कथासरित्सागरः/लम्बकः १०/तरङ्गः ५

विकिस्रोतः तः

ततः शक्तियशः सोत्कं गोमुखः स विनोदयन् ।
नरवाहनदत्तं तं मन्त्री पुनरभाषत ।। १
श्रुता प्राज्ञकथा देव त्वया मुग्धकथां शृणु ।
मुग्धबुद्धिरभूत्कश्चिदाढ्यस्य वणिजः सुतः ।। २
जगाम स वणिज्यायै कटाहद्वीपमेकदा ।
भाण्डमध्ये च तस्याभून्महानगुरुसंचयः ।। ३
विक्रीता परभाण्डस्य न तस्यागुरु तत्र तत् ।
कश्चिज्जग्राह तद्वासी जनो वेत्ति न तत्र तत् ।। ४
काष्ठिकेभ्यस्ततोऽङ्गारान्दृष्ट्वापि क्रीणतो जनान् ।
स कालागुरु दग्ध्वा तदङ्गारानकरोज्जडः ।। ५
विक्रीयाङ्गारमूल्येन तच्चागत्य ततो गृहम् ।
तदेव कौशलं शंसन्स ययौ लोकहास्यताम् ।। ६
कथितोऽगुरुदाह्मेष श्रूयतां तिलकार्षिकः ।
बभूव कश्चिद्ग्रामीणो भूतप्रायः कृषीवलः ।। ७
स कदाचित्तिलान्भृष्टान्भुक्त्वा स्वादूनवेत्य तान् ।
भृष्टानेवावपद्भूरींस्तादृशोत्पत्तिवाञ्छया ।। ८
मृष्टेषु तेष्वजातेषु नष्टार्थं तं जनोऽहसत् ।
तिलकार्षिक उक्तोऽसौ जलेऽग्निक्षेपकं शृणु ।। ९
मन्दबुद्धिरभूत्कश्चित्पुमान्निशि स चैकदा ।
प्रभाते देवतापूजां करिष्यन्नित्यचिन्तयत् ।। १०
उपयुक्तौ मम स्नानधूपाद्यर्थं जलानलौ ।
स्थापयामि तदेकस्थौ तौ शीघ्रं प्राप्नुयां यथा ।। ११
इत्यालोच्याम्बुकुम्भान्तः क्षित्वाग्निं संविवेश सः ।
प्रातश्च वीक्षते यावद्गतोऽग्निर्नष्टमम्बु च ।। १२
अङ्गारमलिने तोये दृष्टे तस्याभवन्मुखम् ।
तादृगेव सहासस्य लोकस्यासीत्पुनः स्मितम् ।। १३
श्रुतस्त्वयाग्निकुम्भाख्यो नासिकारोपणं शृणु ।
बभूव कश्चित्पुरुषो मूर्खो मूढमतिः क्वचित् ।। १४
स भार्यां चिपिटघ्राणां गुरुं चोत्तुङ्गनासिकम् ।
दृष्ट्वा तस्य प्रसुप्तस्य नासां छित्त्वाग्रहीद्गुरोः ।। १५
गत्वा च नासिकां छित्त्वा भार्यायास्तामरोपयत् ।
गुरुनासां मुखे तस्या न च तत्रारुरोह सा ।। १६
एवं भार्यागुरू तेन च्छिन्ननासौ कृतावुभौ ।
अधुना वनवासी च पशुपालो निशाम्यताम् ।। १७
पशुपालो महामुग्धः कोऽप्यासीद्धनवान्वने ।
तस्य धूर्ताः समाश्रित्य मित्रत्वे बहवोऽमिलन् ।। १८
ते तं जगदुराढ्यस्य सुता नगरवासिनः ।
त्वत्कृते याचितास्माभिः सा च पित्रा प्रतिश्रुता ।। १९
तच्छ्रुत्वा स ददौ तुष्टस्तेभ्योऽर्थं तं च ते पुनः ।
विवाहस्तव संपन्न इत्यूचुर्दिवसैर्गतैः ।। २०
ततः स सुतरां तुष्टस्तेभ्यो भूरि धनं ददौ ।
दिनैश्च तं वदन्ति स्म पुत्रो जातस्तवेति ते ।। २१
ननन्द तेन सर्वं च मूढस्तेभ्यः समर्प्य सः ।
पुत्रं प्रत्युत्सुकोऽस्मीति प्रारोदीच्चापरेऽहनि ।। २२
रुदंश्चादत्त लोकस्य हासं धूर्तैः स वञ्चितः ।
पशुभ्य इव संक्रान्तजडिमा पशुपालकः ।। २३
पशुपालः श्रुतो देव शृण्वलंकारलम्बकम् ।
ग्राम्यः कश्चित्खनन्भूमिं प्रापालंकरणं महत् ।। २४
रात्रौ राजकुलाच्चौरैर्नीत्वा तत्र निवेशितम् ।
यद्गृहीत्वा स तत्रैव भार्यां तेन व्यभूषयत् ।। २५
बबन्ध मेखलां मूर्घ्नि हारं च जघनस्थले ।
नूपुरौ करयोस्तस्याः कर्णयोरपि कङ्कणौ ।। २६
हसद्भिः ख्यापितं लोकैर्बुद्ध्वा राजा जहार तत् ।
तस्मात्स्वाभरणं तं तु पशुप्रायं मुमोच सः ।। २७
उक्तोऽलंकरणो देव शृणु वच्म्यथ तूलिकम् ।
मूर्खः कश्चित्पुमांस्तूलविक्रयायापणं ययौ ।। २८
अशुद्धमिति तत्तस्य न जग्राहात्र कश्चन ।
तावद्ददर्श तत्राग्नौ हेम निष्टप्तशोधितम् ।। २९
स्वर्णकारेण विक्रीतं गृहीतं ग्राहकेण च ।
तद्दृष्ट्वापि स तत्तूलमिच्छञ्शोधयितुं जडः ।। ३०
अग्नौ चिक्षेप दग्धे च तस्मिंल्लोको जहास तम् ।
श्रुतोऽयं तूलिको देवखर्जूरीछेदकं शृणु ।। ३१
केचिन्मूर्खाः समाहूय न्ययोज्यन्ताधिकारिभिः ।
ग्राम्या राजकुलादिष्टं खर्जूरानयनं प्रति ।। ३२
ते दृष्ट्वैका सुखग्राह्यां खर्जूरपतितां स्वतः ।
खर्जूरीं तत्र खर्जूरीः सर्वा ग्रामे स्वकेऽच्छिनन् ।। ३३
पतितास्ताश्च कलिताशेषखर्जूरसंचयाः ।
उत्थाप्यारोपयामासुर्न चैषां सिद्ध्यति स्म तत् ।। ३४
ततश्चानीतखर्जूरा आदृतारोपणेन ते ।
खर्जूरीछेदनं बुद्ध्वा राज्ञा प्रत्युत दण्डिताः ।। ३५
उक्तः खर्जूरहासोऽयं निध्यालोकनमुच्यते ।
निधानदर्शी केनापि कोऽप्याजह्रे महीभुजा ।। ३६
मा गात्क्वापि पलाय्यायमिति राजकुमन्त्रिणा ।
नेत्रे तस्योदपाट्येतां निधानस्थानदर्शिनः ।। ३७
भूलक्षणान्यपश्यन्तं गतावप्यगतौ समम् ।
अन्धं दृष्ट्वा च तं मन्त्री स जडो जहसे जनैः ।। ३८
निधानालोकनं श्रुत्वा श्रूयतां लवणाशनम् ।
बभूव गह्वरो ग्रामवासी कोऽपि जडः पुमान् ।। ३९
स मित्त्रेण गृहं जातु नीतो नगरवासिना ।
भोजितो लवणस्वादून्यन्नानि व्यञ्जनानि च ।। ४०
केनेयं स्वादुतान्नादेरित्यपृच्छत्स गह्वरः ।
प्राधान्याल्लवणेनेति तेनोचे सुहृदा तदा ।। ४१
तदेव तर्हि भोक्तव्यमित्युक्त्वा लवणस्य सः ।
पिष्टस्य मुष्टिमादाय प्रक्षिप्याभक्षयन्मुखे ।। ४२
तच्चूर्णं तस्य दुर्बुद्धेरोष्ठौ श्मश्रूणि चालिपत् ।
हसतस्तु जनस्यात्र मुखं धवलतां ययौ ।। ४३
लवणाशी श्रुतो देव त्वया गोदोहकं शृणु ।
ग्राम्यः कश्चिदभून्मुग्धो गौरेका तस्य चाभवत् ।। ४४
सा च तस्यान्वहं धेनुः पयःपलशतं ददौ ।
कदाचिच्चाभवत्तस्य प्रत्यासन्नः किलोत्सवः ।। ४५
एकवारं ग्रहीष्यामि पयोऽस्याः प्राज्यमुत्सवे ।
इति मूर्खः स नैवैतां मासमात्रं दुदोह गाम् ।। ४६
प्राप्तोत्सवश्च यावत्तां दोग्धि तावत्पयोऽखिलम् ।
तत्तस्याश्छिन्नमच्छिन्नं लोकस्य हसितं त्वभूत् ।। ४७
श्रुतो गोदोहको मूर्खः श्रूयतामपराविमौ ।
खलतिस्ताम्रकुम्भाभशिराः कश्चित्पुमानभूत् ।। ४८
वृक्षमूलोपविष्टं तं तरुणः कश्चिदैक्षत ।
आगतोऽत्र कपित्थानि गृहीत्वा क्षुधितः पथा ।। ४९
स कपित्थेन तत्तस्य क्रीडयाताडयच्छिरः ।
खलतिः सोऽपि तत्सेहे न तस्योवाच किंचन ।। ५०
ततोऽन्यैः क्रमशः सर्वैः स कपित्थैरताडयत् ।
शिरस्तस्य स चातिष्ठत्तूष्णीं रक्ते स्रवत्यपि ।। ५१
स च निष्फलतारुण्यकृतक्रीडाविचूर्णितैः ।
विना कपित्थैः क्षुत्क्लान्तो ययौ मूर्खयुवा ततः ।। ५२
कपित्थैः स्वादुभिः किं न सहे घातानिति ब्रुवन् ।
स खल्वाटो गलद्रक्तशिरा मूर्खो ययौ गृहम् ।। ५३
मूर्खसाम्राज्यबद्धेन पट्टेनेव वृतं शिरः ।
रक्तेन तस्य तद्दृष्ट्वा हसति स्म न तत्र कः ।। ५४
एवं देवोपहास्यत्वं लोके गच्छन्त्यबुद्धयः ।
लभन्ते नार्थसिद्धिं च पूज्यन्ते तु सुबुद्धयः ।। ५५
इति गोमुखतः श्रुत्वा मुग्धहासकथा इमाः ।
नरवाहनदत्तः समुत्थाय व्यधिताह्निकम् ।। ५६
निशागमे पुनस्तेन नियुक्तश्चोत्सुकेन सः ।
गोमुखः कथयामास प्रज्ञानिष्ठामिमां कथाम् ।। ५७
अभूत्क्वापि वनोद्देशे महाञ्शाल्मलिपादपः ।
उवास लघुपातीति काकस्तत्र कृतालयः ।। ५८ तु. पञ्चतन्त्रम् ०३
स कदाचित्स्वनीडस्थो ददर्शात्र तरोरधः ।
जालहस्तं सलगुडं रौद्रं पुरुषमागतम् ।। ५९
ततः स वीक्षते यावत्काकस्तावद्वितत्य सः ।
जालं भुवि विकीर्यात्र व्रीहींश्छन्नोऽभवत्पुमान् ।।
तावच्च चित्रग्रीवाख्यः पारावतपतिर्भ्रमन् ।
तत्राजगाम नभसा पारावतशतैर्वृतः ।। ६१
स व्रीहिप्रकरं दृष्ट्वा जालेऽत्राहारलिप्सया ।
पतितः पाशनिकरैर्बद्धोऽभूत्सपरिच्छदः ।। ६२
तद्दृष्ट्वा चानुगान्सर्वांश्चित्रग्रीवो जगाद सः ।
गृहीत्वा चञ्चुभिर्जालं खमुत्पतत वेगतः ।। ६३
ततस्तथेति ते जालमादायोत्पत्य वेगतः ।
कपोता नभसा गन्तुं भीताः प्रारेभिरेऽखिलाः ।। ६४
सोऽप्युत्थायोर्ध्वदृग्विग्नो लुब्धकः संन्यवर्तत ।
निर्भयोऽथ जगादैतांश्चित्रग्रीवोऽनुयायिनः ।। ६५
मन्मित्त्रस्य हिरण्यस्य मूषकस्यान्तिकं द्रुतम् ।
व्रजामः स इमान्पाशांश्छित्त्वास्मान्मोचयिष्यति ।। ६६
इत्युक्त्वा सोऽनुगैः साकं गत्वा तैर्जालकर्षिभिः ।
मूषकस्य बिलद्वारं प्राप्याकाशादवातरत् ।। ६७
भो भो हिरण्य निर्याहि चित्रग्रीवोऽहमागतः ।
इत्याजुहाव तं तत्र मूषकं स कपोतराट् ।। ६८
स श्रुत्वा द्वारमार्गेण दृष्ट्वा तं चागतं तथा ।
सुहृदं निर्ययावाखुस्तस्माच्छतमुखाद्बिलात् ।। ६९
उपेत्य पृष्ट्वा वृत्तान्तं संभ्रमात्सोऽपि मूषकः ।
पारावतपतेः पाशान्सानुगस्याच्छिनत्सुहृत् ।। ७०
छिन्नपाशस्तमामन्त्र्य मूषकं वचनैः प्रियैः ।
चित्रग्रीवः खमुत्पत्य ययौ सोऽनुचरैः सह ।। ७१
अन्वागतः स काकोऽत्र लघुपाती विलोक्य तत् ।
बिलप्रविष्टं तद्द्वारमागत्योवाच मूषकम् ।। ७२
लघुपातीति काकोऽहं दृष्ट्वा त्वां मित्त्रवत्सलम् ।
मित्त्रत्वाय वृणोमीदृग्विपदुद्धरणक्षमम् ।। ७३
तच्छ्रुत्वाभ्यन्तराद्दृष्ट्वा मूषकस्तं स वायसम् ।
जगाद गच्छ का मैत्री भक्ष्यभक्षकयोरिति ।। ७४
ततः स वायसोऽवादीच्छान्तं भुक्ते मम त्वयि ।
तृप्तिः क्षणं स्यान्मित्त्रे तु शश्वज्जीवितरक्षणम् ।। ७५
इत्याद्युक्त्वा सशपथं कृत्वाश्वासं च तेन सः ।
निर्गतेनाकरोत्सख्यमाखुना सह वायसः ।। ७६
स मांसपेशीरानैषीदाखुः शालिकणानपि ।
एकत्र सह भुञ्जानौ तस्थतुस्तावुभौ सुखम् ।। ७७
एकदा स च काकस्तं मित्त्रं मूषकमब्रवीत् ।
इतोऽविदूरे मित्त्रास्ति वनमध्यगता नदी ।। ७८
तस्यां मन्थरको नाम कूर्मश्चास्ति सुहृन्मम ।
तदर्थं यामि तत्स्थानं सुप्रापामिषभोजनम् ।। ७९
कृच्छ्रात्प्राप्य इहाहारो नित्यं व्याधभयं च मे ।
इत्युक्तवन्तं तं काकं मूषकोऽपि जगाद सः ।। ८०
सहैव तर्हि वत्स्यामो नय तत्रैव मामपि ।
ममाप्यस्तीह निर्वेदो वक्ष्ये तत्रैव तं च ते ।। ८१
इति वादिनमादाय चञ्च्वा तं स हिरण्यकम् ।
नभसा लघुपाती तद्ययौ वननदीतटम् ।। ८२
मिलित्वा सह कूर्मेण तत्र मन्थरकेण सः ।
कृतातिथ्येन मित्त्रेण स तस्थौ मूषकान्वितः ।। ८३
कथान्तरे च कूर्माय तस्मै स्वागमकारणम् ।
हिरण्यसख्यवृत्तान्तयुक्तं काकः शशंस सः ।। ८४
ततः स कूर्मस्तं कृत्वा मित्त्रं वायससंस्तुतम् ।
देशनिर्वासनिर्वेदहेतुं पप्रच्छ मूषकम् ।। ८९
ततो हिरण्यः स तयोरुभयोः काककूर्मयोः ।
शृण्वतोर्निजवृत्तान्तकथामेतामवर्णयत् ।। ८६
अहं महाबिले तत्र नगरासन्नवर्तिनि ।
वसन्राजकुलाद्धारमानीयास्थापयं निशि ।। ८७
दृश्यमानेन हारेण तेन जातौजसं च माम् ।
समर्थमन्नाहरणे मूषकाः पर्यवारयन् ।। ८८
अत्रान्तरे च तत्रासीत्कश्चिदस्मद्बिलान्तिके ।
परिव्राण्मठिकां कृत्वा नानाभिक्षान्नवृत्तिकः ।। ८९
स भुक्तशेषं भिक्षान्नं नक्तं स्थापयति स्म तत् ।
भिक्यभाण्डस्थमुल्लम्ब्य शङ्कौ प्रातर्जिघत्सया ।। ९०
सुप्तस्यात्र च तस्याहं बिलेनान्तः प्रविश्य तत् ।
दत्तोर्ध्वझम्पो निःशेषमनैषं प्रतियामिनि ।। ९१
कदाचित्तत्र तस्यागात्सुहृत्प्रव्राजकोऽपरः ।
भुक्तोत्तरं समं तेन कथां रात्रौ स चाकरोत् ।। ९२
तावन्नेतुं प्रवृत्तेऽन्नं मयि जर्जरकेण सः ।
प्रव्राडवादयद्दत्तकर्णस्तद्भाण्डकं मुहुः ।। ९३
कथमाच्छिद्य किमिदं करोषीति स तेन च ।
आगन्तुना परिव्राजा पृष्टः प्रव्राट् तमब्रवीत् ।। ९४
इह मे मूषकः शत्रुरुत्पन्नोऽथ सदैव यः ।
अपि दूरस्थमुत्प्लुत्य नयत्यन्नमितो मम ।। ९५
तं त्रासयामि चलयञ्जर्जरेणान्नभाजनम् ।
इत्युक्तवन्तं प्रव्राजं परिव्राट् सोऽपरोऽब्रवीत् ।। ९६
लोभो नामैष जन्तूनां दोषायात्र कथां शृणु ।
तीर्थान्यहं भ्रमन्प्रापमेकं नगरमेकदा ।। ९७
तत्र चैकस्य विप्रस्य निवासायाविशं गृहम् ।
स्थिते मयि स विप्रश्च वदति स्म स्वगेहिनीम् ।। ९८
कृसरं ब्राह्मणकृते पर्वण्यद्य पचेरिति ।
कुतस्ते निर्धनस्यैतदित्यवोचच्च सापि तम् ।। ९३
ततः स विप्रोऽवादीत्तां प्रिये कार्येऽपि संचये ।
नातिसंचयधीः कार्या शृणु चात्र कथामिमाम् ।। १००
वने क्वापि कृताखेटो व्याधो यन्त्रितसायकः ।
प्रादाय मांसं धनुषि प्राधावत्सूकरं प्रति ।। १०१
तेनैव काण्डविद्धेन निहतः पोत्रविक्षतः ।
स व्यपद्यत तच्चात्र दूरादैक्षत जम्बुकः ।। १०२
स चागत्य क्षुधार्तोऽपि चिकीर्षुः संचयाय तत् ।
क्रोडव्याधामिषात्किंचिन्न चखादातिभूयसः ।। १०३
भोक्तुं प्रववृते तत्तु गत्वा धनुषि यत्स्थितम् ।
तत्क्षणं चोच्चलद्यन्त्रशरविद्धो ममार सः ।। १०४
तन्नातिसंचयः कार्य इति तेन द्विजेन सा ।
भार्योक्ता प्रतिपद्यैतत्तिलान्प्राक्षिपदातपे ।। १०५
प्रविष्टायां गृहं तस्यां प्राश्य श्वा तानदूषयत् ।
ततो न कृसरानेतान्कश्चिन्मूल्यादिनाग्रहीत् ।। १०६
तदेवं नोपभोगाय लोभः क्लेशाय केवलम् ।
इत्युक्त्वा पुनराह स्म प्रव्राडागन्तुकोऽथ सः ।। १०७
खनित्रमस्ति चेत्तन्मे दीयतां यावदद्य वः ।
युक्त्या निवारयाम्येतं मूषकोत्थमुपद्रवम् ।। १०८
तच्छ्रुत्वा तन्निवासी स प्रव्राट् तस्मै खनित्रकम् ।
ददावहं च च्छन्नस्थस्तद्दृष्ट्वा प्राविशं बिलम् ।। १०९
ततस्तेन खनित्रेण प्रव्राडागन्तुकोऽथ सः ।
मत्संचारबिलं वीक्ष्य प्रारेभे खनितुं शठः ।। ११०
क्रमाच्च तावदखनत्पलायनपरे मयि ।
यावत्तं प्राप तत्रस्थं हारं मे चान्यसंचयम् ।। १११
तेजसानेन तस्याभूदाखोस्तत्तादृशं बलम् ।
इत्याह स्थानिनं तं च प्रव्राजं मयि शृण्वति ।। ११२
नीत्वा च तन्मे सर्वस्वं हारं मूर्ध्नि निधाय च ।
आगन्तुस्थायिनौ हृष्टौ प्रव्राजौ स्वपतः स्म तौ ।। ११३
प्रसुप्तयोस्तयोस्तं च हर्तुं मां पुनरागतम् ।
प्रबुध्याताडयद्यष्ट्या प्रव्राट् स्थायी स मूर्धनि ।। ११४
तेनाहं व्रणितो दैवान्न मृतो बिलमाविशम् ।
भूयश्च शक्तिर्नाभून्मे तदन्नाहरणप्लवे ।। ११५
अर्थो हि यौवनं पुंसां तदभावश्च वार्धकम् ।
तेनास्योजो बलं रूपमुत्साहश्चापि हीयते ।। ११६
अथात्ममात्रभरणे यत्नवन्तमवेक्ष्य माम् ।
परित्यज्य गतः सर्वः स मूषकपरिच्छदः ।। ११७
अवृत्तिके प्रभुं भृत्या अपुण्यं भ्रमरास्तरुम् ।
अजलं च सरो हंसा मुञ्चन्त्यपि चिरोषितम् ।। ११८
इत्थं तत्र चिरोद्विग्नः सुहृदं लघुपातिनम् ।
प्राप्यैतं कच्छपश्रेष्ठ त्वत्पार्श्वमहमागतः ।। ११९
एवं हिरण्यकेनोक्ते कूर्मो मन्थरकोऽभ्यधात् ।
स्वमेव स्थानमेतत्ते तन्मा मित्त्राधृतिं कृथाः ।। १२०
गुणिनो न विदेशोऽस्ति न संतुष्टस्य चासुखम् ।
धीरस्य च विपन्नास्ति नासाध्यं व्यवसायिनः ।। १२१
इति तस्मिन्वदत्येव कूर्मे चित्राङ्गसंज्ञकः ।
दूरतो व्याधवित्रस्तो मृगस्तद्वनमाययौ ।। १२२
तं दृष्ट्वा तस्य दृष्ट्वा च पश्चाद्व्याधमनागतम् ।
आश्वासितेन तेनापि सख्यं कूर्मादयो व्यधुः ।। १२३
न्यवसंस्ते ततस्तत्र काककूर्ममृगाखवः ।
परस्परोपचारेण सुखिताः सुहृदः समम् ।। १२४
एकदा क्वापि चित्राङ्गं चिरायातं तमीक्षितुम् ।
आरुह्य तरुमैक्षिष्ट लघुपाती स तद्वनम् ।। १२५
ददर्श च नदीतीरे कीलपाशेन संयतम् ।
चित्राङ्गमवरुह्यैतदवदच्चाखुकूर्मयोः ।। १२६
ततः संमन्त्र्य चञ्च्वा तं गृहीत्वाखुं हिरण्यकम् ।
चित्राङ्गस्यान्तिकं तस्य लघुपाती निनाय सः ।। १२७
हिरण्यकश्च तं बन्धविधुरं मूषको मृगम् ।
क्षणादमुञ्चदाश्वास्य दशनच्छिन्नपाशकम् ।। १२८
तावन्मन्थरकोऽभ्येत्य नदीमध्येन कच्छपः ।
आरुरोह तटं तेषां निकटं स सुहृत्प्रियः ।। १२९
तत्क्षणं स कुतोऽप्येत्य लुब्धकः पाशदायकः ।
विद्रुतेषु मृगाद्येषु लब्ध्वा तं कूर्ममग्रहीत् ।। १३०
क्षिप्त्वा च जालकान्तस्तं यावन्नष्टमृगाकुलः ।
स याति तावद्दृष्ट्वैतद्दीर्घदृश्वाखुवाक्यतः ।। १३१
मृगो गत्वा ततो दूरे पतित्वासीन्मृतो यथा ।
काकस्तु मूर्ध्नि तस्यासीच्चक्षुषी पाटयन्निव ।। १३२
तद्दृष्ट्वा स गृहीतं तं व्याधो मत्वा मृगं मृतम् ।
गन्तुं प्रववृते नद्यास्तटे कूर्मं निधाय तम् ।। १३३
यातं दृष्ट्वा तमभ्येत्य मूषकस्तस्य जालिकाम् ।
कूर्मस्य सोऽच्छिनत्तेन मुक्तो नद्यां पपात सः ।। १३४
मृगोऽपि निकटीभूतं व्याधं वीक्ष्य विकच्छपम् ।
उत्थाय स पलाय्यागात्काकोऽप्यारूढवांस्तरुम् ।। १३५
एत्य व्याधोऽत्र कूर्मं तं बन्धच्छेदपलायितम् ।
अप्राप्योभयविभ्रष्टो दैवं शोचन्नगाद्गृहम् ।। १३६
ततो मिलन्ति स्मैकत्र हृष्टाः कूर्मादयोऽत्र ते ।
मृगस्तु प्रीतिमानेवं कूर्मादींस्तानुवाच सः ।। १३७
पुण्यवानस्मि यत्प्राप्ता भवन्तः सुहृदो मया ।
प्राणानुपेक्ष्य यैरेवं मृत्योरद्याहमुद्धृतः ।। १३८
एवं प्रशंसता तेन मृगेण सह तत्र ते ।
अन्योन्यप्रीतिसुखिताः काककूर्माखवोऽवसन् ।। १३९
प्रज्ञया साधयन्त्येव तिर्यञ्चोऽपि समीहितम् ।
प्राणैरपि न मुञ्चन्ति तेऽप्येवं मित्त्रमापदि ।। १४०
एवं च श्रेयसी मित्त्रेष्वासक्तिर्नाङ्गनासु ताम् ।
ईर्ष्याश्रयत्वाच्छंसन्ति तथा च श्रूयतां कथा ।। १४१
नगरे क्वापि कोऽप्यासीदीर्ष्यावान्पुरुषः प्रभो ।
बभूव तस्य भार्या च वल्लभा रूपशालिनी ।। १४२
अविश्वस्तो न तां जातु मुमोचैकाकिनीं च सः ।
तस्या हि शीलविभ्रंशं चित्रस्थेभ्योऽप्यशङ्कत ।। १४३
केनाप्यवश्यकार्येण कदाचित्स पुमानथ ।
सहैवादाय तां भार्यां प्रतस्थे विषयान्तरम् ।। १४४
मार्गे सभिल्लामटवीमग्रे दृष्ट्वा स तद्भयात् ।
स्थापयित्वा गृहे ग्राम्यवृद्धविप्रस्य तां ययौ ।। १४५
तत्र स्थिता च सा दृष्ट्वा भिल्लांस्तेनागतान्पथा ।
एकेन यूना भिल्लेन सह धृष्टा ययौ ततः ।। १४६
तेन युक्ता च तत्पल्लीं यथाकामं चचार सा ।
उत्क्रान्तेर्ष्यालुपतिका भग्नसेतुरिवापगा ।। १४७
तावत्स तत्पतिः कृत्वा कार्यमागत्य तं द्विजम् ।
ग्राम्यं ययाचे तां भार्यां सोऽपि विप्रो जगाद तम् ।। १४८
न जानेऽहं क्व याता सा जानाम्येतावदेव तु ।
भिल्ला इहागता आसंस्तैः सा नीता भविष्यति ।। १४९
सा पल्ली निकटे चेह तत्तत्र व्रज सत्वरम् ।
ततः प्राप्स्यसि तां भार्यामन्यथा मा मतिं कृथाः ।। १५०
इत्युक्तस्तेन स रुदन्निन्दन्बुद्धिविपर्ययम् ।
जगाम भिल्लपल्लीं तां भार्यां तत्र ददर्श च ।। १५१
सापि दृष्ट्वा तमभ्येत्य पापा भीता तदाब्रवीत् ।
न मे दोषोऽहमानीता भिल्लेनेह बलादिति ।। १५२
आयाहि तत्र गच्छावो यावत्कश्चिन्न पश्यति ।
इति ब्रुवाणं रागान्धं तमुवाच पतिं च सा ।। १५३
तस्यागमनवेलेयं भिल्लस्याखेटगामिनः ।
आगतश्चानुधाव्यैव हन्यात्त्वां मां च स ध्रुवम् ।। १५४
तत्प्रविश्य गुहामेतां प्रच्छन्नस्तिष्ठ संप्रति ।
रात्रौ च सुप्तं हत्वा तं यास्यावो निर्भयावितः ।। १५५
एवं तयोक्तः शठया प्रविश्यासीद्गुहां स ताम् ।
कोऽवकाशो विवेकस्य हृदि कामान्धचेतसः ।। १५६
साथ कुस्त्री गृहान्तःस्थमानीतं व्यसनेन तम् ।
भिल्लायादर्शयत्तस्मा आगताय दिनात्यये ।। १५७
स च निष्कृष्य तं भिल्लः क्रूरकर्मा पराक्रमी ।
प्रातर्देव्युपहारार्थं बबन्ध सुदृढं तरौ ।। १५८
भुक्त्वा च पश्यतस्तस्य रात्रौ तद्भार्यया सह ।
स समासेव्य सुरतं सुखं सुष्वाप तद्युतः ।। १५९
तं दृष्ट्वा सुप्तमीर्ष्यालुः स पुमांस्तरुसंयतः ।
चण्डीं स्तुतिभिरभ्यर्च्य ययौ शरणमार्तितः ।। १६०
साविर्भूय वरं तस्मै तं ददौ येन तस्य सः ।
तत्खड्गेनैव भिल्लस्य स्रस्तबन्धोऽच्छिनच्छिरः ।। १६१
एहीदानीं हतः पापो मयायमिति सोऽथ ताम् ।
प्रबोध्य भार्यां वक्ति स्म साप्युत्तस्थौ सुदुःखिता ।। १६२
गृहीत्वा तस्य च शिरो भिल्लस्यालक्षितं निशि ।
ततः प्रतस्थे कुस्त्री सा पत्या तेन सहैव च ।। १६३
प्रातश्च नगरं प्राप्य दर्शयन्ती शिरोऽत्र तत् ।
भर्ता हतो मेऽनेनेति चक्रन्दाक्रम्य तं पतिम् ।। १६४
ततः स नीतस्तद्युक्तो राजाग्रे पुररक्षिभिः ।
पृष्टस्तत्र यथावृत्तमीर्ष्यालुस्तदवर्णयत् ।। १५५५
राजाथ तत्त्वमन्विष्य च्छेदयामास कुस्त्रियः ।
तस्याः कर्णौ च नासां च तत्पतिं च मुमोच तम् ।। १६६
स मुक्तः स्वगृहं प्रायात्कुस्त्रीस्नेहग्रहोज्झितः ।
एवं हि कुरुते देव योषिदीर्ष्यानियन्त्रिता ।। १६७
शिक्षयत्यन्यपुरुषासङ्गमीर्ष्यैव हि स्त्रियः ।
तदीर्ष्यामप्रकाश्यैव रक्ष्या नारी सुबुद्धिना ।। १६८
रहस्यं च न वक्तव्यं वनितासु यथा तथा ।
पुरुषेणेच्छता क्षेममत्र च श्रूयतां कथा ।। १६३
नागः कश्चित्पलाय्यासीत्कुत्रचिद्गणिकागृहे ।
मानुषं रूपमास्थाय वैनतेयभयाद्भुवि ।। १७०
गणिकाप्यग्रहीद्भाटिं सा हस्तिशतपञ्चकम् ।
स्वप्रभावाच्च तत्तस्य स नागः प्रत्यहं ददौ ।। १७१
कुतोऽन्वहमियन्तस्ते हस्तिनो ब्रूहि को भवान् ।
इति निर्बन्धतः साथ तं पप्रच्छ विलासिनी ।। १७२
मा वोचः कस्यचित्तार्क्ष्यभयादेवमिह स्थितः ।
नागोऽहमिति वक्ति स्म सोऽपि तां मारमोहितः ।। १७३
सा तद्रहसि कुट्टन्यै शशंस गणिका ततः ।
अथ तार्क्ष्यो जगच्चिन्वन्नत्रागात्पुरुषाकृतिः ।। १७४
उपेत्य कुट्टनीं तां च जगाद त्वत्सुतागृहे ।
अहमद्य वसाम्यार्ये भाटिर्मे गृह्यतामिति ।। १७५
इह नागः स्थितो नित्यमिभपञ्चशतीं ददत् ।
तत्किमेकाहभाट्येति कुट्टन्यपि जगाद तम् ।। १७६
ततः स गरुडो नागं तत्र स्थितमवेत्य तम् ।
विवेशातिथिरूपेण तद्वारवनितागृहम् ।। १७७
तत्र प्रासादपृष्ठस्थं नागं तमवलोक्य सः ।
प्रकाश्यात्मानमुत्प्लुत्य जघान च जघास च ।। १७८
अतो न कथयेत्प्राज्ञो रहस्यं स्त्रीष्वनर्गलम् ।
इत्युक्त्वा गोमुखो मुग्धकथां पुनरवर्णयत् ।। १७९
ताम्रकुम्भोपमशिराः कोऽप्यासीत्खलतिः पुमान् ।
स च मूर्खोऽर्थवांल्लोके लज्जते स्म कचैर्विना ।। १८०
अथ धूर्तस्तमागत्य कोऽप्युवाचोपजीविकः ।
एकोऽस्ति वैद्यो यो वेत्ति केशोत्पादनमौषधम् ।। १८१
एतच्छ्रुत्वा तमाह स्म तमानयसि चेन्मम ।
ततोऽहं तव दास्यामि धनं वैद्यस्य तस्य च ।। १८२
एवमुक्तवतस्तस्य धनं भुक्त्वाचिरेण सः ।
मुग्धस्यानीतवानेकं धूर्तो धूर्तचिकित्सकम् ।। १८३
उपजीव्य चिरं सोऽपि खल्वाटं तं भिषक्छिरः ।
अपास्य वेष्टनं युक्त्वा मुग्धायास्मायदर्शयत् ।। १८४
तद्दृष्ट्वाप्यविमर्शः सन्वैद्यं केशार्थमौषधम् ।
तं ययाचे स जडधीस्ततो वैद्योऽब्रवीत्स तम् ।। १८५
खल्वाटः स्वयमन्यस्य जनयेयं कथं कचान् ।
इति ते मूर्ख निर्लोम दर्शितं स्वशिरो मया ।। १८६
तथापि त्वं न वेत्स्येव धिगित्युक्त्वा ययौ भिषक् ।
एवं देव सदा धूर्ताः क्रीडन्ति जडबुद्धिभिः ।। १८७
एवं श्रुतः केशमुग्धस्तैलमुग्धो निशम्यताम् ।
मुग्धोऽभूत्पुरुषः कश्चिद्भृत्यः शिष्टस्य कस्यचित् ।। १०८
स तेन स्वामिना तैलमानेतुं वणिजोऽन्तिकम् ।
प्रेषितो जातु तत्तस्मात्पात्रे तैलमुपाददे ।। १८९
तैलपात्रं गृहीत्वा तदागच्छंस्तत्र केनचित् ।
ऊचे मित्रेण रक्षेदं तैलपात्रं स्रवत्यधः ।। १९०
तच्छ्रुत्वा वीक्षितुमधः पात्रं तत्पर्यवर्तयत् ।
स मूढस्तेन तत्सर्वं तैलं तस्यापतद्भुवि ।। १९१
तद्बुद्ध्वा लोकहास्योऽसौ निरस्तः स्वामिना गृहात् ।
तस्मात्स्वबुद्धिर्मुग्धस्य वरं न त्वनुशासनम् ।। १९२
तैलमुग्धः श्रुतस्तावदस्थिमुग्धो निशम्यताम् ।
अभून्मूर्खः पुमान्कश्चिद्भार्याभूत्तस्य चासती ।। १९३
सा तस्मिन्नेकदा पत्यौ कार्याद्देशान्तरं गते ।
दत्तकर्तव्यशिक्षां स्वामाप्तां कर्मकरीं गृहे ।। १९४
अनन्यदासीं संस्थाप्य निर्गत्यैकान्ततस्ततः ।
ययावुपपतेर्गेहं निरर्गलसुखेच्छया ।। १९५
अथागतं तत्पतिं सा स्थितशिक्षाश्रुगद्गदम् ।
कर्मकर्यवदद्भार्या मृता दग्धा च सा तव ।। १९६
इत्युक्त्वा सा श्मशानं च नीत्वा तस्मायदर्शयत् ।
अस्थीन्यन्यचितास्थानि तान्यादाय रुदंश्च सः ।। १९७
कृतोदकोऽथ तीर्थेषु प्रक्षिप्यास्थीनि तानि च ।
प्रावर्तत स भार्यायास्तस्याः श्राद्धविधौ जडः ।। १९८
सद्विप्र इत्युपानीतं कर्मकर्या तयैव च ।
तमेव भार्योपपतिं श्राद्धविप्रं चकार सः ।। १९९
तेनोपपतिना सार्धं तद्भार्याभ्येत्य तत्र सा ।
उदारवेषा भुङ्क्ते स्म मृष्टान्नं मासि मासि तत् ।। २००
सतीधर्मप्रभावेण भार्या ते परलोकतः ।
पश्यागत्य स्वयं भुङ्क्ते ब्राह्मणेन समं प्रभो ।। २०१
इति कर्मकरी सा तमवोचत्तत्पतिं यथा ।
तथैव प्रतिपेदे तत्सर्वं मूर्खशिरोमणिः ।। २०२
वञ्चयन्ते हेलयैवैवं कुस्त्रीभिः सरलाशयाः ।
श्रुतोऽस्थिमुग्धश्चण्डालकन्यका श्रूयतां त्वया ।। २०३
अभूद्रूपवती कापि मुग्धा चण्डालकन्यका ।
सार्वभौमवरप्राप्तौ संकल्पं हृदि साकरोत् ।। २०४
सा जातु दृष्ट्वा राजानं नगरभ्रमनिर्गतम् ।
सर्वोत्तमं भर्तृबुद्धेरनुयातुं प्रचक्रमे ।। २०५
तावदागात्पथा तेन मुनिस्तस्य प्रणम्य सः ।
पादौ गजावरूढः सन्राजा स्वभवनं ययौ ।। २०६
तद्दृष्ट्वा राजतोऽप्येनं विचिन्त्य मुनिमुत्तमम् ।
चण्डालकन्या राजानं त्यक्त्वा सा मुनिमन्वगात् ।। २०७
मुनिः सोऽपि व्रजन्दृष्ट्वा शून्यमग्रे शिवालयम् ।
न्यस्तजानुः क्षितौ तत्र शिवं नत्वा ययौ ततः ।। २०८
तद्वीक्ष्य सान्त्यजा मत्वा मुनेरप्युत्तमं शिवम् ।
भर्तृबुद्ध्या मुनिं त्यक्त्वा देवं तत्रैव शिश्रिये ।। २०९
क्षणाच्चात्र प्रविश्य श्वा देवस्यारुह्य पीठिकाम् ।
जङ्घामुत्क्षिप्य जातेर्यत्सदृशं तस्य तद्व्यधात् ।। २१०
तद्विलोक्यान्त्यजा मत्वा देवाच्छ्वानं तमुत्तमम् ।
यान्तं तमेवान्वगात्सा त्यक्त्वा देवं पतीच्छया ।। २११
श्वा चागत्यैव चण्डालगृहं परिचितस्य सः ।
चण्डालयूनः प्रणयाल्लुलोठैकस्य पादयोः ।। २१२
तदालोक्योत्तमं मत्वा शुनश्चण्डालपुत्रकम् ।
स्वजातितुष्टा वव्रे सा तमेव पतिमन्त्यजा ।। २१३
एवं कृतपदा दूरे पतन्ति स्वपदे जडाः ।
एवं च मूर्खं राजानं संक्षेपादपरं शृणु ।। २१४
मूर्खः कश्चिदभूद्राजा कृपणः कोषवानपि ।
एकदा जगदुश्चैवं मन्त्रिणस्तं हितैषिणः ।। २१५
दानं हरति देवेह दुर्गतिं पारलौकिकीम् ।
तद्देहि दानमायूंषि भङ्गुराणि धनानि च ।। २१६
तच्छ्रुत्वा स नृपोऽवादीद्दानं दास्याम्यह तदा ।
दुर्गतिं प्राप्तमात्मानं मृतो द्रक्ष्यामि चेदिति ।। २१७
ततश्चान्तर्हसन्तस्ते तूष्णीमासत मन्त्रिणः ।
एवं नोज्झति मूढोऽर्थान्यावदर्थैः स नोज्झितः ।। २१०
राजभौतः श्रुतो देव मध्ये मित्रद्वयं शृणु ।
बभूव चन्द्रापीडाख्यः कान्यकुब्जे महीपतिः ।। २१९
तस्याभवच्च धवलमुखाख्यः कोऽपि सेवकः ।
बहिर्भुक्त्वा च पीत्वा च सदैव प्राविशद्गृहम् ।। २२०
भुक्तपीतः कुतो नित्यमायासीति च भार्यया ।
पृष्टः स जातु धवलमुखस्तामेवमभ्यधात् ।। २२१
सुहृत्पार्श्वादहं शश्वद्भुक्त्वा पीत्वा च सुन्दरि ।
सदैवायामि येनास्ति लोके मित्रद्वयं मम ।। २२२
कल्याणवर्मनामैको भोजनाद्युपकारकृत् ।
द्वितीयो वीरबाहुश्च प्राणैरप्युपकारकः ।। २२३
एवं श्रुत्वैव धवलमुखोऽसौ भार्यया तया ।
ऊचे मित्रद्वयं तन्मे भवता दर्श्यतामिति ।। २२४
ततो ययौ स तद्युक्तस्तस्य कल्याणवर्मणः ।
गृहं सोऽपि महार्हैस्तमुपचारैरुपाचरत् ।। २२५
अन्येद्युः स ययौ वीरबाहोर्भार्यायुतोऽन्तिकम् ।
स च द्यूतस्थितः कृत्वा स्वागतं तं विसृष्टवान् ।। २२६
ततोऽब्रवीत्सा धवलमुखं भार्या सकौतुका ।
कल्याणवर्मा महतीं सत्क्रियामकरोत्तव ।। २२७
कृतं स्वागतमात्रं तु भवतो वीरबाहुना ।
तदार्यपुत्र तं मित्त्रं मन्यसेऽभ्यधिकं कथम् ।। २२८
तच्छ्रुत्वा सोऽब्रवीद्गच्छ मिथ्या तौ ब्रूह्युभौ क्रमात् ।
राजा नः कुपितोऽकस्मात्ततो ज्ञास्यस्यथ स्वयम्।। २२९
इत्युक्ता तेन गत्वैव सा तथेति तदैव तत् ।
कल्याणवर्मणोऽवोचत्स श्रुत्वैव जगाद ताम् ।। २३०
भवत्यहं वणिक्पुत्रो ब्रूहि राज्ञः करोमि किम् ।
इत्युक्ता तेन सा प्रायाद्वीरबाहोरथान्तिकम् ।। २३१
तस्मै तथैव साशंसद्राजकोपं स्वभर्तरि ।
स श्रुत्वैवाययौ धावन्गृहीत्वा खड्गचर्मणी ।। २३२
मन्त्रिभिर्वारितः कोपाद्राजासौ तद्व्रजेति तम् ।
वीरबाहुं स धवलमुखोऽथ प्राहिणोद्गृहम् ।। २३३
एवं तदन्तरं तन्वि मित्त्रयोरेतयोर्मम ।
इति भार्याथ धवलमुखेनोक्ता तुतोष सा ।। २३४
इत्यन्यदुपचारेण मित्त्रमन्यत्तु सत्यतः ।
तुल्येऽपि स्निग्धतायोगे तैलं तैलं घृतं घृतम् ।। २३५
इत्याख्याय कथामेतां मन्त्री मुग्धकथाः क्रमात् ।
नरवाहनदत्ताय गोमुखोऽकथयत्पुनः ।। २३६
कश्चिन्मुग्धोऽध्वगस्तीर्त्वा कृच्छ्रात्तृष्णातुरोऽटवीम् ।
नदीं प्राप्यापि न पपौ वीक्षांचक्रे परं जलम् ।। २३७
तृषितोऽपि पिबस्यम्भः किं नेत्युक्तोऽत्र केनचित् ।
इयत्कथं पिबामीति मन्दबुद्धिरुवाच तम् ।। २३९
किं दण्डयति राजा त्वां सर्वं पीतं न चेत्त्वया ।
इति तेनोपहसितोऽप्यम्बुमुग्धः स नापिबत् ।। २३९
एवं न शक्नुवन्तीह यद्यत्कर्तुमशेषतः ।
यथाशक्ति न तस्यांशमपि कुर्वन्त्यबुद्धयः ।। २४०
जलभीतः श्रुतो देव श्रूयतां पुत्रघात्ययम् ।
बहुपुत्रो दरिद्रश्च मूर्खः कश्चिदभूत्पुमान् ।। २४१
स एकस्मिन्मृते पुत्रे द्वितीयमवधीत्स्वयम् ।
कथं बालोऽयमेकाकी पथि दूरे व्रजेदिति ।। २४२
ततः स निन्द्यो हास्यश्च देशान्निर्वासितो जनैः ।
एवं पशुश्च मूर्खश्च निर्विवेकमती समौ ।। २४३
श्रुतस्त्वया पुत्रघाती भ्रातृभौतमिमं शृणु ।
जनमध्ये कथाः कुर्वन्कोऽप्यासीत्क्वापि मुग्धधीः ।। २४४
स भव्यं पुरुषं दूरादीदृष्ट्वा मूर्खोऽब्रवीदिदम् ।
एष मे भवति भ्राता रिक्थमस्य हराम्यतः ।। २४५
अहं तु कश्चिन्नैतस्य तेन नैतदृणं मम ।
इत्युक्तवान्स मूढोऽत्र पाषाणानप्यहासयत् ।। २४६
एव मूढस्य मूढत्वं स्वार्थान्धस्यातिचित्रता ।
भ्रातृभौतः श्रुतो देव ब्रह्मचारिसुतं शृणु ।। २४७
कश्चित्पितृगुणाख्यानप्रवृत्तसखिमध्यगः ।
मुग्धः स्वपितुरुत्कर्षं वर्णयन्नेवमभ्यधात् ।। २४८
आबाल्याद्ब्रह्मचारी मे पिता नान्योऽस्ति तत्समः ।
तच्छ्रुत्वा त्वं कुतो जात इति तं सुहृदोऽबुवन् ।। २४९
मानसोऽहं सुतस्तस्येत्येवं पुनरपि ब्रुवन् ।
विशेषतो विहसितः स तैर्जडशिरोमणिः ।। २५०
अत्यारूढं वदन्त्येवमसंबद्धं जडाशयाः ।
ब्रह्मचारिसुतं श्रुत्वा श्रूयतां गणकोऽप्ययम् ।। २५१
वभूव नाम गणकः कश्चिद्विज्ञानवर्जितः ।
स भार्यापुत्रसहितः स्वदेशावृत्त्यभावतः ।। २५२
गत्वा देशान्तरं चैव मिथ्याविज्ञानमात्मनः ।
कृतकप्रत्ययेनार्थपूजां प्राप्तमदर्शयत् ।। २५३
परिष्वज्य सुतं बालं स तं सर्वजनाग्रतः ।
रुरोद पृष्टश्च जनैरेवं पापो जगाद सः ।। २५४
भूतं भव्यं भविष्यच्च जानेऽहं तदयं शिशुः ।
विपत्स्यते मे दिवसे सप्तमे तेन रोदिमि ।। २५५
इत्युक्त्वा तत्र विस्माप्य लोकं प्राप्तेऽह्नि सप्तमे ।
प्रत्यूष एव सुप्तं च स व्यापादितवान्सुतम् ।। २५६
दृष्ट्वाथ तं मृतं बालं संजातप्रत्ययैर्जनैः ।
पूजितो धनमासाद्य स्वदेशं स्वैरमाययौ ।। २५७
इत्यर्थलोभान्मिथ्यैव विज्ञानख्यापनेच्छवः ।
मूर्खाः पुत्रमपि घ्नन्ति न रज्येत्तेषु बुद्धिमान् ।। २५८
अयं च श्रूयतां मूर्खः क्रोधनः पुरुषः प्रभो ।
बहिः स्थितस्य कस्यापि पुंसः कुत्रापि शृण्वतः ।। २५९
अभ्यन्तरे गुणान्कश्चिच्छशंस स्वजनाग्रतः ।
तदा चैकोऽब्रवीत्तत्र सत्यं स गुणवान्सखे ।। २६०
किं तु द्वौ तस्य दोषौ स्तः साहसी क्रोधनश्च यत् ।
इतिवादिनमेवैतं बहिर्वर्ती निशम्य सः ।। २६१
पुमान्प्रविश्य सहसा वाससावेष्टयद्गले ।
रे जाल्म साहसं किं मे क्रोधः कश्च मया कृतः ।। २६२
इत्युवाच च साक्षेपं पुमान्क्रोधाग्निना ज्वलन् ।
ततो हसन्तस्तत्रान्ये तमूचुः किं ब्रवीत्यदः ।। २६३
प्रत्यक्षदर्शितक्रोधसाहसोऽपि भवानिति ।
एवं स्वदोषः प्रकटोऽप्यज्ञैर्देव न बुध्यते ।। २६४
इदानीं श्रूयतां मुग्धः कन्यावर्धयिता नृपः ।
राजाभूत्कोऽपि कन्यैका सुरूपाजनि तस्य च ।। २६५
स वर्धयितुकामस्तामतिस्नेहेन सत्वरम् ।
वैद्यानानीय नृपतिः प्रीतिपूर्वमभाषत ।। २६६
सदौषधप्रयोगं तं कंचित्कुरुत येन मे ।
सुतैषा वर्धते शीघ्रं सद्भर्त्रे च प्रदीयते ।। २६७
तच्छ्रुत्वा तेऽब्रुवन्वैद्या उपजीवयितुं जडम् ।
अस्त्यौषधमितो दूरात्तत्तु देशादवाप्यते ।। २६८
आनयामश्च यावत्तत्तावदेव सुता तव ।
अदृश्या स्थापनीयैषा विधानं तत्र हीदृशम् ।। २६९
इत्युक्त्वा स्थापयामासुश्छन्नां ते तां नृपात्मजाम् ।
संवत्सरानत्र बहूनौषधप्राप्तिशंसिनः ।। २७०
यौवनस्थां च तां प्राप्तामौषधेन प्रवर्धिताम् ।
ब्रुवाणा दर्शयामासुः सुतां तस्मै महीभृते ।। २७१
सोऽपि तान्पूरयामास वैद्यांस्तुष्टो धनोच्चयैः ।
इति व्याजाज्जडधियो धूर्तैर्भुज्यन्त ईश्वराः ।। २७२
अयं चाकर्ण्यतामर्धपणोपार्जितपण्डितः ।
अभून्नगरवास्येकः पुमान्प्रज्ञाभिमानवान् ।। २७३
ग्रामवासी च तस्यैकः पुमान्संवत्सरावधि ।
भृतको वृत्त्यसंतोषादापृच्छ्य स्वगृहं ययौ ।। २७४
गते तस्मिंश्च पप्रच्छ भार्या तन्वि गतः स ना ।
त्वत्तः किंचिद्गृहीत्वेति साप्यर्धपणमभ्यधात् ।। २७५
ततो दशपणान्कृत्वा पाथेयं स नदीतटे ।
गत्वा स्वभृतकात्तस्मात्तमर्धपणमानयत् ।। २७६
तच्चार्थकौशलं शंसन्स ययौ लोकहास्यताम् ।
एवं बहु क्षपयति स्वल्पस्यार्थे धनान्धधीः ।। २७७
अथेदानीमभिज्ञानकर्ता च श्रूयतां प्रभो ।
कस्यचिद्यानपात्रेण मूर्खस्य व्रजतोऽम्बुधौ ।। २७८
राजतं भाजनं हस्तादपतत्तज्जलान्तरे ।
स तत्र मूर्खोऽभिज्ञानमावर्तादिकमग्रहीत् ।। २७९
आगच्छन्नुद्धरिष्यामि तदितोऽब्धिजलादिति ।
पारं प्राप्याम्बुधेस्तीर्णो दृष्ट्वावर्तादि वारिणि ।। २८०
ममज्ज भाजनं प्राप्तुमभिज्ञानधिया मुहुः ।
पृष्टश्चोक्ताशयः सोऽन्यैरुपाहस्यत धिक्कृतः ।। २८१
एवं च शणुतेदानींप्रतिमांसप्रदं नृपम् ।
मुग्धः कोऽपि नृपोऽपश्यत्प्रासादाद्द्वावथो नरौ ।। २८१
 .................................... ।
..................... ..... ।। २८३
तयोरेकेन च हृतं मांसं दृष्ट्वा महानसे ।
पञ्च मांसपलान्यङ्गात्तस्य हर्तुर्व्यकर्तयत् ।। २८४
उत्कृत्तमांसं क्रन्दन्तं दृष्ट्वा तं पतितं भुवि ।
जातानुकम्पो राजासौ प्रतीहारं समादिशत् ।। २८५
छिन्ने पञ्चपली मांसे नास्य शाम्यति सा व्यथा ।
तदतोऽप्यधिकं मांसममुष्मै दीयतामिति ।। २८६
किं जीवति शिरश्छिन्नो दत्तैरुत शिरःशतैः ।
दास्यामि देवेत्युक्त्वा स क्षत्ता गत्वाहसद्बहिः ।। २८७
तं समाश्वास्य वैद्येभ्यः कृत्तमांसं समर्पयत् ।
एवं मूढप्रभुर्वेत्ति निग्रहं नाप्यनुग्रहम् ।। २८८
इयं चाकर्ण्यतां मन्दा स्त्री पुत्रान्तरकाङ्क्षिणी ।
एकपुत्रा स्त्रियं कांचिदन्यपुत्राभिकाङ्क्षया ।। २८९
पृच्छन्तीमब्रवीत्काचित्पाखण्डा क्षुद्रतापसी ।
योऽयं पुत्रोऽस्ति ते बालस्तं हत्वा देवताबलिः ।। २९०
क्रियते चेत्ततोऽन्यस्ते निश्चितं जायते सुतः ।
एवं तयोक्ता यावत्सा तत्तथाकर्तुमिच्छति ।। २९१
तावद्बुद्ध्वा हितान्या स्त्री वृद्धा तामवदद्रहः ।
हंसि पापे सुतं जातमजातं प्राप्तुमिच्छसि ।। २९२
यदि सोऽपि न जातस्ते ततस्त्वं किं करिष्यसि ।
इत्यवार्यत सा पापादार्यया वृद्धया तया ।। २९३
एवं पतन्त्यकार्येषु शाकिनीसंगताः स्त्रियः ।
वृद्धोपदेशेन तु ता रक्ष्यन्ते कृतयन्त्रणाः ।। २९४
अयमामलकानेता देवेदानीं निशम्यताम् ।
कस्याप्यभूद्गृहस्थस्य भृत्यः कश्चन मुग्धधीः ।। २९५
समादिशद्गृहस्थस्तं भृत्यमामलकप्रियः ।
गच्छारामात्सुमधुराण्यानयामलकानि मे ।। २९६
एकैकं दशनच्छेदेनास्वाद्यानीतवाञ्जडः ।
आस्वाद्य मधुराण्येतान्यानीतानीक्षतां प्रभुः ।। २९७
सोऽब्रवीत्सोऽपि तान्यर्धोच्छिष्टान्यालोक्य कुत्सया ।
जहौ गृहपतिस्तेन भृत्येनाबुद्धिना समम् ।। २९८
निष्प्रज्ञो नाशयत्येव प्रभोरर्थमथात्मनः ।
अन्तरा चात्र शृणुत भ्रातृद्वयकथामिमाम् ।। २९९
ब्राह्मणौ भ्रातरावास्तां पुरे पाटलिपुत्रके ।
यज्ञसोम इति ज्येष्ठः कीर्तिसोमोऽस्य चानुजः ।। ३००
पित्र्यं चाभूद्धनं भूरि तयोर्ब्राह्मणपुत्रयोः ।
कीर्तिसोमो निजं भागं व्यवहारादवर्धयत् ।। ३०१
यज्ञसोमस्तु भुञ्जानो ददच्चाप्यनयत्क्षयम् ।
ततः स निर्धनीभूतो निजां भार्यामभाषत ।। ३०२
प्रिये धनाढ्यो भूत्वाहमिदानीं निर्धनः कथम् ।
वसामि मध्ये बन्धूनां तद्विदेशं श्रयावहे ।। ३०३
पाथेयेन विना कुत्र याव इत्युदिते तया ।
निर्बन्धं स यदा चक्रे तदा भार्या तमाह सा ।। ३०४
अवश्यं यदि गन्तव्यं तद्गत्वा कीर्तिसोमतः ।
मृगयस्व धनं किंचित्पाथेयमनुजादिति ।। ३०५
ततो गत्वानुजं यावत्पाथेयं तं स मार्गति ।
तावत्तदनुजः सोऽत्र जगदे भार्यया स्वया ।। ३०६
क्षपितस्वधनायास्मै वयं दद्मः कुतः कियत् ।
य एव हि दरिद्रः स्यात्स एवास्मान्भजिष्यति ।। ३०७
श्रुत्वैतत्कीर्तिसोमोऽसौ भ्रातृस्नेहान्वितोऽपि सन् ।
नैच्छद्दातुं किमप्यस्मै कष्टा कुस्त्रीषु वश्यता ।। ३०८
यज्ञसोमस्ततस्तूष्णीं गत्वा पत्न्यै निवेद्य तत् ।
तया सह प्रस्थितवान्दैवैकशरणस्ततः ।। ३०९
गच्छन्प्राप्तोऽटवीं दैवान्निगीर्णोऽजगरेण सः ।
तद्भार्या च तदालोक्य चक्रन्द पतिता भुवि ।। ३१०
किमाक्रन्दसि भद्रे त्वमिति मानुषभाषया ।
सा तेनाजगरेणोक्ता ब्राह्मणी निजगाद तम् ।। ३११
न क्रन्दामि कथं यस्मान्यहासत्त्व मम त्वया ।
दुःखिताया विदेशेऽ हा भिक्षाभाजनं हृतम् ।। ३१२
तच्छ्रुत्वाजगरो वक्त्रादुद्गीर्यास्यै ददौ महत् ।
स्वर्णपात्रं गृहाणेदं भिक्षाभाण्डमिति ब्रुवन् ।। ३१३
को महाभाग भिक्षां मे दास्यत्यस्मिन्स्त्रिया इति ।
उक्तस्तया सद्ब्राह्मण्या जगादाजगरश्च सः ।। ३१४
न दास्यत्यर्थितो योऽत्र भिक्षां ते तस्य तत्क्षणम् ।
शतधा यास्यति शिरः सत्यमेतद्वचो मम ।। ३१५
तच्छ्रुत्वा ब्राह्मणी सा तमुवाचाजगरं सती ।
यदेवं तत्त्वमेवात्र भर्तृभिक्षां प्रयच्छ मे ।। ३१६
इत्युक्तमात्रे ब्राह्मण्या सत्या सोऽजगरो मुखात् ।
उज्जगाराक्षतं यज्ञसोमं जीवन्तमेव तम् ।। ३१७
तमुद्गीर्यैव सपदि दिव्यः सोऽजगरः पुमान् ।
परितुष्टश्च तौ हृष्टौ दंपती निजगाद सः ।। ३१८
अहं काञ्चनवेगाख्यो विद्याधरमहीपतिः ।
सोऽहं गौतमशापेन प्राप्तोऽस्म्याजगरीं गतिम् ।। ३१९
साध्वीसंवादपर्यन्तः स च शापो ममाभवत् ।
इत्युक्त्वा हेमपात्रं च रत्नैरापूर्य तत्क्षणात् ।। ३२०
विद्याधरेश्वरो हृष्टः खमुत्पत्य जगाम सः ।
तौ चाययतुरादाय रत्नौघं दंपती गृहम् ।। ३२१
तत्रास्त यज्ञसोमोऽसावक्षयाप्तधनः सुखम् ।
सत्त्वानुरूपं सर्वस्य धाता सर्वं प्रयच्छति ।। ३२२
श्रूयतां नापितस्यार्थी मुग्धोऽत्र च पुमानयम् ।
कर्णाटः कोऽपि भूपं स्वं रणे शौर्यादतोषयत् ।। ३२३
स प्रसन्नो नृपस्तस्मायभीष्टं दत्तवान्वरम् ।
तस्यैव नापितं वव्रे नपुंसकनिभो भटः ।। ३२४
सर्वश्चित्तप्रमाणेन सदसद्वाभिवाञ्छति ।
न किंचिन्मार्गणं चेममुन्मुग्धं शृणुताधुना ।। ३२५
कश्चित्पथि व्रजन्मूर्खः शकटस्थेन केनचित् ।
ऊचे समं कुरुष्वैतच्छकटं मे मनागिति ।। ३२६
समं करोमि चेत्तन्मे किं ददासीति वादिनम् ।
न किंचित्ते ददामीति शकटी निजगाद तम् ।। ३२७
ततः स मूर्खः शकटं समं कृत्वैव तस्य तत् ।
तन्मे न किंचिद्देहीति तं ययाचे स चाहसत् ।। ३२८
इति देव सदैव हास्यभावं परिभावं च जनस्य निन्द्यतां च ।
विपदास्पदतां च यान्ति मूढा इह सन्तस्तु भवन्ति पूजनीयाः ।। ३२९
एवं स गोमुखमुखोक्तकथाविनोदमेतन्निशम्य रजनौ सचिवैः समेतः ।
विश्रान्तिहेतुमखिलस्य जगत्त्रयस्य निद्रामियाय नरवाहनदत्तदेवः ।। ३३०
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके पञ्चमस्तरङ्गः ।