पञ्चतन्त्रम् ०५

विकिस्रोतः तः
(पञ्चतन्त्रम् 05 इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

लेखक: विष्णु शर्मा

पञ्चतन्त्रम्

चतुर्थ-तंत्रम्

अथ लब्ध-प्रणाशम्

अथेदम् आरभते लब्ध-प्रणाशम् नाम चतुर्थम् तंत्रम्। यस्यायम् आदिमः श्लोकः-

समुत्पन्नेषु कार्येषु बुद्धिर् यस्य न हीयते।
स एव दुर्गं तरति जलस्थो वानरो यथा॥पञ्च_४.१॥

तद् यथानुश्रूयते-

प्रस्तावना-कथा वानर-मकर-वृत्तान्तः[सम्पाद्यताम्]


अस्ति कस्मिंश्चित् समुद्रोपकंठे महान् जंबू-पादपः सदा-फलः। तत्र च रक्तमुखो नाम वानरः प्रतिवसति स्म। तत्र च तस्य तरोर् अधः कदाचित् करालमुखो नाम मकरः समुद्र-सलिलान् निष्क्रम्य सुकोमल-बालुका-सनाथे तीरोपांते न्यविशत। ततश् च रक्तमुखेन स प्रोक्तः-भोः! भवान् समभ्यागतोऽतिथिः। तद् भक्षयतु मया दत्तान्य् अमृत-तुल्यानि जंबू-फलानि। उक्तं च-

प्रियो वा यदि वा द्वेष्यो मूर्खो वा यदि पण्डितः।
वैश्वदेवान्तम् आपन्नः सोऽतिथिः स्वर्ग-संक्रमः॥पञ्च_४.२॥
न पृच्छेच् चरणं गोत्रं न च विद्यां कुलं न च।
अतिथिं वैश्वदेवांते श्राद्धे च मनुर् अब्रवीत्॥पञ्च_४.३॥
दूर-मार्ग-श्रम-श्रांतं वैश्वदेवांतम् आगतम्।
अतिथिं पूजयेद् यस् तु स याति परमां गतिम्॥पञ्च_४.४॥
अपूजितो तिथिर् यस्य गृहाद् याति विनिःश्वसन्।
गच्छंति पितरस् तस्य विमुखाः सह दैवतैः॥पञ्च_४.५॥

एवम् उक्त्वा तस्मै जंबू-फलानि ददौ। सोऽपि तानि भक्षयित्वा तेन सह चिरं गोष्ठी-सुखम् अनुभूय भूयोऽपि स्व-भवनम् अगात्। एवं नित्यम् एव तौ वानर-मकरौ जंबू-च्छाया-स्थितौ विविध-शास्त्र-गोष्ठ्या कालं नयंतौ सुखेन तिष्ठतः। सोऽपि मकरो भक्षित-शेषाणि जंबू-फलानि गृहं गत्वा स्व-पत्न्यै प्रयच्छति। अथान्यतमे दिवसे तया स पृष्टः-नाथ! क्वैवंविधान्य् अमृत-फलानि प्राप्नोषि?

स आह-भद्रे! ममास्ति परम-सुहृद् रक्तमुखो नाम वानरः। स प्रीति-पूर्वकम् इमानि फलानि प्रयच्छति।

अथ तयाभिहितम्-यः सर्वदैवामृत-प्रायाणीदृशानि फलानि भक्षयति, तस्य हृदयम् अमृत-मयं भविष्यति। तद् यदि भार्यया ते प्रयोजनं, ततस् तस्य हृदयं मह्यं प्रयच्छ। येन तद् भक्षयित्वा जरा-मरण-रहिता त्वया सह भोगान् भुनज्मि।

स आह-भद्रे! मा मैवं वद। यतः स प्रतिपन्नोऽस्माकं भ्राता। अपरं फल-दाता। ततो व्यापादयितुं न शक्यते। तत् त्यजैनं मिथ्याग्रहणम्। उक्तं च-

एकं प्रसूयते माता द्वितीयं वाक् प्रसूयते।
वाग्-जातम् अधिकं प्रोचुः सोदर्याद् अपि बांधवात्॥पञ्च_४.६॥

अथ मकर्य् आह-त्वया कदाचिद् अपि मम वचनं नान्यथा कृतम्। तन् नूनं सा वानरी भविष्यति, यतस् तस्या अनुरागतः सकलम् अपि दिनं तत्र गमयसि। तत् त्वं ज्ञातो मया सम्यक्। यतः-

साह्लादं वचनं प्रयच्छति न मे नो वाञ्छितं किञ्चन
प्रायः प्रोच्छ्वसिषि द्रुतं हुतवह-ज्वाला समं रात्रिषु।
कंठाश्लेष-परिग्रहे शिथिलता यन् नादराच् चुम्बसे
तत् ते धूर्त हृदि स्थिता प्रियतमा काचिन् ममेवापरा॥पञ्च_४.७॥

सोऽपि पत्न्याः पादोपसंग्रहं कृत्वाङ्कोपरि निधाय तस्याः कोप-कोटिम् आपन्नायाः सुदीनम् उवाच-

मयि ते पाद-पतिते किंकरत्वम् उपागते।
त्वं प्राण-वल्लभे कस्मात् कोपने कोपम् एष्यसि॥पञ्च_४.८॥

सापि तद्-वचनम् आकर्ण्याश्रुप्लुत-मुखी तम् उवाच-

सार्धं मनोरथ-शतैस् तव धूर्त कांता
सैव स्थिता मनसि कृत्रिम-भाव-रम्या।
अस्माकम् अस्ति न कथञ्चिद् इहावकाशं
तस्मात् कृतं चरण-पात-विडंबनाभिः॥पञ्च_४.९॥

अपरं सा यदि तव वल्लभा न भवति, तत् किं मया भणितोऽपि तां न व्यापादयसि। अथ यदि स वानरस् तत् कस् तेन सह तव स्नेहः? तत् किं बहुना? यदि तस्य हृदयं न भक्षयामि, तन् मया प्रायोपवेशनं कृतं विद्धि।

एवं तस्यास् तन् निश्चयं ज्ञात्वा चिंता-व्याकुलित-हृदयः स प्रोवाच-अथवा साध्व् इदम् उच्यते-

वज्र-लेपस्य मूर्खस्य नारीणां कर्कटस्य च।
एको ग्रहस् तु मीनानां नीली-मद्य-पयोस् तथा॥पञ्च_४.१०॥

तत् किं करोमि? कथं स मे वध्यो भवति। इति विचिंत्य वानर-पार्श्वम् अगमत्। वानरो ऽपि चिराद् आयांतं तं सोद्वेगम् अवलोक्य प्रोवाच-भो मित्र! किम् अद्य चिर-वेलायां समायातोऽसि? कस्मात् साह्लादं नालपसि? न सुभाषितानि पठसि।

स आह-मित्र! अहं तव भ्रातृ-जायया निष्ठुरतरैर् वाक्यैर् अभिहितः-भोः कृतघ्न! मा मे त्वं स्वमुखं दर्शय, यतस् त्वं प्रतिदिनं मित्रम् उपजीवसि। न च तस्य पुनः प्रत्युपकारं गृह-दर्शन-मात्रेणापि करोषि। तत् ते प्रायश्चित्तम् अपि नास्ति। उक्तं च-

ब्रह्मघ्ने च सुरापे च चौरे भग्न-व्रते शठे।
निष्कृतिर् विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः॥पञ्च_४.११॥

तत् त्वं मम देवरं गृहीत्वाद्य प्रत्युपकारार्थं गृहम् आनय। नो चेत् त्वया सह मे पर-लोके दर्शनम् इति। तद् अहं तयैवं प्रोक्तस् तव सकाशम् आगतः। तद् अद्य तया सह त्वद्-अर्थे कलहायतो ममेयती वेला विलग्ना। तद् आगच्छ मे गृहम्। तव भ्रातृ-पत्नी रचित-चतुष्का प्रगुणित-वस्त्र-मणि-माणिक्याद्य्-उचिताभरणा द्वार-देश-बद्ध-वंदन-माला सोत्कंठा तिष्ठति। मर्कट आह-भो मित्र! युक्तम् अभिहितं मद्-भ्रातृ-पत्न्या। उक्तं च-

वर्जयेत् कौलिकाकारं मित्रं प्राज्ञतरो नरः।
आत्मनः संमुखं नित्यं य आकर्षति लोलुपः॥पञ्च_४.१२॥

तथा च-
ददाति प्रतिगृह्णाति गुह्यम् आख्याति पृच्छति।
भुंक्ते भोजयते चैव षड्-विधं प्रीति-लक्षणम्॥पञ्च_४.१३॥

परं वयं वनचराः युष्मदीयं च जलान्ते गृहम्। तत् कथं शक्यते तत्र गंतुम्। तस्मात् ताम् अपि मे भ्रातृ-पत्नीम् अत्रानय येन प्रणम्य तस्या आशीर्वादं गृह्णामि।

स आह-भो मित्र! अस्ति समुद्रांतरे सुरम्ये पुलिन-प्रदेशेस्मद्-गृहम् । तन् मम पृष्ठम् आरूढः सुखेनाकृतभयो गच्छ।

सोऽपि तच् छ्रुत्वा सानंदम् आह-भद्र! यद्य् एवं तत् किं विलंब्यते। त्वर्यताम्। एषो ऽहं तव पृष्ठाम् आरूढः।

तथानुष्ठितेऽगाधे जलधौ गच्छंतं मकरम् आलोक्य भय-त्रस्त-मना वानरः प्रोवाच-भ्रातः! शनैः शनैर् गम्यताम्। जल-कल्लोलैः प्लाव्यते मे शरीरम्।

तद् आकर्ण्य मकरश् चिंतयामास-असाव् अगाधं जलं प्राप्तो मे वशः सञ्जातः। मत्-पृष्ठ-गतस् तिल-मात्रम् अपि चलितुं न शक्नोति। तस्मात् कथयाम्य् अस्य निजाभिप्रायम्, येनाभीष्ट-देवता-स्मरणं करोति। आह च-मित्र, त्वं मया वधाय समानीतो भार्या-वाक्येन विश्वास्य। तत् स्मर्यताम् अभीष्ट-देवता।

स आह-भ्रातः! किं मया तस्यास् तवापि चापकृतं येन मे वधोपायश् चिंतितः?

मकर आह-भोः! तस्यास् तावत् तव हृदयस्यामृतमय-फल-रसास्वादन-मृष्टस्य भक्षणे दोहदः सञ्जातः। तेनैतद् अनुष्ठितम्।

प्रत्युत्पन्न-मतिर् वानर आह-भद्र! यद्य् एवं तत् किं त्वया मम तत्रैव न व्याहृतम्? येन स्व-हृदयं जंबू-कोटरे सदैव मया सुगुप्तं कृतम्। तद् भ्रातृ-पत्न्या अर्पयामि। त्वयाहं शून्य-हृदयोऽत्र कस्माद् आनीतः?

तद् आकर्ण्य मकरः सानंदम् आह-भद्र! यद्य् एवं तद् अर्पय मे हृदयम्। येन सा दुष्ट-पत्नी तद् भक्षयित्वानशनाद् उत्तिष्ठति। अहं त्वां तम् एव जंबू-पादपं प्रापयामि। एवम् उक्त्वा निवर्त्य जंबू-तलम् अगात्। वानरोऽपि कथम् अपि जल्पित-विविध-देवतोपचार-पूजस् तीरम् आसादितवान्। ततश् च दीर्घतर-चंक्रमणेन तम् एव जंबू-पादपम् आरूढश् चिंतयामास-अहो! लब्धास् तावत् प्राणाः। अथवा साध्व् इदम् उच्यते-

न विश्वसेद् अविश्वस्ते विश्वस्तेपि न विश्वसेत्।
विश्वासाद् भयम् उत्पन्नं मूलान्य् अपि निकृन्तति॥पञ्च_४.१४॥

तन् ममैतद् अद्य पुनर् जन्म-दिनम् इव सञ्जातम्।

इति चिंतयमानं मकर आह-भो मित्र! अर्पय तद्धृदयं यथा ते भ्रातृ-पत्नी भक्षयित्वानशनाद् उत्तिष्ठति।

अथ विहस्य निर्भर्त्सयन् वानरस् तम् आह-धिग् धिङ् मूर्ख विश्वास-घातक! किं कस्यचिद् धृदय-द्वयं भवति? तद् आशु गम्यतां जंबू-वृक्षस्याधस्तान् न भूयोऽपि त्वयाऽत्रागन्तव्यम्। उक्तं च यतः-

सकृद् दुष्टं च यो मित्रं पुनः संधातुम् इच्छति।
स मृत्युम् उपगृह्णाति गर्भम् अश्वतरी यथा॥पञ्च_४.१५॥

तच् छ्रुत्वा मकरः संविलक्षं चिंतितवान्-अहो! मयातिमूढेन किम् अस्य स्व-चित्ताभिप्रायो निवेदितः। तद् यद्य् असौ पुनर् अपि कथञ्चिद् विश्वासं गच्छति, तद् भूयोऽपि विश्वासयामि। आह च-मित्र! हास्येन मया तेभिप्रायो लब्धः। तस्या न किञ्चित् तव हृदयेन प्रयोजनम्। तद् आगच्छ प्राघुणिक-अन्यायेनास्मद्-गृहम्।

वानर आह-भो दुष्ट! गम्यताम्। अधुना नाहम् आगमिष्यामि। उक्तं च-

बुभुक्षितः किं न करोति पापं
क्षीणा जना निष्करुणा भवंति।
आख्याहि भद्रे प्रिय-दर्शनस्य
न गंगदत्तः पुनर् एति कूपम्॥पञ्च_४.१६॥

मकर आह-कथम् एतत्?

स आह-

कथा १ गंगदत्त-प्रियदर्शन-कथा[सम्पाद्यताम्]


कस्मिंश्चित् कूपे गंगदत्तो नाम मंडूक-राजः प्रतिवसति स्म। स कदाचिद् दायादैर् उद्वेजितोऽरघट्ट-घटीम् आरुह्य निष्क्रांतः। अथ तेन चिंतितम्-यत् कथं तेषां दायादानां मया प्रत्यपकारः कर्तव्यः। उक्तं च-

आपदि येनापकृतं येन च हसितं दशासु विषमासु।
अपकृत्य तयोर् उभयोः पुनर् अपि जातं नरं मन्ये॥पञ्च_४.१७॥

एवं चिंतयन् बिले प्रविशंतं कृष्णसर्पम् अपश्यत्। तं दृष्ट्वा भूयोऽप्य् अचिंतयत्-यद् एनं तत्र कूपे नीत्वा सकल-दायादानाम् उच्छेदं करोमि। उक्तं च-
शत्रुभिर् योजयेच् छत्रुं बलिना बलवत्तरम्।
स्व-कार्याय यतो न स्यात् काचित् पीडात्र तत्-क्षये॥पञ्च_४.१८॥

तथा च-
शत्रुम् उन्मूलयेत् प्राज्ञस् तीक्ष्णं तीक्ष्णेन शत्रुणा।
व्यथा-करं सुखार्थाय कंटकेनैव कंटकम्॥पञ्च_४.१९॥

एवं स विभाव्य बिल-द्वारं गत्वा तम् आहूतवान्-एह्य् एहि प्रिय-दर्शन! एहि!

तच् छ्रुत्वा सर्पश् चिंतयामास-य एवं माम् आह्वयति। स्वजातीयो न भवति। यतो नैषा सर्प-वाणी। अन्येन केनापि सह मम मर्त्य-लोके संधानं नास्ति। तद् अत्रैव दुर्गे स्थितस् तावद् वेद्मि कोऽयं भविष्यति। उक्तं च-

यस्य न जायते शीलं न कुलं न च संश्रयः।
न तेन संगतिं कुर्याद् इत्य् उवाच बृहस्पतिः॥पञ्च_४.२०॥

कदाचित्कोऽपि मंत्रवाद्य् औषध-चतुरो वा माम् आहूय बंधने क्षिपति। अथवा कश्चित् पुरुषो वैरम् आश्रित्य कस्यचिद् भक्षणार्थे माम् आह्वयति। आह च-भोः! को भवान्?

स आह-अहं गंगदत्तो नाम मंडूकाधिपतिस् त्वत्-सकाशे मैत्र्य्-अर्थम् अभ्यागतः।

तच् छ्रुत्वा सर्प आह-भो! अश्रद्धेयम् एतत् यत्-तृणानां वह्निना सह संगमः। उक्तं च-

यो यस्य जायते वध्यः स स्वप्नेपि कथञ्चन।
न तत्-समीपम् अभ्येति तत् किम् एवं प्रजल्पसि॥पञ्च_४.२१॥

गंगदत्त आह-भोः! सत्यम् एतत्। स्वभाव-वैरी त्वम् अस्माकम्। परं पर-परिभवात् प्राप्तो ऽहं ते सकाशम्। उक्तं च-

सर्व-नाशे च सञ्जाते प्राणानाम् अपि संशये।
अपि शत्रुं प्रणम्यापि रक्षेत् प्राणान्धनानि च॥पञ्च_४.२२॥

सर्प आह-कथय कस्मात् ते परिभवः।

स आह-दायादेभ्यः।

सोऽप्य् आह-क्व ते आश्रयो वाप्यां कूपे तडागे ह्रदे वा। तत् कथय स्वाश्रयम्।

तेनोक्तम्-पाषाण-चय-निबद्धे कूपे।

सर्प आह-अहो अपदा वयम्। तन्नास्ति तत्र मे प्रवेशः। प्रविष्टस्य च स्थानं नास्ति। यत्र स्थितस् तव दायादान् व्यापादयामि। तद् गम्यताम्। उक्तं च-

यच् छक्यं ग्रसितुं यस्य ग्रस्तं परिणमेच् च यत्।
हितं च परिणामे यत् तद् आद्यं भूतिम् इच्छता॥पञ्च_४.२३॥

गंगदत्त आह-भोः! समागच्छ त्वम्। अहं सुखोपायेन तत्र तव प्रवेशं कारयिष्यामि। तथा तस्य मध्ये जलोपांते रम्यतरं कोटरम् अस्ति। तत्र स्थितस् त्वं लीलया दायादान् व्यापादयिष्यसि।

तच् छ्रुत्वा सर्पो व्यचिंतयत्-अहं तावत् परिणत-वयाः। कदाचित् कथञ्चिन् मूषकम् एकं प्राप्नोमि। तत् सुखावहो जीवनोपायोऽयम् अनेन कुलांगारेण दर्शितः। तद् गत्वा तान् मंडूकान् भक्षयामि इति। अथवा साध्व् इदम् उच्यते-

यो हि प्राण-परिक्षीणः सहाय-परिवर्जितः।
स हि सर्व-सुखोपायां वृत्तिम् आरचयेद् बुधः॥पञ्च_४.२४॥

एवं विचिंत्य तम् आह-भो गंगदत्त! यद्य् एवं तद्-अग्रे भव। येन तत्र गच्छावः।
गंगदत्त आह-भोः प्रियदर्शन! अहं त्वां सुखोपायेन तत्र नेष्यामि, स्थानं च दर्शयिष्यामि त एव भक्षणीयाः इति।

सर्प आह-सांप्रतं त्वं मे मित्रं जातम्। तन् न भेतव्यम्। तव वचनेन भक्षणीयास् ते दायादाः।

एवम् उक्त्वा बिलान् निष्क्रम्य तम् आलिंग्य च तेनैव सह प्रस्थितः। अथ कूपम् आसाद्यार-घट्ट-घटिका-मार्गेण सर्पस् तेनात्मना स्वालयं नीतः।

ततश्च गङ्गदत्तेन कृष्णसर्पं कोटरे धृत्वा दर्शितास्ते दायादाः। ते च तेन शनैः शनैर्भक्षिताः। अथ मण्डूकाभावे सर्पेणाभिहितम् - भद्र निःशेषितास्ते रिपवः। यत्प्रयच्छान्यन्मे किञ्चिद्भोजनम्। यतोऽहं त्वयाऽत्रानीतः। गंगदत्त आह-भद्र! कृतं त्वया मित्र-कृत्यम्। तत् सांप्रतम् अनेनैव घटिका-यंत्र-मार्गेण गम्यताम् इति।

सर्प आह-भो गंगदत्त! न सम्यग् अभिहितं त्वया। कथम् अहं तत्र गच्छामि? मदीय-बिल-दुर्गम् अन्येन रुद्धं भविष्यति। तस्माद् अत्र-स्थस्य मे मंडूकम् एकैकं स्व-वर्गीयं प्रयच्छ। नो चेत् सर्वान् अपि भक्षयिष्यामि इति।

तच् छ्रुत्वा गंगदत्तो व्याकुल-मना व्याचिंतयत्-अहो किम् एतन् मया कृतं सर्पम् आनयता। तद् यदि निषेधयिष्यामि तत् सर्वान् अपि भक्षयिष्यति। अथवा युक्तम् उच्यते-

योऽमित्रं कुरुते मित्रं वीर्याभ्यधिकम् आत्मनः।
स करोति न संदेहः स्वयं हि विष-भक्षणम्॥पञ्च_४.२५॥

तत् प्रयच्छाम्य् अस्यैकैकं प्रतिदिनं सुहृदम्। उक्तं च-

सर्वस्व-हरणे युक्तं शत्रुं बुद्धि-युता नराः।
तोषयन्त्य् अल्प-दानेन वाडवं सागरो यथा॥पञ्च_४.२६॥

तथा च-
यो दुर्बलोऽणून् अपि याच्यमानो
बलीयसा यच्छति नैव साम्ना।
प्रयच्छते नैव च दर्श्यमानं
खारीं स चूर्णस्य पुनर् ददाति॥पञ्च_४.२७॥

तथा च-
सर्व-नाशे समुत्पन्ने अर्धं त्यजति पण्डितः।
अर्धेन कुरुते कार्यं सर्व-नाशो हि दुस्तरः॥पञ्च_४.२८॥
न स्वल्पस्य कृते भूरि नाशयेन् मतिमान् नरः।
एतद् एव हि पांडित्यं यत् स्वल्पाद् भूरि-रक्षणम्॥पञ्च_४.२९॥

एवं निश्चित्य नित्यम् एकैकम् आदिशति। सोऽपि तं भक्षयित्वा तस्य परोक्षेन्यान् अपि भक्षयति। अथवा साध्व् इदम् उच्यते-

यथा हि मलिनैर् वस्त्रैर् यत्र तत्रोपविश्यते।
एवं चलित-वित्तस् तु वित्त-शेषं न रक्षति॥पञ्च_४.३०॥

अथान्य-दिने तेनापरान् मंडूकान् भक्षयित्वा गंगदत्त-सुतो यमुनादत्तो भक्षितः। तं भक्षितं मत्वा गंगदत्तस् तार-स्वरेण धिग् धिक् प्रलाप-परः कथञ्चिद् अपि न विरराम। ततः स्व-पत्न्याभिहितः-

किं क्रंदसि दुराक्रंद स्व-पक्ष-क्षय-कारक।
स्व-पक्षस्य क्षये जाते को नस् त्राता भविष्यति॥पञ्च_४.३१॥

तद् अद्यापि विचिंत्यताम् आत्मनो निष्क्रमणम् अस्य वधोपायश् च। अथ गच्छता कालेन सकलम् अपि कवलितं मंडूक-कुलम्। केवलम् एको गंगदत्तस् तिष्ठति। ततः प्रियदर्शनेन भणितम्-भोः गंगदत्त! बुभुक्षितोऽहम्। निःशेषिताः सर्वे मंडूकाः। तद् दीयतां मे किञ्चिद् भोजनं यतोऽहं त्वयात्रानीतः।

स आह-भो मित्र! न त्वयात्र विषये मयावस्थितेन कापि चिंता कार्या। तद् यदि मां प्रेषयति ततो अन्य-कूप-स्थान् अपि मंडूकान् विश्वास्यात्रानयामि।

स आह-मम तावत् त्वम् अभक्ष्यो भ्रातृ-स्थाने। तद् यद्य् एवं करोषि तत् सांप्रतं पितृ-स्थाने भवसि। तद् एवं क्रियताम् इति।

सोऽपि तद् आकर्ण्यार-घट्ट-घटिकाम् आश्रित्य विविध-देवतोपकल्पित-पूजोपयाचितस् तत्-कूपाद् विनिष्क्रांतः। प्रियदर्शनोऽपि तद्-आकांक्षया तत्रस्थः प्रतीक्षमाणस् तिष्ठति। अथ चिराद् अनागते गंगदत्ते प्रियदर्शनो अन्य-कोटर-निवासिनीं गोधाम् उवाच-भद्रे! क्रियतां स्तोकं साहाय्यम्। यतश् चिर-परिचितस् ते गंगदत्तः। तद् गत्वा तत्-सकाशं कुत्रचिज् जलाशयेन्विष्य मम संदेशं कथय। येनागम्यताम् एकाकिनापि भवता द्रुततरं यद्य् अन्ये मंडूका नागच्छंति। अहं त्वया विना नात्र वस्तुं शक्नोमि। तथा यद्य् अहं तव विरुढम् आचरामि तत् सुकृतम् अन्तरे मया विधृतम्।

गोधापि तद्-वचनाद् गंगदत्तं द्रुततरम् अन्विष्याह-भद्र गंगदत्त! स तव सुहृत्-प्रियदर्शनस् तव मार्गं समीक्षमाणस् तिष्ठति। तच् छीघ्रम् आगम्यताम् इति।

अपरं च तेन तव विरूप-करणे सुकृतम् अन्तरे धृतम्। तन्-निःशङ्केन मनसा समागम्यताम्। तद् आकर्ण्य गंगदत्त आह-

बुभुक्षितः किं न करोति पापं
क्षीणा नरा निष्करुणा भवंति।
आख्याहि भद्रे प्रिय-दर्शनस्य
न गंगदत्तः पुनर् एति कूपम्॥पञ्च_४.३२॥

एवम् उक्त्वा स तां विसर्जयामास।

---

तद् भो दुष्ट-जलचर! अहम् अपि गंगदत्त इव त्वद्-गृहे न कथञ्चिद् अपि यास्यामि।

तच् छ्रुत्वा मकर आह-भो मित्र! नैतद्युज्यते। सर्वथैव मे कृतघ्नतादोषमपनय मद्गृहागमनेन। अथवाऽत्राहम् अनशनात् प्राण-त्यागं तवोपरि करिष्यामि।

वानर आह-मूढ! किम् अहं लंबकर्णो मूर्खः? दृष्ट्वापायोऽपि स्वयम् एव तत्र गत्वात्मानं व्यापादयामि।

आगतश् च गतश् चैव गत्वा यः पुनर् आगतः।
अकर्ण-हृदयो मूर्खस् तत्रैव निधनं गतः॥पञ्च_४.३३॥

मकर आह-भद्र! स को लम्ब-कर्णः। कथं दृष्टापायोऽपि मृतः? तन् मे निवेद्यताम्।
वानर आह-

कथा २ कराल-केसर-कथा[सम्पाद्यताम्]


कस्मिंश्चिद् वनोद्देशे कराल-केसरो नाम सिंहः प्रतिवसति स्म। तस्य च धूसरको नाम शृगालः सदैवानुयायी परिचारकोऽस्ति। अथ कदाचित् तस्य हस्तिना सह युध्यमानस्य शरीरे गुरुतराः प्रहाराः सञ्जाताः। यैः पदम् एकम् अपि चलितुं न शक्नोति। तस्याचलनाच् च धूसरकः क्षुत्क्षाम-कंठो दौर्बल्यं गतः। अन्यस्मिन्न् अहनि तम् अवोचत्-स्वामिन्! बुभुक्षया पीडितोऽहम्। पदात् पदम् अपि चलितुं न शक्नोमि। तत् कथं ते शुश्रूषां करोमि?

सिंह आह-भोः! गच्छ अन्वेषय किञ्चित् सत्त्वम्। येनेमाम् अवस्थां गतोऽपि व्यापादयामि।

तद् आकर्ण्य शृगालो अन्वेषयन् कञ्चित् समीप-वर्तिनं ग्रामम् आसादितवान्। तत्र लंबकर्णो नाम गर्दभस् तडागोपांते प्रविरल-दूर्वांकुरान् कृच्छ्राद् आस्वादयन् दृष्टः। ततश् च समीप-वर्तिना भूत्वा तेनाभिहितः-माम! नमस्कारोऽयं मदीयः संभाव्यताम्। चिराद् दृष्टोऽसि। तत् कथय किम् एवं दुर्बलतां गतः।

स आह-भो भगिनी-पुत्र! किं कथयामि। रजकोऽतिनिर्दयाऽतिभारेण मां पीडयति। घास-मुष्टिम् अपि न प्रयच्छति। केवलं दूर्वांकुरान् धूलि-मिश्रितान् भक्षयामि। तत् कुतो मे शरीरे पुष्टिः?

शृगाल आह-माम! यद्य् एवं तद् अस्ति मरकत-सदृश-शष्प-प्रायो नदी-सनाथो रमणीयतरः प्रदेशः। तत्रागत्य मया सह सुभाषित-गोष्ठी-सुखम् अनुभवंस् तिष्ठ।

लंबकर्ण आह-भो भगिनी-सुत! युक्तम् उक्तं भवता। परं वयं ग्राम्याः पशवोऽरण्य-चारिणां वध्याः। तत् किं तेन भव्य-प्रदेशेन।

शृगाल आह- माम! मैवं वद। मद्-भुज-पञ्जर-परिरक्षितः स देशः। तत्रास्ति न कश्चिद् अपरस्य तत्र प्रवेशः। परमम् अनेनैव दोषेण रजक-कदर्थितास् तत्र तिस्रो रासभ्यो ऽनाथाः संति। ताश् च पुष्टिम् आपन्ना यौवनोत्कटा इदं माम् ऊचुः-यदि त्वम् अस्माकं सत्यो मातुलस् तदा कंचिद् ग्रामांतरं गत्वास्मद्-योग्यं कश्चित् पतिम् आनय। तद्-अर्थे त्वाम् अहं तत्र नयामि।

अथ शृगाल-वचनानि श्रुत्वा काम-पीडितांगस् तम् अवोचत्-भद्र! यद्य् एवं तद्-अग्रे भव येनागच्छामि। अथवा साध्व् इदम् उच्यते-

नामृतं न विषं किञ्चिद् एकां मुक्त्वा नितंबिनीम्।
यस्याः संगेन जीव्येत म्रियते च वियोगतः॥पञ्च_४.३४॥

तथा च-
यासां नाम्नापि कामः स्यात् संगमं दर्शनं विना।
तासां दृक्-संगमं प्राप्य यन् न द्रवति कौतुकम्॥पञ्च_४.३५॥

तत्रानुष्ठिते शृगालेन सह सिंहांतिकम् आगतः। सिंहोऽपि व्यथाकुलितस् तं दृष्ट्वा यावत् समुत्तिष्ठति तावद् रासभः पलायितुम् आरब्धवान्। अथ तस्य पलायमानस्य सिंहेन तल-प्रहारो दत्तः। स च मंद-भाग्यस्य व्यवसाय इव व्यर्थतां गतः। अत्रांतरे शृगालः कोपाविष्टस् तम् उवाच-भोः! किम् एवंविधः प्रहारस् ते। यद् गर्दभोऽपि तव पुरतो बलाद् गच्छति। तत् कथं गजेन सह युद्धं करिष्यसि? तद् दृष्टं ते बलम्।

अथ सविलक्ष-स्मितं सिंह आह-भोः! किम् अहं करोमि। मया न क्रमः सज्जीकृत आसीत्। अन्यथा गजोऽपि मत्-क्रमाक्रांता न गच्छति।

शृगाल आह-अद्याप्य् एक-वारं तवांतिके तम् आनेष्यामि। परं त्वया सज्जीकृत-क्रमेण स्थातव्यम्।

सिंह आह-भद्र! यो मां प्रत्यक्षं दृष्ट्वा गतः स पुनः कथम् अत्रागमिष्यति? तद् अन्यत् किम् अपि सत्त्वम् अन्विष्यताम्।

शृगाल आह-किं तवानेन व्यापारेण? त्वं केवलं सज्जित-क्रमस् तिष्ठ।

तथानुष्ठिते शृगालोऽपि यावद् रासभ-मार्गेण गच्छति, तावत् तत्रैव स्थाने चरन् दृष्टः। अथ शृगालं दृष्ट्वा रासभः प्राह-भो भगिनी-सुत! शोभन-स्थाने त्वयाहं नीतः। द्राङ् मृत्यु-वशं गतः। तत् कथय किं तत् सत्त्वं यस्यातिरौद्र-वज्र-सदृश-कर-प्रहाराद् अहं मुक्तः।

तच् छ्रुत्वा प्रहसन् शृगाल आह-भद्र! रासभी त्वाम् आयान्तं दृष्ट्वा सानुरागम् आलिंगितुं समुत्थिता। त्वं च कातरत्वान् नष्टः। सा पुनर् न शक्ता त्वां विना स्थातुम्। तया तु नश्यतस् तेवलंबनार्थं हस्तः क्षिप्तः। नान्य-कारणेन। तद् आगच्छ। सा त्वत्-कृते प्रायोपवेशनोपविष्टा तिष्ठति। एतद् वदति-यल् लंबकर्णो यदि मे भर्ता न भवति तद् अहम् अग्नौ जलं वा प्रविशामि। पुनस् तस्य वियोगं सोढुं न शक्नोमि इति। तत् प्रसादं कृत्वा तत्रागम्यताम्। नो चेत् तव स्त्री-हत्या भविष्यति। अपरं भगवान् काम-कोपं तवोपरि करिष्यति। उक्तं च-

स्त्री-मुद्रां मकरध्वजस्य जयिनीं सर्वार्ध-संपत्-करीं
ते मूढाः प्रविहाय यान्ति कुधियो मिथ्या-फलान्वेषिणः।
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुंडिताः
केचिद् रक्त-पटीकृताश् च जटिलाः कापालिकाश् चापरे॥पञ्च_४.३६॥

अथासौ तद्-वचनं श्रद्धेयतया श्रुत्वा भूयोऽपि तेन सह प्रस्थितः। अथवा साध्व् इदम् उच्यते-

जानन्न् अपि नरो दैवात् प्रकरोति विगर्हितम्।
कर्म किं कस्यचिल् लोके गर्हितं रोचते कथम्॥पञ्च_४.३७॥

अत्रांतरे सज्जित-क्रमेण सिंहेन स लंबकर्णो व्यापादितः। ततस् तं हत्वा शृगालं रक्षकं निरूप्य स्वयं स्नानार्थं नद्यां गतः। शृगालेनापि लौल्योत्सुक्यात् तस्य कर्ण-हृदयं भक्षितम्। अत्रांतरे सिंहो यावत् स्नात्वा कृते देवार्चनः प्रतर्पित-पितृ-गणः समायाति तावत् कर्ण-हृदय-रहितो रासभस् तिष्ठति। तं दृष्ट्वा कोप-परीतात्मा सिंहः शृगालम् आह-पाप! किम् इदम् अनुचितं कर्म समाचरितम्? यत् कर्ण-हृदय-भक्षणेनायम् उच्छिष्टतां नीतः।

शृगालः स-विनयम् आह-स्वामिन्! मा मैवं वद। यत् कर्ण-हृदय-रहितोऽयं रासभ आसीत्, तेनेहागत्य त्वाम् अवलोक्य भूयोऽप्य् आगतः।

अथ त्वद्-वचनं श्रद्धेयं मत्वा सिंहस् तेनैव संविभज्य निःशंकित-मनास् तं भक्षितवान्।

---

अतोऽहं ब्रवीमि-आगतश् च गतश् चैव इति। तन् मूर्ख! कपटं कृतं त्वया। परं युधिष्ठिरेणेव सत्य-वचनेन विनाशितम्। अथवा साध्व् इदम् उच्यते-

स्वार्थम् उत्सृज्य यो दंभी सत्यं ब्रूते सुमंद-धीः।
स स्वार्थाद् भ्रश्यते नूनं युधिष्ठिर इवापरः॥पञ्च_४.३८॥

मकर आह-कथम् एतत्?

स आह-

कथा ३ युधिष्ठिराख्य-कुंभकार-कथा[सम्पाद्यताम्]


कस्मिंश्चित् अधिष्ठाने कुंभकारः प्रतिवसति स्म। स कदाचित् प्रमादाद् अर्ध-भग्न-खर्पर-तीक्ष्णाग्रस्योपरि महता वेगेन धावन् पतितः। ततः खर्पर-कोट्या पाटित-ललाटो रुधिर-प्लावित-तनुः कृच्छ्राद् उत्थाय स्वाश्रयं गतः। ततश् चापथ्य-सेवनात् स प्रहारस् तस्य करालतां गतः कृच्छ्रेण नीरोगतां नीतः।

अथ कदाचिद् दुर्भिक्ष-पीडिते देशे च कुंभकारः क्षुत्क्षाम-कंठः कैश्चिद् राज-सेवकैः सह देशांतरं गत्वा कस्यापि राज्ञः सेवको बभूव। सोऽपि राजा तस्य ललाटे विकरालं प्रहार-क्षतं दृष्ट्वा चिंतयामास, यद्-वीरः पुरुषः कश्चिद् अयम्। नूनं तेन ललाट-पट्टे संमुख-प्रहारः।

अतस् तं समानादिभिः सर्वेषां राज-पुत्राणां मध्ये विशेष-प्रसादेन पश्यति स्म। तेपि राज-पुत्रास् तस्य तं प्रसादातिरेकं पश्यंतं परमेर्ष्या-धर्मं वहंतो राज-भयान् न किञ्चिद् ऊचुः।

अथान्यस्मिन्न् अहनि तस्य भूपतेर् वीर-संभावनायां क्रियमाणायां विग्रहे समुपस्थिते प्रकल्प्यमानेषु गजेषु संनह्यमानेषु वाजिषु योधेषु। प्रगुणीक्रियमाणेषु तेन भूभुजा स कुंभकारः प्रस्तावानुगतं पृष्टो निर्जने-भो राज-पुत्र! किं ते नाम? का च जातिः? कस्मिन् संग्रामे प्रहारोऽयं ते ललाटे लग्नः?

स आह-देव! नायं शस्त्र-प्रहारः। युधिष्ठिराभिधः कुलालोऽहं प्रकृत्या। मद्-गेहेऽनेक-खर्पराण्य् आसन्। अथ कदाचिन् मद्य-पानं कृत्वा निर्गतः प्रधावन् खर्परोपरि पतितः। तस्य प्रहार-विकारोऽयं मे ललाटे एवं विकरालतां गतः।

तद् आकर्ण्य राजा स-व्रीडम् आह-अहो वञ्चितोऽहं राजापुत्रानुकारिणानेन कुलालेन। तद् दीयतां द्राग् एतस्य चंद्रार्धः।

तथानुष्ठिते कुंभकार आह-मा मैवं कुरु। पश्य मे रणे हस्त-लाघवम्।

राजा प्राह-सर्व-गुण-संपन्नो भवान्। तथापि गम्यताम्। उक्तं च-

शूद्रश् च कृत-विघ्नश् च दर्शनीयोऽसि पुत्रक।
यस्मिन् कुले त्वम् उत्पन्नो गजस् तत्र न हन्यते॥पञ्च_४.३९॥

कुलाल आह-कथम् एतत्?

राजा कथयति-

कथा ४ सिंह-दंपती-कथा[सम्पाद्यताम्]


कस्मिंश्चिद् उद्देशे सिंह-दंपती प्रतिवसतः स्म। अथ सिंही पुत्र-द्वयम् अजीजनत्। सिंहो ऽपि नित्यम् एव मृगान् व्यापाद्य सिंह्यै ददाति। अथान्यस्मिन् अहनि तेन किम् अपि नासादितम्। येन भ्रमतोऽपि तस्य रविर् अस्तं गतः। अथ तेन स्व-गृहम् आगच्छता शृगाल-शिशुः प्राप्तः। स च बालकोऽयम् इत्य् अवधार्य यत्नेन दंष्ट्रामध्य-गतं कृत्वा सिंह्या जीवंतम् एव समर्पितवान्। ततः सिंह्याभिहितम्-भोः कांत! त्वयानीतं किञ्चिद् अस्माकं भोजनम्?

सिंह आह-प्रिये! मयाद्यैनं शृगाल-शिशुं परित्यज्य न किञ्चित् सत्त्वम् आसादितम्। स च मया बालोऽयम् इति मत्वा न व्यापादितो विशेषात् स्वजातीयश् च। उक्तं च-

स्त्री-विप्रलिंगि-बालेषु प्रहर्तव्यं न कर्हिचित्।
प्राण-त्यागेपि सञ्जाते विश्वस्तेषु विशेषतः॥पञ्च_४.४०॥

इदानीं त्वम् एनं भक्षयित्वा पथ्यं कुरु। प्रभातेन्यत् किञ्चिद् उपार्जयिष्यामि। सा प्राह-भोः कांत! त्वया बालकोऽयम् इति विचिंत्य न हतः। तत् कथम् एनम् अहं स्वोदरार्थे विनाशयामि। उक्तं च-

अकृत्यं नैव कर्तव्यं प्राण-त्यागेप्य् उपस्थिते।
न च कृत्यं परित्याज्यम् एष धर्मः सनातनः॥पञ्च_४.४१॥

तस्मान् ममायं तृतीयः पुत्रो भविष्यति। इत्य् एवम् उक्त्वा तम् अपि स्वस्तन-क्षीरेण परां पुष्टिम् अनयत्। एवं ते त्रयोऽपि शिशवः परस्परम् अज्ञात-जाति-विशेषा एकाचार-विहारा बाल्य-समयं निर्वाहयन्ति। अथ कदाचित् तत्र वने भ्रमन्न् अरण्य-गजः समायातः। तं दृष्ट्वा तौ सिंह-सुतौ द्वाव् अपि कुपिताननौ तं प्रति प्रचलितौ यावत् तावत् तेन शृगाल-सुतेनाभिहितम्-अहो! गजोऽयं युष्मत्-कुल-शत्रुः। तन् न गंतव्यम् एतस्याभिमुखम्।

एवम् उक्त्वा गृहं प्रधावितः। ताव् अपि ज्येष्ठ-बांधव-भंगान् निरुत्साहतां गतौ। अथवा साध्व् इदम् उच्यते-

एकेनापि सुधीरेण सोत्साहेन रणं प्रति।
सोत्साहं जायते सैन्यं भग्ने भंगम् अवाप्नुयात्॥पञ्च_४.४२॥

तथा च-
अत एव वाञ्छन्ति भूपा योधान् महाबलान्।
शूरान् वीरान् कृतोत्साहान् वर्जयंति च कातरान्॥पञ्च_४.४३॥

अथ तौ द्वाव् अपि गृहं प्राप्य पित्रोर् अग्रतो ज्येष्ठ-भ्रातृ-चेष्टितम् ऊचतुः-यथा गजं दृष्ट्वा दूरतोऽपि नष्टः।

सोऽपि तद् आकर्ण्य कोपाविष्ट-मनाः प्रस्फुरिताधर-पल्लवस् ताम्रलोचनस् त्रिशिखां भ्रुकुटिं कृत्वा तौ निर्भर्त्सयन् परुषतर-वचनान्य् उवाच-ततः सिंह्यैकान्ते नीत्वा प्रबोधितो ऽसौ-वत्स! मैवं कदाचिज् जल्प। भवदीय-लघु-भ्रातराव् एतौ।

अथासौ प्रभूत-कोपाविष्टस् ताम् उवाच-किम् अहम् एताभ्यां शौर्येण रूपेण विद्याभ्यासेन कौशलेन वा हीनः? येन माम् उपहसतः। तन् मयावश्यम् एतौ व्यापादनीयौ।

तद् आकर्ण्य सिंही तस्य जीवितम् इच्छंत्य् अंतर् विहस्य प्राह-तत् सम्यक् शृणु। त्वं शृगाली-सुतः। कृपया मया स्वस्तन-क्षीरेण पुष्टिं नीतः। तद् यावद् एतौ मत्-पुत्रौ शिशुत्वात् त्वां शृगालं न जानीतः, तावद् द्रुततरं गत्वा स्वजातीयानां मध्ये भव। नो चेद् आभ्यां हतो मृत्यु-पथं समेष्यसि। सोऽपि तद्-वचनं श्रुत्वा भय-व्याकुल-मनाः शनैः शनैर् अपसृत्य स्व-जात्या मिलितः। तस्मात् त्वं अपि यावद् एते राज-पुत्रास् त्वां कुलालं न जानंति, तावद् द्रुततरम् अपसर। नो चेद् एतेषां सकाशाद् विडंबनां प्राप्य मरिष्यामि। कुलालोऽपि तद् आकर्ण्य सत्वरं प्रणष्टः।

---

अतोऽहं ब्रवीमि-स्वार्थम् उत्सृज्य यो दंभी (३८) इति।

धिङ् मूर्ख! यत् त्वया स्त्रियोऽर्थं एतत्-कार्यम् अनुष्ठातुम् आरब्धम्। न हि स्त्रीणां कथञ्चिद् विश्वासम् उपगच्छेत्। उक्तं च-

यद्-अर्थे स्व-कुलं त्यक्तं जीवितार्धं च हारितम्।
सा मां त्यजति निःस्नेहा कः स्त्रीणां विश्वसेन् नरः॥पञ्च_४.४४॥

मकर आह-कथम् एतत्?

वानर आह-

कथा ५ ब्राह्मण-कथा[सम्पाद्यताम्]


अस्ति कस्मिंश्चिद् अधिष्ठाने कोऽपि ब्राह्मणः। तस्य च भार्या प्राणेभ्योऽप्य् अतिप्रियासीत्। सोऽपि प्रतिदिनं कुटुंबेन सह कलहं कुर्वाणा न विश्राम्यति। सोऽपि ब्राह्मणः कलहम् असहमानो भार्या-वात्सल्यात् स्व-कुटुंबं परित्यज्य ब्राह्मण्या सह विप्रकृष्टं देशांतरं गतः। अथ महाटवी-मध्ये ब्राह्मण्याभिहितः-आर्य-पुत्र! तृष्णा मां बाधते। तद् उदकं क्वाप्य् अन्वेषय।

अथासौ तद्-वचनानंतरं यावद्-उदकं गृहीत्वा समागच्छति तावत् तां मृताम् अपश्यत्। अतिवल्लभतया विषादं कुर्वन् यावद् विलपति तावद् आकाशे वाचं शृणोति। यथा हि-यदि ब्राह्मण त्वं स्वकीय-जीवितस्यार्धं ददासि ततस् ते जीवति ब्राह्मणी।

तच् छ्रुत्वा ब्राह्मणेन शुचीभूय तिसृभिर् वाचोभिः स्वजीवितार्धं दत्तम्। वाक्-समम् एव च ब्राह्मणी जीविता सा। अथ तौ जलं पीत्वा वन-फलानि भक्षयित्वा गंतुम् आरब्धौ। ततः क्रमेण कस्यचिन् नगरस्य प्रदेशे पुष्प-वाटिकां प्रविश्य ब्राह्मणो भार्याम् अभिहितवान्-भद्रे, यावद् अहं भोजनं गृहीत्वा समागच्छामि तावद् अत्र त्वया स्थातव्यम्।

इत्य् अभिधाय ब्राह्मणो नगर-मध्ये जगाम। अथ तस्यां पुष्प-वाटिकायां पङ्गुर - अर-घट्टं खेलयन् दिव्य-गिरा गीतम् उद्गिरति। तच् च श्रुत्वा कुसुमेषुणार्दिता ब्राह्मण्या तत्-सकाशं गत्वाभिहितम्-भद्र! यर्हि मां न कामयसे, तन् मत्-सक्ता स्त्री-हत्या तव भविष्यति।

पनङ्गुर् अब्रवीत्-किं व्याधि-ग्रस्तेन मया करिष्यसि?

साब्रवीत्-किम् अनेनोक्तेन? अवश्यं त्वया सह मया संगमः कर्तव्यः।

तच् छ्रुत्वा तथा कृतवान्। सुरतानंतरं साब्रवीत्-इतः-प्रभृति यावज्-जीवं मयात्मा भवते दत्तः। इति ज्ञात्वा भवान् अप्य् अस्माभिः सहागच्छतु।

सो ऽब्रवीत्-एवम् अस्तु।

अथ ब्राह्मणो भोजनं गृहीत्वा समागत्य तया सह भोक्तुम् आरब्धः साऽब्रवीत्-एष पङ्गुर् बुभुक्षितः। तद् एतस्यापि कियन्तम् अपि ग्रासं देहि इति।

तथानुष्ठिते ब्राह्मण्याभिहितं-ब्राह्मण, सहाय-हीनस् त्वं यदा ग्रामांतरं गच्छसि, तदा मम वचन-सहायोऽपि नास्ति। तद् एनं पङ्गुं गृहीत्वा गच्छावः।

सो ब्रवीत्-न शक्नोम्य् आत्मानम् अप्य् आत्मनां वोढुम्। किं पुनर् एनं पङ्गुम्?

साब्रवीत्-पेटाभ्यंतर-स्थम् एनम् अहं नेष्यामि।

अथ तत्-कृतक-वचन-व्यामोहित-चित्तेन तेन प्रतिपन्नम्। तथानुष्ठितेन्यस्मिन् दिने कूपोपकंठे विश्रांतो ब्राह्मणस् तया च पङ्गु-पुरुषासक्तया संप्रेर्य कूपांतः पातितः। सापि पङ्गुं गृहीत्वा कस्मिंश्चिन् नगरे प्रविष्टा। तत्र शुल्क-चौर्य-रक्षा-निमित्तं राज-पुरुषैर् इतस् ततो भ्रमद्भिस् तन्-मस्तक-स्था पेटी दृष्टा बलाद् आच्छिद्य राजाग्रे नीता। राजा च यावत् ताम् उद्घाटयति तावत् तं पङ्गुं ददर्श। ततः सा ब्राह्मणी विलापं कुर्वती राज-पुरुषानुपदम् एव तत्रागता। राज्ञा पृष्टा-को वृत्तान्तः? इति।

साब्रवीत्-ममैष भर्ता व्याधि-बाधितो दायाद-समूहैर् उद्वेजितो मया स्नेह-व्याकुलित-मानसया शिरसि कृत्वा भवदीय-नगर आनीतः।

तच् छ्रुत्वा राजाब्रवीत्-ब्राह्मणि! त्वं मे भगिनी। ग्राम-द्वयं गृहीत्वा भर्ता सह भोगान् भुञ्जाना सुखेन तिष्ठ।

अथ स ब्राह्मणो दैव-वशात् केनापि साधुना कूपाद् उत्तारितः परिभ्रमंस् तद् एव नगरम् आयातः। तया दुष्ट-भार्यया दृष्टा राज्ञे निवेदितः-राजन्! अयं मम भर्तुर् वैरी समायातः।

राज्ञापि वध आदिष्टः। साब्रवीत्-देव, अनया मम सक्तं किञ्चित् गृहीतम् अस्ति। यदि त्वं धर्म-वत्सलः, तद् दापय।

राजाब्रवीत्-भद्रे! यत् त्वयास्य सक्तं किञ्चित् गृहीतम् अस्ति तत् समर्पय।

सा प्राह-देव, मया न किञ्चिद् गृहीतम्।

ब्राह्मण आह-यन् मया त्रिवाचिकं स्व-जीवितार्धं दत्तम्, तद् देहि।

अथ सा राज-भयात् तत्रैव त्रिवाचिकम् एव जीवितार्धम् अनेन दत्तम् इति जल्पन्ती प्राणैर् विमुक्ता। ततः स-विस्मयं राजाब्रवीत्-किम् एतत् इति। ब्राह्मणेनापि पूर्व-वृत्तान्तः सकलोऽपि तस्मै निवेदितः।

---

अतोऽहं ब्रवीमि-यद्-अर्थे स्व-कुलं त्यक्तम् (४४) इति।

वानरः पुनर् आह-साधु चेदम् उपाख्यानकं श्रूयते-

न किं दद्यान् न किं कुर्यात् स्त्रीभिर् अभ्यर्थितो नरः।
अनश्वा यत्र ह्रेषंते शिरः पर्वणि मुंडितम्॥पञ्च_४.४५॥

मकर आह-कथम् एतत्?

वानरः कथयति-

कथा ६[सम्पाद्यताम्]


अतिप्रख्यात-बल-पौरुषो नेक-नरेंद्र-मुकुट-मरीचि-जाल-जटिली-कृत-पाद-पीठः शरच्-छशांक-किरण-निर्मल-यशाः समुद्र-पर्यंतायाः पृथिव्या भर्ता नंदो नाम राजा। यस्य सर्व-शास्त्राधिगत-समस्त-तत्त्वः सचिवो वररुचिर् नाम। तस्य च प्रणय-कलहेन जाया कुपिता। सा चातीव वल्लभानेक-प्रकारं परितोष्यमाणापि न प्रसीदति। ब्रवीति च भर्ता-भद्रे! येन प्रकारेण तुष्यति तं वद। निश्चितं करोमि।

ततः कथञ्चित् तयोक्तं-यदि शिरो मुंडयित्वा मम पादयोर् निपतसि, तदा प्रसादाभिमुखी भवामि।

तथानुष्ठिते प्रसन्नासीत्। अथ नंदस्य भार्यापि तथैव रुष्टा प्रसाद्यमानापि न तुष्यति। तेनोक्तम्-भद्रे! त्वया विना मुहूर्तम् अपि न जीवामि। पादयोः पतित्वा त्वां प्रसादयामि।

साब्रवीत्-यदि खलीनं मुखे प्रक्षित्याहं तव पृष्ठे समारुह्य त्वां धावयामि। धावितस् तु यद्य् अश्ववद् ध्रेषसे, तदा प्रसन्ना भवामि।

राज्ञापि तथैवानुष्ठितम्। अथ प्रभात-समये सभायाम् उपविष्टस्य राज्ञः समीपे वररुचिर् आयातः। तं च दृष्ट्वा राजा पप्रच्छ-भो वररुचे! किं पर्वणि मुंडितं शिरस् त्वया?

सो ऽब्रवीत्-न किं दद्यात् (४५) इत्य् आदि। तद् भो दुष्ट मकर! त्वम् अपि नंद-वररुचि-वत् स्त्री-वश्यः। ततो भद्र आगतेन त्वया मां प्रति वधोपाय-प्रयासः प्रारब्धः। परं स्व-वाग्-दोषेणैव प्रकटीभूतः। अथवा साध्व् इदम् उच्यते-

आत्मनो मुख-दोषेण बध्यन्ते शुक-सारिकाः।
बकास् तत्र न बध्यंते मौनं सर्वार्थ-साधनम्॥पञ्च_४.४६॥

तथा च-
सुगुप्तं रक्ष्यमाणोऽपि दर्शयन् दारुणं वपुः।
व्याघ्र-चर्म-प्रतिच्छन्नो वाक्-कृते रासभो हतः॥पञ्च_४.४७॥

मकर आह-कथम् एतत्?

वानरः कथयति-

कथा ८ शुद्धपट-नाम-रजक-कथा[सम्पाद्यताम्]


कस्मिंश्चिद् अधिष्ठाने शुद्धपटो नाम रजकः प्रतिवसति स्म। तस्य च गर्दभ एको ऽस्ति। सो ऽपि घासाभावाद् अतिदुर्बलतां गतः। अथ तेन रजकेनाटव्यां परिभ्रमता मृत-व्याघ्रो दृष्टः। चिंतितं च-अहो! शोभनम् आपतितम्। अनेन व्याघ्र-चर्मणा प्रतिच्छाद्य रासभं रात्रौ यव-क्षेत्रेषूत्स्रक्ष्यामि। येन व्याघ्रं मत्वा समीप-वर्तिनः क्षेत्र-पाला एनं न निष्कासयिष्यंति।

तथानुष्ठिते रासभो यथेच्छया यव-भक्षणं करोति। प्रत्यूषे भूयो ऽपि रजकः स्वाश्रयं नयति। एवं गच्छता कालेन स रासभः पीवर-तनुर् जातः। कृच्छ्राद् बंधन-स्थानम् अपि नीयते। अथान्यस्मिंन् अहनि स मदोद्धतो दूराद् रासभी-शब्दम् अशृणोत्। तच्-छ्रवण-मात्रेणैव स्वयं शब्दयितुम् आरब्धः।

अथ ते क्षेत्र-पाला रासभोऽयं व्याघ्र-चर्म-प्रतिच्छन्न इति ज्ञात्वा लगुड-शर-पाषाण-प्रहारैस् तं व्यापादितवंतः।

---

अतोऽहं ब्रवीमि-सुगुप्तं रक्ष्यमाणोऽपि (४७) इति। तत् किं श्यामलकवद् अत्यपमान-सहनाद् अर्ध-चंद्र-दानेन यास्यसि।

मकर आह-कथम् एतत्?

वानर आह-

कथा ९ महाधन-ईश्वर-नाम-भांडपति-कथा[सम्पाद्यताम्]


अस्त्य् अत्र धरा-पीठे विकंटकं नाम पुरम्। तत्र महा-धन ईश्वरो नाम भांड-पतिः। तस्य चत्वारो जामातृका अवंती-पीठात् प्राघूर्णिका विकंटक-पुरे समायाताः। ते च येन महता गौरवेणाभ्यर्चिता भोजानाच्छादनादिभिः। एवं तेषां तत्र वसतां मास-षट्कं सञ्जातम्। तत ईश्वरेण स्वभार्योक्ता यद् एते जामातरः परम-गौरवेणावर्जिताः स्वानि गृहाणि न गच्छंति, तत् किं कथ्यते? विनापमानं न यास्यंति। तद् अद्य भोजन-वेलायां पाद-प्रक्षालनार्थं जलं न देयं येनापमानं ज्ञात्वा परित्यज्य गच्छंतीति।
तथानुष्ठिते गर्गः पाद-प्रक्षालनापमानात्, सोमो लघ्व्-आसन-दानात्, दत्तः कदशनतो यातः। एवं ते त्रयोपि परित्यज्य गताः। चतुर्थः श्यामलको यावन् न याति तावद् अर्ध-चंद्र-प्रदानेन निष्कासितः।

---

अतो हं ब्रवीमि-

गर्गो हि पाद-शौचाल् लघ्व्-आसन-दानतो गतः सोमः।
दत्तः कदशन-भोज्याच् छ्यामलकश् चार्ध-चंद्रेण॥पञ्च_४.४८॥

महाधन ईश्वर भाण्डपति - चतुर्जामातॄणामुपरि टिप्पणी

तत् किम् अहं रथकारवन् मूर्खो यतः स्वयम् अपि दृष्ट्वा ते विकार-पश्चाद् विश्वसिमि। उक्तं च-

प्रत्यक्षेपि कृते पापे मूर्खः साम्ना प्रशाम्यति।
रथकारः स्वकां भार्यां सजारां शिरसावहत्॥पञ्च_४.४९॥

मकर आह-कथम् एतत्?

वानरः कथयति-

कथा १० रथकार-कथा[सम्पाद्यताम्]


कस्मिंश्चिद् अधिष्ठाने कश्चिद् रथकारः प्रतिवसति स्म। तस्य भार्या पुंश्चलीति जनापवाद-संयुक्ता। सोऽपि तस्याः परीक्षार्थं व्यचिंतयत्-कथं मयास्याः परीक्षणं कर्तव्यम्। न चैतद् युज्यते कर्तुं, यतः-

नदीनां च कुलानां च मुनीनां च महात्मनाम्।
परीक्षा न प्रकर्तव्या स्त्रीणां दुश्चरितस्य च॥पञ्च_४.४९॥

वसोर् वीर्योत्पन्नाम् अभजत मुनिर् मत्स्य-तनयां
तथा जातो व्यासो शत-गुण-निवासः किम् अपरम्।
स्वयं वेदान् व्यस्यन् शमित-कुरुवंश-प्रसविता
स एवाभूच् छ्रीमान् अहह विषमा कर्म-गतयः॥पञ्च_४.५०॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. पञ्चतन्त्रम्
    1. कथा-मुखम् १-७
    2. प्रथमम् तन्त्रम् - मित्रभेदः १-५०
    3. प्रथमम् तन्त्रम् - मित्रभेदः ५१-१००
    4. प्रथमम् तन्त्रम् - मित्रभेदः १०१-१५०
    5. प्रथमम् तन्त्रम् - मित्रभेदः १५१-२००
    6. प्रथमम् तन्त्रम् - मित्रभेदः २०१-२५०
    7. प्रथमम् तन्त्रम् - मित्रभेदः २५१-३००
    8. प्रथमम् तन्त्रम् - मित्रभेदः ३०१-३५०
    9. प्रथमम् तन्त्रम् - मित्रभेदः ३५१-४००
    10. प्रथमम् तन्त्रम् - मित्रभेदः ४०१-४५०
    11. प्रथमम् तन्त्रम् - मित्रभेदः ४५१-४६१
    12. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १-५०
    13. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः ५१-१००
    14. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०
    15. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६
    16. तृतीयम् तन्त्रम् - काकोलूकीयम् १-५०
    17. तृतीयम् तन्त्रम् - काकोलूकीयम् ५१-१००
    18. तृतीयम् तन्त्रम् - काकोलूकीयम् १०१-१५०
    19. तृतीयम् तन्त्रम् - काकोलूकीयम् १५१-२००
    20. तृतीयम् तन्त्रम् - काकोलूकीयम् २०१-२५०
    21. तृतीयम् तन्त्रम् - काकोलूकीयम् २५१-२६०
    22. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०
    23. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४
    24. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् १-५०
    25. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् ५१-९८
  2. पन्चतंत्र (hindi wikipedia)
  3. पंचतंत्र (हिन्दी में)]
  4. हितोपदेशम्

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=पञ्चतन्त्रम्_०५&oldid=112800" इत्यस्माद् पुनः प्राप्तिः