पञ्चतन्त्रम् ०४घ

विकिस्रोतः तः
(पञ्चतन्त्रम् 04घ इत्यस्मात् पुनर्निर्दिष्टम्)

पूर्व पृष्ठम्


भक्ष्यं यथा द्विजातीनां मद्यपानां यथा हविः।
अभक्ष्यं भक्ष्यताम् एति तथान्येषाम् अपि द्विज॥पञ्च_३.२०१॥
भक्ष्यं भक्षयतां श्रेयो अभक्ष्यं तु महद् अघम्।
तत् कथं मां वृथाचार त्वं दंडयितुम् अर्हसि॥पञ्च_३.२०२॥

अपरं मुनीनां न चैष धर्मो यतस् तैर् दृष्टं श्रुतम् अश्रुतम् अलौल्यत्वम् अशत्रुत्वं प्रशस्यते। उक्तं च-

समः शत्रौ च मित्रे च सम-लोष्टाश्म-काञ्चनः।
सुहृन्-मित्रे ह्य् उदासीनो मध्यस्थो द्वेष्य-बंधुषु।
साधुष्व् अपि च पापेषु सम-बुद्धिर् विशिष्यते॥पञ्च_३.२०३॥
साधूनां निरवद्यानां सदाचार-विचारिणाम्।
योगी युञ्जीत सततं आत्मानं रहसि स्थितः॥पञ्च_३.२०४|

तत् त्वम् अनेन कर्मणा भ्रष्ट-तपाः सञ्जातः। उक्तं च-

मुञ्च मुञ्च पतत्य् एको मा मुञ्चेति द्वितीयकः।
उभयोः पतनं दृष्ट्वा मौनं सर्वार्थ-साधनम्॥पञ्च_३.२०५॥
शालंकायन आह--कथम् एतत्?

श्येन आह-

==कथा १२==कन्यामूषकविवाहकथा ?


कस्मिंश्चिद् नदी-तट एकत-द्वित-त्रिताभिधानास् त्रयो ऽपि भ्रातरो मुनयस् तपः कुर्वन्ति। तेषां च तपः-प्रभावाद् आकाशस्था धौत-पोतिका निरालंबा जलार्द्रा भू-स्पर्शन-भयेन स्नान-समये तिष्ठन्ति। अथान्ये-द्युर् मयेव काचिन् मंडूकिका केनापि गृध्रेण बलेन नीता। अथ तां गृहीतां विलोक्य तेषां ज्येष्ठेन करुणार्द्र-हृदयेन भवतेव व्याहृतं-मुञ्च मुञ्चेति। अत्रांतरे तस्य धौत-पोतिकाकाशाद् भूमौ पतिता। तां पतितां दृष्ट्वा द्वितीयेन तद्-भयार्तेन मा मुञ्चेत्य् अभिहितं यावत् तस्यापि पपात। ततस् तृतीयो द्वयोर् अपि धौत-पोतिकां भूमौ पतितां दृष्ट्वा तूष्णीं बभूव।

---

अतोऽहं ब्रवीमि-मुञ्च मुञ्च पतत्य् एक इत्य् आदि।

तच् छ्रुत्वा मुनिर् विहस्याह-भो मूर्ख विहंगम! कृत-युगे धर्मः स आसीत्, यतः कृत-युगे पापालापतोऽपि पापं जायते तेन धौत-पोतिके पतिते अशिष्टालापेन न सद्-अपवचन-दोषतः। एष पुनः कलि-युगः। अत्र सर्वोऽपि पापात्मा। तत् कर्म कृतं विना पापं न लगति। उक्तं च-

सञ्चरंतीह पापानि युगेष्व् अन्येषु देहिनाम्।
कलौ तु पाप-संयुक्ते यः करोति स लिप्यते॥पञ्च_३.२०६॥

उक्तं च-
आसनाच् छयनाद् यानात् संगतेश् चापि भोजनात्।
कृते सञ्चरते पापं तैल-बिंदुर् इवांभसि॥पञ्च_३.२०७॥

तत् किं वृथा प्रलपितेन? गच्छ त्वम्। नो चेच् छापयिष्यामि। अथ गते श्येने मूषिकया स मुनिर् अभिहितः-भगवन्! नय मां स्वाश्रयम्। नो चेद् अन्यो दुष्ट-पक्षी मां व्यापादयिष्यति। तद् अहं तत्रैवाश्रमे त्वद्-दत्तान्नाहार-मुष्ट्या कालं नेष्यामि।

सोऽपि दाक्षिण्यवान् स-करुणो व्यचिंतयत्-कथं मया मूषिका हस्ते धृत्वा नेया जन-हास्य-कारिणी। तद् एनां कुमारिकां कृत्वा नयामि। एवं सा कन्यका कृता। तथानुष्ठिते कन्या-सहितं मुनिम् अवलोक्य पत्नी पप्रच्छ-भगवन्! कुत इयं कन्या?

स आह-एषा मूषिका श्येन-भयाच् छरणार्थिनी कन्या-रूपेण तव गृहं आनीता। तत् त्वया यत्नेन रक्षणीया। भूयोऽप्य् एनां मूषिकां करिष्यामि।

सा प्राह-भगवन्! मैवं कार्षीः। अस्यास् त्वं धर्म-पिता। उक्तं च-

जनिता चोपनेता च यस् तु विद्यां प्रयच्छति।
अन्न-दाता भय-त्राता पञ्चैते पितरः स्मृताः॥पञ्च_३.२०८॥

तत् त्वयास्याः प्राण-प्रदत्ता। अपरं ममाप्य् अपत्यं नास्ति। तस्माद् एषा मम सुता भविष्यति।

तथानुष्ठिते सा कन्या शुक्ल-पक्ष-चंद्र-कलिकेव नित्यं वृद्धिं प्राप्नोति। सापि तस्य मुनेः शुश्रूषां कुर्वती सपत्नीकस्य यौवनम् आश्व् अयात्। अथ तां यौवनोन्मुखीम् अवलोक्य शालंकायनः स्व-पत्नीम् उवाच-प्रिये! यौवनोन्मुखी वर्तत इयं कन्या। अनर्हा स सांप्रतं मद्-गृह-वासस्य। उक्तं च-

अनूढा मंदिरे यस्य रजः प्राप्नोति कन्यका।
पतंति पितरस् तस्य स्वर्ग-स्था अपि तैर् गुणैः॥पञ्च_३.२०९॥
वरं वरयते कन्या माता वित्तं पिता श्रुतम्।
बांधवाः कुलम् इच्छंति मिष्टान्नम् इतरे जनाः॥पञ्च_३.२१०॥

तथा च-
यावन् न लज्जते कन्या यावत् क्रीडति पांसुना।
यावत् तिष्ठति गो-मार्गे तावत् कन्यां विवाहयेत्॥पञ्च_३.२११॥
माता चैव पिता चैव ज्येष्ठ-भ्राता तथैव च।
त्रयस् ते नरकं यांति दृष्ट्वा कन्यां रजस्वलाम्॥पञ्च_३.२१२॥

कुलं च शीलं च सनाथतां च
विद्यां च वित्तं च वपुर् वयश् च।
एतान् गुणान् सप्तान् सप्त परीक्ष्य देया
कन्या बुधैः शेषम् अचिंतनीयम्॥पञ्च_३.२१३॥

तद् यद् यस्या रोचते तद् भगवंतं आदित्यम् आकार्य तस्मै प्रयच्छामि। उक्तं च-
अनिष्टः कन्यकाया यो वरो रूपान्वितोऽपि यः।
यदि स्यात् तस्य नो देया कन्या श्रेयोऽभिवाञ्छता॥पञ्च_३.२१४॥

सा प्राह-को दोषो ऽत्र विषये? एवं क्रियताम्।

अथ मुनिना रविर् आहूतः। वेद-मंत्रामंत्रण-प्रभावात् तत्-क्षणाद् एवाभ्युपगम्यादित्यः प्रोवाच-भगवन्! वद द्रुतं किम्-अर्थम् आहूतः?

स आह-एषा मदीया कन्यका तिष्ठति। यद्य् एषा त्वां वृणोति तर्ह्य् उद्वहस्व ताम् इति। एवम् उक्त्वा भगवां̣स् तस्या दर्शितः। प्रोवाच-पुत्रि! किं तव रोचत एष भगवाँ̣स् त्रैलोक्य-दीपः?

सा प्राह-तात! अतिदहनात्मको ऽयम्। नाहम् एनम् अभिलषामि। अस्माद् अपि य उत्कृष्टतरः स आहूयताम्।

अथ तस्यास् तद्-वचनम् आकर्ण्य भास्वरोऽपि तां मूषिकां विदित्वा निःस्पृहस् तम् उवाच-भगवन्! अस्ति ममाप्य् अधिको मेघो येनाच्छादितस्य मे नामा ऽपि न ज्ञायते?

अथ मुनिना मेघम् अप्य् आहूय कन्याभिहिता-एष ते रोचते?

सा प्राह-कृष्ण-वर्णो ऽयं जडात्मा च। तद् अस्माद् अन्यस्य कस्यचित् प्रधानस्य मां प्रयच्छ।

अथ मुनिना मेघो ऽपि पृष्टः-भोः! त्वत्तो ऽप्य् अधिकः को ऽप्य् अस्ति?

स आह-मत्तो ऽप्य् अधिको ऽस्ति वायुः। वायुना हतो ऽहं सहस्रधा यामि।

तच् छ्रुत्वा मुनिना वायुर् आहूतः, आह च-पुत्रिके किम् एष वायुस् ते विवाहाय उत्तमः प्रतिभाति?

सा आह-प्रबलो ऽप्य् अयं चञ्चलः। तद् अभ्यधिकः कश्चिद् आहूयताम्।

मुनिर् आह-भो वायो! त्वत्तो ऽप्य् अधिको ऽस्ति कश्चित्?

स आह-मत्तो ऽप्य् अधिको ऽस्ति पर्वतो येन संस्तभ्य बलवान् अप्य् अहं ध्रिये।

अथ मुनिः पर्वतम् आहूय कन्याया अदर्शयत्-पुत्रिके! त्वाम् अस्मै प्रयच्छामि?

सा आह-तात! कठिनात्मको ऽयं स्तब्धश् च। तद् अन्यस्मै देहि माम्।

अथ स मुनिना पृष्टः, यद्-भोः पर्वत-राज! त्वत्तो ऽप्य् अधिको ऽस्ति कश्चित्?

स आह-संति मत्तो ऽप्य् अधिका मूषिकाः, ये मद्-देहं बलात् सर्वतो भेदयंति।

तद् आकर्ण्य मुनिर् मूषकम् आहूय तस्या अदर्शयत्-पुत्रिके! एष ते प्रतिभाति मूषक-राजो येन यथोचितम् अनुष्ठीयते। सापि तं दृष्ट्वा स्व-जातीय एष इति मन्यमाना पुलकोद्भूषित-शरीरा प्रोवाच-तात! मां मूषिकां कृत्वास्मै प्रयच्छ येन स्वजाति-विहितं गृह-धर्मम् अनुतिष्ठामि।

तच् छ्रुत्वा तेन स्त्री-धर्म-विचक्षणेन तां मूषिकां कृत्वा मूषकाय प्रदत्ता।

शालङ्कायन-मूषिका कथायाः विवेचनम्

---

अतोऽहं ब्रवीमि-सूर्यं भर्तारम् उत्सृज्य इत्यादि।

अथ रक्ताक्ष-वचनम् अनादृत्य तैः स्व-वंश-विनाशाय स स्व-दुर्गम् उपनीतः। नीयमानश् चांतर्-लीनम् अवहस्य स्थिरजीव्य् अचिंतयत्-

हन्यताम् इति येनोक्तं स्वामिनो हित-वादिना।
स एवैकोऽत्र सर्वेषां नीति-शास्त्रार्थ-तत्त्व-वित्॥पञ्च_३.२१५॥

तद् यदि तस्य वचनम् अचरिष्यन्न् एते, ततो न स्वल्पोऽप्य् अनर्थो भविष्यद् एतेषाम्।

अथ दुर्ग-द्वारं प्राप्यारिमर्दनो ब्रवीत्-भो भो हितैषिणोऽस्य स्थिरजीविनो यथा-समीहितं स्थानं प्रयच्छत।

तच् च श्रुत्वा स्थिरजीवी व्यचिंतयत्-मया तावद् एतेषां वधोपायश् चिंतनीयः। स मया मध्यस्थेन न साध्यते। यतो मदीयम् इंगितादिकं विचारयंतस् तेपि सावधाना भविष्यंति। तद् दुर्ग-द्वारम् अधिश्रितोऽभिप्रेतं साधयामि। इति निश्चित्योलूक-पतिम् आह-देव! युक्तम् इदं यत् स्वामिना प्रोक्तम्। परम् अहम् अपि नीतिज्ञस् तेऽहितश् च। यद्यप्य् अनुरक्तः शुचिस् तथापि दुर्ग-मध्ये आवासो नार्हः। तद् अहं अत्रैव दुर्ग-द्वार-स्थः प्रत्यहं भवत्-पाद-पद्म-रजः पवित्री-कृत-तनुः सेवां करिष्यामि।

तथेति प्रतिपन्ने प्रतिदिनम् उलूक-पति-सेवकास् ते प्रकामम् आहारं कृत्वोलूक-राजादेशात् प्रकृष्ट-मांसाहारं स्थिरजीविने प्रयच्छंति। अथ कतिपयैर् एवाहोभिर् मयूर इव स बलवान् संवृत्तः। अथ रक्ताक्षः स्थिरजीविनं पोष्यमाणं दृष्ट्वा स-विस्मयो मंत्रि-जनं राजानं च प्रत्य् आह-अहो मूर्खोऽयं मंत्रि-जनो भवांश् चेत्य् एवम् अहम् अवगच्छामि। उक्तं च-

पूर्वं तावद् अहं मूर्खो द्वितीयः पशु-बंधकः।
ततो राजा च मंत्री च सर्वं वै मूर्ख-मंडलम्॥पञ्च_३.२१६॥

ते प्राहुः-कथम् एतत्?
रक्ताक्षः कथयति-

कथा १३ स्वर्णष्ठीवी सिंधुक पक्षी कथा[सम्पाद्यताम्]



अस्ति कस्मिश्चित् पर्वतैक-देशे महान् वृक्षः। तत्र च सिंधुक-नामा कोऽपि पक्षी प्रतिवसति स्म। तस्य पुरीषे सुवर्णम् उत्पद्यते। अथ कदाचित् तम् उद्दिश्य व्याधः कोऽपि समाययौ। स च पक्षी तद्-अग्रत एव पुरीषम् उत्ससर्ज। अथ पात-सम-कालम् एव तत्-सुवर्णीभूतं दृष्ट्वा व्याधो विस्मयम् अगमत्-अहो मम शिशु-कालाद् आरभ्य शकुनि-बंध-व्यसनिनो ऽशीति-वर्षाणि समभूवन्, न च कदाचित् पक्षि-पुरीषे सुवर्ण दृष्टम् इति विचिंत्य तत्र वृक्षे पाशं बबंध। अथासाव् अपि पक्षी मूर्खस् तत्रैव विश्वस्त-चित्तो यथा-पूर्वम् उपविष्टस् तत्-कालम् एव पाशेन बद्धः। व्याधस् तु तं पाशाद् उन्मुच्य पञ्जरके संस्थाप्य निजावासं नीतवान्। अथ चिंतयामास-किम् अनेन सापायेन पक्षिणाऽहं करिष्यामि? यदि कदाचित् कोऽप्य् अमुम् ईदृशं ज्ञात्वा राज्ञे निवेदयिष्यति तन् नून प्राण-संशयो मे भवेत्। अतः स्वयम् एव पक्षिणं राज्ञे निवेदयामि। इति विचार्य तथैवानुष्ठितवान्।

अथ राजापि तं पक्षिणं दृष्ष्ट्वा विकसित-नयन-वदन-कमलः परा तुष्टिम् उपगतः। प्राह चैवं-हंहो रक्षापुरुषाः! एनं पक्षिणं यत्नेन रक्षत। अशन-पानादिकं चास्य यथेच्छं प्रयच्छत।

अथ मंत्रिणाभिहितम्-किम् अनेनाश्रद्धेय-व्याध-वचन-मात्र-परिगृहीतेनांडजेन? किं कदाचित् पक्षी-पुरीषे सुवर्णं संभवति? तन् मुच्यतां पञ्जर-बंधनाद् अयं पक्षी। इति मंत्रि-वचनाद् राज्ञा मोचितोऽसौ पक्ष्य् उन्नत-द्वार-तोरणे समुपविश्य सुवर्ण-मयीं विष्ठां विधाय-पूर्वं तावद् अहं मूर्खः इति श्लोकं पठित्वा यथा-सुखम् आकाश-मार्गेण प्रायात्।

स्वर्णष्ठीवी उपरि टिप्पणी

स्वर्णष्ठीवी उपरि टिप्पणी

अतोऽहं ब्रवीमि-पूर्वं तावद् अहं मूर्खः इति।

अथ ते पुनर् अपि प्रतिकूल-दैवतया हितम् अपि रक्ताक्ष-वचनम् अनादृत्य भूयस् तं प्रभूतमांसादि-विविधाहारेण पोषयामासुः। अथ रक्ताक्षः स्व-वर्गम् आहूय रहः प्रोवाच-अहो! एतावद् एवास्मद्-भूपतेः कुशल दुर्गं च। तद् उपदिष्टं मया यत् कुल-क्रमागतः सचिवोऽभिधत्ते। तद् वयम् अन्यत् पर्वतदुर्गं संप्रति समाश्रयामः। उक्तं च यतः-

अनागतं यः कुरुते स शोभते
स शोचते यो न करोत्य् अनागतम्।
वने वसन्न् एव जराम् उपागतो
बिलस्य वाचा न कदापि हि श्रुता॥पञ्च_३.२१७॥

ते प्रोचुः-कथम् एतत्?

रक्ताक्षः कथयति-

कथा १४ खरनखर-सिह-कथा[सम्पाद्यताम्]


कस्मिंश्चिद् वनोद्देशे खरनखरो नाम सिंहः प्रतिवसति स्म। स कदाचिद् इतश् चेतश् च परिभ्रमन् क्षुत्क्षाम-कंठो न किञ्चिद् अपि सत्त्वम् आससाद। ततश् चास्तमनसमये महतीं गिरि-गुहाम् आसाद्य प्रविष्टश् चिंतयामास-नूनम् एतस्या गुहाया रात्रौ केनापि सत्त्वेनागंतव्यम्। तन् निभृतो भूत्वा तिष्ठामि।

एतस्मिन्न् अंतरे तत्-स्वामी दधिपुच्छो नाम शृगालः समायातः। स च यावत् पश्यति तावत् सिंह-पद-पद्धतिर् गुहायां प्रविष्टः, न च निष्क्रांता इति दृष्टवान्। ततश् चाचिंतयत्-अहो विनष्टोऽस्मि, नूनम् अस्यांतर्गतेन सिंहेन भाव्यम्। तत् कि करोमि? कथं ज्ञास्यामि? एवं विचिंत्य द्वारस्थः फूत्कर्तुम् आरब्धः-अहो बिल! अहो बिल! इत्य् उक्त्वा तूष्णींभूय भूयोऽपि तथैव प्रत्यभाषत-भोः! किं न स्मरसि यन् मया त्वया सह समयः कृतो ऽस्ति? यन् मया बाह्यात् समागतेन त्वं वक्तव्यः, त्वया चाहम् आकरणीयः इति। तद् यदि मां नाह्वयसि ततोऽहं द्वितीयं बिलं यास्यामि।

अथ तच् छ्रुत्वा सिंहश् चिंतितवान्-नूनम् एषा गुहाऽस्य समागतस्य सदा समाह्वानं करोति। परम् अद्य मद्-भयान् न किंचिद् ब्रूते। अथवा साध्व् इदम् उच्यते-

भय-संत्रस्त-मनसा हस्त-पादादिकाः क्रियाः।
प्रवर्तंते न वाणी च वेपथुश् चाधिको भवेत्॥पञ्च_३.२१८॥
तद् अहम् अस्याह्वानं करोमि येन तद्-अनुसारेण प्रविष्टोऽयं मे भोज्यतां यास्यति। एवं संप्रधार्य सिंहस् तस्याह्वानम् अकरोत्। अथ सिंह-शब्देन सा गुहा प्रतिरव-संपूर्णा अन्यान् अपि दूर-स्थान् अरण्य-जीवाँस् त्रासयामास। शृगालोऽपि पलायमान इमं श्लोकम् अपठत्-अनागतं यः कुरुते स शोभते इत्य् आदि।
खरनखर सिंहोपरि संक्षिप्त विवेचना

तद् एवं मत्वा युष्माभिर् मया सह गंतव्यम् इति। एवम् अभिधायात्मानुयायि-परिवारानुगतो दूर-देशांतरं रक्ताक्षो जगाम।

अथ रक्ताक्षे गते स्थिरजीव्य् अतिहृष्ट-मना व्यचिंतयत्-अहो! कल्याणम् अस्माकम् उपस्थितम्, यद् रक्ताशो गतः स दीर्घदर्शी एते च मूढ-मनसः। ततो मम सुख-घात्याः सञ्जाताः। उक्त च यतः-

न दीर्घ-दर्शिनो यस्य मंत्रिणः स्युर् महीपतेः।
क्रमायाता ध्रुवं तस्य न चिरात् स्यात् परिक्षयः॥पञ्च_३.२१९॥

अथवा साध्व् इदम् उच्यते-

मंत्रि-रूपा हि रिपवः संभाव्यास् ते विचक्षणैः।
ये संतं नयम् उत्सृज्य सेवंते प्रतिलोमतः॥पञ्च_३.२२०॥

एवं विचिंत्य स्व-कुलाय एकैका वन-काष्ठिका गुहा-प्रदीपनार्थ दिने दिने प्रक्षिपति। न च ते मूर्खा उलूका विजानंति, यद् एष कुलायम् अस्मद्-दाहाय वृद्धिं नयति। अथवा साध्व् इदम् उच्यते-

अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च।
शुभं वेत्त्य् अशुभं पापं भद्रं दैव-हतो नरः॥पञ्च_३.२२१॥

अथ कुलाय-व्याजेन दुर्ग-द्वारे कृते काष्ठ-निचये, सञ्जाते सूर्योदये, अंधता प्राप्तेषूलूकेषु सत्सु स्थिरजीवी शीघ्रम् ऋष्यमूकं गत्वा मेघवर्णम् आह-स्वामिन्! दाह-साध्या कृता रिपु-गुहाः। तत् सपरिवारः समेत्यैकैका वन-काष्ठिकां ज्वलंती गृहीत्वा गुहा-द्वारेस्मत्-कुलाये प्रक्षिप येन सर्वे शत्रवः कुंभीपाक-नरक-प्रायेण दुःखेन म्रियंते।

तच् छ्रुत्वा प्रहृष्टो मेघवर्ण आह-तात! कथयात्म-वृत्तांतम्। चिराद् अद्य दृष्टोऽसि।

स आह-वत्स! नायं कथनस्य कालः। यतः कदाचित् तस्य रिपो कश्चित् प्रणिधिर् ममेहागमनं निवेदयिष्यति। यज् ज्ञानाद् अंधो अन्यत्रापसरणं करिष्यति। तत् त्वर्यताम्। उक्तं च-

शीघ्र-कृत्येषु कार्येषु विलंबयति यो नरः।
तत् कृत्यं देवतास् तस्य कोपाद् विघ्नंत्य् असंशयम्॥पञ्च_३.२२२॥

तथा च-
यस्य यस्य हि कार्यस्य फलितस्य विशेषतः।
क्षिप्रम् अक्रियमाणस्य कालः पिबति तत्-फलम्॥पञ्च_३.२२३॥

तद्-गुहायाम् आयातस्य ते हत-शत्रोः सर्वं सविस्तरं निर्व्याकुलतया कथयिष्यामि अथासौ तद्-वचनम् आकर्ण्य स-परिजन एकैकां ज्वलंतीं वन-काष्ठिकां चञ्च्व्-अग्रेण गृहीत्वा तद्-गुहा-द्वारं प्राप्य स्थिरजीवि-कुलाये प्राक्षिपत्। ततः सर्वे ते दिवांधा रक्ताक्ष-वाक्यानि स्मरंतो द्वारस्यावृतत्वाद् अनिःसरंतो गुहा-मध्ये कुंभीपाक-न्यायम् आपन्ना मृताश् च। एवं शत्रून् निःशेषतां नीत्वा भूयोऽपि मेघवर्णस् तद् एव न्यग्रोध-पादप-दुर्गं जगाम। ततः सिहासन-स्थो भूत्वा सभा-मध्ये प्रमुदित-मनाः स्थिरजीविनम् अपृच्छत्-तात! कथं त्वया शत्रु-मध्ये गतेन एतावत्-पर्यंत कालो नीतः? तद् अत्र कौतुकम् अस्माक वर्तते, तत् कथ्यताम्। यतः-

वर-मग्नौ प्रदीप्ते तु प्रपातः पुण्य-कर्मणाम्।
न चारिजन-संसर्गो मुहूर्तम् अपि सेवितः॥पञ्च_३.२२४॥

तद् आकर्ण्य स्थिरजीव्य् आह-भद्र! आगामि-फल-वाञ्छया कष्टम् अपि सेवको न जानाति। उक्तं च यतः-

कार्यस्यापेक्षया भुक्तं विषम् अप्य् अमृतायते।
सर्वेषां प्राणिनां यत्र नात्र कार्या विचारणा॥पञ्च_३.२२५॥

उपनत-भयैर्यो यो मार्गो हितार्थकरो भवेत्- स स निपुणया बुद्ध्या सेव्यो महान् कृपणोऽपि वा।
करिकर-निभौ ज्याघाताङ्कौ महास्त्र-विशारदौ वलय-रचितौ स्त्रीवद् बाहू कृतौ न किरीटिना॥पञ्च_३.२२६॥

शक्तेनापि सता जनेन विदुषा कालांतरापेक्षिणा
वस्तव्यं खलु वाक्य-वज्र-विषमे क्षुद्रेऽपि पापे जने।
दर्वी-व्यग्र-करेण धूम-मलिनेनायास-युक्ते च
भीमेनातिबलेन मत्स्य-भवने किं नोषितं सूदवत्॥पञ्च_३.२२७॥

यद् वा तद् वा विषम-पतितः साधु वा गर्हितं वा
कालापेक्षी हृदय-निहितं बुद्धिमान् कर्म कुर्यात्।
किं गांडीव-स्फुरद्-उरु-गुणास्फालन-क्रूर-पाणिर्
नासील् लीला-नटन-विलसन् मेखली सव्यसाची॥पञ्च_३.२२८॥

सिद्धिं प्रार्थयता जनेन विदुषा तेजो निगृह्य स्वकं
सत्त्वोत्साहवतापि दैव-विधिषु स्थैर्यं प्रकार्यं क्रमात्।
देवेंद्र-द्रविणेश्वरांतक-समैर् अप्य् अन्वितो भ्रातृभिः
किं क्लिष्टः सुचिर विराट-भवने श्रीमान् न धर्मात्मजः॥पञ्च_३.२२९॥

रूपाभिजन-सम्पनौ माद्री-पुत्रौ बलान्वितौ।
गोकर्म-रक्षा-व्यापारे विराट-प्रेष्यतां गतौ॥पञ्च_३.२३०॥

रूपेणाप्रतिमेन यौवन-गुणैः श्रेष्ठे कुले जन्मना
कांत्या श्रीर् इव याऽत्र सापि विदशा काल-क्रमाद् आगता।
सैरंध्रीति स-गर्वितं युवतिभिः साक्षेपम् आख्यातया
द्रौपद्या ननु मत्स्य-राज-भवने घृष्टं न किं चंदनम्॥पञ्च_३.२३१॥

मेघवर्ण आह-तात! असि-धारा-व्रतम् इदं मन्ये यद् अरिणा सह संवासः।

सोऽब्रवीत्-देव! एवम् एतत्। परं न तादृङ्-मूर्ख-समागमः क्वापि मया दृष्टः। न च महाप्रज्ञम् अनेक-शास्त्रेष्व् अप्रतिम-बुद्धि रक्ताक्ष विना धीमान्। यत्-कारणं तेन मदीय यथावस्थितं चित्तं ज्ञातम्। ये पुनर् अन्ये मंत्रिणस् ते महा-मूर्खा मंत्रि-मात्र-व्यपदेशोपजीविनो तत्त्व-कुशला, यैर् इदम् अपि न ज्ञातम्। यतः-

अरितोऽभ्यागतो भृत्यो दुष्टस् तत्-संग-तत्-परः।
अपसर्प-सधर्मत्वान् नित्योद्वेगी च दूषितः॥पञ्च_३.२३२॥
आसने शयने याने पान-भोजन-वस्तुषु।
दृष्ट्वांतर प्रमत्तेषु प्रहरंत्य् अरयोऽरिषु॥पञ्च_३.२३३॥
तस्मात् सर्व-प्रयत्नेन त्रिवर्ग-निलयं बुधः।
आत्मानम् आदृतो रक्षेत् प्रमादाद्धि विनश्यति॥पञ्च_३.२३४॥

साधु चेदम् उच्यते-

संतापयंति कम् अपथ्य-भुजं न रोगा
दुर्मंत्रिणं कम् उपयांति न नीति-दोषाः।
कं श्रीर् न दर्पयति कं न निहंति मृत्युः
कं स्वीकृता न विषया परिपीडयंति॥पञ्च_३.२३५॥

लुब्धस्य नश्यति यशः पिशुनस्य मैत्री
नष्ट-क्रियस्य कुलं अर्थ-परस्य धर्मः।
विद्या-फलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्त-सचिवस्य नराधिपस्य॥पञ्च_३.२३६॥

तद् राजन्! असि-धारा-व्रतं मयाचरितम् अरितम् अरि-संसर्गाद् इति यद् भवतोक्तं, तन् मया साक्षाद् एवानुभूतम्। उक्तं च-

अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः।
स्वार्थम् अभ्युद्धरेत् प्राज्ञः कार्य-ध्वंसो हि मूर्खता॥पञ्च_३.२३७॥
स्कंधेनापि वहेच् छत्रुं कालम् आसाद्य बुद्धिमान्।
महता कृष्ण-सर्पेण मंडूका बहवो हताः॥पञ्च_३.२३८॥

मेघवर्ण आह-कथम् एतत्?

स्थिरजीवी कथयति-

कथा १५ मंदविष-सर्प-कथा[सम्पाद्यताम्]


अस्ति वरुणाद्रि-समीप एकस्मिन् प्रदेशे परिणतवया मंदविषो नाम कृष्ण-सर्पः। स एव चित्ते सञ्चिन्तितवान्-कथं नाम मया सुखोपाय-वृत्त्या वर्तितव्यम् इति। ततो बहु-मंडूक ह्रदम् उपगम्य धृति-परीतम् इवात्मानं दर्शितवान्।

अथ तथा स्थिते स उदक-प्रांत-गतेनैकेन मंडूकेन पृष्टः-माम! किम् अद्य यथा-पूर्वम् आहारार्थं न विहरसि।

सोऽब्रवीत्-भद्र! कुतो मे मंद-भाग्यस्याहाराभिलाषः? यत् कारणम् अद्य रात्रौ प्रदोष एव मयाहारार्थं विहरमाणेन दृष्ट एको मंडूकः। तद्-ग्रहणार्थं मया क्रमः सज्जितः। सोऽपि मां दृष्ट्वा मृत्यु-भयेन स्वाध्याय-प्रसक्तानां ब्राह्मणानाम् अंतरम् अपक्रांतो न विभावितो मया क्वापि गतः। तत्-सादृश्य-मोहित-चित्तेन मया कस्यचिद् ब्राह्मणस्य सूनोर् ह्रद-तट-जलांतःस्थो अंगुष्ठो दष्टः। ततोऽसौ सपदि पञ्चत्वम् उपागतः।

अथ तस्य पित्रा दुःखितेनाहं शप्तो यथा-दुरात्मन्! त्वया निरपराधो मत्सुतो दष्टः। तद् अनेन दोषेण त्वं मंडूकानां वाहनं भविष्यसि, तत्-प्रसाद-लब्ध-जीविकया वर्तिष्ये इति। ततोऽहं युष्माकं वाहनार्थम् आगतोऽस्मि।

तेन च सर्व-मंडूकानाम् इदम् आवेदितम्। ततस् तैः प्रहृष्ट-मनोभिः सर्वैर् एव गत्वा जलपाद नाम्नो दर्दुरराजस्य विज्ञप्तम्। अथासाव् अपि मंत्रि-परिवृतोऽत्यद्भुतम् इदम् इति मन्यमानो स-संभ्रम ह्रदाद् उत्तीर्य मंद-विषस्य फणिनः फणा-प्रदेशम् अधिरूढः। शेषा अपि यथा-ज्येष्ठं तत्-पृष्ठोपरि समारुरुहुः। कि बहुना, उपरित-स्थानम् अप्राप्तवंतस् तस्यानुपदं धावंति। मंदविषोऽपि तेषां तुष्ट्यर्थम् अनेक-प्रकारान् गति-विशेषान् अदर्शयत्। अथ जलपादो लब्ध-सुखस् तम् आह-

न तथा करिणा यानं तुरगेण रथेन वा।
नर-यानेन वा यानं यथा मंदविषेण मे॥पञ्च_३.२३९॥

अथान्येद्युर् मंद-विषश् छद्मना मंद मंद विसर्पति। तच् च दृष्ट्वा जलपादोऽब्रवीत्-भद्र! मंदविष! यथा-पूर्वं किम् अद्य साधु नोह्यते?

मंदविषोऽब्रवीत्-देव अद्याहार-वैकल्यान् न मे वोढुं शक्तिर् अस्ति।

अथासाव् अब्रवीत्-भद्र! भक्षय क्षुद्र-मंडूकान्।

तच् छ्रुत्वा प्रहर्षित-सर्व-गात्रो मंदविषः स-संभ्रमम् अब्रवीत्-ममायम् एव विप्र-शापोऽस्ति। तत् तवानेनानुज्ञा-वचनेन प्रीतोऽस्मि।

ततोऽसौ नैरंतर्येण मंडूकान् भक्षयन् कतिपयैर् एवाहोभिर् बलवान् संवृत्तः। प्रहृष्टश् चांतर्-लीनम् अवहस्येदम् अब्रवीत्-

मंडूका विविधा ह्य् एते छल-पूर्वोपसाधिताः।
कियंत कालम् अक्षीणा भवेयुः खादिता मम॥पञ्च_३.२४०॥

मण्डूक - मन्दविष सर्पस्य कथायाः विवेचनम्

जल-पादोऽपि मंदविषेण कृतकवचनव्यामोहित-चित्तः किम् अपि नावबुध्यते। अत्रांतरेऽन्यो महाकायः कृष्ण-सर्पस् तम् उद्देशं समायातः। तं च मंडूकैर् वाह्यमानं दृष्ट्वा विस्मयमगमत्। आह च-वयस्य! यद् अस्माकम् अशनं तैः कथं वाह्यसे। विरुद्धम् एतत्।

मंदविषोऽब्रवीत्-

सर्वम् एतद् विजानामि यथा वाह्योऽस्मि दर्दुरैः।
किञ्चित् कालं प्रतीक्षेहं घृतांधो ब्राह्मणो यथा॥पञ्च_३.२४१॥

सोऽब्रवीत्-कथम् एतत्?

मंदविषः कथयति-

कथा १६ घृतांध-ब्राह्मण-कथा[सम्पाद्यताम्]


अस्ति कस्मिंश्चिद् अधिष्ठाने यज्ञदत्तो नाम ब्राह्मणः। तस्य भार्या पुंश्चल्य् अन्यासक्त-मना अजस्रं विटायस-खंड-घृतान् घृत-पूरान् कृत्वा भर्तुश् चौरिकया प्रयच्छति। अथ कदाचिद् भर्ता दृष्ट्वाब्रवीत्-भद्रे! किम् एतत् परिपच्यते? कुत्र वाजस्र नयसीदम्? तत् कथय सत्यम्।

सा चोत्पन्न-प्रतिभा कृतक-वचनैर् भर्तारम् अब्रवीत्-अस्त्य् अत्र नातिदूरे भगवत्या देव्या आयतनम्। तत्राहम् उपोषिता सती बलि भक्ष्य-विशेषांश् चापूर्वान् नयामि।

अथ तत् पश्यता गृहीत्वा तत् सकल देव्यायतनाभिमुखी प्रतस्थे। यत् कारणं देव्या निवेदितेनानेन मदीयो भर्तैव मंस्यते यत् मम ब्राह्मणी भगवत्याः कृते भक्ष्यविशेषान्नित्यमेव नयतीति। अथ देव्यायतने गत्वा स्नानार्थं नद्याम् अवतीर्य यावत् स्नानं करोति तावत् तद् भर्तापि मार्गांतरेणागत्य देव्याः पृष्ठतोऽदृश्योऽवतस्थे।

अथ सा ब्राह्मणी स्नात्वा देव्य्-आयतनम् आगत्य स्नानानुलेपन-माल्य-धूप-बलि-क्रियादिकं कृत्वा देवीं प्रणम्य व्यजिज्ञपत्-भगवति! केन प्रकारेण मम भर्तांधो भविष्यति?

तच् छ्रुत्वा स्वर-भेदेन देवी-पृष्ठ-स्थितो ब्राह्मणो जगाद-यदि त्वम् अजस्रं घृत-पूरादि-भक्ष्यं तस्मै भर्त्रे प्रयच्छसि, ततः शीघ्रम् अंधो भविष्यति।

सा तु बंधकी कृतक-वचन-वञ्चित-मानसा तस्मै ब्राह्मणाय तद् एव नित्यं प्रददौ। अथान्येद्युर् ब्राह्मणेनाभिहितम्-भद्रे, नाहं सुतरां पश्यामि।

तच् छ्रुत्वा चिंतितम् अनया-देव्याः प्रसादोऽयं प्राप्तः इति। अथ तस्या हृदय-वल्लभो विटस् तत्-सकाशम्-अंधीभूतोऽयं ब्राह्मणः किं मम करिष्यतीति निःशंकं प्रतिदिनम् अभ्येति। अथान्येद्युस् तं प्रविशंतम् अभ्याश-गतं दृष्ट्वा केशैर् गृहीत्वा लगुड-पार्ष्णि-प्रभृति-प्रहारैस् तावद् अताडयत् यावद् असौ पञ्चत्वम् आप। ताम् अपि दुष्ट-पत्नीं विच्छन्न-नासिकां कृत्वा विससर्ज।

---

अतोऽहं ब्रवीमि-स्कंधेनापि वहेच् छत्रुम् (२३८) इत्य् आदि।

अथ राजन्! यथा मंदविषेण बुद्धि-बलेन मंडूका निहतास् तथा मयापि सर्वे वैरिणः। साधु चेदम् उच्यते-

वने प्रज्वलितो वह्निर् दहन् मूलानि रक्षति।
समूलोन्मूलनं कुर्याद् वायुर् यो मृदु-शीतलः॥पञ्च_३.२४२॥

मेघवर्ण आह-तात! सत्यम् एवैतत्। ये महात्मानो भवंति ते महा-सत्त्वा आपद्-गता अपि प्रारब्धं न त्यजंति। उक्तं च यतः-

महत्त्वम् एतन् महतां नयालंकार-धारिणाम्।
न मुञ्चंति यद् आरब्धं कृच्छ्रेऽपि व्यसनोदये॥पञ्च_३.२४३॥

तथा च-
प्रारभ्यते न खलु विघ्न-भयेन नीचैः
प्रारभ्य विघ्न-विहता विरमंति मध्याः।
विघ्नैः सहस्र-गुणितैर् अपि हन्यमानाः
प्रारब्धम् उत्तम-गुणा न परित्यजंति॥पञ्च_३.२४४॥

तत् कृत निष्कंटक मम राज्यं शत्रून् निःशेषतां नयता त्वया। अथवा युक्तम् एतन् नय-वेदिनाम्। उक्तं च यतः-

ऋण-शेषं चाग्नि-शेषं च शत्रु-शेषं तथैव च।
व्याधि-शेषं च निःशेषं कृत्वा प्राज्ञो न सीदति॥पञ्च_३.२४५॥

सोऽब्रवीत्-देव! भाग्यवान् त्वम् एवासि, यस्यारब्धं सर्वम् एव संसिद्ध्यति। तन् न केवलं शौर्यं कृत्यं साधयति, किंतु प्रज्ञया यत् क्रियते तद् एव विजयाय भवति। उक्तं च-

शस्त्रैर् हता न हि हता रिपवो भवंति
प्रज्ञा-हतास् तु रिपवः सुहता भवंति।
शस्त्रं निहंति पुरुषस्य शरीरम् एकं
प्रज्ञा कुलं च विभवश् च यशश् च हंति॥पञ्च_३.२४६॥

तद् एव प्रज्ञा-पुरुषकाराभ्यां युक्तस्यायत्नेन कार्य-सिद्धयः संभवंति। उक्तं च-

प्रसरति मतिः कार्यारंभे दृढीभवति स्मृतिः
स्वयम् उपनयन् अर्थान् मंत्रो न गच्छति विप्लवम्।
स्फुरति सफलस् तर्कश् चित्तं समुन्नतिम् अश्नुते
भवति च रतिः श्लाघ्ये कृत्ये नरस्य भविष्यतः॥पञ्च_३.२४७॥

तथा च नय-त्याग-शौर्य-संपन्ने पुरुषे राज्यम् इति। उक्तं च-

त्यागिनि शूरे विदुषि च संसर्ग-रुचिर् जनो गुणी भवति।
गुणवति धनं धनाच् छ्रीः श्रीमत्य् आज्ञा ततो राज्यम्॥पञ्च_३.२४८॥

मेघवर्ण आह-नूनं सद्यः-फलानि नीति-शास्त्राणि यत् त्वयानुकृत्येनानुप्रविश्यारि-मर्दनः सपरिजनो निःशेषितः।

स्थिरजीव्य् आह-

तीक्ष्णोपाय-प्राप्ति-गम्योऽपि योऽर्थस्
तस्याप्य् आदौ संश्रयः साधु युक्तः।
उत्तुंगाग्रः सार-भूतो वनानां
मान्याभ्यर्च्य च्छिद्यते पादपेंद्रः॥पञ्च_३.२४९॥

अथवा स्वामिन्! किं तेनाभिहितेन? यद् अनंतर-जाले क्रिया-रहितम् असुख-साध्यं वा भवति। साधु चेदम् उच्यते-

अनिश्चितैर् अध्यवसाय-भीरुभिर्
यथेष्ट-सलाप-रति-प्रयोजनैः।
फलैर् विसंवादम् उपागता गिरः
प्रयांति लोके परिहास-वस्तुताम्॥पञ्च_३.२५०॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. पञ्चतन्त्रम्
    1. कथा-मुखम् १-७
    2. प्रथमम् तन्त्रम् - मित्रभेदः १-५०
    3. प्रथमम् तन्त्रम् - मित्रभेदः ५१-१००
    4. प्रथमम् तन्त्रम् - मित्रभेदः १०१-१५०
    5. प्रथमम् तन्त्रम् - मित्रभेदः १५१-२००
    6. प्रथमम् तन्त्रम् - मित्रभेदः २०१-२५०
    7. प्रथमम् तन्त्रम् - मित्रभेदः २५१-३००
    8. प्रथमम् तन्त्रम् - मित्रभेदः ३०१-३५०
    9. प्रथमम् तन्त्रम् - मित्रभेदः ३५१-४००
    10. प्रथमम् तन्त्रम् - मित्रभेदः ४०१-४५०
    11. प्रथमम् तन्त्रम् - मित्रभेदः ४५१-४६१
    12. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १-५०
    13. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः ५१-१००
    14. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०
    15. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६
    16. तृतीयम् तन्त्रम् - काकोलूकीयम् १-५०
    17. तृतीयम् तन्त्रम् - काकोलूकीयम् ५१-१००
    18. तृतीयम् तन्त्रम् - काकोलूकीयम् १०१-१५०
    19. तृतीयम् तन्त्रम् - काकोलूकीयम् १५१-२००
    20. तृतीयम् तन्त्रम् - काकोलूकीयम् २०१-२५०
    21. तृतीयम् तन्त्रम् - काकोलूकीयम् २५१-२६०
    22. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०
    23. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४
    24. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् १-५०
    25. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् ५१-९८
  2. पंचतंत्र (hindi wikipedia)
  3. पंचतंत्र (हिन्दी में)]
  4. हितोपदेशम्

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=पञ्चतन्त्रम्_०४घ&oldid=369053" इत्यस्माद् प्रतिप्राप्तम्