सामग्री पर जाएँ

उद्धवगीता ६

विकिस्रोतः तः

अथ षड्विंशोऽध्यायः।
श्रीभगवान् उवाच।
मत् लक्षणम् इमं कायं लब्ध्वा मद्धर्मः आस्थितः।
आनन्दं परमात्मानम् आत्मस्थं समुपैति माम्॥१॥

गुणमय्याः जीवयोन्याः विमुक्तः ज्ञाननिष्ठया।
गुणेषु मायामात्रेषु दृश्यमानेषु अवस्तुतः।
वर्तमानः अपि न पुमान् युज्यते अवस्तुभिः गुणैः॥२॥

सङ्गं न कुर्यात् असतां शिश्न उदर तृपां क्वचित्।
तस्य अनुगतः तमसि अन्धे पतति अन्ध अनुगान्धवत्॥३॥

ऐलः सम्राट् इमां गाथाम् अगायत बृहच्छ्रवाः।
उर्वशी विरहात् मुह्यन् निर्विण्णः शोकसंयमे॥४॥

त्यक्त्वा आत्मानं व्रजन्तीं तां नग्नः उन्मत्तवत् नृपः।
विलपन् अन्वगात् जाये घोरे तिष्ठ इति विक्लवः॥५॥

कामान् अतृप्तः अनुजुषन् क्षुल्लकान् वर्षयामिनीः।
न वेद यान्तीः न अयान्तीः उर्वशी आकृष्टचेअतनः॥६॥

ऐलः उवाच।
अहो मे मोहविस्तारः कामकष्मलचेतसः।
देव्याः गृहीतकण्ठस्य न आयुःखण्डाः इमे स्मृताः॥७॥

न अहं वेद अभिनिर्मुक्तः सूर्यः वा अभ्युदितः अमुया।
मुषितः वर्षपूगानां बत अहानि गतानि उत॥८॥

अहो मे आत्मसंमोहः येन आत्मा योषितां कृतः।
क्रीडामृगः चक्रवर्ती नरदेवशिखामणिः॥९॥

सपरिच्छदम् आत्मानं हित्वा तृणम् इव ईश्वरम्।
यान्तीं स्त्रियं च अन्वगमं नग्नः उन्मत्तवत् रुदन्॥१०॥

कुतः तस्य अनुभावः स्यात् तेजः ईशत्वम् एव वा।
यः अन्वगच्छं स्त्रियं यान्तीं खरवत् पादताडितः॥११॥

किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा।
किं विविक्तेन मौनेन स्त्रीभिः यस्य मनः हृतम्॥१२॥

स्वार्थस्य अकोविदं धिङ् मां मूर्खं पण्डित मानिनम्।
यः अहम् ईश्वरतां प्राप्य स्त्रीभिः गो खरवत् जितः॥१३॥

सेवतः वर्षपूगात् मे उर्वश्यः अधरासवम्।
न तृप्यति आत्मभूः कामः वह्निः आहुतिभिः यथा॥१४॥

पुंश्चल्या अपहृतं चित्तं कोन्वन्यः मोचितुं प्रभुः।
आत्मारामेश्वरम् ऋते भगवन्तम् अधोक्षजम्॥१५॥

बोधितस्य अपि देव्या मे सूक्तवाक्येन दुर्मतेः।
मनोगतः महामोहः न अपयाति अजितात्मनः॥१६॥

किम् एतया नः अपकृतं रज्ज्वा वा सर्पचेतसः।
रज्जुस्वरूप अविदुषः यः अहं यत् अजितेन्द्रियः॥१७॥

क्व अयं मलोमसः कायः दौर्गन्धि आदि आत्मकः अशुचिः।
क्व गुणाः सौमनस्य आद्याः हि अध्यासः अविद्यया कृतः॥१८॥

पित्रोः किं स्वं नु भार्यायाः स्वामिनः अग्नेः श्वगृध्रयोः।
किम् आत्मनः किं सुहृदाम् इति यः न अवसीयते॥१९॥

तस्मिन् कलेवरे अमेध्ये तुच्छनिष्ठे विषज्जते।
अहो सुभद्रं सुनसं सुस्मितं च मुखं स्त्रियः॥२०॥

त्वङ् मांस रुधिर स्नायु मेदो मज्जा अस्थि संहतौ।
विण्मूत्रपूये रमतां कृमीणां कियत् अन्तरम्॥२१॥

अथ अपि न उपसज्जेत स्त्रीषु स्त्रैणेषु च अर्थवित्।
विषय इन्द्रिय संयोगात् मनः क्षुभ्यति न अन्यथा॥२२॥

अदृष्टात् अश्रुतात् भावात् न भावः उपजायते।
असंप्रयुञ्जतः प्राणान् शाम्यति स्तिमितं मनः॥२३॥

तस्मात् सङ्गः न कर्तव्यः स्त्रीषु स्त्रैणेषु च इन्द्रियैः।
विदुषां च अपि अविश्रब्धः षड्वर्गः किमु मादृशाम्॥२४॥

श्रीभगवान् उवाच।
एवं प्रगायन् नृपदेवदेवः सः उर्वशीलोकम् अथः विहाय।
आत्मानम् आत्मनि अवगम्य मां वै उपारमत् ज्ञानविधूतमोहः॥२५॥

ततः दुःसङ्गम् उत्सृज्य सत्सु सज्जेत बुद्धिमान्।
सन्तः एतस्य छिन्दन्ति मनोव्यासङ्गमुक्तिभिः॥२६॥

सन्तः अनपेक्षाः मच्चित्ताः प्रशान्ताः समदर्शिनः।
निर्ममाः निरहङ्काराः निर्द्वन्द्वाः निष्परिग्रहाः॥२७॥

तेषु नित्यं महाभागः महाभागेषु मत्कथाः।
संभवन्ति हिता नॄणां जुषतां प्रपुनन्ति अघम्॥२८॥

ताः ये श्रुण्वन्ति गायन्ति हि अनुमोदन्ति च अदृताः।
मत्पराः श्रद्दधानाः च भक्तिं विन्दन्ति ते मयि॥२९॥

भक्तिं लब्धवतः साधोः किम् अन्यत् अवशिष्यते।
मयि अनन्तगुणे ब्रह्मणि आनन्द अनुभव आत्मनि॥३०॥

यथा उपश्रयमाणस्य भगवन्तं विभावसुम्।
शीतं भयं तमः अपि एति साधून् संसेवतः तथा॥३१॥

निमज्ज्य उन्मज्ज्यतां घोरे भवाब्धौ परम अयनम्।
सन्तः ब्रह्मविदः शान्ताः नौः दृढ इव अप्सु मज्जताम्॥३२॥

अन्नं हि प्राणिनां प्राणः आर्तानां शरणं तु अहम्।
धर्मः वित्तं नृणां प्रेत्य सन्तः अर्वाक् बिभ्यतः अरणम्॥३३॥

सन्तः दिशन्ति चक्षूंषि बहिः अर्कः समुत्थितः।
देवताः बान्धवाः सन्तः सन्तः आत्मा अहम् एव च॥३४॥

वैतसेनः ततः अपि एवम् उर्वश्या लोकनिःस्पृहः।
मुक्तसङ्गः महीम् एताम् आत्मारामः चचार ह॥३५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
ऐलगीतं नाम षड्विंशोऽध्यायः॥२६॥

अथ सप्तविंशोऽध्यायः।
उद्धवः उवाच।
क्रियायोगं समाचक्ष्व भवत् आराधनं प्रभो।
यस्मात् त्वां ये यथा अर्चन्ति सात्वताः सात्वतर्षभ॥१॥

एतत् वदन्ति मुनयः मुहुः निःश्रेयसं नृणाम्।
नारदः भगवान् व्यासः आचार्यः अङ्गिरसः सुतः॥२॥

निःसृतं ते मुखाम्भोजाद्यत् आह भगवान् अजः।
पुत्रेभ्यः भृगुमुख्येभ्यः देव्यै च भगवान् भवः॥३॥

एतत् वै सर्ववर्णानाम् आश्रमाणां च संमतम्।
श्रेयसाम् उत्तमं मन्ये स्त्रीशूद्राणां च मानद॥४॥

एतत् कमलपत्राक्ष कर्मबन्धविमोचनम्।
भक्ताय च अनुरक्ताय ब्रूहि विश्वेश्वर ईश्वर॥५॥

श्रीभगवान् उवाच।
नहि अन्तः अनन्तपारस्य कर्मकाण्डस्य च उद्धव।
संक्षिप्तं वर्णयिष्यामि यथावत् अनुपूर्वशः॥६॥

वैदिकः तान्त्रिकः मिश्रः इति मे त्रिविधः मखः।
त्रयाणाम् ईप्सितेन एव विधिना मां समर्चयेत्॥७॥

यदा स्वनिगमेन उक्तं द्विजत्वं प्राप्य पूरुषः।
यथा यजेत मां भक्त्या श्रद्धया तत् निबोध मे॥८॥

अर्चायां स्थण्डिले अग्नौ वा सूर्ये वा अप्सु हृदि द्विजः।
द्रव्येण भक्तियुक्तः अर्चेत् स्वगुरुं माम् अमायया॥९॥

पूर्वं स्नानं प्रकुर्वीत धौतदन्तः अङ्गशुद्धये।
उभयैः अपि च स्नानं मन्त्रैः मृद्ग्रहणादिना॥१०॥

सन्ध्या उपास्ति आदि कर्माणि वेदेन अचोदितानि मे।
पूजां तैः कल्पयेत् सम्यक् संकल्पः कर्मपावनीम्॥११॥

शैली दारुमयी लौही लेप्या लेख्या च सैकती।
मनोमयी मणिमयी प्रतिमा अष्टविधा स्मृता॥१२॥

चल अचल इति द्विविधा प्रतिष्ठा जीवमन्दिरम्।
उद्वास आवाहने न स्तः स्थिरायाम् उद्धव अर्चने॥१३॥

अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेत् द्वयम्।
स्नपनं तु अविलेप्यायाम् अन्यत्र परिमार्जनम्॥१४॥

द्रव्यैः प्रसिद्ध्यैः मत् यागः प्रतिमादिषु अमायिनः।
भक्तस्य च यथालब्धैः हृदि भावेन च एव हि॥१५॥

स्नान अलंकरणं प्रेष्ठम् अर्चायाम् एव तु उद्धव।
स्थण्डिले तत्त्वविन्यासः वह्नौ आज्यप्लुतं हविः॥१६॥

सूर्ये च अभ्यर्हणं प्रेष्ठं सलिले सलिल आदिभिः।
श्रद्धया उपाहृतं प्रेष्ठं भक्तेन मम वारि अपि॥१७॥

भूर्यपि अभक्त उपहृतं न मे तोषाय कल्पते।
गन्धः धूपः सुमनसः दीपः अन्न आद्य च किं पुनः॥१८॥

शुचिः संभृतसंभारः प्राक् दर्भैः कल्पित आसनः।
आसीनः प्राक् उदक् वा अर्चेत् अर्चायाम् अथ संमुखः॥१९॥

कृतन्यासः कृतन्यासां मदर्चां पाणिना मृजेत्।
कलशं प्रोक्षणीयं च यथावत् उपसाधयेत्॥२०॥

तत् अद्भिः देवयजनं द्रव्याणि आत्मानम् एव च।
प्रोक्ष्य पात्राणि त्रीणि अद्भिः तैः तैः द्रव्यैः च साधयेत्॥२१॥

पाद्य अर्घ आचमनीयार्थं त्रीणि पात्राणि दैशिकः।
हृदा शीर्ष्णा अथ शिखया गायत्र्या च अभिमन्त्रयेत्॥२२॥

पिण्डे वायु अग्नि संशुद्धे हृत्पद्मस्थां परां मम।
अण्वीं जीवकलां ध्यायेत् नाद अन्ते सिद्धभाविताम्॥२३॥

तया आत्मभूतया पिण्डे व्याप्ते संपूज्य तन्मयः।
आवाह्य अर्च आदिषु स्थाप्य न्यस्त अङ्गं मां प्रपूजयेत्॥२४॥

पाद्य उपस्पर्श अर्हण आदीन् उपचारान् प्रकल्पयेत्।
धर्मादिभिः च नवभिः कल्पयित्वा आसनं मम॥२५॥

पद्मम् अष्टदलं तत्र कर्णिकाकेसर उज्ज्वलम्।
उभाभ्यां वेदतन्त्राभ्यां मह्यं तु उभयसिद्धये॥२६॥

सुदर्शनं पाञ्चजन्यं गदासीषुधनुः हलान्।
मुसलं कौस्तुभं मालां श्रीवत्सं च अनुपूजयेत्॥२७॥

नन्दं सुनन्दं गरुडं प्रचण्डं चण्डम् एव च।
महाबलं बलं च एव कुमुदं कुमुदेक्षणम्॥२८॥

दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून् सुरान्।
स्वे स्वे स्थाने तु अभिमुखान् पूजयेत् प्रोक्षण आदिभिः॥२९॥

चन्दन उशीर कर्पूर कुङ्कुम अगरु वासितैः।
सलिलैः स्नापयेत् मन्त्रैः नित्यदा विभवे सति॥३०॥

स्वर्णघर्म अनुवाकेन महापुरुषविद्यया।
पौरुषेण अपि सूक्तेन सामभीः राजनादिभिः॥३१॥

वस्त्र उपवीत आभरण पत्र स्रक् गन्ध लेपनैः।
अलंकुर्वीत सप्रेम मद्भक्तः मां यथा उचितम्॥३२॥

पाद्यम् आचमनीयं च गन्धं सुमनसः अक्षतान्।
धूप दीप उपहार्याणि दद्यात् मे श्रद्धया अर्चकः॥३३॥

गुडपायससर्पींषि शष्कुलि आपूप मोदकान्।
संयाव दधि सूपां च नैवेद्यं सति कल्पयेत्॥३४॥

अभ्यङ्ग उन्मर्दन आदर्श दन्तधौ अभिषेचनम्।
अन्नद्य गीत नृत्यादि पर्वणि स्युः उतान्वहम्॥३५॥

विधिना विहिते कुण्डे मेखलागर्तवेदिभिः।
अग्निम् आधाय परितः समूहेत् पाणिना उदितम्॥३६॥

परिस्तीर्य अथ पर्युक्षेत् अन्वाधाय यथाविधि।
प्रोक्षण्या आसाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम्॥३७॥

तप्तजाम्बूनदप्रख्यं शङ्खचक्रगदाम्बुजैः।
लसत् चतुर्भुजं शान्तं पद्मकिञ्जल्कवाससम्॥३८॥

स्फुरत् किरीट कटक कटिसूत्रवर अङ्गदम्।
श्रीवत्सवक्षसं भ्राजत् कौस्तुभं वनमालिनम्॥३९॥

ध्यायन् अभ्यर्च्य दारूणि हविषा अभिघृतानि च।
प्रास्य आज्यभागौ आघारौ दत्त्वा च आज्यप्लुतं हविः॥४०॥

जुहुयात् मूलमन्त्रेण षोडशर्च अवदानतः।
धर्मादिभ्यः यथान्यायं मन्त्रैः स्विष्टिकृतं बुधः॥४१॥

अभ्यर्च्य अथ नमस्कृत्य पार्षदेभ्यः बलिं हरेत्।
मूलमन्त्रं जपेत् ब्रह्म स्मरन् नारायण आत्मकम्॥४२॥

दत्त्वा आचमनम् उच्छेषं विष्वक्सेनाय कल्पयेत्।
मुखवासं सुरभिमत् ताम्बूलाद्यम् अथ अर्हयेत्॥४३॥

उपगायन् गृणन् नृत्यन् कर्माणि अभिनयन् मम।
मत्कथाः श्रावयन् श्रुण्वन् मुहूर्तं क्षणिकः भवेत्॥४४॥

स्तवैः उच्चावचैः स्तोत्रैः पौराणैः प्रकृतैः अपि।
स्तुत्वा प्रसीद भगवन् इति वन्देत दण्डवत्॥४५॥

शिरः मत् पादयोः कृत्वा बाहुभ्यां च परस्परम्।
प्रपन्नं पाहि माम् ईश भीतं मृत्युग्रह अर्णवात्॥४६॥

इति शेषां मया दत्तां शिरसि आधाय सादरम्।
उद्वासयेत् चेत् उद्वास्यं ज्योतिः ज्योतिषि तत् पुनः॥४७॥

अर्चादिषु यदा यत्र श्रद्धा मां तत्र च अर्चयेत्।
सर्वभूतेषु आत्मनि च सर्व आत्मा अहम् अवस्थितः॥४८॥

एवं क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः।
अर्चन् उभयतः सिद्धिं मत्तः विन्दति अभीप्सिताम्॥४९॥

मदर्चां संप्रतिष्ठाप्य मन्दिरं कारयेत् दृढम्।
पुष्प उद्यानानि रम्याणि पूजा यात्रा उत्सव आश्रितान्॥५०॥

पूजादीनां प्रवाहार्थं महापर्वसु अथ अन्वहम्।
क्षेत्रापणपुरग्रामान् दत्त्वा मत् सार्ष्टिताम् इयात्॥५१॥

प्रतिष्ठया सार्वभौमंसद्मना भुवनत्रयम्।
पूजादिना ब्रह्मलोकं त्रिभिः मत् साम्यताम् इयात्॥५२॥

माम् एव नैरपेक्ष्येण भक्तियोगेन विन्दति।
भक्तियोगं सः लभते एवं यः पूजयेत माम्॥५३॥

यः स्वदत्तां परैः दत्तं हरेत सुरविप्रयोः।
वृत्तिं सः जायते विड्भुक् वर्षाणाम् अयुतायुतम्॥५४॥

कर्तुः च सारथेः हेतोः अनुमोदितुः एव च।
कर्मणां भागिनः प्रेत्य भूयः भूयसि तत्फलम्॥५५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
सप्तविंशोऽध्यायः॥२७॥

अथ अष्टविंशः अध्यायः।
श्रीभगवान् उवाच।
परस्वभावकर्माणि न प्रशंसेत् न गर्हयेत्।
विश्वम् एकात्मकं पश्यन् प्रकृत्या पुरुषेण च॥१॥

परस्वभावकर्माणि यः प्रशंसति निन्दति।
सः आशु भ्रश्यते स्वार्थात् असत्य अभिनिवेशतः॥२॥

तैजसे निद्रया आपन्ने पिण्डस्थः नष्टचेतनः।
मायां प्राप्नोति मृत्युं वा तद्वत् नानार्थदृक् पुमान्॥३॥

किं भद्रं किम् अभद्रं वा द्वैतस्य अवस्तुनः कियत्।
वाचा उदितं तत् अनृतं मनसा ध्यातम् एव च॥४॥

छायाप्रत्याह्वयाभासा हि असन्तः अपि अर्थकारिणः।
एवं देहादयः भावाः यच्छन्ति आमृत्युतः भयम्॥५॥

आत्मा एव तत् इदं विश्वं सृज्यते सृजति प्रभुः।
त्रायते त्राति विश्वात्मा ह्रियते हरति ईश्वरः॥६॥

तस्मात् नहि आत्मनः अन्यस्मात् अन्यः भावः निरूपितः।
निरूपितेयं त्रिविधा निर्मूला भातिः आत्मनि।
इदं गुणमयं विद्धि त्रिविधं मायया कृतम्॥७॥

एतत् विद्वान् मदुदितं ज्ञानविज्ञाननैपुणम्।
न निन्दति न च स्तौति लोके चरति सूर्यवत्॥८॥

प्रत्यक्षेण अनुमानेन निगमेन आत्मसंविदा।
आदि अन्तवत् असत् ज्ञात्वा निःसङ्गः विचरेत् इह॥९॥

उद्धवः उवाच।
न एव आत्मनः न देहस्य संसृतिः द्रष्टृदृश्ययोः।
अनात्मस्वदृशोः ईश कस्य स्यात् उपलभ्यते॥१०॥

आत्मा अव्ययः अगुणः शुद्धः स्वयंज्योतिः अनावृतः।
अग्निवत् दारुवत् देहः कस्य इह संसृतिः॥११॥

श्रीभगवान् उवाच।
यावत् देह इन्द्रिय प्राणैः आत्मनः संनिकर्षणम्।
संसारः फलवान् तावत् अपार्थः अपि अविवेकिनः॥१२॥

अर्थे हि अविद्यमाने अपि संसृतिः न निवर्तते।
ध्यायतः विषयान् अस्य स्वप्ने अनर्थ आगमः यथा॥१३॥

यथा हि अप्रतिबुद्धस्य प्रस्वापः बहु अनर्थभृत्।
सः एव प्रतिबुद्धस्य न वै मोहाय कल्पते॥१४॥

शोक हर्ष भय क्रोध लोभ मोह स्पृहादयः।
अहंकारस्य दृश्यन्ते जन्म मृत्युः च न आत्मनः॥१५॥

देह इन्द्रिय प्राण मनः अभिमानः जीवः अन्तरात्मा गुणकर्म मूर्तिः।
सूत्रं महान् इति उरुधा इव गीतः संसारः आधावति कालतन्त्रः॥१६॥

अमूलम् एतत् बहुरूप रूपितं मनोवचःप्राणशरीरकर्म।
ज्ञानासिना उपासनया शितेन छित्त्वा मुनिः गां विचरति अतृष्णः॥१७॥

ज्ञानं विवेकः निगमः तपः च प्रत्यक्षम् ऐतिह्यम् अथ अनुमानम्।
आदि अन्तयोः अस्य यत् एव केवलम् कालः च हेतुः च तत् एव मध्ये॥१८॥

यथा हिरण्यं स्वकृतं पुरस्तात् पश्चात् च सर्वस्य हिरण्मयस्य।
तत् एव मध्ये व्यवहार्यमाणम् नानापदेशैः अहम् अस्य तद्वत्॥१९॥

विज्ञानम् एतत् त्रियवस्तम् अङ्ग गुणत्रयं कारण कार्य कर्तृ।
समन्वयेन व्यतिरेकतः च येन एव तुर्येण तत् एव सत्यम्॥२०॥

न यत् पुरस्तात् उत यत् न पश्चात् मध्ये च तत् न व्यपदेशमात्रम्।
भूतं प्रसिद्धं च परेण यद्यत् तत् एव तत् स्यात् इति मे मनीषा॥२१॥

अविद्यमानः अपि अवभासते यः वैकारिकः राजससर्गः एषः।
ब्रह्म स्वयंज्योतिः अतः विभाति ब्रह्म इन्द्रिय अर्थ आत्म विकार चित्रम्॥२२॥

एवं स्फुटं ब्रह्मविवेकहेतुभिः परापवादेन विशारदेन।
छित्त्वा आत्मसन्देहम् उपारमेत स्वानन्दतुष्टः अखिल कामुकेभ्यः॥२३॥

न आत्मा वपुः पार्थिवम् इन्द्रियाणि देवाः हि असुः वायुजलं हुताशः।
मनः अन्नमात्रं धिषणा च सत्त्वम् अहंकृतिः खं क्षितिः अर्थसाम्यम्॥२४॥

समाहितैः कः करणैः गुणात्मभिः गुणः भवेत् मत्सुविविक्तधाम्नः।
विक्षिप्यमाणैः उत किं न दूषणम् घनैः उपेतैः विगतैः रवेः किम्॥२५॥

यथा नभः वायु अनल अम्बु भू गुणैः गतागतैः वर्तुगुणैः न सज्जते।
तथा अक्षरं सत्त्व रजः तमः मलैः अहंमतेः संसृतिहेतुभिः परम्॥२६॥

तथापि सङ्गः परिवर्जनीयः गुणेषु मायारचितेषु तावत्।
मद्भक्तियोगेन दृढेन यावत् रजः निरस्येत मनःकषायः॥२७॥

यथा आमयः असाधु चिकित्सितः नृणाम् पुनः पुनः सन्तुदति प्ररोहन्।
एवं मनः अपक्व कषय कर्म कुयोगिनं विध्यति सर्वसङ्गम्॥२८॥

कुयोगिनः ये विहित अन्तरायैः मनुष्यभूतैः त्रिदश उपसृष्टैः।
ते प्राक्तन अभ्यासबलेन भूयः युञ्जन्ति योगं न तु कर्मतन्त्रम्॥२९॥

करोति कर्म क्रियते च जन्तुः केनापि असौ चोदितः आनिपातात्।
न तत्र विद्वान्प्रकृतौ स्थितः अपि निवृत्त तृष्णः स्वसुख अनुभूत्या॥३०॥

तिष्ठन्तम् आसीनम् उत व्रजन्तम् शयानम् उक्षन्तम् अदन्तम् अन्नम्।
स्वभावम् अन्यत् किम् अपि इहमानम् आत्मानम् आत्मस्थमतिः न वेद॥३१॥

यदि स्म पश्यति असत् इन्द्रिय अथ नाना अनुमानेन विरुद्धम् अन्यत्।
न मन्यते वस्तुतया मनीषी स्वाप्नं यथा उत्थाय तिरोदधानम्॥३२॥

पूर्वं गृहीतं गुणकर्मचित्रम् अज्ञानम् आत्मनि अविविक्तम् अङ्ग।
निवर्तते तत् पुनः ईक्षया एव न गृह्यते न अपि विसृज्य आत्मा॥३३॥

यथा हि भानोः उदयः नृचक्षुषाम् तमः निहन्यात् न तु सद्विधत्ते।
एवं समीक्षा निपुणा सती मे हन्यात् तमिस्रं पुरुषस्य बुद्धेः॥३४॥

एषः स्वयंज्योतिः अजः अप्रमेयः महानुभूतिः सकलानुभूतिः।
एकः अद्वितीयः वचसां विरामे येन ईशिता वाक् असवः चरन्ति॥३५॥

एतावान् आत्मसंमोहः यत् विकल्पः तु केवले।
आत्मन् नृते स्वमात्मानम् अवलम्बः न यस्य हि॥३६॥

यत् नाम आकृतिभिः ग्राह्यं पञ्चवर्णम् अबाधितम्।
व्यर्थेन अपि अर्थवादः अयं द्वयं पण्डितमानिनाम्॥३७॥

योगिनः अपक्वयोगस्य युञ्जतः कायः उत्थितैः।
उपसर्गैः विहन्येत तत्र अयं विहितः विधिः॥३८॥

योगधारणया कांश्चित् आसनैः धारण अन्वितैः।
तपोमन्त्रौषधैः कांश्चित् उपसर्गान् विनिर्दहेत्॥३९॥

कांश्चित् मम अनुध्यानेन नामसंकीर्तन आदिभिः।
योगेश्वर अनुवृत्त्या वा हन्यात् अशुभदान् शनैः॥४०॥

केचित् देहम् इमं धीराः सुकल्पं वयसि स्थिरम्।
विधाय विविध उपायैः अथ युञ्जन्ति सिद्धये॥४१॥

न हि तत् कुशलात् दृत्यं तत् आयासः हि अपार्थकः।
अन्तवत्त्वात् शरीरस्य फलस्य इव वनस्पतेः॥४२॥

योगं निषेवतः नित्यं कायः चेत् कल्पताम् इयात्।
तत् श्रद्दध्यात् न मतिमान् योगम् उत्सृज्य मत्परः॥४३॥

योगचर्याम् इमां योगी विचरन् मत् व्यपाश्रयः।
न अन्तरायैः विहन्येत निःस्पृहः स्वसुखानुभूः॥४४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
परमार्थनिर्णयो नाम अष्टाविंशोऽध्यायः॥२८॥

अथ एकोनत्रिंशः अध्यायः।
सुदुस्तराम् इमां मन्ये योगचर्याम् अनात्मनः।
यथा अञ्जसा पुमान् सिह्येत् तत् मे ब्रूहि अञ्जसा अच्युत॥१॥

प्रायशः पुण्डरीकाक्ष युञ्जन्तः योगिनः मनः।
विषीदन्ति असमाधानात् मनोनिग्रहकर्शिताः॥२॥

अथ अतः आनन्ददुघं पदाम्बुजम् हंसाः श्रयेरन् अरविन्दलोचन।
सुखं नु विश्वेश्वर योगकर्मभिः त्वत् मायया अमी विहताः न मानिनः॥३॥

किं चित्रम् अच्युत तव एतत् अशेषबन्धः दासेषु अनन्यशरणेषु यत् आत्म सात्त्वम्।
यः अरोचयत्सह मृगैः स्वयम् ईश्वराणाम् श्रीमत् किरीट तट पीडित पाद पीठः॥४॥

तं त्वा अखिल आत्मदयित ईश्वरम् आश्रितानाम् सर्व अर्थदं स्वकृतवित् विसृजेत कः नु।
कः वा भजेत् किम् अपि विस्मृतये अनु भूत्यै किं वा भवेत् न तव पादरजोजुषां नः॥५॥

न एव उपयन्ति अपचितिं कवयः तव ईश ब्रह्मायुषा अपि कृतम् ऋधमुदः स्मरन्तः।
यः अन्तर्बहिः तनुभृताम् अशुभं विधुन्वन् आचार्यचैत्यवपुषा स्वगतं व्यनक्ति॥६॥

श्रीशुकः उवाच।
इति उद्धवेन अति अनुरक्त चेतसा पृष्टः जगत्क्रीडनकः स्वशक्तिभिः।
गृहीत मूर्तित्रयः ईश्वर ईश्वरः जगाद सप्रेम मनोहरस्मितः॥७॥

श्रीभगवान् उवाच।
हन्त ते कथयिष्यामि मम धर्मान् सुमङ्गलाम्।
यान् श्रद्धया आचरन् मर्त्यः मृत्युं जयति दुर्जयम्॥८॥

कुर्यात् सर्वाणि कर्माणि मदर्थं शनकैः स्मरन्।
मयि अर्पित मनः चित्तः मत् धर्म आत्ममनोरतिः॥९॥

देशान् पुण्यान् आश्रयेत मद्भक्तैः साधुभिः श्रितान्।
देव आसुर मनुष्येषु मद्भक्त आचरितानि च॥१०॥

पृथक् सत्रेण वा मह्यं पर्वयात्रा महोत्सवान्।
कारयेत् गीतनृत्य आद्यैः महाराज विभूतिभिः॥११॥

माम् एव सर्वभूतेषु बहिः अन्तः अपावृतम्।
ईक्षेत आत्मनि च आत्मानं यथा खम् अमल आशयः॥१२॥

इति सर्वाणि भूतानि मद्भावेन महाद्युते।
सभाजयन् मन्यमानः ज्ञानं केवलम् आश्रितः॥१३॥

ब्राह्मणे पुल्कसे स्तेने ब्रह्मण्ये अर्के स्फुलिङ्गके।
अक्रूरे क्रूरके च एव समदृक् पण्डितः मतः॥१४॥

नरेषु अभीक्ष्णं मद्भावं पुंसः भावयतः अचिरात्।
स्पर्धा असूया तिरस्काराः साहङ्काराः वियन्ति हि॥१५॥

विसृज्य स्मयमानान् स्वान् दृशं व्रीडां च दैहिकीम्।
प्रणमेत् दण्डवत् भूमौ आश्व चाण्डाल गो खरम्॥१६॥

यावत् सर्वेषु भूतेषु मद्भावः न उपजायते।
तावत् एवम् उपासीत वाङ् मन काय वृत्तिभिः॥१७॥

सर्वं ब्रह्मात्मकं तस्य विद्यया आत्म मनीषया।
परिपश्यन् उपरमेत् सर्वतः मुक्त संशयः॥१८॥

अयं हि सर्वकल्पानां सध्रीचीनः मतः मम।
मद्भावः सर्वभूतेषु मनोवाक्कायवृत्तिभिः॥१९॥

न हि अङ्ग उपक्रमे ध्वंसः मद्धर्मस्य उद्धव अणु अपि।
मया व्यवसितः सम्यक् निर्गुणत्वात् अनाशिषः॥२०॥

यः यः मयि परे धर्मः कल्प्यते निष्फलाय चेत्।
तत् आयासः निरर्थः स्यात् भयादेः इव सत्त्म॥२१॥

एषा बुद्धिमतां बुद्धिः मनीषा च मनीषिणाम्।
यत् सत्यम् अनृतेन इह मर्त्येन आप्नोति मा अमृतम्॥२२॥

एष ते अभिहितः कृत्स्नः ब्रह्मवादस्य संग्रहः।
समासव्यासविधिना देवानाम् अपि दुर्गमः॥२३॥

अभीक्ष्णशः ते गदितं ज्ञानं विस्पष्टयुक्तिमत्।
एतत् विज्ञाय मुच्येत पुरुषः नष्टसंशयः॥२४॥

सुविविक्तं तव प्रश्नं मया एतत् अपि धारयेत्।
सनातनं ब्रह्मगुह्यं परं ब्रह्म अधिगच्छति॥२५॥

यः एतत् मम भक्तेषु संप्रदद्यात् सुपुष्कलम्।
तस्य अहं ब्रह्मदायस्य ददामि आत्मानम् आत्मना॥२६॥

यः एतत् समधीयीत पवित्रं परमं शुचि।
सः पूयेत अहः अहः मां ज्ञानदीपेन दर्शयन्॥२७॥

यः एतत् श्रद्धया नित्यम् अव्यग्रः श्रुणुयात् नरः।
मयि भक्तिं परां कुर्वन् कर्मभिः न सः बध्यते॥२८॥

अपि उद्धव त्वया ब्रह्म सखे समवधारितम्।
अपि ते विगतः मोहः शोकः च असौ मनोभवः॥२९॥

न एतत् त्वया दाम्भिकाय नास्तिकाय शठाय च।
अशुश्रूषोः अभक्ताय दुर्विनीताय दीयताम्॥३०॥

एतैः दोषैः विहीनाय ब्रह्मण्याय प्रियाय च।
साधवे शुचये ब्रूयात् भक्तिः स्यात् शूद्र योषिताम्॥३१॥

न एतत् विज्ञाय जिज्ञासोः ज्ञातव्यम् अवशिष्यते।
पीत्वा पीयूषम् अमृतं पातव्यं न अवशिष्यते॥३२॥

ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे।
यावान् अर्थः नृणां तात तावान् ते अहं चतुर्विधः॥३३॥

मर्त्यः यदा त्यक्त समस्तकर्मा निवेदितात्मा विचिकीर्षितः मे।
तदा अमृतत्वं प्रतिपद्यमानः मया आत्मभूयाय च कल्पते वै॥३४॥

श्रीशुकः उवाच।
सः एवम् आदर्शित योगमार्गः तदा उत्तम श्लोकवचः निशम्य।
बद्ध अञ्जलिः प्रीति उपरुद्ध कण्ठः न किंचित् ऊचेः अश्रु परिप्लुत अक्षः॥३५॥

विष्टभ्य चित्तं प्रणय अवघूर्णम् धैर्येण राजन् बहु मन्यमानः।
कृताञ्जलिः प्राह यदुप्रवीरम् शीर्ष्णा स्पृशन् तत् चरण अरविन्दम्॥३६॥

उद्धवः उवाच।
विद्रावितः मोह महा अन्धकारः यः आश्रितः मे तव सन्निधानात्।
विभावसोः किं नु समीपगस्य शीतं तमः भीः प्रभवन्ति अज अद्य॥३७॥

प्रत्यर्पितः मे भवता अनुकम्पिना भृत्याय विज्ञानमयः प्रदीपः।
हित्वा कृतज्ञः तव पादमूलम् कः अन्यत् समीयात् शरणं त्वदीयम्॥३८॥

वृक्णः च मे सुदृढः स्नेहपाशः दाशार्ह वृष्णि अन्धक सात्वतेषु।
प्रसारितः सृष्टिविवृद्धये त्वया स्वमायया हि आत्म सुबोध हेतिना॥३९॥

नमः अस्तु ते महायोगिन् प्रपन्नम् अनुशाधि माम्।
यथा त्वत् चरण अम्भोजे रतिः स्यात् अनपायिनी॥४०॥

श्रीभगवान् उवाच।
गच्छ उद्धव मया आदिष्टः बदरि आख्यं मम आश्रमम्।
तत्र मत् पाद तीर्थोदे स्नान उपस्पर्शनैः शुचिः॥४१॥

ईक्षया अलकनन्दाया विधूत अशेष कल्मषः।
वसानः वल्कलानि अङ्ग वन्यभुक् सुख निःस्पृहः॥४२॥

तितिक्षौः द्वन्द्वमात्राणां सुशीलः संयतेन्द्रियः।
शान्तः समाहितधिया ज्ञानविज्ञानसंयुतः॥४३॥

मत्तः अनुशिक्षितं यत् ते विविक्तमनुभावयन्।
मयि आवेशित वाक् चित्तः मद्धर्म निरतः भव।
अतिव्रज्य गतीः तिस्रः माम् एष्यसि ततः परम्॥४४॥

श्रीशुकः उवाच।
सः एवम् उक्तः हरिमेधसा उद्धवः प्रदक्षिणं तं परिसृत्य पादयोः।
शिरः निधाय अश्रुकलाभिः आर्द्रधीः न्यषिञ्चत् अद्वन्द्वपरः अपि उपक्रमे॥४५॥

सुदुस्त्यज स्नेह वियोग कातरः न शक्नुवन् तं परिहातुम् आतुरः।
कृच्छ्रं ययौ मूर्धनि भर्तृपादुके बिभ्रन् नमस्कृत्य ययौ पुनः पुनः॥४६॥

ततः तम् अन्तर्हृदि संनिवेश्य गतः महाभागवतः विशालाम्।
यथा उपदिष्टां जगत् एकबन्धुना ततः समास्थाय हरेः अगात् गतिम्॥४७॥

यः एअतत् आनन्द समुद्र संभृतम् ज्ञानामृतं भागवताय भाषितम्।
कृष्णेण योगेश्वर सेविताङ्घ्रिणा सच्छ्रद्धया आसेव्य जगत् विमुच्यते॥४८॥

भवभय अपहन्तुं ज्ञानविज्ञानसारम् निगमकृत् उपजहे भृङ्गवत् वेदसारम्।
अमृतम् उदधितः च अपाययत् भृत्यवर्गान् पुरुषम् ऋषभम् आद्यं कृष्णसंज्ञं नतः अस्मि॥४९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
परमार्थप्राप्तिसुगमोपायकथनोद्धवबदरिकाश्रमप्रवेशो
नाम एकोनत्रिंशोऽध्यायः॥२९॥

अथ त्रिंशः अध्यायः।
राजा उवाच।
ततः महाभागवते उद्धवे निर्गते वनम्।
द्वारवत्यां किम् अकरोत् भगवान् भूतभावनः॥१॥

ब्रह्मशाप उपसंसृष्टे स्वकुले यादवर्षभः।
प्रेयसीं सर्वनेत्राणां तनुं सः कथम् अत्यजत्॥२॥

प्रत्याक्रष्टुं नयनम् अबला यत्र लग्नं न शेकुः कर्णाविष्टं न सरति ततः यत् सताम् आत्मलग्नम्।
यत् श्रीः वाचां जनयति रतिं किं नु मानं कवीनाम् दृष्ट्वा जिष्णोः युधि रथगतं यत् च तत् साम्यम्
ईयुः॥३॥

ऋषिः उवाच।
दिवि भुवि अन्तरिक्षे च महोत्पातान् समुत्थितान्।
दृष्ट्वा आसीनान् सुधर्मायां कृष्णः प्राह यदून् इदम्॥[४॥

श्रीभगवान् उवाच।
एते घोराः महोत्पाताः द्वार्वत्यां यमकेतवः।
मुहूर्तम् अपि न स्थेयम् अत्र नः यदुपुङ्गवाः॥५॥

स्त्रियः बालाः च वृद्धाः च शङ्खोद्धारं व्रजन्त्वितः।
वयं प्रभासं यास्यामः यत्र प्रत्यक् सरस्वती॥६॥

तत्र अभिषिच्य शुचय उपोष्य सुसमाहिताः।
देवताः पूजयिष्यामः स्नपन आलेपन अर्हणैः॥७॥

ब्राह्मणान् तु महाभागान् कृतस्वस्त्ययना वयम्।
गो भू हिरण्य वासोभिः गज अश्वरथ वेश्मभिः॥८॥

विधिः एषः हि अरिष्टघ्नः मङ्गल आयनम् उत्तमम्।
देव द्विज गवां पूजा भूतेषु परमः भवः॥९॥

इति सर्वे समाकर्ण्य यदुवृद्धाः मधुद्विषः।
तथा इति नौभिः उत्तीर्य प्रभासं प्रययू रथैः॥१०॥

तस्मिन् भगवता आदिष्टं यदुदेवेन यादवा।
चक्रुः परभया भक्त्या सर्वश्रेय उपबृंहितम्॥११॥

ततः तस्मिन् महापानं पपुः मैरेयकं मधु।
दिष्ट विभ्रंशित धियः यत् द्रवैः भ्रश्यते मतिः॥१२॥

महापान अभिमत्तानां वीराणां दृप्तचेतसाम्।
कृष्णमाया विमूढानां संघर्षः सुमहान् अभूत्॥१३॥

युयुधुः क्रोधसंरब्धा वेलायाम् आततायिनः।
धनुभिः असिभिः मल्लैः गदाभिः ताम् अरर्ष्टिभिः॥१४॥

पतत्पताकै रथकुञ्जरादिभिः खर उष्ट्र गोभिः महिषैः नरैः अपि।
मिथः समेत्य अश्वतरैः सुदुर्मदा न्यहन् शरर्दद्भिः इव द्विपा वने॥१५॥

प्रद्युम्न साम्बौ युधि रूढमत्सरौ अक्रूर भोजौ अनिरुद्ध सात्यकी।
सुभद्र संग्रामजितौ सुदारुणौ गदौ सुमित्रा सुरथौ समीयतुः॥१६॥

अन्ये च ये वै निशठ उल्मुक आदयः सहस्रजित् शतजित् भानु मुख्याः।
अन्योन्यम् आसाद्य मदान्धकारिता जघ्नुः मुकुन्देन विमोहिता भृशम्॥१७॥

दाशार्ह वृष्णि अन्धक भोज सात्वता मधु अर्बुदा माथुरशूरसेनाः।
विसर्जनाः कुकुराः कुन्तयः च मिथः ततः ते अथ विसृज्य सौहृदम्॥१८॥

पुत्राः अयुध्यन् पितृभिः भ्रातृभिः च स्वस्त्रीय दौहित्र पितृव्यमातुलैः।
मित्राणि मित्रैः सुहृदः सुहृद्भिः ज्ञातींस्त्वहन् ज्ञातयः एव मूढाः॥१९॥

शरेषु क्षीयमाणेषु भज्यमानेषु धन्वसु।
शस्त्रेषु क्षीयमाणेषु मुष्टिभिः जह्रुः एरकाः॥२०॥

ताः वज्रकल्पाः हि अभवन् परिघाः मुष्टिनाः भृताः।
जघ्नुः द्विषः तैः कृष्णेन वार्यमाणाः तु तं च ते॥२१॥

प्रत्यनीकं मन्यमानाः बलभद्रं च मोहिताः।
हन्तुं कृतधियः राजन् आपन्नाः आततायिनः॥२२॥

अथ तौ अपि संक्रुद्धौ उद्यम्य कुरुनन्दन।
एरका मुष्टि परिघौ जरन्तौ जघ्नतुः युधि॥२३॥

ब्रह्मशाप उपसृष्टानां कृष्णमायावृत आत्मनाम्।
स्पर्धाक्रोधः क्षयं निन्ये वैणवः अग्निः यथा वनम्॥२४॥

एवं नष्टेषु सर्वेषु कुलेषु स्वेषु केशवः।
अवतारितः भुवः भारः इति मेने अवशेषितः॥२५॥

रामः समुद्रवेलायां योगम् आस्थाय पौरुषम्।
तत् त्याज लोकं मानुष्यं संयोज्य आत्मानम् आत्मनि॥२६॥

रामनिर्याणम् आलोक्य भगवान् देवकीसुतः।
निषसाद धरोपस्थे तूष्णीम् आसाद्य पिप्पलम्॥२७॥

बिभ्रत् चतुर्भुजं रूपं भ्राजिष्णु प्रभया स्वया।
दिशः वितिमाराः कुर्वन् विधूमः इव पावकः॥२८॥

श्रीवत्साङ्कं घनश्यामं तप्त हाटक वर्चसम्।
कौशेय अम्बर युग्मेन परिवीतं सुमङ्गलम्॥२९॥

सुन्दर स्मित वक्त्र अब्जं नील कुन्तल मण्डितम्।
पुण्डरीक अभिरामाक्षं स्फुरन् मकर कुण्डलम्॥३०॥

कटिसूत्र ब्रह्मसूत्र किरीट कटक अङ्गदैः।
हार नूपुर मुद्राभिः कौस्तुभेन विराजितम्॥३१॥

वनमाला परीताङ्गं मूर्तिमद्भिः निज आयुधैः।
कृत्वा उरौ दक्षिणे पादम् आसीनं पङ्कज अरुणम्॥३२॥

मुसलौ अशेषायः खण्डकृतेषुः लुब्धकः जराः।
मृगास्य आकारं तत् चरणं विव्याध मृगशङ्कया॥३३॥

चतुर्भुजं तं पुरुषं दृष्ट्वा सः कृत किल्बिषः।
भीतः पपात शिरसा पादयोः असुरद्विषः॥३४॥

अजानता कृतम् इदं पापेन मधुसूदन।
क्षन्तुम् अर्हसि पापस्य उत्तमश्लोकः मे अनघ॥३५॥

यस्य अनुस्मरणं नॄणाम् अज्ञान ध्वान्त नाशनम्।
वदन्ति तस्य ते विष्णो मया असाधु कृतं प्रभो॥३६॥

तत् मा आशु जहि वैकुण्ठ पाप्मानं मृग लुब्धकम्।
यथा पुनः अहं तु एवं न कुर्यां सत् अतिक्रमम्॥३७॥

यस्य आत्म योग रचितं न विदुः विरिञ्चः रुद्र आदयः अस्य तनयाः पतयः गिरां ये।
त्वत् मायया पिहित दृष्टयः एतत् अञ्जः किं तस्य ते वयम् असत् गतयः गृणीमः॥३८॥

श्रीभगवान् उवाच।
मा भैः जरे त्वम् उत्तिष्ठ कामः एषः कृतः हि मे।
याहि त्वं मत् अनुज्ञातः स्वर्गं सुकृतिनां पदम्॥३९॥

इति आदिष्टः भगवता कृष्णेन इच्छा शरीरिणा।
त्रिः परिक्रम्य तं नत्वा विमानेन दिवं ययौ॥४०॥

दारुकः कृष्णपदवीम् अन्विच्छन् अधिगम्यताम्।
वायुं तुलसिकामोदम् आघ्राय अभिमुखं ययौ॥४१॥

तं तत्र तिग्मद्युभिः आयुधैः वृतम् हि अश्वत्थमूले कृतकेतनं पतिम्।
स्नेहप्लुतात्मा निपपात पादयो रथात् अवप्लुत्य सबाष्पलोचनः॥४२॥

अपश्यतः त्वत् चरण अम्बुजं प्रभो दृष्टिः प्रणष्टा तमसि प्रविष्टा।
दिशः न जाने न लभे च शान्तिम् यथा निशायम् उडुपे प्रणष्टे॥४३॥

इति ब्रुवते सूते वै रथः गरुडलाञ्छनः।
खम् उत्पपात राजेन्द्र साश्वध्वजः उदीक्षतः॥४४॥

तम् अन्वगच्छन् दिव्यानि विष्णुप्रहरणानि च।
तेन अति विस्मित आत्मानं सूतम् आह जनार्दनः॥४५॥

गच्छ द्वारवतीं सूत ज्ञातीनां निधनं मिथः।
संकर्षणस्य निर्याणं बन्धुभ्यः ब्रूहि मत् दशाम्॥४६॥

द्वारकायां च न स्थेयं भवद्भिः च स्वबन्धुभिः।
मया त्यक्तां यदुपुरीं समुद्रः प्लावयिष्यति॥४७॥

स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः।
अर्जुनेन आविताः सर्व इन्द्रप्रस्थं गमिष्यथ॥४८॥

त्वं तु मत् धर्मम् आस्थाय ज्ञाननिष्ठः उपेक्षकः।
मन्माया रचनाम् एतां विज्ञाय उपशमं व्रज॥४९॥

इति उक्तः तं परिक्रम्य नमस्कृत्य पुनः पुनः।
तत् पादौ शीर्ष्णि उपाधाय दुर्मनाः प्रययौ पुरीम्॥५०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे यदुकुलसंक्षयो नाम
त्रिंशोऽध्यायः॥३०॥

संबंधित कड़ियाँ

[सम्पाद्यताम्]
  1. गीता
  2. उद्धवगीता
    1. उद्धवगीता १ (अध्याय ०१-०५)
    2. उद्धवगीता २ (अध्याय ०६-१०)
    3. उद्धवगीता ३ (अध्याय ११-१५)
    4. उद्धवगीता ४ (अध्याय १६-२०)
    5. उद्धवगीता ५ (अध्याय २१-२५)
    6. उद्धवगीता ६ (अध्याय २६-३०)
    7. उद्धवगीता ७ (अध्याय ३१)

बाहरी कडियाँ

[सम्पाद्यताम्]
"https://sa.wikisource.org/w/index.php?title=उद्धवगीता_६&oldid=46976" इत्यस्माद् प्रतिप्राप्तम्