उद्धवगीता ४
अथ षोडशोऽध्यायः।
उद्धवः उवाच।
त्वं ब्रह्म परमं साक्षात् अनादि अनन्तम् अपावृतम्।
सर्वेषाम् अपि भावानां त्राणस्थिति अप्यय उद्भवः॥१॥
उच्चावचेषु भूतेषु दुर्ज्ञेयम् अकृत आत्मभिः।
उपासते त्वां भगवन् याथातथ्येन ब्राह्मणाः॥२॥
येषु येषु च भावेषु भक्त्या त्वां परमर्षयः।
उपासीनाः प्रपद्यन्ते संसिद्धिं तत् वदस्व मे॥३॥
गूढः चरसि भूतात्मा भूतानां भूतभावन।
न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते॥४॥
याः काः च भूमौ दिवि वै रसायाम् विभूतयः दिक्षु महाविभूते।
ताः मह्यम् आख्याहि अनुभाविताः ते नमामि ते तीर्थ पद अङ्घ्रिपद्मम्॥५॥
श्रीभगवान् उवाच।
एवम् एतत् अहं पृष्टः प्रश्नं प्रश्नविदां वर।
युयुत्सुना विनशने सपत्नैः अर्जुनेन वै॥६॥
ज्ञात्वा ज्ञातिवधं गर्ह्यम् अधर्मं राज्यहेतुकम्।
ततः निवृत्तः हन्ता अहं हतः अयम् इति लौकिकः॥७॥
सः तदा पुरुषव्याघ्रः युक्त्या मे प्रतिबोधितः।
अभ्यभाषत माम् एवं यथा त्वं रणमूर्धनि॥८॥
अहम् आत्मा उद्धव आमीषां भूतानां सुहृत् ईश्वरः।
अहं सर्वाणि भूतानि तेषां स्थिति उद्भव अप्ययः॥९॥
अहं गतिः गतिमतां कालः कलयताम् अहम्।
गुणानां च अपि अहं साम्यं गुणिन्या उत्पत्तिकः गुणः॥१०॥
गुणिनाम् अपि अहं सूत्रं महतां च महान् अहम्।
सूक्ष्माणाम् अपि अहं जीवः दुर्जयानाम् अहं मनः॥११॥
हिरण्यगर्भः वेदानां मन्त्राणां प्रणवः त्रिवृत्।
अक्षराणाम् अकारः अस्मि पदानि छन्दसाम् अहम्॥१२॥
इन्द्रः अहं सर्वदेवानां वसूनामस्मि हव्यवाट्।
आदित्यानाम् अहं विष्णू रुद्राणां नीललोहितः॥१३॥
ब्रह्मर्षीणां भृगुः अहं राजर्षीणाम् अहं मनुः।
देवर्षिणां नारदः अहं हविर्धानि अस्मि धेनुषु॥१४॥
सिद्धेश्वराणां कपिलः सुपर्णः अहं पतत्रिणाम्।
प्रजापतीनां दक्षः अहं पितृइणाम् अहम् अर्यमा॥१५॥
मां विद्धि उद्धव दैत्यानां प्रह्लादम् असुरेश्वरम्।
सोमं नक्षत्र ओषधीनां धनेशं यक्षरक्षसाम्॥१६॥
ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम्।
तपतां द्युमतां सूर्यं मनुष्याणां च भूपतिम्॥१७॥
उच्चैःश्रवाः तुरङ्गाणां धातूनाम् अस्मि काञ्चनम्।
यमः संयमतां च अहं सर्पाणाम् अस्मि वासुकिः॥१८॥
नागेन्द्राणा.म् अनन्तः अहं मृगेन्द्रः शृङ्गिदंष्ट्रिणाम्।
आश्रमाणाम् अहं तुर्यः वर्णानां प्रथमः अनघ॥१९॥
तीर्थानां स्रोतसां गङ्गा समुद्रः सरसाम् अहम्।
आयुधानां धनुः अहं त्रिपुरघ्नः धनुष्मताम्॥२०॥
धिष्ण्यानाम् अस्मि अहं मेरुः गहनानां हिमालयः।
वनस्पतीनाम् अश्वत्थः ओषधीनाम् अहं यवः॥२१॥
पुरोधसां वसिष्ठः अहं ब्रह्मिष्ठानां बृहस्पतिः।
स्कन्दः अहं सर्वसेनान्याम् अग्रण्यां भगवान् अजः॥२२॥
यज्ञानां ब्रह्मयज्ञः अहं व्रतानाम् अविहिंसनम्।
वायु अग्नि अर्क अम्बु वाक् आत्मा शुचीनाम् अपि अहं शुचिः॥२३॥
योगानाम् आत्मसंरोधः मन्त्रः अस्मि विजिगीषताम्।
आन्वीक्षिकी कौशलानां विकल्पः ख्यातिवादिनाम्॥२४॥
स्त्रीणां तु शतरूपा अहं पुंसां स्वायंभुवः मनुः।
नारायणः मुनीनां च कुमारः ब्रह्मचारिणाम्॥२५॥
धर्माणाम् अस्मि संन्यासः क्षेमाणाम् अबहिः मतिः।
गुह्यानां सूनृतं मौनं मिथुनानाम् अजः तु अहम्॥२६॥
संवत्सरः अस्मि अनिमिषाम् ऋतूनां मधुमाधवौ।
मासानां मार्गशीर्षः अहं नक्षत्राणां तथा अभिजित्॥२७॥
अहं युगानां च कृतं धीराणां देवलः असितः।
द्वैपायनः अस्मि व्यासानां कवीनां काव्यः आत्मवान्॥२८॥
वासुदेवः भगवतां त्वं भागवतेषु अहम्।
किंपुरुषाणां हनुमान् विद्याघ्राणां सुदर्शनः॥२९॥
रत्नानां पद्मरागः अस्मि पद्मकोशः सुपेशसाम्।
कुशः अस्मि दर्भजातीनां गव्यम् आज्यं हविष्षु अहम्॥३०॥
व्यवसायिनाम् अहं लक्ष्मीः कितवानां छलग्रहः।
तितिक्षा अस्मि तितिक्षणां सत्त्वं सत्त्ववताम् अहम्॥३१॥
ओजः सहोबलवतां कर्म अहं विद्धि सात्त्वताम्।
सात्त्वतां नवमूर्तीनाम् आदिमूर्तिः अहं परा॥३२॥
विश्वावसुः पूर्वचित्तिः गन्धर्व अप्सरसाम् अहम्।
भूधराणाम् अहं स्थैर्यं गन्धमात्रम् अहं भुवः॥३३॥
अपां रसः च परमः तेजिष्ठानां विभावसुः।
प्रभा सूर्य इन्दु ताराणां शब्दः अहं नभसः परः॥३४॥
ब्रह्मण्यानां बलिः अहं विराणाम् अहम् अर्जुनः।
भूतानां स्थितिः उत्पत्तिः अहं वै प्रतिसङ्क्रमः॥३५॥
गति उक्ति उत्सर्ग उपादानम् आनन्द स्पर्श लक्षणम्।
आस्वाद श्रुति अवघ्राणम् अहं सर्वेन्द्रिय इन्द्रियम्॥३६॥
पृथिवी वायुः आकाशः आपः ज्योतिः अहं महान्।
विकारः पुरुषः अव्यक्तं रजः सत्त्वं तमः परम्।
अहम् एतत् प्रसङ्ख्यानं ज्ञानं सत्त्वविनिश्चयः॥३७॥
मया ईश्वरेण जीवेन गुणेन गुणिना विना।
सर्वात्मना अपि सर्वेण न भावः विद्यते क्वचित्॥३८॥
संख्यानं परमाणूनां कालेन क्रियते मया।
न तथा मे विभूतीनां सृजतः अण्डानि कोटिशः॥३९॥
तेजः श्रीः कीर्तिः ऐश्वर्यं ह्रीः त्यागः सौभगं भगः।
वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मे अंशकः॥४०॥
एताः ते कीर्तिताः सर्वाः संक्षेपेण विभूतयः।
मनोविकाराः एव एते यथा वाचा अभिधीयते॥४१॥
वाचं यच्छ मनः यच्छ प्राणानि यच्छ इन्द्रियाणि च।
आत्मानम् आत्मना यच्छ न भूयः कल्पसे अध्वने॥४२॥
यः वै वाक् मनसि सम्यक् असंयच्छन् धिया यतिः।
तस्य व्रतं तपः दानं स्रवत्यामघटाम्बुवत्॥४३॥
तस्मात् मनः वचः प्राणान् नियच्छेत् मत् परायणः।
मत् भक्ति युक्तया बुद्ध्या ततः परिसमाप्यते॥४४॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
विभूतियोगो नाम षोडशोऽध्यायः॥१६॥
अथ सप्तदशोऽध्यायः।
उद्धवः उवाच।
यः त्वया अभितः पूर्वं धर्मः त्वत् भक्तिलक्षणः।
वर्णाश्रम आचारवतां सर्वेषां द्विपदाम् अपि॥१॥
यथा अनुष्ठीयमानेन त्वयि भक्तिः नृणां भवेत्।
स्वधर्मेण अरविन्दाक्ष तत् समाख्यातुम् अर्हसि॥२॥
पुरा किल महाबाहो धर्मं परमकं प्रभो।
यत् तेन हंसरूपेण ब्रह्मणे अभ्यात्थ माधव॥३॥
सः इदानीं सुमहता कालेन अमित्रकर्शन।
न प्रायः भविता मर्त्यलोके प्राक् अनुशासितः॥४॥
वक्ता कर्ता अविता न अन्यः धर्मस्य अच्युत ते भुवि।
सभायाम् अपि वैरिञ्च्यां यत्र मूर्तिधराः कलाः॥५॥
कर्त्रा अवित्रा प्रवक्त्रा च भवता मधुसूदन।
त्यक्ते महीतले देव विनष्टं कः प्रवक्ष्यति॥६॥
तत्त्वं नः सर्वधर्मज्ञ धर्मः त्वत् भक्तिलक्षणः।
यथा यस्य विधीयेत तथा वर्णय मे प्रभो॥७॥
श्रीशुकः उवाच।
इत्थं स्वभृत्यमुख्येन पृष्टः सः भगवान् हरिः।
प्रीतः क्षेमाय मर्त्यानां धर्मान् आह सनातनान्॥८॥
श्रीभगवान् उवाच।
धर्म्यः एष तव प्रश्नः नैःश्रेयसकरः नृणाम्।
वर्णाश्रम आचारवतां तम् उद्धव निबोध मे॥९॥
आदौ कृतयुगे वर्णः नृणां हंसः इति स्मृतः।
कृतकृत्याः प्रजाः जात्याः तस्मात् कृतयुगं विदुः॥१०॥
वेदः प्रणवः एव अग्रे धर्मः अहं वृषरूपधृक्।
उपासते तपोनिष्ठां हंसं मां मुक्तकिल्बिषाः॥११॥
त्रेतामुखे महाभाग प्राणात् मे हृदयात् त्रयी।
विद्या प्रादुः अभूत् तस्याः अहम् आसं त्रिवृन्मखः॥१२॥
विप्र क्षत्रिय विट् शूद्राः मुख बाहु उरु पादजाः।
वैराजात् पुरुषात् जाताः यः आत्माचारलक्षणाः॥१३॥
गृहाश्रमः जघनतः ब्रह्मचर्यं हृदः मम।
वक्षःस्थानात् वने वासः न्यासः शीर्षणि संस्थितः॥१४॥
वर्णानाम् आश्रमाणां च जन्मभूमि अनुसारिणीः।
आसन् प्रकृतयः नॄणां नीचैः नीच उत्तम उत्तमाः॥१५॥
शमः दमः तपः शौचं सन्तोषः क्षान्तिः आर्जवम्।
मद्भक्तिः च दया सत्यं ब्रह्मप्रकृतयः तु इमाः॥१६॥
तेजः बलं धृतिः शौर्यं तितिक्षा औदार्यम् उद्यमः।
स्थैर्यं ब्रह्मणि अत ऐश्वर्यं क्षत्रप्रकृतयः तु इमाः॥१७॥
आस्तिक्यं दाननिष्ठा च अदम्भः ब्रह्मसेवनम्।
अतुष्टिः अर्थ उपचयैः वैश्यप्रकृतयः तु इमाः॥१८॥
शुश्रूषणं द्विजगवां देवानां च अपि अमायया।
तत्र लब्धेन सन्तोषः शूद्रप्रकृतयः तु इमाः॥१९॥
अशौचम् अनृतं स्तेयं नास्तिक्यं शुष्कविग्रहः।
कामः क्रोधः च तर्षः च स्वभावः अन्तेवसायिनाम्॥२०॥
अहिंसा सत्यम् अस्तेयम् अकामक्रोधलोभता।
भूतप्रियहितेहा च धर्मः अयं सार्ववर्णिकः॥२१॥
द्वितीयं प्राप्य अनुपूर्व्यात् जन्म उपनयनं द्विजः।
वसन् गुरुकुले दान्तः ब्रह्म अधीयीत च आहुतः॥२२॥
मेखला अजिन दण्ड अक्ष ब्रह्मसूत्र कमण्डलून्।
जटिलः अधौतदद्वासः अरक्तपीठः कुशान् दधत्॥२३॥
स्नान भोजन होमेषु जप उच्चारे च वाग्यतः।
न च्छिन्द्यात् नख रोमाणि कक्ष उपस्थगतानि अपि॥२४॥
रेतः न अवरिकेत् जातु ब्रह्मव्रतधरः स्वयम्।
अवकीर्णे अवगाह्य अप्सु यतासुः त्रिपदीं जपेत्॥२५॥
अग्नि अर्क आचार्य गो विप्र गुरु वृद्ध सुरान् शुचिः।
समाहितः उपासीत सन्ध्ये च यतवाक् जपन्॥२६॥
आचार्यं मां विजानीयात् न अवमन्येत कर्हिचित्।
न मर्त्यबुद्धि आसूयेत सर्वदेवमयः गुरुः॥२७॥
सायं प्रातः उपानीय भैक्ष्यं तस्मै निवेदयेत्।
यत् च अन्यत् अपि अनुज्ञातम् उपयुञ्जीत संयतः॥२८॥
शुश्रूषमाणः आचार्यं सदा उपासीत नीचवत्।
यान शय्या आसन स्थानैः न अतिदूरे कृताञ्जलिः॥२९॥
एवंवृत्तः गुरुकुले वसेत् भोगविवर्जितः।
विद्या समाप्यते यावत् बिभ्रत् व्रतम् अखण्डितम्॥३०॥
यदि असौ छन्दसां लोकम् आरोक्ष्यन् ब्रह्मविष्टपम्।
गुरवे विन्यसेत् देहं स्वाध्यायार्थं वृहत् व्रतः॥३१॥
अग्नौ गुरौ आत्मनि च सर्वभूतेषु मां परम्।
अपृथक् धीः उपासीत ब्रह्मवर्चस्वी अकल्मषः॥३२॥
स्त्रीणां निरीक्षण स्पर्श संलाप क्ष्वेलन आदिकम्।
प्राणिनः मिथुनीभूतान् अगृहस्थः अग्रतः त्यजेत्॥३३॥
शौचम् आचमनं स्नानं सन्ध्या उपासनम् आर्जवम्।
तीर्थसेवा जपः अस्पृश्य अभक्ष्य असंभाष्य वर्जनम्॥३४॥
सर्व आश्रम प्रयुक्तः अयं नियमः कुलनन्दन.
मद्भावः सर्बभूतेषु मनोवाक्काय संयमः॥३५॥
एवं बृहत् व्रतधरः ब्राह्मणः अग्निः इव ज्वलन्।
मद्भक्तः तीव्रतपसा दग्धकर्म आशयः अमलः॥३६॥
अथ अनन्तरम् आवेक्ष्यन् यथा जिज्ञासित आगमः।
गुरवे दक्षिणां दत्त्वा स्नायत् गुरु अनुमोदितः॥३७॥
गृहं वनं वा उपविशेत् प्रव्रजेत् वा द्विज उत्तमः।
आश्रमात् आश्रमं गच्छेत् न अन्यथा मत्परः चरेत्॥३८॥
गृहार्थी सदृशीं भार्याम् उद्वहेत् अजुगुप्सिताम्।
यवीयसीं तु वयसा यां सवर्णाम् अनुक्रमात्॥३९॥
इज्य अध्ययन दानानि सर्वेषां च द्विजन्मनाम्।
प्रतिग्रहः अध्यापनं च ब्राह्मणस्य एव याजनम्॥४०॥
प्रतिग्रहं मन्यमानः तपः तेजोयशोनुदम्।
अन्याभ्याम् एव जीवेत शिलैः वा दोषदृक् तयोः॥४१॥
ब्राह्मणस्य हि देहः अयं क्षुद्रकामाय न इष्यते।
कृच्छ्राय तपसे च इह प्रेत्य अनन्तसुखाय च॥४२॥
शिलोञ्छवृत्त्या परितुष्टचित्तः धर्मं महान्तं विरजं जुषाणः।
मयि अर्पितात्मा गृहः एव तिष्ठन् न अतिप्रसक्तः समुपैति शान्तिम्॥४३॥
समुद्धरन्ति ये विप्रं सीदन्तं मत्परायणम्।
तान् उद्धरिष्ये न चिरात् आपद्भ्यः नौः इव अर्णवात्॥४४॥
सर्वाः समुद्धरेत् राजा पिता इव व्यसनात् प्रजाः।
आत्मानम् आत्मना धीरः यथा गजपतिः गजान्॥४५॥
एवंविधः नरपतिः विमानेन अर्कवचसा।
विधूय इह अशुभं कृत्स्नम् इन्द्रेण सह मोदते॥४६॥
सीदन् विप्रः वणिक् वृत्त्या पण्यैः एव आपदं तरेत्।
खड्गेन वा आपदाक्रान्तः न श्ववृत्त्या कथंचन॥४७॥
वैश्यवृत्त्या तु राजन् यः जीवेत् मृगयया आपदि।
चरेत् वा विप्ररूपेण न श्ववृत्त्या कथंचन॥४८॥
शूद्रवृत्तिं भजेत् वैश्यः शूद्रः कारुकटप्रियाम्।
कृच्छ्रात् मुक्तः न गर्ह्येण वृत्तिं लिप्सेत कर्मणा॥४९॥
वेद अध्याय स्वधा स्वाहा बलि अन्न आद्यैः यथा उदयम्।
देवर्षि पितृभूतानि मद्रूपाणि अन्वहं यजेत्॥५०॥
यदृच्छया उपपन्नेन शुक्लेन उपार्जितेन वा।
धनेन अपीडयन् भृत्यान् न्यायेन एव आहरेत् क्रतून्॥५१॥
कुटुंबेषु न सज्जेत न प्रमाद्येत् कुटुंबि अपि।
विपश्चित् नश्वरं पश्येत् अदृष्टम् अपि दृष्टवत्॥५२॥
पुत्र दारा आप्त बन्धूनां सङ्गमः पान्थसङ्गमः।
अनुदेहं वियन्ति एते स्वप्नः निद्रानुगः यथा॥५३॥
इत्थं परिमृशन् मुक्तः गृहेषु अतिथिवत् वसन्।
न गृहैः अनुबध्येत निर्ममः निरहङ्कृतः॥५४॥
कर्मभिः गृहम् एधीयैः इष्ट्वा माम् एव भक्तिमान्।
तिष्ठेत् वनं वा उपविशेत् प्रजावान् वा परिव्रजेत्॥५५॥
यः तु आसक्तम् अतिः गेहे पुत्र वित्तैषण आतुरः।
स्त्रैणः कृपणधीः मूढः मम अहम् इति बध्यते॥५६॥
अहो मे पितरौ वृद्धौ भार्या बालात्मजा आत्मजाः।
अनाथाः माम् ऋते दीनाः कथं जीवन्ति दुःखिताः॥५७॥
एवं गृह आशय आक्षिप्त हृदयः मूढधीः अयम्।
अतृप्तः तान् अनुध्यायन् मृतः अन्धं विशते तमः॥५८॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
ब्रह्मचर्यगृहस्थकर्मधर्मनिरूपणे सप्तदशोऽध्यायः॥१७॥
अथ अष्टादशोऽध्यायः।
श्रीभगवान् उवाच।
वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सह एव वा।
वनः एव वसेत् शान्तः तृतीयं भागम् आयुषः॥१॥
कन्दमूलफलैः वन्यैः मेध्यैः वृत्तिं प्रकल्पयेत्।
वसीत वल्कलं वासः तृणपर्ण अजिनानि च॥२॥
केशरोमनखश्मश्रुमलानि बिभृयात् अतः।
न धावेत् अप्सु मज्जेत त्रिकालं स्थण्डिलेशयः॥३॥
ग्रीष्मे तप्येत पञ्चाग्नीन् वर्षास्वासारषाड् जले।
आकण्ठमग्नः शिशिरः एवंवृत्तः तपश्चरेत्॥४॥
अग्निपक्वं समश्नीयात् कालपक्वम् अथ अपि वा।
उलूखल अश्मकुट्टः वा दन्त उलूखलः एव वा॥५॥
स्वयं संचिनुयात् सर्वम् आत्मनः वृत्तिकारणम्।
देशकालबल अभिज्ञः न आददीत अन्यदा आहृतम्॥६॥
वन्यैः चरुपुरोडाशैः निर्वपेत् कालचोदितान्।
न तु श्रौतेन पशुना मां यजेत वनाश्रमी॥७॥
अग्निहोत्रं च दर्शः च पूर्णमासः च पूर्ववत्।
चातुर्मास्यानि च मुनेः आम्नातानि च नैगमैः॥८॥
एवं चीर्णेन तपसा मुनिः धमनिसन्ततः।
मां तपोमयम् आराध्य ऋषिलोकात् उपैति माम्॥९॥
यः तु एतत् कृच्छ्रतः चीर्णं तपः निःश्रेयसं महत्।
कामाय अल्पीयसे युञ्ज्यात् वालिशः कः अपरः ततः॥१०॥
यदा असौ नियमे अकल्पः जरया जातवेपथुः।
आत्मनि अग्नीन् समारोप्य मच्चित्तः अग्निं समाविशेत्॥११॥
यदा कर्मविपाकेषु लोकेषु निरय आत्मसु।
विरागः जायते सम्यक् न्यस्त अग्निः प्रव्रजेत् ततः॥१२॥
इष्ट्वा यथा उपदेशं मां दत्त्वा सर्वस्वम् ऋत्विजे।
अग्नीन् स्वप्राणः आवेश्य निरपेक्षः परिव्रजेत्॥१३॥
विप्रस्य वै संन्यसतः देवाः दारादिरूपिणः।
विघ्नान् कुर्वन्ति अयं हि अस्मान् आक्रम्य समियात् परम्॥१४॥
बिभृयात् चेत् मुनिः वासः कौपीन आच्छादनं परम्।
त्यक्तं न दण्डपात्राभ्याम् अन्यत् किंचित् अनापदि॥१५॥
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं पिबेत् जलम्।
सत्यपूतां वदेत् वाचं मनःपूतं समाचरेत्॥१६॥
मौन अनीहा अनिल आयामाः दण्डाः वाक् देह चेतसाम्।
नहि एते यस्य सन्ति अङ्गः वेणुभिः न भवेत् यतिः॥१७॥
भिक्षां चतुषु वर्णेषु विगर्ह्यान् वर्जयन् चरेत्।
सप्तागारान् असंक्लृप्तान् तुष्येत् लब्धेन तावता॥१८॥
बहिः जलाशयं गत्वा तत्र उपस्पृश्य वाग्यतः।
विभज्य पावितं शेषं भुञ्जीत अशेषम् आहृतम्॥१९॥
एकः चरेत् महीम् एतां निःसङ्गः संयतेन्द्रियः।
आत्मक्रीडः आत्मरतः आत्मवान् समदर्शनः॥२०॥
विविक्तक्षेमशरणः मद्भावविमलाशयः।
आत्मानं चिन्तयेत् एकम् अभेदेन मया मुनिः॥२१॥
अन्वीक्षेत आत्मनः बन्धं मोक्षं च ज्ञाननिष्ठया।
बन्धः इन्द्रियविक्षेपः मोक्षः एषां च संयमः॥२२॥
तस्मात् नियम्य षड्वर्गं मद्भावेन चरेत् मुनिः।
विरक्तः क्षुल्लकामेभ्यः लब्ध्वा आत्मनि सुखं महत्॥२३॥
पुरग्रामव्रजान् सार्थान् भिक्षार्थं प्रविशन् चरेत्।
पुण्यदेशसरित् शैलवन आश्रमवतीं महीम्॥२४॥
वानप्रस्थ आश्रम पदेषु अभीक्ष्णं भैक्ष्यम् आचरेत्।
संसिध्यत्याश्वसंमोहः शुद्धसत्त्वः शिलान्धसा॥२५॥
न एतत् वस्तुतया पश्येत् दृश्यमानं विनश्यति।
असक्तचित्तः विरमेत् इह अमुत्र चिकीर्षितात्॥२६॥
यत् एतत् आत्मनि जगत् मनोवाक्प्राणसंहतम्।
सर्वं माया इति तर्केण स्वस्थः त्यक्त्वा न तत् स्मरेत्॥२७॥
ज्ञाननिष्ठः विरक्तः वा मद्भक्तः वा अनपेक्षकः।
सलिङ्गान् आश्रमां त्यक्त्वा चरेत् अविधिगोचरः॥२८॥
बुधः बालकवत् क्रीडेत् कुशलः जडवत् चरेत्।
वदेत् उन्मत्तवत् विद्वान् गोचर्यां नैगमः चरेत्॥२९॥
वेदवादरतः न स्यात् न पाखण्डी न हैतुकः।
शुष्कवादविवादे न कंचित् पक्षं समाश्रयेत्॥३०॥
न उद्विजेत जनात् धीरः जनं च उद्वेजयेत् न तु।
अतिवादान् तितिक्षेत न अवमन्येत कंचन।
देहम् उद्दिश्य पशुवत् वैरं कुर्यात् न केनचित्॥३१॥
एकः एव परः हि आत्मा भूतेषु आत्मनि अवस्थितः।
यथा इन्दुः उदपात्रेषु भूतानि एकात्मकानि च॥३२॥
अलब्ध्वा न विषीदेत काले काले अशनं क्वचित्।
लब्ध्वा न हृष्येत् धृतिम् आनुभयं दैवतन्त्रितम्॥३३॥
आहारार्थं समीहेत युक्तं तत् प्राणधारणम्।
तत्त्वं विमृश्यते तेन तत् विज्ञाय विमुच्यते॥३४॥
यत् ऋच्छया उपपन्नात् अन्नम् अद्यात् श्रेष्ठम् उत अपरम्।
तथा वासः तथा शय्यां प्राप्तं प्राप्तं भजेत् मुनिः॥३५॥
शौचम् आचमनं स्नानं न तु चोदनया चरेत्।
अन्यान् च नियमान् ज्ञानी यथा अहं लीलया ईश्वरः॥३६॥
नहि तस्य विकल्पाख्या या च मद्वीक्षया हता।
आदेहान्तात् क्वचित् ख्यातिः ततः संपद्यते मया॥३७॥
दुःख उदर्केषु कामेषु जातनिर्वेदः आत्मवान्।
अजिज्ञासित मद्धर्मः गुरुं मुनिम् उपाव्रजेत्॥३८॥
तावत् परिचरेत् भक्तः श्रद्धावान् अनसूयकः।
यावत् ब्रह्म विजानीयात् माम् एव गुरुम् आदृतः॥३९॥
यः तु असंयत षड्वर्गः प्रचण्ड इन्द्रिय सारथिः।
ज्ञान वैराग्य रहितः त्रिदण्डम् उपजीवति॥४०॥
सुरान् आत्मानम् आत्मस्थं निह्नुते मां च धर्महा।
अविपक्व कषायः अस्मात् उष्मात् च विहीयते॥४१॥
भिक्षोः धर्मः शमः अहिंसा तपः ईक्षा वनौकसः।
गृहिणः भूतरक्ष इज्याः द्विजस्य आचार्यसेवनम्॥४२॥
ब्रह्मचर्यं तपः शौचं सन्तोषः भूतसौहृदम्।
गृहस्थस्य अपि ऋतौ गन्तुः सर्वेषां मदुपासनम्॥४३॥
इति मां यः स्वधर्मेण भजन् नित्यम् अनन्यभाक्।
सर्वभूतेषु मद्भावः मद्भक्तिं विन्दते अचिरात्॥४४॥
भक्त्या उद्धव अनपायिन्या सर्वलोकमहेश्वरम्।
सर्व उत्पत्ति अपि अयं ब्रह्म कारणं मा उपयाति सः॥४५॥
इति स्वधर्म निर्णिक्त सत्त्वः निर्ज्ञात् मद्गतिः।
ज्ञान विज्ञान संपन्नः न चिरात् समुपैति माम्॥४६॥
वर्णाश्रमवतां धर्मः एषः आचारलक्षणः।
सः एव मद्भक्तियुतः निःश्रेयसकरः परः॥४७॥
एतत् ते अभिहितं साधो भवान् पृच्छति यत् च माम्।
यथा स्वधर्मसंयुक्तः भक्तः मां समियात् परम्॥४८॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
वानप्रस्थसंन्यासधर्मनिरूपणं नामाष्टादशोऽध्यायः॥१८॥
अथ एकोनविंशः अध्यायः।
श्रीभगवान् उवाच।
यः विद्याश्रुतसंपन्नः आत्मवान् न अनुमानिकः।
मायामात्रम् इदं ज्ञात्वा ज्ञानं च मयि संन्यसेत्॥१॥
ज्ञानिनः तु अहम् एव इष्टः स्वार्थः हेतुः च संमतः।
स्वर्गः च एव अपवर्गः च न अन्यः अर्थः मदृते प्रियः॥२॥
ज्ञानविज्ञानसंसिद्धाः पदं श्रेष्ठं विदुः मम।
ज्ञानी प्रियतमः अतः मे ज्ञानेन असौ बिभर्ति माम्॥३॥
तपः तीर्थं जपः दानं पवित्राणि इतराणि च।
न अलं कुर्वन्ति तां सिद्धिं या ज्ञानकलया कृता॥४॥
तस्मात् ज्ञानेन सहितं ज्ञात्वा स्वात्मानम् उद्धव।
ज्ञानविज्ञानसंपन्नः भज मां भक्तिभावतः॥५॥
ज्ञानविज्ञानयज्ञेन माम् इष्ट्वा आत्मानम् आत्मनि।
सर्वयज्ञपतिं मां वै संसिद्धिं मुनयः अगमन्॥६॥
त्वयि उद्धव आश्रयति यः त्रिविधः विकारः मायान्तरा आपतति न आदि अपवर्गयोः यत्।
जन्मादयः अस्य यत् अमी तव तस्य किं स्युः आदि अन्तयोः यत् असतः अस्ति तत् एव मध्ये॥७॥
उद्धवः उवाच।
ज्ञानं विशुद्धं विपुलं यथा एतत् वैराग्यविज्ञानयुतं पुराणम्।
आख्याहि विश्वेश्वर विश्वमूर्ते त्वत् भक्तियोगं च महत् विमृग्यम्॥८॥
तापत्रयेण अभिहतस्य घोरे सन्तप्यमानस्य भवाध्वनीश।
पश्यामि न अन्यत् शरणं तवाङ्घ्रि द्वन्द्व आतपत्रात् अमृत अभिवर्षात्॥९॥
दष्टं जनं संपतितं बिले अस्मिन् कालाहिना क्षुद्रसुखोः उतर्षम्।
समुद्धर एनं कृपया अपवर्ग्यैः वचोभिः आसिञ्च महानुभाव॥१०॥
श्रीभगवान् उवाच।
इत्थम् एतत् पुरा राजा भीष्मं धर्मभृतां वरम्।
अजातशत्रुः पप्रच्छ सर्वेषां नः अनुश्रुण्वताम्॥११॥
निवृत्ते भारते युद्धे सुहृत् निधनविह्वलः।
श्रुत्वा धर्मान् बहून् पश्चात् मोक्षधर्मान् अपृच्छत॥१२॥
तान् अहं ते अभिधास्यामि देवव्रतमुखात् श्रुतान्।
ज्ञानवैराग्यविज्ञानश्रद्धाभक्ति उपबृंहितान्॥१३॥
नव एकादश पञ्च त्रीन् भावान् भूतेषु येन वै।
ईक्षेत अथ एकम् अपि एषु तत् ज्ञानं मम निश्चितम्॥१४॥
एतत् एव हि विज्ञानं न तथा एकेन येन यत्।
स्थिति उत्पत्ति अपि अयान् पश्येत् भावानां त्रिगुण आत्मनाम्॥१५॥
आदौ अन्ते च मध्ये च सृज्यात् सृज्यं यत् अन्वियात्।
पुनः तत् प्रतिसंक्रामे यत् शिष्येत तत् एव सत्॥१६॥
श्रुतिः प्रत्यक्षम् ऐतिह्यम् अनुमानं चतुष्टयम्।
प्रमाणेषु अनवस्थानात् विकल्पात् सः विरज्यते॥१७॥
कर्मणां परिणामित्वात् आविरिञ्चात् अमङ्गलम्।
विपश्चित् नश्वरं पश्येत् अदृष्टम् अपि दृष्टवत्॥१८॥
भक्तियोगः पुरा एव उक्तः प्रीयमाणाय ते अनघ।
पुनः च कथयिष्यामि मद्भक्तेः कारणं परम्॥१९॥
श्रद्धा अमृतकथायां मे शश्वत् मत् अनुकीर्तनम्।
परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम॥२०॥
आदरः परिचर्यायां सर्वाङ्गैः अभिवन्दनम्।
मद्भक्तपूजाभ्यधिका सर्वभूतेषु मन्मतिः॥२१॥
मदर्थेषु अङ्गचेष्टा च वचसा मद्गुणेरणम्।
मय्यर्पणं च मनसः सर्वकामविवर्जनम्॥२२॥
मदर्थे अर्थ परित्यागः भोगस्य च सुखस्य च।
इष्टं दत्तं हुतं जप्तं मदर्थं यत् व्रतं तपः॥२३॥
एवं धर्मैः मनुष्याणाम् उद्धव आत्मनिवेदिनाम्।
मयि संजायते भक्तिः कः अन्यः अर्थः अस्य अवशिष्यते॥२४॥
यदा आत्मनि अर्पितं चित्तं शान्तं सत्त्व उपबृंहितम्।
धर्मं ज्ञानं सवैराग्यम् ऐश्वर्यं च अभिपद्यते॥२५॥
यत् अर्पितं तत् विकल्पे इन्द्रियैः परिधावति।
रजस्वलं च आसन् निष्ठं चित्तं विद्धि विपर्ययम्॥२६॥
धर्मः मद्भक्तिकृत् प्रोक्तः ज्ञानं च एकात्म्यदर्शनम्।
गुणेषु असङ्गः वैराग्यम् ऐश्वर्यं च अणिम् आदयः॥२७॥
उद्धवः उवाच।
यमः कतिविधः प्रोक्तः नियमः वा अरिकर्शन।
कः शमः कः दमः कृष्ण का तितिक्षा धृतिः प्रभो॥२८॥
किं दानं किं तपः शौर्यं किं सत्यम् ऋतम् उच्यते।
कः त्यागः किं धनं चेष्टं कः यज्ञः का च दक्षिणा॥२९॥
पुंसः किंस्वित् बलं श्रीमन् भगः लाभः च केशव।
का विद्या ह्रीः परा का श्रीः किं सुखं दुःखम् एव च॥३०॥
कः पण्डितः कः च मूर्खः कः पन्थाः उत्पथः च कः।
कः स्वर्गः नरकः कः स्वित् कः बन्धुः उत किं गृहम्॥३१॥
कः आढ्यः कः दरिद्रः वा कृपणः कः ईश्वरः।
एतान् प्रश्नान् मम ब्रूहि विपरीतान् च सत्पते॥३२॥
श्रीभगवान् उवाच।
अहिंसा सत्यम् अस्तेयम् असङ्गः ह्रीः असंचयः।
आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमा अभयम्॥३३॥
शौचं जपः तपः होमः श्रद्धा आतिथ्यं मत् अर्चनम्।
तीर्थाटनं परार्थेहा तुष्टिः आचार्यसेवनम्॥३४॥
एते यमाः सनियमाः उभयोः द्वादश स्मृताः।
पुंसाम् उपासिताः तात यथाकामं दुहन्ति हि॥३५॥
शमः मत् निष्ठता बुद्धेः दमः इन्द्रियसंयमः।
तितिक्षा दुःखसंमर्षः जिह्वा उपस्थजयः धृतिः॥३६॥
दण्डन्यासः परं दानं कामत्यागः तपः स्मृतम्।
स्वभावविजयः शौर्यं सत्यं च समदर्शनम्॥३७॥
ऋतं च सूनृता वाणी कविभिः परिकीर्तिता।
कर्मस्वसङ्गमः शौचं त्यागः संन्यासः उच्यते॥३८॥
धर्मः इष्टं धनं नॄणां यज्ञः अहं भगवत्तमः।
दक्षिणा ज्ञानसन्देशः प्राणायामः परं बलम्॥३९॥
भगः मे ऐश्वरः भावः लाभः मद्भक्तिः उत्तमः।
विद्या आत्मनि भिद अबाधः जुगुप्सा ह्रीः अकर्मसु॥४०॥
श्रीः गुणाः नैरपेक्ष्य आद्याः सुखं दुःखसुख अत्ययः।
दुःखं कामसुख अपेक्षा पण्डितः बन्धमोक्षवित्॥४१॥
मूर्खः देह आदि अहं बुद्धिः पन्थाः मत् निगमः स्मृतः।
उत्पथः चित्तविक्षेपः स्वर्गः सत्त्वगुण उअदयः॥४२॥
नरकः तमः उन्नहः बन्धुः गुरुः अहं सखे।
गृहं शरीरं मानुष्यं गुणाढ्यः हि आढ्यः उच्यते॥४३॥
दरिद्रः यः तु असन्तुष्टः कृपणः यः अजितेन्द्रियः।
गुणेषु असक्तधीः ईशः गुणसङ्गः विपर्ययः॥४४॥
एतः उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः।
किं वर्णितेन बहुना लक्षणं गुणदोषयोः।
गुणदोष दृशिः दोषः गुणः तु उभयवर्जितः॥४५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुधवसंवादे
एकोनविंशोऽध्यायः॥१९॥
अथ विंशः अध्यायः।
उद्धवः उवाच।
विधिः च प्रतिषेधः च निगमः हि ईश्वरस्य ते।
अवेक्षते अरविन्दाक्ष गुणं दोषं च कर्मणाम्॥१॥
वर्णाश्रम विकल्पं च प्रतिलोम अनुलोमजम्।
द्रव्य देश वयः कालान् स्वर्गं नरकम् एव च॥२॥
गुण दोष भिदा दृष्टिम् अन्तरेण वचः तव।
निःश्रेयसं कथं नॄणां निषेध विधि लक्षणम्॥३॥
पितृदेवमनुष्याणां वेदः चक्षुः तव ईश्वर।
श्रेयः तु अनुपलब्धे अर्थे साध्यसाधनयोः अपि॥४॥
गुणदोषभिदादृष्टिः निगमात् ते न हि स्वतः।
निगमेन अपवादः च भिदायाः इति हि भ्रमः॥५॥
श्रीभगवान् उवाच।
योगाः त्रयः मया प्रोक्ता नॄणां श्रेयोविधित्सया।
ज्ञानं कर्म च भक्तिः च न उपायः अन्यः अस्ति कुत्रचित्॥६॥
निर्विण्णानां ज्ञानयोगः न्यासिनाम् इह कर्मसु।
तेषु अनिर्विण्णचित्तानां कर्मयोगः ति कामिनाम्॥७॥
यदृच्छया मत् कथा आदौ जातश्रद्धः तु यः पुमान्।
न निर्विण्णः न अतिसक्तः भक्तियोगः अस्य सिद्धिदः॥८॥
तावत् कर्माणि कुर्वीत न निर्विद्येत यावता।
मत् कथाश्रवण आदौ वा श्रद्धा यावत् न जायते॥९॥
स्वधर्मस्थः यजन्यज्ञैः अनाशीः कामः उद्धव।
न याति स्वर्गनरकौ यदि अन्यत्र समाचरेत्॥१०॥
अस्मिन् लोके वर्तमानः स्वधर्मस्थः अनघः शुचिः।
ज्ञानं विशुद्धम् आप्नोति मद्भक्तिं वा यदृच्छया॥११॥
स्वर्गिणः अपि एतम् इच्छन्ति लोकं निरयिणः तथा।
साधकं ज्ञानभक्तिभ्याम् उभयं तत् असाधकम्॥१२॥
न नरः स्वर्गतिं कांक्षेत् नारकीं वा विचक्षणः।
न इमं लोकं च कांक्षेत देह आवेशात् प्रमाद्यति॥१३॥
एतत् विद्वान् पुरा मृत्योः अभवाय घटेत सः।
अप्रमत्तः इदं ज्ञात्वा मर्त्यम् अपि अर्थसिद्धिदम्॥१४॥
छिद्यमानं यमैः एतैः कृतनीडं वनस्पतिम्।
खगः स्वकेतम् उत्सृज्य क्षेमं याति हि अलम्पटः॥१५॥
अहोरात्रैः छिद्यमानं बुद्ध्वायुः भयवेपथुः।
मुक्तसङ्गः परं बुद्ध्वा निरीह उपशाम्यति॥१६॥
नृदेहम् आद्यं सुलभं सुदुर्लभम् प्लवं सुकल्पं गुरुकर्णधारम्।
मया अनुकूलेन नभस्वतेरितम् पुमान् भवाब्धिं न तरेत् सः आत्महा॥१७॥
यदा आरम्भेषु निर्विण्णः विरक्तः संयतेन्द्रियः।
अभ्यासेन आत्मनः योगी धारयेत् अचलं मनः॥१८॥
धार्यमाणं मनः यः हि भ्राम्यदाशु अनवस्थितम्।
अतन्द्रितः अनुरोधेन मार्गेण आत्मवशं नयेत्॥१९॥
मनोगतिं न विसृजेत् जितप्राणः जितेन्द्रियः।
सत्त्वसंपन्नया बुद्ध्या मनः आत्मवशं नयेत्॥२०॥
एषः वै परमः योगः मनसः संग्रहः स्मृतः।
हृदयज्ञत्वम् अन्विच्छन् दम्यस्य एव अर्वतः मुहुः॥२१॥
सांख्येन सर्वभावानां प्रतिलोम अनुलोमतः।
भव अपि अयौ अनुध्ययेत् मनः यावत् प्रसीदति॥२२॥
निर्विण्णस्य विरक्तस्य पुरुषस्य उक्तवेदिनः।
मनः त्यजति दौरात्म्यं चिन्तितस्य अनुचिन्तया॥२३॥
यम आदिभिः योगपथैः आन्वीक्षिक्या च विद्यया।
मम अर्चोपासनाभिः वा न अन्यैः योग्यं स्मरेत् मनः॥२४॥
यदि कुर्यात् प्रमादेन योगी कर्म विगर्हितम्।
योगेन एव दहेत् अंहः न अन्यत् तत्र कदाचन॥२५॥
स्वे स्वे अधिकारे या निष्ठा सः गुणः परिकीर्तितः।
कर्मणां जाति अशुद्धानाम् अनेन नियमः कृतः।
गुणदोषविधानेन सङ्गानां त्याजनेच्छया॥२६॥
जातश्रद्दः मत्कथासु निर्विण्णः सर्वकर्मसु।
वेद दुःखात्मकान् कामान् परित्यागे अपि अनीश्वरः॥२७॥
ततः भजेत मां प्रीतः श्रद्धालुः दृढनिश्चयः।
जुषमाणः च तान् कामान् दुःख उदर्कान् च गर्हयन्॥२८॥
प्रोक्तेन भक्तियोगेन भजतः मा असकृत् मुनेः।
कामाः हृदय्याः नश्यन्ति सर्वे मयि हृदि स्थिते॥२९॥
भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः।
क्षीयन्ते च अस्य कर्माणि मयि दृष्टे अखिल आत्मनि॥३०॥
तस्मात् मद्भक्तियुक्तस्य योगिनः वै मत् आत्मनः।
न ज्ञानं न च वैराग्यं प्रायः श्रेयः भवेत् इह॥३१॥
यत् कर्मभिः यत् तपसा ज्ञानवैराग्यतः च यत्।
योगेन दानधर्मेण श्रेयोभिः इतरैः अपि॥३२॥
सर्वं मद्भक्तियोगेन मद्भक्तः लभते अञ्जसा।
स्वर्ग अपवर्गं मत् धाम कथंचित् यदि वाञ्छति॥३३॥
न किंचित् साधवः धीराः भक्ताः हि एकान्तिनः मम।
वाञ्छति अपि मया दत्तं कैवल्यम् अपुनर्भवम्॥३४॥
नैरपेक्ष्यं परं प्राहुः निःश्रेयसम् अनल्पकम्।
तस्मात् निराशिषः भक्तिः निरपेक्षस्य मे भवेत्॥३५॥
न मयि एकान्तभक्तानां गुणदोष उद्भवाः गुणाः।
साधूनां समचित्तानां बुद्धेः परम् उपेयुषाम्॥३६॥
एवम् एतत् मया आदिष्टान् अनुतिष्ठन्ति मे पथः।
क्षेमं विन्दन्ति मत् स्थानं यत् ब्रह्म परमं विदुः॥३७॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
वेदत्रयीविभागयोगो नाम विंशोऽध्यायः॥२०॥
संबंधित कड़ियाँ
[सम्पाद्यताम्]- गीता
- उद्धवगीता
- उद्धवगीता १ (अध्याय ०१-०५)
- उद्धवगीता २ (अध्याय ०६-१०)
- उद्धवगीता ३ (अध्याय ११-१५)
- उद्धवगीता ४ (अध्याय १६-२०)
- उद्धवगीता ५ (अध्याय २१-२५)
- उद्धवगीता ६ (अध्याय २६-३०)
- उद्धवगीता ७ (अध्याय ३१)