उद्धवगीता १

विकिस्रोतः तः
Jump to navigation Jump to search

श्रीराधाकृष्णाभ्यां नमः।
श्रीमद्भागवतपुराणम्।
एकादशः स्कन्धः
उद्धव गीता।
अथ प्रथमोऽध्यायः।
श्रीबादरायणिः उवाच।
कृत्वा दैत्यवधं कृष्णः सरमः यदुभिः वृतः।
भुवः अवतारवत् भारं जविष्ठन् जनयन् कलिम्॥१॥

ये कोपिताः सुबहु पाण्डुसुताः सपत्नैः दुर्द्यूतहेलनकचग्रहण आदिभिः तान्।
कृत्वा निमित्तम् इतर इतरतः समेतान् हत्वा नृपान् निरहरत् क्षितिभारम् ईशः॥२॥

भूभारराजपृतना यदुभिः निरस्य गुप्तैः स्वबाहुभिः अचिन्तयत् अप्रमेयः।
मन्ये अवनेः ननु गतः अपि अगतं हि भारम् यत् यादवं कुलम् अहो हि अविषह्यम् आस्ते॥३॥

न एव अन्यतः परिभवः अस्य भवेत् कथंचित् मत् संश्रयस्य विभव उन्नहन् अस्य नित्यम्।
अन्तःकलिम् यदुकुलस्य विध्हाय वेणुः तम्बस्य वह्निम् इव शान्तिम् उपैमि धाम॥४॥

एवं व्यवसितः राजन् सत्यसंकल्पः ईश्वरः।
शापव्याजेन विप्राणां संजह्वे स्वकुलं विभुः॥५॥

स्वमूर्त्या लोकलावण्यनिर्मुक्त्या लोचनं नृणाम्।
गीर्भिः ताः स्मरतां चित्तं पदैः तान् ईक्षतां क्रिया॥६॥

आच्छिद्य कीर्तिं सुश्लोकां वितत्य हि अञ्जसा नु कौ।
तमः अनया तरिष्यन्ति इति अगात् स्वं पदम् ईश्वरः॥७॥

राजा उवाच।
ब्रह्मण्यानां वदान्यानां नित्यं वृद्धौपसेविनाम्।
विप्रशापः कथम् अभूत् वृष्णीनां कृष्णचेतसाम्॥८॥

यत् निमित्तः सः वै शापः यादृशः द्विजसत्तम।
कथम् एकात्मनां भेदः एतत् सर्वं वदस्व मे॥९॥

श्रीशुकः उवाच।
बिभ्रत् वपुः सकलसुन्दरस.म्निवेशम् कर्माचरन् भुवि सुमङ्गलम् आप्तकामः।
आस्थाय धाम रममाणः उदारकीर्तिः संहर्तुम् ऐच्छत कुलं स्थितकृत्यशेषः॥१०॥

कर्माणि पुण्यनिवहानि सुमङ्गलानि गायत् जगत् कलिमलापहराणि कृत्वा।
काल आत्मना निवसता यदुदेवगेहे पिण्डारकं समगमन् मुनयः निसृष्टाः॥११॥

विश्वामित्रः असितः कण्वः दुर्वासाः भृगुः अङ्गिराः।
कश्यपः वामदेवः अत्रिः वसिष्ठः नारद आदयः॥१२॥

क्रीडन्तः तान् उपव्रज्य कुमाराः यदुनन्दनाः।
उपसंगृह्य पप्रच्छुः अविनीता विनीतवत्॥१३॥

ते वेषयित्वा स्त्रीवेषैः साम्बं जाम्बवतीसुतम्।
एषा पृच्छति वः विप्राः अन्तर्वत् न्यसित ईक्षणा॥१४॥

प्रष्टुं विलज्जति साक्षात् प्रब्रूत अमोघदर्शनाः।
प्रसोष्यन्ति पुत्रकामा किंस्वित् संजनयिष्यति॥१५॥

एवं प्रलब्ध्वा मुनयः तान् ऊचुः कुपिता नृप।
जनयिष्यति वः मन्दाः मुसलं कुलनाशनम्॥१६॥

तत् शृत्वा ते अतिसन्त्रस्ताः विमुच्य सहसोदरम्।
साम्बस्य ददृशुः तस्मिन् मुसलं खलु अयस्मयम्॥१७॥

किं कृतं मन्दभाग्यैः किं वदिष्यन्ति नः जनाः।
इति विह्वलिताः गेहान् आदाय मुसलं ययुः॥१८॥

तत् च उपनीय सदसि परिम्लानमुखश्रियः।
राज्ञः आवेदयान् चक्रुः सर्वयादवसंनिधौ॥१९॥

श्रुत्वा अमोघं विप्रशापं दृष्ट्वा च मुसलं नृप।
विस्मिताः भयसन्त्रस्ताः बभूवुः द्वारकौकसः॥२०॥

तत् चूर्णयित्वा मुसलं यदुराजः सः आहुकः।
समुद्रसलिले प्रास्यत् लोहं च अस्य अवशेषितम्॥२१॥

कश्चित् मत्स्यः अग्रसीत् लोहं चूर्णानि तरलैः ततः।
उह्यमानानि वेलायां लग्नानि आसन् किल ऐरिकाः॥२२॥

मत्स्यः गृहीतः मत्स्यघ्नैः जालेन अन्यैः सह अर्णवे।
तस्य उदरगतं लोहं सः शल्ये लुब्धकः अकरोत्॥२३॥

भगवान् ज्ञातसर्वार्थः ईश्वरः अपि तदन्यथा।
कर्तुं न ऐच्छत् विप्रशापं कालरूपी अन्वमोदत॥२४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे विप्रशापो नाम प्रथमोऽध्यायः॥१॥

अथ द्वितीयोऽध्यायः।
श्रीशुकः उवाच।
गोविन्दभुजगुप्तायां द्वारवत्यां कुरूद्वह।
अवात्सीत् नारदः अभीक्ष्णं कृष्णौपासनलालसः॥१॥

को नु राजन् इन्द्रियवान् मुकुन्दचरणाम्बुजम्।
न भजेत् सर्वतः मृत्युः उपास्यम् अमरौत्तमैः॥२॥

तम् एकदा देवर्षिं वसुदेवः गृह आगतम्।
अर्चितं सुखम् आसीनम् अभिवाद्य इदम् अब्रवीत्॥३॥

वसुदेवः उवाच।
भगवन् भवतः यात्रा स्वस्तये सर्वदेहिनाम्।
कृपणानां यथा पित्रोः उत्तमश्लोकवर्त्मनाम्॥४॥

भूतानां देवचरितं दुःखाय च सुखाय च।
सुखाय एव हि साधूनां त्वादृशाम् अच्युत आत्मनाम्॥५॥

भजन्ति ये यथा देवान् देवाः अपि तथा एव तान्।
छाया इव कर्मसचिवाः साधवः दीनवत्सलाः॥६॥

ब्रह्मन् तथा अपि पृच्छामः धर्मान् भागवतान् तव।
यान् श्रुत्वा श्रद्धया मर्त्यः मुच्यते सर्वतः भयात्॥७॥

अहं किल पुरा अनन्तं प्रजार्थः भुवि मुक्तिदम्।
अपूजयं न मोक्षाय मोहितः देवमायया॥८॥

यया विचित्रव्यसनात् भवद्भिः विश्वतः भयात्।
मुच्येम हि अञ्जसा एव अद्धा तथा नः शाधि सुव्रत॥९॥

श्रीशुकः उवाच।
राजन् एवं कृतप्रश्नः वसुदेवेन धीमता।
प्रीतः तम् आह देवर्षिः हरेः संस्मारितः गुणैः॥१०॥

नारदः उवाच।
सम्यक् एतत् व्यवसितं भवता सात्वतर्षभ।
यत् पृच्छसे भागवतान् धर्मान् त्वं विश्वभावनान्॥११॥

श्रुतः अनुपठितः ध्यातः आदृतः वा अनुमोदितः।
सद्यः पुनाति सद्धर्मः देवविश्वद्रुहः अपि॥१२॥

त्वया परमकल्याणः पुण्यश्रवणकीर्तनः।
स्मारितः भगवान् अद्य देवः नारायणः मम॥१३॥

अत्र अपि उदाहरन्ति इमम् इतिहासं पुरातनम्।
आर्षभाणां च संवादं विदेहस्य महात्मनः॥१४॥

प्रियव्रतः नाम सुतः मनोः स्वायम्भुवस्य यः।
तस्य अग्नीध्रः ततः नाभिः ऋषभः तत् सुतः स्मृतः॥१५॥

तम् आहुः वासुदेवांशं मोक्षधर्मविवक्षया।
अवतीर्णं सुतशतं तस्य आसीत् वेदपारगम्॥१६॥

तेषां वै भरतः ज्येष्ठः नारायणपरायणः।
विख्यातं वर्षम् एतत् यत् नाम्ना भारतम् अद्भुतम्॥१७॥

सः भुक्तभोगां त्यक्त्वा इमां निर्गतः तपसा हरिम्।
उपासीनः तत् पदवीं लेभे वै जन्मभिः त्रिभिः॥१८॥

तेषां नव नवद्वीपपतयः अस्य समन्ततः।
कर्मतन्त्रप्रणेतारः एकाशीतिः द्विजातयः॥१९॥

नव अभवन् महाभागाः मुनयः हि अर्थशंसिनः।
श्रमणाः वातः अशनाः आत्मविद्याविशारदाः॥२०॥

कविः हरिः अन्तरिक्षः प्रबुद्धः पिप्पलायनः।
आविर्होत्रः अथ द्रुमिलः चमसः करभाजनः॥२१॥

एते वै भगवद्रूपं विश्वं सदसद् आत्मकम्।
आत्मनः अव्यतिरेकेण पश्यन्तः व्यचरत् महीम्॥२२॥

अव्याहत इष्टगतयाः सुरसिद्धसिद्धसाध्य गन्धर्वयक्षनरकिन्नरनागलोकान्।
मुक्ताः चरन्ति मुनिचारणभूतनाथ विद्याधरद्विजगवां भुवनानि कामम्॥२३॥

तः एकदा निमेः सत्रम् उपजग्मुः यत् ऋच्छया।
वितायमानम् ऋषिभिः अजनाभे महात्मनः॥२४॥

तान् दृष्ट्वा सूर्यसङ्काशान् महाभगवतान् नृपः।
यजमानः अग्नयः विप्राः सर्वः एव उपतस्थिरे॥२५॥

विदेहः तान् अभिप्रेत्य नारायणपरायणान्।
प्रीतः संपूजयान् चक्रे आसनस्थान् यथा अर्हतः॥२६॥

तान् रोचमानान् स्वरुचा ब्रह्मपुत्रौपमान् नव।
पप्रच्छ परमप्रीतः प्रश्रय अवनतः नृपः॥२७॥

विदेहः उवाच।
मन्ये भगवतः साक्षात् पार्षदान् वः मधुद्विषः।
विष्णोः भूतानि लोकानां पावनाय चरन्ति हि॥२८॥

दुर्लभः मानुषः देहः देहिनां क्षणभङ्गुरः।
तत्र अपि दुर्लभं मन्ये वैकुण्ठप्रियदर्शनम्॥२९॥

अतः आत्यन्तिकं कहेमं पृच्छामः भवतः अनघाः।
संसारे अस्मिन् क्षणार्धः अपि सत्सङ्गः शेवधिः नृणाम्॥३०॥

धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम्।
यैः प्रसन्नः प्रपन्नाय दास्यति आत्मानम् अपि अजः॥३१॥

श्रीनारदः उवाच।
एवं ते निमिना पृष्टा वसुदेव महत्तमाः।
प्रतिपूज्य अब्रुवन् प्रीत्या ससदसि ऋत्विजं नृपम्॥३२॥

कविः उवाच।
मन्ये अकुतश्चित् भयम् अच्युतस्य पादाम्बुजौपासनम् अत्र नित्यम्।
उद्विग्नबुद्धेः असत् आत्मभावात् विश्वआत्मना यत्र निवर्तते भीः॥३३॥

ये वै भगवता प्रोक्ताः उपायाः हि आत्मलब्धये।
अञ्जः पुंसाम् अविदुषां विद्धि भागवतान् हि तान्॥३४॥

यान् आस्थाय नरः राजन् न प्रमाद्येत कर्हिचित्।
धावन् निमील्य वा नेत्रे न स्खलेन पतेत् इह॥३५॥

कायेन वाचा मनसा इन्द्रियैः वा बुद्ध्या आत्मना वा अनुसृतस्वभावात्।
करोति यत् यत् सकलं परस्मै नारायणाय इति समर्पयेत् तत्॥३६॥

भयं द्वितीयाभिनिवेशतः स्यात् ईशात् अपेतस्य विपर्ययः अस्मृतिः।
तत् मायया अतः बुधः आभजेत् तं भक्त्या एक ईशं गुरुदेवताआत्मा॥३७॥

अविद्यमानः अपि अवभाति हि द्वयोः ध्यातुः धिया स्वप्नमनोरथौ यथा।
तत् कर्मसङ्कल्पविकल्पकं मनः बुधः निरुन्ध्यात् अभयं ततः स्यात्॥३८॥

श्रुण्वन् सुभद्राणि रथाङ्गपाणेः जन्मानि कर्माणि च यानि लोके।
गीतानि नामानि तत् अर्थकानि गायन् विलज्जः विचरेत् असङ्गः॥३९॥

एवं व्रतः स्वप्रियनामकीर्त्या जातानुरागः द्रुतचित्तः उच्चैः।
हसति अथः रोदिति रौति गायति उन्मादवत् नृत्यति लोकबाह्यः॥४०॥

खं वायुम् अग्निं सलिलं महीं च ज्योतींषि सत्त्वानि दिशः द्रुमआदीन्।
सरित् समुद्रान् च हरेः शरीरं यत्किञ्च भूतं प्रणमेत् अनन्यः॥४१॥

भक्तिः परेश अनुभवः विरक्तिः अन्यत्र एष त्रिकः एककालः।
प्रपद्यमानस्य यथा अश्नतः स्युः तुष्टिः पुष्टिः क्षुत् अपायः अनुघासम्॥४२॥

इति अच्युत अङ्घ्रिं भजतः अनुवृत्त्या भक्तिः विरक्तिः भगवत् प्रबोधः।
भवन्ति वै भागवतस्य राजन् ततः परां शान्तिम् उपैति साक्षात्॥४३॥

राजा उवाच।
अथ भागवतं ब्रूत यत् धर्मः यादृशः नृणाम्।
यथा चरति यत् ब्रूते यैः लिङ्गैः भगवत् प्रियः॥४४॥

हरिः उवाच।
सर्वभूतेषु यः पश्येत् भगवत् भाव आत्मनः।
भूतानि भागवति आत्मनि एष भागवतौत्तमः॥४५॥

ईश्वरे तत् अधीनेषु बालिशेषु द्विषत्सु च।
प्रेममैत्रीकृपाउपेक्षा यः करोति स मध्यमः॥४६॥

अर्चायाम् एव हरये पूजां यः श्रद्धया ईहते।
न तत् भक्तेषु च अन्येषु सः भक्तः प्राकृतः स्मृतः॥४७॥

गृहीत्वा अपि इन्द्रियैः अर्थान्यः न द्वेष्टि न हृष्यति।
विष्णोः मायाम् इदं पश्यन् सः वै भागवत उत्तमः॥४८॥

देहैन्द्रियप्राणमनःधियां यः जन्मापिअयक्षुत् भयतर्षकृच्छ्रैः।
संसारधर्मैः अविमुह्यमानः स्मृत्या हरेः भागवतप्रधानः॥४९॥

न कामकर्मबीजानां यस्य चेतसि सम्भवः।
वासुदेवएकनिलयः सः वै भागवत उत्तमः॥५०॥

न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः।
सज्जते अस्मिन् अहम्भावः देहे वै सः हरेः प्रियः॥५१॥

न यस्य स्वः परः इति वित्तेषु आत्मनि वा भिदा।
सर्वभूतसमः शान्तः सः वौ भागवत उत्तमः॥५२॥

त्रिभुवनविभवहेतवे अपि अकुण्ठस्मृतिः अजितआत्मसुरआदिभिः विमृग्यात्।
न चलति भगवत् पद अरविन्दात् लवनिमिष अर्धम् अपि यः सः वैष्णव अग्र्यः॥५३॥

भगवतः उरुविक्रम अङ्घ्रिशाखा नखमणिचन्द्रिकया निरस्ततापे।
हृदि कथम् उपसीदतां पुनः सः प्रभवति चन्द्रः इव उदिते अर्कतापः॥५४॥

विसृजति हृदयं न यस्य साक्षात् हरिः अवश अभिहितः अपि अघौघनाशः।
प्रणयः अशनया धृत अङ्घ्रिपद्मः सः भवति भागवतप्रधानः उक्तः॥५५॥

इति श्रीमत् भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कन्धे निमिजायन्तसंवादे द्वितीयः अध्यायः॥२॥

अथ तृतीयोऽध्यायः।
परस्य विष्णोः ईशस्य मायिनाम अपि मोहिनीम्।
मायां वेदितुम् इच्छामः भगवन्तः ब्रुवन्तु नः॥१॥

न अनुतृप्ये जुषन् युष्मत् वचः हरिकथा अमृतम्।
संसारतापनिःतप्तः मर्त्यः तत् ताप भेषजम्॥२॥

अन्तरिक्षः उवाच।
एभिः भूतानि भूतात्मा महाभूतैः महाभुज।
ससर्जोत् च अवचानि आद्यः स्वमात्रप्रसिद्धये॥३॥

एवं सृष्टानि भूतानि प्रविष्टः पञ्चधातुभिः।
एकधा दशधा आत्मानं विभजन् जुषते गुणान्॥४॥

गुणैः गुणान् सः भुञ्जानः आत्मप्रद्योदितैः प्रभुः।
मन्यमानः इदं सृष्टम् आत्मानम् इह सज्जते॥५॥

कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत्।
तत् तत् कर्मफलं गृह्णन् भ्रमति इह सुखैतरम्॥६॥

इत्थं कर्मगतीः गच्छन् बह्वभद्रवहाः पुमान्।
आभूतसम्प्लवात् सर्गप्रलयौ अश्नुते अवशः॥७॥

धातु उपप्लवः आसन्ने व्यक्तं द्रव्यगुणात्मकम्।
अनादिनिधनः कालः हि अव्यक्ताय अपकर्षति॥८॥

शतवर्षाः हि अनावृष्टिः भविष्यति उल्बणा भुवि।
तत् काल उपचित उष्ण अर्कः लोकान् त्रीन् प्रतपिष्यति॥९॥

पातालतलम् आरभ्य सङ्कर्षणमुख अनलः।
दहन् ऊर्ध्वशिखः विष्वक् वर्धते वायुना ईरितः॥१०॥

सांवर्तकः मेघगणः वर्षति स्म शतं समाः।
धाराभिः हस्तिहस्ताभिः लीयते सलिले विराट्॥११॥

ततः विराजम् उत्सृज्य वैराजः पुरुषः नृप।
अव्यक्तं विशते सूक्ष्मं निरिन्धनः इव अनलः॥१२॥

वायुना हृतगन्धा भूः सलिलत्वाय कल्पते।
सलिलं तत् धृतरसं ज्योतिष्ट्वाय उपकल्पते॥१३॥

हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते।
हृतस्पर्शः अवकाशेन वायुः नभसि लीयते।
कालात्मना हृतगुणं नवः आत्मनि लीयते॥१४॥

इन्द्रियाणि मनः बुद्धिः सह वैकारिकैः नृप।
प्रविशन्ति हि अहङ्कारं स्वगुणैः अहम् आत्मनि॥१५॥

एषा माया भगवतः सर्गस्थिति अन्तकारिणी।
त्रिवर्णा वर्णिता अस्माभिः किं भूयः श्रोतुम् इच्छसि॥१६॥

राजा उवाच।
यथा एताम् ऐश्वरीं मायां दुस्तराम् अकृतात्मभिः।
तरन्ति अञ्जः स्थूलधियः महर्षः इदम् उच्यताम् ्॥१७॥

प्रबुद्धः उवाच।
कर्माणि आरभमाणानां दुःखहत्यै सुखाय च।
पश्येत् पाकविपर्यासं मिथुनीचारिणां नृणाम्॥१८॥

नित्यार्तिदेन वित्तेन दुर्लभेन आत्ममृत्युना।
गृह अपत्यआप्तपशुभिः का प्रीतिः साधितैः चलैः॥१९॥

एवं लोकं परं विद्यात् नश्वरं कर्मनिर्मितम्।
सतुल्य अतिशय ध्वंसं यथा मण्डलवर्तिनाम्॥२०॥

तस्मात् गुरुं प्रपद्येत जिज्ञासुः श्रेयः उत्तमम्।
शाब्दे परे च निष्णातं ब्रह्मणि उपशमआश्रयम्॥२१॥

तत्र भागवतान् धर्मान् शिक्षेत् गुरुआत्मदैवतः।
अमायया अनुवृत्या यैः तुष्येत् आत्मा आत्मदः हरिः॥२२॥

सर्वतः मनसः असङ्गम् आदौ सङ्गं च साधुषु।
दयां मैत्रीं प्रश्रयं च भूतेषु अद्धा यथा उचितम्॥२३॥

शौचं तपः तितिक्षां च मौनं स्वाध्यायम् आर्जवम्।
ब्रह्मचर्यं अहिंसां च समत्वं द्वन्द्वसंज्ञयोः॥२४॥

सर्वत्र आत्मेश्वर अन्वीक्षां कैवल्यम् अनिकेतताम्।
विविक्तचीरवसनं सन्तोषं येन केनचित्॥२५॥

श्रद्धां भागवते शास्त्रे अनिन्दाम् अन्यत्र च अपि हि।
मनोवाक् कर्मदण्डं च सत्यं शमदमौ अपि॥२६॥

श्रवणं कीर्तनं ध्यानं हरेः अद्भुतकर्मणः।
जन्मकर्मगुणानां च तदर्थे अखिलचेष्टितम्॥२७॥

इष्टं दत्तं तपः जप्तं वृत्तं यत् च आत्मनः प्रियम्।
दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम्॥२८॥

एवं कृष्णआत्मनाथेषु मनुष्येषु च सौहृदम्।
परिचर्यां च उभयत्र महत्सु नृषु साधुषु॥२९॥

परस्पर अनुकथनं पावनं भगवत् यशः।
मिथः रतिः मिथः तुष्टिः निवृत्तिः मिथः आत्मनः॥३०॥

स्मरन्तः स्मारयन्तः च मिथः अघौघहरं हरिम्।
भक्त्या सञ्जातया भक्त्या बिभ्रति उत्पुलकां तनुम्॥३१॥

क्वचित् रुदन्ति अच्युतचिन्तया क्वचित् हसन्ति नन्दन्ति वदन्ति अलौकिकाः।
नृत्यन्ति गायन्ति अनुशीलयन्ति अजं भवन्ति तूष्णीं परम् एत्य निर्वृताः॥३२॥

इति भागवतान् धर्मान् शिक्षन् भक्त्या तदुत्थया।
नारायणपरः मायम् अञ्जः तरति दुस्तराम्॥३३॥

राजा उवाच।
नारायण अभिधानस्य ब्रह्मणः परमात्मनः।
निष्ठाम् अर्हथ नः वक्तुं यूयं हि ब्रह्मवित्तमाः॥३४॥

पिप्पलायनः उवाच।
स्थिति उद्भवप्रलयहेतुः अहेतुः अस्य यत् स्वप्नजागरसुषुप्तिषु सत् बहिः च।
देह इन्द्रियासुहृदयानि चरन्ति येन सञ्जीवितानि तत् अवेहि परं नरेन्द्र॥३५॥

न एतत् मनः विशति वागुत चक्षुः आत्मा प्राणेन्द्रियाणि च यथा अनलम् अर्चिषः स्वाः।
शब्दः अपि बोधकनिषेधतया आत्ममूलम् अर्थ उक्तम् आह यदृते न निषेधसिद्धिः॥३६॥

सत्वम् रजः तमः इति त्रिवृदेकम् आदौ सूत्रं महान् अहम् इति प्रवदन्ति जीवम्।
ज्ञानक्रिया अर्थफलरूपतयोः उशक्ति ब्रह्म एव भाति सत् असत् च तयोः परं यत्॥३७॥

न आत्मा जजान न मरिष्यति न एधते असौ न क्षीयते सवनवित् व्यभिचारिणां हि।
सर्वत्र शस्वदनपायि उपलब्धिमात्रं प्राणः यथा इन्द्रियवलेन विकल्पितं सत्॥३८॥

अण्डेषु पेशिषु तरुषु अविनिश्चितेषु प्राणः हि जीवम् उपधावति तत्र तत्र।
सन्ने यत् इन्द्रियगणे अहमि च प्रसुप्ते कूटस्थः आशयमृते तत् अनुस्मृतिः नः॥३९॥

यः हि अब्ज नाभ चरण एषणयोः उभक्त्या चेतोमलानि विधमेत् गुणकर्मजानि।
तस्मिन् विशुद्धः उपलभ्यतः आत्मतत्त्वम् साक्षात् यथा अमलदृशः सवितृप्रकाशः॥४०॥

कर्मयोगं वदत नः पुरुषः येन संस्कृतः।
विधूय इह आशु कर्माणि नैष्कर्म्यं विन्दते परम्॥४१॥

एवं प्रश्नम् ऋषिन् पूर्वम् अपृच्छं पितुः अन्तिके।
न अब्रुवन् ब्रह्मणः पुत्राः तत्र कारणम् उच्यताम्॥४२॥

आविर्होत्रः उवाच।
कर्म अकर्मविकर्म इति वेदवादः न लौकिकः।
वेदस्य च ईश्वरआत्मत्वात् तत्र मुह्यन्ति सूरयः॥४३॥

परोक्षवादः वेदः अयं बालानाम् अनुशासनम्।
कर्ममोक्षाय कर्माणि विधत्ते हि अगदं यथा॥४४॥

न आचरेत् यः तु वेद उक्तं स्वयम् अज्ञः अजितेन्द्रियः।
विकर्मणा हि अधर्मेण मृत्योः मृत्युम् उपैति सः॥४५॥

वेद उक्तम् एव कुर्वाणः निःसङ्गः अर्पितम् ईश्वरे।
नैष्कर्म्यां लभते सिद्धिं रोचनार्था फलश्रुतिः॥४६॥

यः आशु हृदयग्रन्थिं निर्जिहीषुः परात्मनः।
विधिना उपचरेत् देवं तन्त्र उक्तेन च केशवम्॥४७॥

लब्ध अनुग्रहः आचार्यात् तेन सन्दर्शितआगमः।
महापुरुषम् अभ्यर्चेत् मूर्त्या अभिमतया आत्मनः॥४८॥

शुचिः संमुखम् आसीनः प्राणसंयमनआदिभिः।
पिण्डं विशोध्य संन्यासकृतरक्षः अर्चयेत् हरिम्॥४९॥

अर्चआदौ हृदये च अपि यथालब्ध उपचारकैः।
द्रव्यक्षितिआत्मलिङ्गानि निष्पाद्य प्रोक्ष्य च आसनम्॥५०॥

पाद्यआदीन् उपकल्प्या अथ संनिधाप्य समाहितः।
हृत् आदिभिः कृतन्यासः मूलमन्त्रेण च अर्चयेत्॥५१॥

साङ्गोपाङ्गां सपार्षदां तां तां मूर्तिं स्वमन्त्रतः।
पाद्य अर्घ्यआचमनीयआद्यैः स्नानवासःविभूषणैः॥५२॥

गन्धमाल्याक्षतस्रग्भिः धूपदीपहारकैः।
साङ्गं सम्पूज्य विधिवत् स्तवैः स्तुत्वा नमेत् हरिम्॥५३॥

आत्मां तन्मयं ध्यायन् मूर्तिं सम्पूजयेत् हरेः।
शेषाम् आधाय शिरसि स्वधाम्नि उद्वास्य सत्कृतम्॥५४॥

एवम् अग्नि अर्कतोयआदौ अतिथौ हृदये च यः।
यजति ईश्वरम् आत्मानम् अचिरात् मुच्यते हि सः॥५५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे निमिजायन्तसंवादे
मायाकर्मब्रह्मनिरूपणं तृतीयोऽध्यायः॥३॥


अथ चतुर्थोऽध्यायः।
राजा उवाच।
यानि यानि इह कर्माणि यैः यैः स्वच्छन्दजन्मभिः।
चक्रे करोति कर्ता वा हरिः तानि ब्रुवन्तु नः॥१॥

द्रुमिलः उवाच।
यः वा अनन्तस्य गुणान् अनन्तान् अनुक्रमिष्यन् सः तु बालबुद्धिः।
रजांसि भूमेः गणयेत् कथञ्चित् कालेन न एव अखिलशक्तिधाम्नः॥२॥

भूतैः यदा पञ्चभिः आत्मसृष्टैः पुरं विराजं विरचय्य तस्मिन्।
स्वांशेन विष्टः पुरुषाभिधान मवाप नारायणः आदिदेवः॥३॥

यत् कायः एषः भुवनत्रयसंनिवेशः यस्य इन्द्रियैः तनुभृताम् उभयैन्द्रियाणि।
ज्ञानं स्वतः श्वसनतः बलम् ओजः ईहा सत्त्वआदिभिः स्थितिलयौद्भवः आदिकर्ता॥४॥

आदौ अभूत् शतधृती रजस अस्य सर्गे विष्णु स्थितौ क्रतुपतिः द्विजधर्मसेतुः।
रुद्रः अपि अयाय तमसा पुरुषः सः आद्यः इति उद्भवस्थितिलयाः सततं प्रजासु॥५॥

धर्मस्य दक्षदुहितर्यजनिष्टः मूर्त्या नारायणः नरः ऋषिप्रवरः प्रशान्तः।
नैष्कर्म्यलक्षणम् उवाच चचार कर्म यः अद्य अपि च आस्त ऋषिवर्यनिषेविताङ्घ्रिः॥६॥

इन्द्रः विशङ्क्य मम धाम जिघृक्षति इति कामं न्ययुङ्क्त सगणं सः बदरिउपाख्यम्।
गत्वा अप्सरोगणवसन्तसुमन्दवातैः स्त्रीप्रेक्षण इषुभिः अविध्यतत् महिज्ञः॥७॥

विज्ञाय शक्रकृतम् अक्रमम् आदिदेवः प्राह प्रहस्य गतविस्मयः एजमानान्।
मा भैष्ट भो मदन मारुत देववध्वः गृह्णीत नः बलिम् अशून्यम् इमं कुरुध्वम्॥८॥

इत्थं ब्रुवति अभयदे नरदेव देवाः सव्रीडनम्रशिरसः सघृणम् तम् ऊचुः।
न एतत् विभो त्वयि परे अविकृते विचित्रम् स्वारामधीः अनिकरानतपादपद्मे॥९॥

त्वां सेवतां सुरकृता बहवः अन्तरायाः स्वौको विलङ्घ्य परमं व्रजतां पदं ते।
न अन्यस्य बर्हिषि बलीन् ददतः स्वभागान् धत्ते पदं त्वम् अविता यदि विघ्नमूर्ध्नि॥१०॥

क्षुत् तृट्त्रिकालगुणमारुतजैव्ह्यशैश्न्यान् अस्मान् अपारजलधीन् अतितीर्य केचित्।
क्रोधस्य यान्ति विफलस्य वश पदे गोः मज्जन्ति दुश्चरतपः च वृथा उत्सृजन्ति॥११॥

इति प्रगृणतां तेषां स्त्रियः अति अद्भुतदर्शनाः।
दर्शयामास शुश्रूषां स्वर्चिताः कुर्वतीः विभुः॥१२॥

ते देव अनुचराः दृष्ट्वा स्त्रियः श्रीः इव रूपिणीः।
गन्धेन मुमुहुः तासां रूप औदार्यहतश्रियः॥१३॥

तान् आह देवदेव ईशः प्रणतान् प्रहसन् इव।
आसाम् एकतमां वृङ्ग्ध्वं सवर्णां स्वर्गभूषणाम्॥१४॥

ओम् इति आदेशम् आदाय नत्वा तं सुरवन्दिनः।
उर्वशीम् अप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः॥१५॥

इन्द्राय आनम्य सदसि श्रुण्वतां त्रिदिवौकसाम्।
ऊचुः नारायणबलं शक्रः तत्र आस विस्मितः॥१६॥

हंसस्वरूपी अवददत् अच्युतः आत्मयोगम् दत्तः कुमार ऋषभः भगवान् पिता नः।
विष्णुः शिवाय जगतां कलया अवतीर्णः तेन आहृताः मधुभिदा श्रुतयः हयास्ये॥१७॥

गुप्तः अपि अये मनुः इला ओषधयः च मात्स्ये क्रौडे हतः दितिजः उद्धरता अम्भसः क्ष्माम्।
कौर्मे धृतः अद्रिः अमृत उन्मथने स्वपृष्ठे ग्राहात् प्रपन्नमिभराजम् अमुञ्चत् आर्तम्॥१८॥

संस्तुन्वतः अब्धिपतितान् श्रमणान् ऋषीं च शक्रं च वृत्रवधतः तमसि प्रविष्टम्।
देवस्त्रियः असुरगृहे पिहिताः अनाथाः जघ्ने असुरेन्द्रम् अभयाय सतां नृसिंहे॥१९॥

देव असुरे युधि च दैत्यपतीन् सुरार्थे हत्वा अन्तरेषु भुवनानि अदधात् कलाभिः।
भूत्वा अथ वामनः इमाम् अहरत् बलेः क्ष्माम् याञ्चाच्छलेन समदात् अदितेः सुतेभ्यः॥२०॥

निःक्षत्रियाम् अकृत गां च त्रिःसप्तकृत्वः रामः तु हैहयकुल अपि अयभार्गव अग्निः।
सः अब्धिं बबन्ध दशवक्त्रम् अहन् सलङ्कम् सीतापतिः जयति लोकम् अलघ्नकीर्तिः॥२१॥

भूमेः भर अवतरणाय यदुषि अजन्मा जातः करिष्यति सुरैः अपि दुष्कराणि।
वादैः विमोहयति यज्ञकृतः अतदर्हान् शूद्रां कलौ क्षितिभुजः न्यहनिष्यदन्ते॥२२॥

एवंविधानि कर्माणि जन्मानि च जगत् पतेः।
भूरीणि भूरियशसः वर्णितानि महाभुज॥२३॥

इति श्रीमद्भगवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे निमिजायन्तसंवादे
चतुर्थोऽध्यायः॥४॥

अथ पञ्चमोऽध्यायः।
राजा उवाच।
भगवन्तं हरिं प्रायः न भजन्ति आत्मवित्तमाः।
तेषाम् अशान्तकामानां का निष्ठा अविजितात्मनाम्॥१॥

चमसः उवाच।
मुखबाहूरूपआदेभ्यः पुरुषस्य आश्रमैः सह।
चत्वारः जज्ञिरे वर्णाः गुणैः विप्रआदयः पृथक्॥२॥

यः एषां पुरुषं साक्षात् आत्मप्रभवम् ईश्वरम्।
न भजन्ति अवजानन्ति स्थानात् भ्रष्टाः पतन्ति अधः॥३॥

दूरे हरिकथाः केचित् दूरे च अच्युतकीर्र्तनाः।
स्त्रियः शूद्रआदयः च एव ते अनुकम्प्या भवादृशाम्॥४॥

विप्रः राजन्यवैश्यौ च हरेः प्राप्ताः पदान्तिकम्।
श्रौतेन जन्मना अथ अपि मुह्यन्ति आम्नायवादिनः॥५॥

कर्मणि अकोविदाः स्तब्धाः मूर्खाः पण्डितमानिनः।
वदन्ति चाटुकात् मूढाः यया माध्व्या गिर उत्सुकाः॥६॥

रजसा घोरसङ्कल्पाः कामुकाः अहिमन्यवः।
दाम्भिकाः मानिनः पापाः विहसन्ति अच्युतप्रियान्॥७॥

वदन्ति ते अन्योन्यम् उपासितस्त्रियः गृहेषु मैथुन्यसुखेषु च आशिषः।
यजन्ति असृष्टान् अविधान् अदक्षिणम् वृत्त्यै परं घ्नन्ति पशून् अतद्विदः॥८॥

श्रिया विभूत्या अभिजनेन विद्यया त्यागेन रूपेण।
बलेन कर्मणा सतः अवमन्यन्ति हरिप्रियान् खलाः॥९॥

सर्वेषु शश्वत् तनुभृत् स्ववस्थितम् यथा स्वम् आत्मानम् अभीष्टम् ईश्वरम्।
वेदोपगीतं च न श्रुण्वते अबुधाः मनोरथानां प्रवदन्ति वार्तया॥१०॥

लोके व्यवाय आमिषम् अद्यसेवा नित्याः तु जन्तोः न हि तत्र चोदना।
व्यवस्थितिः तेषु विवाहयज्ञ सुराग्रहैः आसु निवृत्तिः इष्टा॥११॥

धनं च धर्मएकफलं यतः वै ज्ञानं सविज्ञानम् अनुप्रशान्ति।
गृहेषु युञ्जन्ति कलेवरस्य मृत्युं न पश्यन्ति दुरन्तवीर्यम्॥१२॥

यत् घ्राणभक्षः विहितः सुरायाः तथा पशोः आलभनं न हिंसा।
एवं व्यवायः प्रजया न रत्या इअमं विशुद्धं न विदुः स्वधर्मम्॥१३॥

ये तु अनेवंविदः असन्तः स्तब्धाः सत् अभिमानिनः।
पशून् द्रुह्यन्ति विस्रब्धाः प्रेत्य खादन्ति ते च तान्॥१४॥

द्विषन्तः परकायेषु स्वात्मानं हरिम् ईश्वरम्।
मृतके सानुबन्धे अस्मिन् बद्धस्नेहाः पतन्ति अधः॥१५॥

ये कैवल्यम् असम्प्राप्ताः ये च अतीताः च मूढताम्।
त्रैवर्गिकाः हि अक्षणिकाः आत्मानं घातयन्ति ते॥१६॥

एतः आत्महनः अशान्ताः अज्ञाने ज्ञानमानिनः।
सीदन्ति अकृतकृत्याः वै कालध्वस्तमनोरथाः॥१७॥

हित्वा आत्याय असरचिताः गृह अपत्यसुहृत् श्रियः।
तमः विशन्ति अनिच्छन्तः वासुदेवपराङ्मुखाः॥१८॥

राजा उवाच।
कस्मिन् काले सः भगवान् किं वर्णः कीदृशः नृभिः।
नाम्ना वा केन विधिना पूज्यते तत् इह उच्यताम्॥१९॥

करभाजनः उवाच।
कृतं त्रेता द्वापरं च कलिः इत्येषु केशवः।
नानावर्ण अभिधआकारः नाना एव विधिना इज्यते॥२०॥

कृते शुक्लः चतुर्बाहुः जटिलः वल्कलाम्बरः।
कृष्णाजिनौपवीताक्षान् बिभ्रत् दण्डकमण्डलून्॥२१॥

मनुष्याः तु तदा शान्ताः निर्वैराः सुहृदः समाः।
यजन्ति तपसा देवं शमेन च दमेन च॥२२॥

हंसः सुपर्णः वैकुण्ठः धर्मः योगेश्वरः अमलः।
ईश्वरः पुरुषः अव्यक्तः परमात्मा इति गीयते॥२३॥

त्रेतायां रक्तवर्णः असौ चतुर्बाहुः त्रिमेखलः।
हिरण्यकेशः त्रयी आत्मा स्रुक्स्रुवआदि उपलक्षणः॥२४॥

तं तदा मनुजा देवं सर्वदेवमयं हरिम्।
यजन्ति विद्यया त्रय्या धर्मिष्ठाः ब्रह्मवादिनः॥२५॥

विष्णुः यज्ञः पृष्णिगर्भः सर्वदेवः उरुक्रमः।
वृषाकपिः जयन्तः च उरुगाय इति ईर्यते॥२६॥

द्वापरे भगवान् श्यामः पीतवासा निजायुधः।
श्रीवत्सआदिभिः अङ्कैः च लक्षणैः उपलक्षितः॥२७॥

तं तदा पुरुषं मर्त्या महाराजौपलक्षणम्।
यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवः नृप॥२८॥

नमः ते वासुदेवाय नमः सङ्कर्षणाय च।
प्रद्युम्नाय अनिरुद्धाय तुभ्यं भगवते नमः॥२९॥

नारायणाय ऋषये पुरुषाय महात्मने।
विश्वेश्वराय विश्वाय सर्वभूतआत्मने नमः॥३०॥

इति द्वापरः उर्वीश स्तुवन्ति जगदीश्वरम्।
नानातन्त्रविधानेन कलौ अपि यथा श्रुणु॥३१॥

कृष्णवर्णं त्विषाकृष्णं साङ्गौपाङ्गास्त्र पार्षदम्।
यज्ञैः सङ्कीर्तनप्रायैः यजन्ति हि सुमेधसः॥३२॥

ध्येयं सदा परिभवघ्नम् अभीष्टदोहम् तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम्।
भृत्यार्तिहन् प्रणतपाल भवाब्धिपोतम् वन्दे महापुरुष ते चरणारविन्दम्॥३३॥

त्यक्त्वा सुदुस्त्यजसुरैप्सितराज्यलक्ष्मीम् धर्मिष्ठः आर्यवचसा यत् अगात् अरण्यम्।
मायामृगं दयितया इप्सितम् अन्वधावत् वन्दे महापुरुष ते चरणारविन्दम्॥३४॥

एवं युगानुरूपाभ्यां भगवान् युगवर्तिभिः।
मनुजैः इज्यते राजन् श्रेयसाम् ईश्वरः हरिः॥३५॥

कलिं सभाजयन्ति आर्या गुणज्ञाः सारभागिनः।
यत्र सङ्कीर्तनेन एव सर्वः स्वार्थः अभिलभ्यते॥३६॥

न हि अतः परमः लाभः देहिनां भ्राम्यताम् इह।
यतः विन्देत परमां शान्तिं नश्यति संसृतिः॥३७॥

कृतआदिषु प्रजा राजन् कलौ इच्छन्ति सम्भवम्।
कलौ खलु भविष्यन्ति नारायणपरायणाः॥३८॥

क्वचित् क्वचित् महाराज द्रविडेषु च भूरिशः।
ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी॥३९॥

कावेरी च महापुण्या प्रतीची च महानदी।
ये पिबन्ति जलं तासां मनुजा मनुजेश्वर।
प्रायः भक्ताः भगवति वासुदेवः अमल आशयाः॥४०॥

देवर्षिभूतआप्तनृणा पितॄणा.म् न किङ्करः न अयं ऋणी च राजन्।
सर्वआत्मना यः शरणं शरण्यम् गतः मुकुन्दं परिहृत्य कर्तुम्॥४१॥

स्वपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः।
विकर्म यत् च उत्पतितं कथंचित् धुनोति सर्वं हृदि संनिविष्टः॥४२॥

नारदः उवाच।
धर्मान् भागवतान् इत्थं श्रुत्वा अथ मिथिलेश्वरः।
जायन्त इयान् मुनीन् प्रीतः सोपाध्यायः हि अपूजयत्॥४३॥

ततः अन्तः दधिरे सिद्धाः सर्वलोकस्य पश्यतः।
राजा धर्मान् उपातिष्ठन् अवाप परमां गतिम्॥४४॥

त्वम् अपि एतान् महाभाग धर्मान् भागवतान् श्रुतान्।
आस्थितः श्रद्धया युक्तः निःसङ्गः यास्यसे परम्॥४५॥

युवयोः खलु दम्पत्योः यशसा पूरितं जगत्।
पुत्रताम् अगमत् यत् वां भगवान् ईश्वरः हरिः॥४६॥

दर्शनआलिङ्गनआलापैः शयनआसनभोजनैः।
आत्मा वां पावितः कृष्णे पुत्रस्नेह प्रकुर्वतोः॥४७॥

वैरेण यं नृपतयः शिशुपालपौण्ड्र शाल्वआदयः गतिविलासविलोकनआदयैः।
ध्यायन्तः आकृतधियः शयनआसनआदौ तत् साम्यम् आपुः अनुरक्तधियां पुनः किम्॥४८॥

मा अपत्यबुद्धिम् अकृथाः कृष्णे सर्वआत्मनैइश्वरे।
मायामनुष्यभावेन गूढ ऐश्वर्ये परे अव्यये॥४९॥

भूभारराजन्यहन्तवे गुप्तये सताम्।
अवतीर्णस्य निर्वृत्यै यशः लोके वितन्यते॥५०॥

श्रीशुकः उवाच।
एतत् श्रुत्वा महाभागः वसुदेवः अतिविस्मितः।
देवकी च महाभागाः जहतुः मोहम् आत्मनः॥५१॥

इतिहासम् इमं पुण्यं धारयेत् यः समाहितः।
सः विधूय इह शमलं ब्रह्मभूयाय कल्पते॥५२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे वसुदेवनारदसंवादे
पञ्चमोऽध्यायः॥५॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. गीता
  2. उद्धवगीता
    1. उद्धवगीता १ (अध्याय ०१-०५)
    2. उद्धवगीता २ (अध्याय ०६-१०)
    3. उद्धवगीता ३ (अध्याय ११-१५)
    4. उद्धवगीता ४ (अध्याय १६-२०)
    5. उद्धवगीता ५ (अध्याय २१-२५)
    6. उद्धवगीता ६ (अध्याय २६-३०)
    7. उद्धवगीता ७ (अध्याय ३१)

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=उद्धवगीता_१&oldid=46959" इत्यस्माद् पुनः प्राप्तिः