्भयं करिष्यामि।

स आह-न मेस्ति ते शपथैः प्रत्ययः। उक्तं च-

शपथैः संधितस्यापि न विश्वासं व्रजेद् रिपोः।
श्रूयते शपथं कृत्वा वृत्रः शक्रेण सूदितः॥पञ्च_२.४०॥
न विश्वासं विना शत्रुर् देवानाम् अपि सिध्यति।
विश्वासात् त्रिदशेंद्रेण दितेर् गर्भो विदारितः॥पञ्च_२.४१॥

अन्यच् च-
बृहस्पतेर् अपि प्राज्ञस् तस्मान् नैवात्र विश्वसेत्।
य इच्छेद् आत्मनो बुद्धिम् आयुष्यं च सुखानि च॥पञ्च_२.४२॥

तथा च-
सुसूक्ष्मेणापि रंध्रेण प्रविश्याभ्यंतरं रिपुः।
नाशयेच् च शनैः पश्चात् प्लवं सलिल-पूरवत्॥पञ्च_२.४३॥
न विश्वसेद् अविश्वस्ते विश्वस्तेपि न विश्वसेत्।
विश्वासाद् भयम् उत्पन्नं मूलान्य् अपि निकृन्तति॥पञ्च_२.४४॥
न बध्यते ह्य् अविश्वस्तो दुर्बलोऽपि बलोत्कटैः।
विश्वस्ताश् चाशु बध्यंते बलवंतोऽपि दुर्बलैः॥पञ्च_२.४५॥
सुकृत्यं विष्णु-गुप्तस्य मित्राप्तिर् भार्गवस्य च।
बृहस्पतेर् अविश्वासो नीतिर्-संधिस् त्रिधा स्थितः॥पञ्च_२.४६॥

तथा च-
महताप्य् अर्थ-सारेण यो विश्वसिति शत्रुषु।
भार्यासु सुविरक्तासु तद्-अंतं तस्य जीवितम्॥पञ्च_२.४७॥

तच् छ्रुत्वा लघुपतनकोऽपि निरुत्तरश् चिंतयामास-अहो, बुद्धि-प्रागल्भ्यम् अस्य नीति-विषये। अथवा स एवास्योपरि मैत्री-पक्षपातः। स आह-भो हिरण्यक!

सतां साप्तपदं मैत्रम् इत्य् आहुर् विबुधा जनाः।
तस्मात् त्वं मित्रतां प्राप्तो वचनं मम तच् छृणु॥पञ्च_२.४८॥

दुर्गस्थेनापि त्वया मया सह नित्यम् एवालापो गुण-दोष-सुभाषित-गोष्ठी-कथाः सर्वदा कर्तव्याः, यद्य् एवं न विश्वसिषि।

तच् छ्रुत्वा हिरण्यकोऽपि व्यचिंतयत्-विदग्ध-वचनोऽयं दृश्यते लघुपतनकः सत्य-वाक्यश् च तद् युक्तम् अनेन मैत्री-करणम्। परं कदाचिन् मम दुर्गे चरण-पातोऽपि न कार्यः। उक्तं च-

भीत-भीतैः पुरा शत्रुर् मंदं मंदं विसर्पति।
भूमौ प्रहेलया पश्चाज् जार-हस्तो अंगनास्व् इव॥पञ्च_२.४९॥

तच् छ्रुत्वा वायस आह-भद्र, एवं भवतु। ततः-प्रभृति तौ द्वाव् अपि सुभाषित-गोष्ठी-सुखम् अनुभवंतौ तिष्ठतः। परस्परं कृतोपकारौ कालं नयतः। लघुपतनकोऽपि मांस-शकलानि मेध्यानि बलिशेषाण्य् अन्यानि वात्सल्याहृतानि पक्वान्न-विशेषाणि हिरण्यकार्थम् आनयति। हिरण्यकोऽपि तंडुलान् अन्यांश् च भक्ष्य-विशेषाल् लघुपतनकार्थं रात्राव् आहृत्य तत्-कालायातस्यार्पयति। अथवा युज्यते द्वयोर् अप्य् एतत्। उक्तं च-

ददाति प्रतिगृह्णाति गुह्यम् आख्याति पृच्छति।
भुंक्ते भोजायते चैव षड्-विधं प्रीति-लक्षणम्॥पञ्च_२.५०॥

लघुपतनक वायस - चित्रग्रीव कपोत- हिरण्यक मूषक कथायाः विवेचनम्

अग्रिम पुटम्

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. पञ्चतन्त्रम्
    1. कथा-मुखम् १-७
    2. प्रथमम् तन्त्रम् - मित्रभेदः १-५०
    3. प्रथमम् तन्त्रम् - मित्रभेदः ५१-१००
    4. प्रथमम् तन्त्रम् - मित्रभेदः १०१-१५०
    5. प्रथमम् तन्त्रम् - मित्रभेदः १५१-२००
    6. प्रथमम् तन्त्रम् - मित्रभेदः २०१-२५०
    7. प्रथमम् तन्त्रम् - मित्रभेदः २५१-३००
    8. प्रथमम् तन्त्रम् - मित्रभेदः ३०१-३५०
    9. प्रथमम् तन्त्रम् - मित्रभेदः ३५१-४००
    10. प्रथमम् तन्त्रम् - मित्रभेदः ४०१-४५०
    11. प्रथमम् तन्त्रम् - मित्रभेदः ४५१-४६१
    12. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १-५०
    13. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः ५१-१००
    14. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०
    15. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६
    16. तृतीयम् तन्त्रम् - काकोलूकीयम् १-५०
    17. तृतीयम् तन्त्रम् - काकोलूकीयम् ५१-१००
    18. तृतीयम् तन्त्रम् - काकोलूकीयम् १०१-१५०
    19. तृतीयम् तन्त्रम् - काकोलूकीयम् १५१-२००
    20. तृतीयम् तन्त्रम् - काकोलूकीयम् २०१-२५०
    21. तृतीयम् तन्त्रम् - काकोलूकीयम् २५१-२६०
    22. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०
    23. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४
    24. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् १-५०
    25. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् ५१-९८
  2. पंचतंत्र (hindi wikipedia)
  3. पंचतंत्र (हिन्दी में)]
  4. हितोपदेशम्

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=पञ्चतन्त्रम्_०३&oldid=140703" इत्यस्माद् पुनः प्राप्तिः