कौषीतकिब्राह्मणम्/अध्यायः ०८

विकिस्रोतः तः
← अध्यायः ०७ कौषीतकिब्राह्मणम्
अध्यायः ०८
[[लेखकः :|]]
अध्यायः ०९ →
सोमयागः



८.१ आतिथ्यमहत्त्वं सोमस्यातिथ्यम् (अग्निमन्थनम्)
आतिथ्येन ह वै देवा द्विपदश् च चतुष्पतश् च पशुना आपुः । तथो एव एतद् यजमान आतिथ्येन एव द्विपदश् च चतुष्पदश् च पशुना आप्नोति । आसन्ने हविष्य आतिथ्ये अग्निम् मन्थन्ति । शिरो वा एतद् यज्ञस्य यद् आतिथ्यम् । प्राणो अग्निः । शीर्षंस् तत् प्राणम् दधाति । द्वादश अग्नि मन्थनीया अन्वाह । द्वादश वै मासाः संवत्सरः । संवत्सरस्य एव आप्त्यै । अभि त्वा देव सवितर् इति सावित्रीम् प्रथमाम् अन्वाह । सवितृ प्रसूततायै । सवितृ प्रसूतस्य ह वै न काचन रिष्टिर् भवत्य् अरिष्ट्यै । मही द्यौः पृथिवी च न इति द्यावा पृथिवीयाम् अन्वाह । प्रतिष्ठे वै द्यावा पृथिवी प्रतिष्ठित्या एव । त्वाम् अग्ने पुष्कराद् अधि इति[१] मथितवन्तम् तृचम् मथ्यमानाय अन्वाह । उत ब्रुवन्तु जन्तव इति[२] जातवतीम् जाताय । आ यम् हस्ते न खादिनम् इति [३]हस्तवतीम् हस्तेन धार्यमाणाय । प्र देवम् देव वीतय इति[४] प्रवतीम् प्रह्रियमाणाय । आ जातम् जात वेदसि इत्य् [५]आवतीम् आहूयमानाय । अग्निना अग्निः समिध्यते[६] त्वम् ह्य् अग्ने अग्निना इति[७] समिद्धवत्यौ समिध्यमानाय । तम् मर्जयन्त सुक्रतुम् इति [८]परिदधाति स्वेषु क्षयेषु वाजिनम् इत्य् अन्तवत्या । अन्तो वै क्षयः । अन्तः परिधानीया । अन्ते अन्तम् दधाति ।

८.२ सोमातिथ्यस्य समाप्तिः
एतया न्व् अत्र च चातुर्मास्येषु च । त्रिः प्रथमया त्रिर् उत्तमया षोडश सम्पद्यन्ते । (सोम अग्नि मन्थन) षोडश कलम् वा इदम् सर्वम् । अस्य एव सर्वस्य आप्त्यै । अथ यत्र पशुर् आलभ्यते । (सोम अग्नि मन्थन) तद् एताम् पराचीम् अनूच्य यज्ञेन यज्ञम् अयजन्त देवा इति त्रिष्टुभा परिदधाति । (सोम अग्नि मन्थन) त्रैष्टुभाः पशवः पशूनाम् एव आप्त्यै । त्रिः प्रथमया त्रिर् उत्तमया सप्तदश सम्पद्यन्ते । (सोम अग्नि मन्थन) सप्तदशो वै प्रजापतिः । एतद् वा आर्ध्नुकम्(आर्धुकम्) कर्म यत् प्रजापति सम्मितम् । (सोम अग्नि मन्थन) सप्तदश सामिधेनीर् अन्वाह । सप्तदशो वै प्रजापतिः । एतद् वा आर्ध्नुकम्(आर्धुकम्) कर्म यत् प्रजापति सम्मितम् । (सोम आतिथ्य इष्टि) वार्त्रघ्नाव् आज्य भागौ भवतः पाप्मन एव वधाय । अथो ह अस्य पौर्णमासात् तन्त्राद् अनितम् भवति । (सोम आतिथ्य इष्टि) अतिथिमन्तौ ह एके कुर्वन्ति । वार्त्रघ्नौ त्व् एव स्थितौ । ऋग् याज्यौ स्याताम् इति ह एक आहुः । (सोम आतिथ्य इष्टि) ऋग् याज्या वा एता देवता उपसत्सु भवन्ति इति वदन्तः । जुषाण याज्यौ त्व् एव स्थितौ । (सोम आतिथ्य इष्टि) सोमम् सन्तम् विष्णुर् इति यजति । तद् यद् एव इदम् क्रीतो विशति इव । तद् उ ह एव अस्य वैष्णवम् रूपम् । यद् व् एव सोमम् सन्तम् विष्णुर् इति यजति । (सोम आतिथ्य इष्टि) अत्ता एव एतेन नाम्ना यद् विष्णुर् इति । आद्यो अमुना यत् सोम इति । (सोम आतिथ्य इष्टि) तस्मात् सोम इति वदन्तो जुह्वत्य् एवम् भक्षयन्ति । त्रिष्टुभौ हविषो याज्या पुरोनुवाक्ये । बलम् वै वीर्यम् त्रिष्टुप् । बलम् एव तद् वीर्यम् यजमाने दधाति । (सोम आतिथ्य इष्टि) होतारम् चित्र रथम् अध्वरस्य यस् त्वा स्वश्वः सुहिरण्यो अग्न इति सम्याज्ये अतिथिमत्यौ रथवत्यौ त्रिष्टुभाव् आग्नेय्यौ । (सोम आतिथ्य इष्टि) तद् यथा चतुः समृद्धम् एवम् त । उपमानुक उ एव एनम् रथो भवति य एते कुरुते । (सोम आतिथ्य इष्टि) इडा अन्तम् भवति । अभिक्रान्त्यै तद् रूपम् । तद् यथा उपप्रयाय स्वर्गस्य लोकस्य नेदीयस्तायाम् वसेद् एवम् तत् । (सोम आतिथ्य इष्टि) उपांशु हविषि एता इष्टयो भवन्ति दीक्षणीया प्रायणीया आतिथ्य्य उपसदः । (सोम आतिथ्य इष्टि) रेतः सिक्तिर् वा एता इष्टयः । उपांशु वै रेतः सिच्यते । उत्सृजन्तः कर्माणि यन्ति । (सोम आतिथ्य इष्टि) पत्नी सम्याज अन्ता दीक्षणीया । शम्य्वन्ता प्रायणीया । इडा अन्ता आतिथ्या । (सोम आतिथ्य इष्टि) देवता उपसत्सु प्रतियजति । उत्सर्गम् वै प्रजापतिर् एतैर् कर्मभिः स्वर्गंल् लोकम् ऐत् । (सोम आतिथ्य इष्टि) तथो एव एतद् यजमान उत्सर्गम् एव एतैः कर्मभिः स्वर्गंल् लोकम् एति । (सोम आतिथ्य इष्टि)

८.३ प्रवर्ग्ये महावीरमहत्त्वम्
शिरो वा एतद् यज्ञस्य यन् महा वीरः । तन् न प्रथम यज्ञे प्रवृञ्ज्यात् । उपनामुक उ एव एनम् उत्तरो यज्ञो भवति यः प्र्थम यज्ञे न प्रवृणक्ति । कामम् तु यो अनूचानः श्रोत्रियः स्यात् तस्य प्रवृञ्ज्यात् । आत्मा वै स यज्ञस्य । आत्मना एव तद् यज्ञम् समर्धयति । तद् असौ वै महा वीरो यो असौ तपति । एतम् एव तत् प्रीणाति । तम् एक शतेन अभिष्टुयात् । शत योजने ह वा एष हितस् तपति । स शतेन एव एनम् शत योजनम् अध्वानम् समश्नुते । अथ या एक शततमी स यजमान लोकः । तम् एतम् आत्मानम् यजमा नो अभिसम्भवति । यम् एतम् आदित्ये पुरुषम् वेदयन्ते । स इन्द्रः स प्रजापतिस् तद् ब्रह्म । तद् अत्र एव यजमानः सर्वासाम् देवतानाम् सलोकताम् सायुज्यम् आप्नोति । अनवानम् अभिष्टुयात् प्राणानाम् संतत्यै । संतता इव हि इमे प्राणाः । उच्चैर् निरुक्तम् अभिष्टुयात् । प्राणा वै स्तुभः । निरुक्तो ह्य् एषः । वाग् देवत्यो ह्य् एषः । सावित्रीः प्रथमा अभिष्टौति । सवितृ प्रसूततायै । सवितृ प्रसूतस्य ह वै न काचन रिष्टिर् भवत्य् अरिष्ट्यै ।

८.४ मन्त्राणां पूर्वभागः
ब्रह्म जज्ञानम् प्रथमम् पुरस्ताद् इति । अदो वै ब्रह्म जज्ञानम् प्रथमम् पुरस्ताद् । यत्र असौ तपति । तद् एव तद् यजमानम् दधाति । अञ्जन्ति यम् प्रथयन्तो न विप्राः संसीदस्व महान् असि इत्य् अक्तवतीम् च सन्नवतीम् च अभिरूपे अभिष्टौति । भवा नो अग्ने सुमना उपेतौ तपो ष्व् अग्ने अन्तराम् अमित्रान् यो नः सनुत्यो अभिदासद् अग्न इति तिस्रस् तपस्वतीर् अभिरूपा अभिष्टौति । यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै । कृणुष्व पाजः प्रसितिम् न पृथ्वीम् इति राक्षोघ्नीर् अभिष्टौति राक्षसाम् अपहत्यै । अग्निर् वै रक्षसाम् अपहन्ता । ता वै पञ्च भवन्ति दिशाम् रूपेण । दिग्भ्य एव एतानि सन्निर्हन्ति । अथो यान् एव अध्वर्युः प्रादेशान् अभिमिमीते तान् एव एताभिर् अनुवदति । परि त्वा गिर्वणो गिरो अधि द्वयोर् अदधा उक्थ्यम् वच इत्य् ऐन्द्र्याव् अभिरूपे अभिष्टौति । ऐन्द्रम् एव स्वाहा कारम् एताभ्याम् अनुवदति । अथो यान् एव अध्वर्युः शकलान् परिचिनोति तान् पूर्वया अनुवदति । यम् उत्तमम् अभि निदधाति तम् उत्तरया । शुक्रम् ते अन्यद् यजतम् ते अन्यद् अर्हन् बिभर्ति सायकानि धन्वा इति पौष्णीम् च रौद्रीम् च अभिरूपे अभिष्टौति । पौष्णम् च एव रौद्रम् च स्वाहा कारम् एताभ्याम् अनुवदति । अथो याव् एव अध्वर्युः सुवर्ण रजतौ हिरण्य शकलौ करोति ताव् एव एताभ्याम् अनुवदति । पतङ्गम् अक्तम् असुरस्य मायया इति । प्राणो वै पतङ्गः । वायुर् वै प्राणः । वायव्यम् एव स्वाहा कारम् एताभिर् अनुवदति । अपश्यम् त्वा मनसा चेकितानम् इत्य् एतद् अस्य आयतने प्रजा कामस्य अहिष्टुयात् । अथो उभे असम्पन्न कारी ।

८.५ मन्त्राणां पूर्वभागः
स्रक्वे द्रप्सस्य धमतः समस्वरन्न् इति सर्वम् । पवित्रम् ते विततम् ब्रह्मणस्पत इति द्वे । वि यत् पवित्रम् धिषणा अतन्वत इत्य् एका । ता द्वादश पावमान्यः । सौम्यम् एव स्वाहा कारम् एताभिर् अनुवदति । अयम् वेनश् चोदयत् पृश्नि गर्भा इति । इन्द्रो वै वेनः । ऐन्द्रम् एव स्वाहा कारम् एताभिर् अनुवदति । तस्य एकाम् उत्सृजति नाके सुपर्णम् उप यत् पतन्तम् इति । सो अयम् आत्मनो अतीकाशः । ताम् उत्तरासु करोति । तेन उ सा आनन्तरिता भवति । उभयतो वेनम् पापोक्तस्य पावमानीर् अभिष्टुयात् । आत्मा वै वेनः । पवित्रम् पावमान्यः । पुनात्य् एव एनम् तत् । गणानाम् त्वा गण पतिम् हवामह इति ब्राह्मणस्पत्या अभिरूपा अभिष्टौति । शिरो वा एतत् । ब्रह्म वै ब्रह्मणस्पतिः । ब्रह्मणा एव तत् शिरः समर्धयति । स यत्र उपाधिगच्छेद् बृहद् वदेम विदथे सुवीरा इति । तद् वीर कामायै वीरम् ध्यायात् । लभते ह वीरम् । का राधद्द् होत्रा अश्विना वाम् इति नव अकुध्रीच्यः । गायत्रच् छन्दस इव वा अकूध्रीच्यः । गायत्र उ वै प्राणः । प्राणो वै अकूध्रीच्यः । आ नो विश्वाभिर् ऊतिभिर् इत्य् आनुष्टुभम् तृचम् सा वाक् । विष्णुर् योनिम् कल्पयत्व् इत्य् एतद् अस्य आयतने प्रजा कामस्य अभिष्टुयात् । अथो उभे असम्पन्न कारी ।

८.६ मन्त्राणांं पूर्वभागः
प्रातर् यावाणा प्रथमा यजध्वम् इति पूर्वाह्णे सूक्तम् । आ भात्य् अग्निर् उषसाम् अनीकम् इत्य् अपराह्णे । त्रैष्टुभे पञ्चर्चे तच् चक्षुः । ईडे द्यावा पृथिवी पूर्व चित्तय इति जागतम् पञ्चविंशम् तत् श्रोत्रम् । शिरो वा एतत् । तद् वै शिरः समृद्धम् यस्मिन् प्राणो वाक् चक्षुः श्रोत्रम् इति । तान् एव अस्मिंस् तद् दधाति । रुचितो घर्म इत्य् उक्ते अरूरुचद् उषसः पृश्निर् अग्रिय इति रुचितवतीम् अभिरूपाम् अभिष्टौति । यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै । ता एक शत ऋचो भवन्ति तासाम् उक्तम् ब्राह्मणम् । त्रयस् त्रिंशद् उत्तराः । त्रयस् त्रिंशद् वै सर्वा देवताः । ता एव एतद् उद्यन्तुम् अर्हन्ति । ताभ्यो वै तत् समुन्नीतम् ।

८.७ मन्त्राणां उत्तरभागः
अभिरूपा दोहनीया(अभिरूपादोहवनीया) अभिष्टौति । यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै । आ सुते सिञ्चत श्रियम् आ नूनम् अश्विनोर् ऋषिर् इत्य् आसिक्तवत्याव् अभिरूपे अभिष्टौति । उद् उ ष्य देवः सविता हिरण्यया इत्य् उद्यम्यमान उद्यतवतीम् अभिरूपाम् अभिष्टौति । प्रैतु ब्रह्मणस्पतिर् इति प्रव्रजत्सु प्रवतीम् ब्राह्मणस्पत्याम् अभिरूपाम् अभिष्टौति । नाके सुपर्णम् उप यत् पतन्तम् इति व्रजत्सु पतन्तम् इत्य् अभिरूपाम् अभिष्टौति । द्वाभ्याम् यजेत् । द्वन्द्वम् वै वीर्यम् सवीर्यतायै । त्रिष्टुब्वतीभ्याम् पूर्व अह्णे । त्रैष्टुभो ह्य् एषः । त्रींल् लोकाम् स्तब्ध्वा तिष्ठति । जगद्वतीभ्याम् अपर अह्णे । जागतो ह्य् एषः । एतम् उ ह विशन्तम् जगद् अनु सर्वम् विशति । विपर्यस्य दाशतयीभ्याम् वषट् कुर्याद् इति ह एक आहुः । यथा आम्नातम् इति त्व् एव स्थितम् । अथ उत्तरा अभिरूपा अभिष्टौति । यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै । हविर् हविष्मो महि सद्म दैव्यम् इति पुरा आहुतेः प्रापणात् । पुनर् हविषम् एव एनम् तद् अयात यामानम् करोति । सूयवसाद् भगवती हि भूया इत्य् आशीर्वत्या परिदधाति । पशुभ्य एव तद् आशिषम् वदते । तथा ह यजमानात्पशवो अनुत्क्रामुका भवन्ति । अथ वै सुते प्रवर्ग्ये इत्य् आचक्षते स्तुते बहिष् पवमाने । तद् अश्विनौ देवा उपाह्वयन्त । एतस्मिन् काले आग्नीध्रिये प्रवृञ्ज्युः । तद् यथा एव अद उपसत्सु । एवम् एव अप्य् अत्र स्तुत्यायाम् । अनवानम् एव उपचारः । तद् यदा कर्म अपवृज्येत । अथ पशु कर्म तायते । स एष महा वीरो मध्यंदिन उत्सर्गः । तद् यद् एतेन मध्यंदिने प्रचरन्ति । असौ वै महा वीरो यो असौ तपति । एतम् एव तत् प्रीणाति । एतस्य एव तद् रूपम् क्रियते ।

८.८ उपसदः
उपसदः । असुरा एष लोकेषु पुरो अकुर्वत । अयस्मयीम् अस्मिन् । रजताम् अन्तरिक्ष लोके । हरिणीम् हादो दिवि चक्रिरे । ते देवाः परिश्रितेष्व् एषु लोकेष्व् एतम् पञ्चदशम् वज्रम् अपश्यन् । तिस्रः सामिधेन्यः समनूक्ता नव सम्पद्यन्ते । षड् याज्या पुरोनुवाक्याः । ताः पञ्चदश । एतेन वै देवाः पञ्चदशेन वज्रेण एभ्यो लोकेभ्यो असुरान् अनुदन्त । तथो एव एतद् यजमान एतेन एव पञ्चदशेन वज्रेण एभ्यो लोकेभ्यो द्विषतो भ्रातृव्यान् नुदते । उपसद्याय मीढुषे इत्य् एतम् तृचम् पूर्व अह्णे अनुब्रूयात् । उपसदो ह्य् एताः । तद् वै कर्म समृद्धम् यत् प्रथमेन अभिव्याह्रियते । उपसद्यम् इव वा एतद् अहर् अमुना आदित्येन भवति इति । (सोम उपसदः) इमाम् मे अग्ने समिधम् इत्य् अपर अह्णे तद् रात्रे रूपम् । समिद्धम् इव वा इमम् अग्निम् सायम् पर्यासत इति । अथ द्वितीये अहनि । इमाम् मे अग्ने समिधम् इति पूर्व अह्णे तद् अह्नो रूपम् । समिद्धम् इव वा एतद् अहर् अमुना आदित्येन भवति इति । उपसद्याय मीढुष इत्य् अपर अह्णे तद् रात्रे रूपम् । उपसद्यम् इव वा इमम् अग्निम् सायम् पर्यासत इति । ते वा उभे एव रूपे यज् ज्ञायेते । तस्माद् अहर् अहर् विपर्यासम् अनुब्रूयात् । उभे रूपे कामा उपाप्ताव् असताम् इति । अनवानम् अनुब्रूयात् प्राणानाम् संतत्यै । संतता इव हि इमे प्राणाः । त्रिस् त्रिर् एक एकाम् अन्वाह । त्रयो वा इमे लोकाः । इमान् एव तल् लोकान् आप्नोति । ताः समनूक्ता नव सम्पद्यन्ते । षड् वा ऋतवस् त्रय इमे लोकाः । एतद् एव तद् अभिसम्पद्यन्ते । न एतम् निगदम् ब्रूयाद् य एष सामिधेनीषु । उत्सृज्यन्ते ह निगदाः । जामि ह स्याद् य एतम् निगदम् ब्रूयात् । न आवाहयेच् चन इति ह एक आहुः । किम् उ देवताम् अन्वावाह्य जयेद् इति । ऋच एव आवाहयेत् । अग्निम् आवह सोमम् आवह विष्णुम् आवह इति । ता वै तिस्रो देवता यजति । त्रयो वा इमे लोकाः । इमान् एव तल् लोकान् ज्योतिष्मतः करोति ।

८.९ उपसदः मन्त्राः
गायत्र्या वा आग्नेय्यौ । गायत्रो अयंल् लोकः । तद् इमंल् लोकम् आप्नोति । त्रिष्टुभौ सौम्यौ । त्रैष्टुभो अन्तरिक्ष लोकः । तद् अन्तरिक्ष लोकम् आप्नोति । जगत्यौ वैष्णव्यौ । जागतो असौ लोकः । तद् अमुंल् लोकम् आप्नोति । ता वै विपर्यस्यति । याः पूर्व अह्णे पुरोनुवाक्यास् ता अपर अह्णे याज्याः करोति । या याज्यास् ताः पुरोनुवाक्याः । अयात यामतायै । वषट् कारेण ह वा ऋग् यात यामा भवति समाने अहन् । अयात यामाभिर् मे वषट्कृतम् असद् इति । यद् व् एव विपर्यस्यति ग्रीवाणाम् स्थेम्ने । तस्माद्द् ह आसाम् ग्रीवाणाम् व्यतिषक्तानि इव पर्वाणि भवन्ति । आज्य हविषो देवताः । पयो व्रतो यजमानः । तत् सलोम । ताः परोवरीयसीर् अभ्युपेयात् त्रीन् अग्रे स्तनान् अथ द्वाव् अथ एकम् । परस्पर एव तल् लोकान् वरीयसः कुरुते । न अभ्युन्नयेत । स्वर्गम् ह वा एते लोकम् अभिप्रयन्ति य उपसद उपयन्ति । द्वादशो ह वा अन्तर् उष्यात् स्वर्गो लोकः । स यः सकृद् अभ्युन्नयते । यथा एक रात्रम् सार्थान् प्रोषितान् अनुप्रेयाद् एवम् तत् । यो द्वितीयम् । यथा द्वि रात्रम् एवम् तत् । हीयते तृतीयेन । स्वर्गांल् लोकान् न अन्वश्नुते । अप्य् अनुगच्छेद् इति ह स्म आह पैङ्ग्यः । न त्व् एव अभ्युन्नयेत । यत्र एव कामयेत । तत् पूर्वो गत्वा स्वर्गस्य एव लोकस्य अवस्येद् इति । समाप्तिः श्रेयसी इति ह स्म आह कषीतकिः । संराजो भक्षो अस्मै दध्य् आनयेयुर् न व्रते । सोमो वै दधि । अनन्तर्हितौ ह अस्य भक्षो भवति समाप्नोति । उत यदि संक्रीणीयुः । या मध्यम उपसत् । तया द्व्यहम् अन्यतरे चरेयुः । आवपनम् हि सा । इदम् अन्तरिक्ष लोक आयतनेन । अथ असमरम् अभ्युदैत्य् अथ असमरम् अभ्युदैति ।


८.१ आतिथ्यमहत्त्वं सोमस्यातिथ्यम्
आतिथ्येन ह वै देवा द्विपदश् च चतुष्पतश् च पशुना आपुः ।
तथो एव एतद् यजमान आतिथ्येन एव द्विपदश् च चतुष्पदश् च पशुना आप्नोति । (सोम अग्नि मन्थन)
आसन्ने हविष्य आतिथ्ये अग्निम् मन्थन्ति ।
शिरो वा एतद् यज्ञस्य यद् आतिथ्यम् । (सोम अग्नि मन्थन)
प्राणो अग्निः ।
शीर्षंस् तत् प्राणम् दधाति ।
द्वादश अग्नि मन्थनीया अन्वाह । (सोम अग्नि मन्थन)
द्वादश वै मासाः संवत्सरः ।
संवत्सरस्य एव आप्त्यै ।
अभि त्वा देव सवितर् इति सावित्रीम् प्रथमाम् अन्वाह । (सोम अग्नि मन्थन)
सवितृ प्रसूततायै ।
सवितृ प्रसूतस्य ह वै न काचन रिष्टिर् भवत्य् अरिष्ट्यै । (सोम अग्नि मन्थन)
मही द्यौः पृथिवी च न इति द्यावा पृथिवीयाम् अन्वाह ।
प्रतिष्ठे वै द्यावा पृथिवी प्रतिष्ठित्या एव । (सोम अग्नि मन्थन)
त्वाम् अग्ने पुष्कराद् अधि इति मथितवन्तम् तृचम् मथ्यमानाय अन्वाह । (सोम अग्नि मन्थन)
उत ब्रुवन्तु जन्तव इति जातवतीम् जाताय ।
आ यम् हस्ते न खादिनम् इति हस्तवतीम् हस्तेन धार्यमाणाय । (सोम अग्नि मन्थन)
प्र देवम् देव वीतय इति प्रवतीम् प्रह्रियमाणाय ।
आ जातम् जात वेदसि इत्य् आवतीम् आहूयमानाय । (सोम अग्नि मन्थन)
अग्निना अग्निः समिध्यते त्वम् ह्य् अग्ने अग्निना इति समिद्धवत्यौ समिध्यमानाय । (सोम अग्नि मन्थन)
तम् मर्जयन्त सुक्रतुम् इति परिदधाति स्वेषु क्षयेषु वाजिनम् इत्य् अन्तवत्या । (सोम अग्नि मन्थन)
अन्तो वै क्षयः ।
अन्तः परिधानीया ।
अन्ते अन्तम् दधाति । (सोम अग्नि मन्थन)

८.२ सोमातिथ्यस्य समाप्तिः
एतया न्व् अत्र च चातुर्मास्येषु च ।
त्रिः प्रथमया त्रिर् उत्तमया षोडश सम्पद्यन्ते । (सोम अग्नि मन्थन)
षोडश कलम् वा इदम् सर्वम् ।
अस्य एव सर्वस्य आप्त्यै ।
अथ यत्र पशुर् आलभ्यते । (सोम अग्नि मन्थन)
तद् एताम् पराचीम् अनूच्य यज्ञेन यज्ञम् अयजन्त देवा इति त्रिष्टुभा परिदधाति । (सोम अग्नि मन्थन)
त्रैष्टुभाः पशवः पशूनाम् एव आप्त्यै ।
त्रिः प्रथमया त्रिर् उत्तमया सप्तदश सम्पद्यन्ते । (सोम अग्नि मन्थन)
सप्तदशो वै प्रजापतिः ।
एतद् वा आर्ध्नुकम्(आर्धुकम्) कर्म यत् प्रजापति सम्मितम् । (सोम अग्नि मन्थन)
सप्तदश सामिधेनीर् अन्वाह ।
सप्तदशो वै प्रजापतिः ।
एतद् वा आर्ध्नुकम्(आर्धुकम्) कर्म यत् प्रजापति सम्मितम् । (सोम आतिथ्य इष्टि)
वार्त्रघ्नाव् आज्य भागौ भवतः पाप्मन एव वधाय ।
अथो ह अस्य पौर्णमासात् तन्त्राद् अनितम् भवति । (सोम आतिथ्य इष्टि)
अतिथिमन्तौ ह एके कुर्वन्ति ।
वार्त्रघ्नौ त्व् एव स्थितौ ।
ऋग् याज्यौ स्याताम् इति ह एक आहुः । (सोम आतिथ्य इष्टि)
ऋग् याज्या वा एता देवता उपसत्सु भवन्ति इति वदन्तः ।
जुषाण याज्यौ त्व् एव स्थितौ । (सोम आतिथ्य इष्टि)
सोमम् सन्तम् विष्णुर् इति यजति ।
तद् यद् एव इदम् क्रीतो विशति इव ।
तद् उ ह एव अस्य वैष्णवम् रूपम् ।
यद् व् एव सोमम् सन्तम् विष्णुर् इति यजति । (सोम आतिथ्य इष्टि)
अत्ता एव एतेन नाम्ना यद् विष्णुर् इति ।
आद्यो अमुना यत् सोम इति । (सोम आतिथ्य इष्टि)
तस्मात् सोम इति वदन्तो जुह्वत्य् एवम् भक्षयन्ति ।
त्रिष्टुभौ हविषो याज्या पुरोनुवाक्ये ।
बलम् वै वीर्यम् त्रिष्टुप् ।
बलम् एव तद् वीर्यम् यजमाने दधाति । (सोम आतिथ्य इष्टि)
होतारम् चित्र रथम् अध्वरस्य यस् त्वा स्वश्वः सुहिरण्यो अग्न इति सम्याज्ये अतिथिमत्यौ रथवत्यौ त्रिष्टुभाव् आग्नेय्यौ । (सोम आतिथ्य इष्टि)
तद् यथा चतुः समृद्धम् एवम् त ।
उपमानुक उ एव एनम् रथो भवति य एते कुरुते । (सोम आतिथ्य इष्टि)
इडा अन्तम् भवति ।
अभिक्रान्त्यै तद् रूपम् ।
तद् यथा उपप्रयाय स्वर्गस्य लोकस्य नेदीयस्तायाम् वसेद् एवम् तत् । (सोम आतिथ्य इष्टि)
उपांशु हविषि एता इष्टयो भवन्ति दीक्षणीया प्रायणीया आतिथ्य्य उपसदः । (सोम आतिथ्य इष्टि)
रेतः सिक्तिर् वा एता इष्टयः ।
उपांशु वै रेतः सिच्यते ।
उत्सृजन्तः कर्माणि यन्ति । (सोम आतिथ्य इष्टि)
पत्नी सम्याज अन्ता दीक्षणीया ।
शम्य्वन्ता प्रायणीया ।
इडा अन्ता आतिथ्या । (सोम आतिथ्य इष्टि)
देवता उपसत्सु प्रतियजति ।
उत्सर्गम् वै प्रजापतिर् एतैर् कर्मभिः स्वर्गंल् लोकम् ऐत् । (सोम आतिथ्य इष्टि)
तथो एव एतद् यजमान उत्सर्गम् एव एतैः कर्मभिः स्वर्गंल् लोकम् एति । (सोम आतिथ्य इष्टि)

८.३ प्रवर्ग्ये महावीरमहत्त्वम्
शिरो वा एतद् यज्ञस्य यन् महा वीरः ।
तन् न प्रथम यज्ञे प्रवृञ्ज्यात् ।
उपनामुक उ एव एनम् उत्तरो यज्ञो भवति यः प्र्थम यज्ञे न प्रवृणक्ति ।
कामम् तु यो अनूचानः श्रोत्रियः स्यात् तस्य प्रवृञ्ज्यात् ।
आत्मा वै स यज्ञस्य ।
आत्मना एव तद् यज्ञम् समर्धयति ।
तद् असौ वै महा वीरो यो असौ तपति ।
एतम् एव तत् प्रीणाति ।
तम् एक शतेन अभिष्टुयात् ।
शत योजने ह वा एष हितस् तपति ।
स शतेन एव एनम् शत योजनम् अध्वानम् समश्नुते ।
अथ या एक शततमी स यजमान लोकः ।
तम् एतम् आत्मानम् यजमा नो अभिसम्भवति ।
यम् एतम् आदित्ये पुरुषम् वेदयन्ते ।
स इन्द्रः स प्रजापतिस् तद् ब्रह्म ।
तद् अत्र एव यजमानः सर्वासाम् देवतानाम् सलोकताम् सायुज्यम् आप्नोति ।
अनवानम् अभिष्टुयात् प्राणानाम् संतत्यै ।
संतता इव हि इमे प्राणाः ।
उच्चैर् निरुक्तम् अभिष्टुयात् ।
प्राणा वै स्तुभः ।
निरुक्तो ह्य् एषः ।
वाग् देवत्यो ह्य् एषः ।
सावित्रीः प्रथमा अभिष्टौति ।
सवितृ प्रसूततायै ।
सवितृ प्रसूतस्य ह वै न काचन रिष्टिर् भवत्य् अरिष्ट्यै ।

८.४ मन्त्राणां पूर्वभागः
ब्रह्म जज्ञानम् प्रथमम् पुरस्ताद् इति ।
अदो वै ब्रह्म जज्ञानम् प्रथमम् पुरस्ताद् ।
यत्र असौ तपति ।
तद् एव तद् यजमानम् दधाति ।
अञ्जन्ति यम् प्रथयन्तो न विप्राः संसीदस्व महान् असि इत्य् अक्तवतीम् च सन्नवतीम् च अभिरूपे अभिष्टौति ।
भवा नो अग्ने सुमना उपेतौ तपो ष्व् अग्ने अन्तराम् अमित्रान् यो नः सनुत्यो अभिदासद् अग्न इति तिस्रस् तपस्वतीर् अभिरूपा अभिष्टौति ।
यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै ।
कृणुष्व पाजः प्रसितिम् न पृथ्वीम् इति राक्षोघ्नीर् अभिष्टौति राक्षसाम् अपहत्यै ।
अग्निर् वै रक्षसाम् अपहन्ता ।
ता वै पञ्च भवन्ति दिशाम् रूपेण ।
दिग्भ्य एव एतानि सन्निर्हन्ति ।
अथो यान् एव अध्वर्युः प्रादेशान् अभिमिमीते तान् एव एताभिर् अनुवदति ।
परि त्वा गिर्वणो गिरो अधि द्वयोर् अदधा उक्थ्यम् वच इत्य् ऐन्द्र्याव् अभिरूपे अभिष्टौति ।
ऐन्द्रम् एव स्वाहा कारम् एताभ्याम् अनुवदति ।
अथो यान् एव अध्वर्युः शकलान् परिचिनोति तान् पूर्वया अनुवदति ।
यम् उत्तमम् अभि निदधाति तम् उत्तरया ।
शुक्रम् ते अन्यद् यजतम् ते अन्यद् अर्हन् बिभर्ति सायकानि धन्वा इति पौष्णीम् च रौद्रीम् च अभिरूपे अभिष्टौति ।
पौष्णम् च एव रौद्रम् च स्वाहा कारम् एताभ्याम् अनुवदति ।
अथो याव् एव अध्वर्युः सुवर्ण रजतौ हिरण्य शकलौ करोति ताव् एव एताभ्याम् अनुवदति ।
पतङ्गम् अक्तम् असुरस्य मायया इति ।
प्राणो वै पतङ्गः ।
वायुर् वै प्राणः ।
वायव्यम् एव स्वाहा कारम् एताभिर् अनुवदति ।
अपश्यम् त्वा मनसा चेकितानम् इत्य् एतद् अस्य आयतने प्रजा कामस्य अहिष्टुयात् ।
अथो उभे असम्पन्न कारी ।

८.५ मन्त्राणां पूर्वभागः
स्रक्वे द्रप्सस्य धमतः समस्वरन्न् इति सर्वम् ।
पवित्रम् ते विततम् ब्रह्मणस्पत इति द्वे ।
वि यत् पवित्रम् धिषणा अतन्वत इत्य् एका ।
ता द्वादश पावमान्यः ।
सौम्यम् एव स्वाहा कारम् एताभिर् अनुवदति ।
अयम् वेनश् चोदयत् पृश्नि गर्भा इति ।
इन्द्रो वै वेनः ।
ऐन्द्रम् एव स्वाहा कारम् एताभिर् अनुवदति ।
तस्य एकाम् उत्सृजति नाके सुपर्णम् उप यत् पतन्तम् इति ।
सो अयम् आत्मनो अतीकाशः ।
ताम् उत्तरासु करोति ।
तेन उ सा आनन्तरिता भवति ।
उभयतो वेनम् पाप उक्तस्य (?) पावमानीर् अभिष्टुयात् ।
आत्मा वै वेनः ।
पवित्रम् पावमान्यः ।
पुनात्य् एव एनम् तत् ।
गणानाम् त्वा गण पतिम् हवामह इति ब्राह्मणस्पत्या अभिरूपा अभिष्टौति ।
शिरो वा एतत् ।
ब्रह्म वै ब्रह्मणस्पतिः ।
ब्रह्मणा एव तत् शिरः समर्धयति ।
स यत्र उपाधिगच्छेद् बृहद् वदेम विदथे सुवीरा इति ।
तद् वीर कामायै वीरम् ध्यायात् ।
लभते ह वीरम् ।
का राधद्द् होत्रा अश्विना वाम् इति नव अकुध्रीच्यः ।
गायत्रच् छन्दस इव वा अकूध्रीच्यः ।
गायत्र उ वै प्राणः ।
प्राणो वै अकूध्रीच्यः ।
आ नो विश्वाभिर् ऊतिभिर् इत्य् आनुष्टुभम् तृचम् सा वाक् ।
विष्णुर् योनिम् कल्पयत्व् इत्य् एतद् अस्य आयतने प्रजा कामस्य अभिष्टुयात् ।
अथो उभे असम्पन्न कारी ।

८.६ मन्त्राणांं पूर्वभागः
प्रातर् यावाणा प्रथमा यजध्वम् इति पूर्व अह्णे सूक्तम् ।
आ भात्य् अग्निर् उषसाम् अनीकम् इत्य् अपर अह्णे ।
त्रैष्टुभे पञ्चर्चे तच् चक्षुः ।
इडे द्यावा पृथिवी पूर्व चित्तय इति जागतम् पञ्चविंशम् तत् श्रोत्रम् ।
शिरो वा एतत् ।
तद् वै शिरः समृद्धम् यस्मिन् प्राणो वाक् चक्षुः श्रोत्रम् इति ।
तान् एव अस्मिंस् तद् दधाति ।
रुचितो घर्म इत्य् उक्ते अरूरुचद् उषसः पृश्निर् अग्निय इति रुचितवतीम् अभिरूपाम् अभिष्टौति ।
यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै ।
ता एक शत ऋचो भवन्ति तासाम् उक्तम् ब्राह्मणम् ।
त्रयस् त्रिंशद् उत्तराः ।
त्रयस् त्रिंशद् वै सर्वा देवताः ।
ता एव एतद् उद्यन्तुम् अर्हन्ति ।
ताभ्यो वै तत् समुन्नीतम् ।

८.७ मन्त्राणां उत्तरभागः
अभिरूपा दोहनीया(अभिरूपादोहवनीया) अभिष्टौति ।
यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै ।
आ सुते सिञ्चत श्रियम् आ नूनम् अश्विनोर् ऋषिर् इत्य् आसिक्तवत्याव् अभिरूपे अभिष्टौति ।
उद् उ ष्य देवः सविता हिरण्यया इत्य् उद्यम्यमान उद्यतवतीम् अभिरूपाम् अभिष्टौति ।
प्रैतु ब्रह्मणस्पतिर् इति प्रव्रजत्सु प्रवतीम् ब्राह्मणस्पत्याम् अभिरूपाम् अभिष्टौति ।
नाके सुपर्णम् उप यत् पतन्तम् इति व्रजत्सु पतन्तम् इत्य् अभिरूपाम् अभिष्टौति ।
द्वाभ्याम् यजेत् ।
द्वन्द्वम् वै वीर्यम् सवीर्यतायै ।
त्रिष्टुब्वतीभ्याम् पूर्व अह्णे ।
त्रैष्टुभो ह्य् एषः ।
त्रींल् लोकाम् स्तब्ध्वा तिष्ठति ।
जगद्वतीभ्याम् अपर अह्णे ।
जागतो ह्य् एषः ।
एतम् उ ह विशन्तम् जगद् अनु सर्वम् विशति ।
विपर्यस्य दाशतयीभ्याम् वषट् कुर्याद् इति ह एक आहुः ।
यथा आम्नातम् इति त्व् एव स्थितम् ।
अथ उत्तरा अभिरूपा अभिष्टौति ।
यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै ।
हविर् हविष्मो महि सद्म दैव्यम् इति पुरा आहुतेः प्रापणात् ।
पुनर् हविषम् एव एनम् तद् अयात यामानम् करोति ।
सूयवसाद् भगवती हि भूया इत्य् आशीर्वत्या परिदधाति ।
पशुभ्य एव तद् आशिषम् वदते ।
तथा ह यजमानात्पशवो अनुत्क्रामुका भवन्ति ।
अथ वै सुते प्रवर्ग्ये इत्य् आचक्षते स्तुते बहिष् पवमाने ।
तद् अश्विनौ देवा उपाह्वयन्त ।
एतस्मिन् काले आग्नीध्रिये प्रवृञ्ज्युः ।
तद् यथा एव अद उपसत्सु ।
एवम् एव अप्य् अत्र स्तुत्यायाम् ।
अनवानम् एव उपचारः ।
तद् यदा कर्म अपवृज्येत ।
अथ पशु कर्म तायते ।
स एष महा वीरो मध्यंदिन उत्सर्गः ।
तद् यद् एतेन मध्यंदिने प्रचरन्ति ।
असौ वै महा वीरो यो असौ तपति ।
एतम् एव तत् प्रीणाति ।
एतस्य एव तद् रूपम् क्रियते ।

८.८ उपसदः
उपसदः ।
असुरा एष लोकेषु पुरो अकुर्वत ।
अयस्मयीम् अस्मिन् ।
रजताम् अन्तरिक्ष लोके ।
हरिणीम् हादो दिवि चक्रिरे ।
ते देवाः परिश्रितेष्व् एषु लोकेष्व् एतम् पञ्चदशम् वज्रम् अपश्यन् ।
तिस्रः सामिधेन्यः समनूक्ता नव सम्पद्यन्ते ।
षड् याज्या पुरोनुवाक्याः ।
ताः पञ्चदश ।
एतेन वै देवाः पञ्चदशेन वज्रेण एभ्यो लोकेभ्यो असुरान् अनुदन्त ।
तथो एव एतद् यजमान एतेन एव पञ्चदशेन वज्रेण एभ्यो लोकेभ्यो द्विषतो भ्रातृव्यान् नुदते ।
उपसद्याय मीढुषे इत्य् एतम् तृचम् पूर्व अह्णे अनुब्रूयात् ।
उपसदो ह्य् एताः ।
तद् वै कर्म समृद्धम् यत् प्रथमेन अभिव्याह्रियते ।
उपसद्यम् इव वा एतद् अहर् अमुना आदित्येन भवति इति । (सोम उपसदः)
इमाम् मे अग्ने समिधम् इत्य् अपर अह्णे तद् रात्रे रूपम् ।
समिद्धम् इव वा इमम् अग्निम् सायम् पर्यासत इति ।
अथ द्वितीये अहनि ।
इमाम् मे अग्ने समिधम् इति पूर्व अह्णे तद् अह्नो रूपम् ।
समिद्धम् इव वा एतद् अहर् अमुना आदित्येन भवति इति ।
उपसद्याय मीढुष इत्य् अपर अह्णे तद् रात्रे रूपम् ।
उपसद्यम् इव वा इमम् अग्निम् सायम् पर्यासत इति ।
ते वा उभे एव रूपे यज् ज्ञायेते ।
तस्माद् अहर् अहर् विपर्यासम् अनुब्रूयात् ।
उभे रूपे कामा उपाप्ताव् असताम् इति ।
अनवानम् अनुब्रूयात् प्राणानाम् संतत्यै ।
संतता इव हि इमे प्राणाः ।
त्रिस् त्रिर् एक एकाम् अन्वाह ।
त्रयो वा इमे लोकाः ।
इमान् एव तल् लोकान् आप्नोति ।
ताः समनूक्ता नव सम्पद्यन्ते ।
षड् वा ऋतवस् त्रय इमे लोकाः ।
एतद् एव तद् अभिसम्पद्यन्ते ।
न एतम् निगदम् ब्रूयाद् य एष सामिधेनीषु ।
उत्सृज्यन्ते ह निगदाः ।
जामि ह स्याद् य एतम् निगदम् ब्रूयात् ।
न आवाहयेच् चन इति ह एक आहुः ।
किम् उ देवताम् अन्वावाह्य जयेद् इति ।
ऋच एव आवाहयेत् ।
अग्निम् आवह सोमम् आवह विष्णुम् आवह इति ।
ता वै तिस्रो देवता यजति ।
त्रयो वा इमे लोकाः ।
इमान् एव तल् लोकान् ज्योतिष्मतः करोति ।

८.९ उपसदः मन्त्राः
गायत्र्या वा आग्नेय्यौ ।
गायत्रो अयंल् लोकः ।
तद् इमंल् लोकम् आप्नोति ।
त्रिष्टुभौ सौम्यौ ।
त्रैष्टुभो अन्तरिक्ष लोकः ।
तद् अन्तरिक्ष लोकम् आप्नोति ।
जगत्यौ वैष्णव्यौ ।
जागतो असौ लोकः ।
तद् अमुंल् लोकम् आप्नोति ।
ता वै विपर्यस्यति ।
याः पूर्व अह्णे पुरोनुवाक्यास् ता अपर अह्णे याज्याः करोति ।
या याज्यास् ताः पुरोनुवाक्याः ।
अयात यामतायै ।
वषट् कारेण ह वा ऋग् यात यामा भवति समाने अहन् ।
अयात यामाभिर् मे वषट्कृतम् असद् इति ।
यद् व् एव विपर्यस्यति ग्रीवाणाम् स्थेम्ने ।
तस्माद्द् ह आसाम् ग्रीवाणाम् व्यतिषक्तानि इव पर्वाणि भवन्ति ।
आज्य हविषो देवताः ।
पयो व्रतो यजमानः ।
तत् सलोम ।
ताः परोवरीयसीर् अभ्युपेयात् त्रीन् अग्रे स्तनान् अथ द्वाव् अथ एकम् ।
परस्पर एव तल् लोकान् वरीयसः कुरुते ।
न अभ्युन्नयेत ।
स्वर्गम् ह वा एते लोकम् अभिप्रयन्ति य उपसद उपयन्ति ।
द्वादशो ह वा अन्तर् उष्यात् स्वर्गो लोकः ।
स यः सकृद् अभ्युन्नयते ।
यथा एक रात्रम् सार्थान् प्रोषितान् अनुप्रेयाद् एवम् तत् ।
यो द्वितीयम् ।
यथा द्वि रात्रम् एवम् तत् ।
हीयते तृतीयेन ।
स्वर्गांल् लोकान् न अन्वश्नुते ।
अप्य् अनुगच्छेद् इति ह स्म आह पैङ्ग्यः ।
न त्व् एव अभ्युन्नयेत ।
यत्र एव कामयेत ।
तत् पूर्वो गत्वा स्वर्गस्य एव लोकस्य अवस्येद् इति ।
समाप्तिः श्रेयसी इति ह स्म आह कषीतकिः ।
संराजो भक्षो अस्मै दध्य् आनयेयुर् न व्रते ।
सोमो वै दधि ।
अनन्तर्हितौ ह अस्य भक्षो भवति समाप्नोति ।
उत यदि संक्रीणीयुः ।
या मध्यम उपसत् ।
तया द्व्यहम् अन्यतरे चरेयुः ।
आवपनम् हि सा ।
इदम् अन्तरिक्ष लोक आयतनेन ।
अथ असमरम् अभ्युदैत्य् अथ असमरम् अभ्युदैति ।

  1. ऋ. ६.१६.१३-१५
  2. ऋ. १.७४.१३
  3. ऋ. ६.१६.४०
  4. ऋ. ६.१६.४१
  5. ऋ. ६.१६.४२
  6. ऋ. १.१२.६
  7. ऋ. ८.४३.१४
  8. ऋ. ८.८४.८