उद्धवगीता ३

विकिस्रोतः तः
Jump to navigation Jump to search

अथ एकादशोऽध्यायः।
श्रीभगवान् उवाच।
बद्धः मुक्तः इति व्याख्या गुणतः मे न वस्तुतः ।
गुणस्य मायामूलत्वात् न मे मोक्षः न बन्धनम्॥१॥

शोकमोहौ सुखं दुःखं देहापत्तिः च मायया।
स्वप्नः यथा आत्मनः ख्यातिः संसृतिः न तु वास्तवी॥२॥

विद्या अविद्ये मम तनू विद्धि उद्धव शरीरिणाम्।
मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते॥३॥

एकस्य एव मम अंशस्य जीवस्य एव महामते।
बन्धः अस्य अविद्यया अनादिः विद्यया च तथा इतरः॥४॥

अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते।
विरुद्धधर्मिणोः तात स्थितयोः एकधर्मिणि॥५॥

सुपर्णौ एतौ सदृशौ सखायौ यदृच्छया एतौ कृतनीडौ च वृक्षे।
एकः तयोः खादति पिप्पलान्नम् अन्यः निरन्नः अपि बलेन भूयान्॥६॥

आत्मानम् अन्यं च सः वेद विद्वान् अपिप्पलादः न तु पिप्पलादः।
यः अविद्यया युक् स तु नित्यबद्धः विद्यामयः यः स तु नित्यमुक्तः॥७॥

देहस्थः अपि न देहस्थः विद्वान् स्वप्नात् यथा उत्थितः।
अदेहस्थः अपि देहस्थः कुमतिः स्वप्नदृक् यथा॥८॥

इन्द्रियैः इन्द्रियार्थेषु गुणैः अपि गुणेषु च।
गृह्यमाणेषु अहङ्कुर्यात् न विद्वान् यः तु अविक्रियः॥९॥

दैवाधीने शरीरे अस्मिन् गुणभाव्येन कर्मणा।
वर्तमानः अबुधः तत्र कर्ता अस्मि इति निबध्यते॥१०॥

एवं विरक्तः शयनः आसनाटनमज्जने।
दर्शनस्पर्शनघ्राणभोजनश्रवणआदिषु॥११॥

न तथा बध्यते विद्वान् तत्र तत्र आदयन् गुणान्।
प्रकृतिस्थः अपि असंसक्तः यथा खं सविता अनिलः॥१२॥

वैशारद्येक्षया असङ्गशितया छिन्नसंशयः।
प्रतिबुद्धः इव स्वप्नात् नानात्वात् विनिवर्तते॥१३॥

यस्य स्युः वीतसङ्कल्पाः प्राणेन्द्रियमनोधियाम्।
वृत्तयः सः विनिर्मुक्तः देहस्थः अपि हि तत् गुणैः॥१४॥

यस्य आत्मा हिंस्यते हिंस्र्यैः येन किञ्चित् यदृच्छया।
अर्च्यते वा क्वचित् तत्र न व्यतिक्रियते बुधः॥१५॥

न स्तुवीत न निन्देत कुर्वतः साधु असाधु वा।
वदतः गुणदोषाभ्यां वर्जितः समदृक् मुनिः॥१६॥

न कुर्यात् न वदेत् किञ्चित् न ध्यायेत् साधु असाधु वा।
आत्मारामः अनया वृत्त्या विचरेत् जडवत् मुनिः॥१७॥

शब्दब्रह्मणि निष्णातः न निष्णायात् परे यदि।
श्रमः तस्य श्रमफलः हि अधेनुम् इव रक्षतः॥१८॥

गां दुग्धदोहाम् असतीं च भार्याम् देहं पराधीनम् असत्प्रजां च।
वित्तं तु अतीर्थीकृतम् अङ्ग वाचम् हीनां मया रक्षति दुःखदुःखी॥१९॥

यस्यां न मे पावनम् अङ्ग कर्म स्थितिउद्भवप्राण निरोधनम् अस्य।
लीलावतारैइप्सितजन्म वा स्यात् बन्ध्यां गिरं तां बिभृयात् न धीरः॥२०॥

एवं जिज्ञासया अपोह्य नानात्वभ्रमम् आत्मनि।
उपारमेत विरजं मनः मयि अर्प्य सर्वगे॥२१॥

यदि अनीशः धारयितुं मनः ब्रह्मणि निश्चलम्।
मयि सर्वाणि कर्माणि निरपेक्षः समाचर॥२२॥

श्रद्धालुः मे कथाः शृण्वन् सुभद्रा लोकपावनीः।
गायन् अनुस्मरन् कर्म जन्म च अभिनयन् मुहुः॥२३॥

मदर्थे धर्मकामार्थान् आचरन् मदपाश्रयः।
लभते निश्चलां भक्तिं मयि उद्धव सनातने॥२४॥

सत्सङ्गलब्धया भक्त्या मयि मां सः उपासिता।
सः वै मे दर्शितं सद्भिः अञ्जसा विन्दते पदम्॥२५॥

उद्धव उवाच।
साधुः तव उत्तमश्लोक मतः कीदृग्विधः प्रभो।
भक्तिः त्वयि उपयुज्येत कीदृशी सद्भिः आदृता॥२६॥

एतत् मे पुरुषाध्यक्ष लोकाध्यक्ष जगत् प्रभो।
प्रणताय अनुरक्ताय प्रपन्नाय च कथ्यताम्॥२७॥

त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः।
अवतीर्णः असि भगवन् स्वेच्छाउपात्तपृथक् वपुः॥२८॥

श्रीभगवान् उवाच।
कृपालुः अकृतद्रोहः तितिक्षुः सर्वदेहिनाम्।
सत्यसारः अनवद्यात्मा समः सर्वोपकारकः॥२९॥

कामैः अहतधीः दान्तः मृदुः शुचिः अकिञ्चनः।
अनीहः मितभुक् शान्तः स्थिरः मत् शरणः मुनिः॥३०॥

अप्रमत्तः गभीरात्मा धृतिमाञ्जितषड्गुणः।
अमानी मानदः कल्पः मैत्रः कारुणिकः कविः॥३१॥

आज्ञाय एवं गुणान् दोषान्मयादिष्टान् अपि स्वकान्।
धर्मान् सन्त्यज्य यः सर्वान् मां भजेत सः सत्तमः॥३२॥

ज्ञात्वा अज्ञात्वा अथ ये वै मां यावान् यः च अस्मि यादृशः।
भजन्ति अनन्यभावेन ते मे भक्ततमाः मताः॥३३॥

मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चनम्।
परिचर्या स्तुतिः प्रह्वगुणकर्म अनुकीर्तनम्॥३४॥

मत्कथाश्रवणे श्रद्धा मत् अनुध्यानम् उद्धव।
सर्वलाभ उपहरणं दास्येन आत्मनिवेदनम्॥३५॥

मज्जन्मकर्मकथनं मम पर्वानुमोदनम्।
गीतताण्डववादित्रगोष्ठीभिः मद्गृह उत्सवः॥३६॥

यात्रा बलिविधानं च सर्ववार्षिकपर्वसु।
वैदिकी तान्त्रिकी दीक्षा मदीयव्रतधारणम्॥३७॥

मम अर्चास्थापने श्रद्धा स्वतः संहत्य च उद्यमः।
उद्यान उपवनाक्रीडपुरमन्दिरकर्मणि।३८॥

संमार्जन उपलेपाभ्यां सेकमण्डलवर्तनैः।
गृहशुश्रूषणं मह्यं दासवद्यदमायया॥३९॥

अमानित्वम् अदम्भित्वं कृतस्य अपरिकीर्तनम्।
अपि दीपावलोकं मे न उपयुञ्ज्यात् निवेदितम्॥४०॥

यत् यत् इष्टतमं लोके यत् च अतिप्रियम् आत्मनः।
तत् तत् निवेदयेत् मह्यं तत् आनन्त्याय कल्पते॥४१॥

सूर्यः अग्निः ब्राह्मणः गावः वैष्णवः खं मरुत् जलम्।
भूः आत्मा सर्वभूतानि भद्र पूजापदानि मे॥४२॥

सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम्।
आतिथ्येन तु विप्राग्र्यः गोष्वङ्ग यवसादिना॥४३॥

वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया।
वायौ मुख्यधिया तोये द्रव्यैः तोयपुरस्कृतैः॥४४॥

स्थण्डिले मन्त्रहृदयैः भोगैः आत्मानम् आत्मनि।
क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम्॥४५॥

धिष्ण्येषु एषु इति मद्रूपं शङ्खचक्रगदाम्बुजैः।
युक्तं चतुर्भुजं शान्तं ध्यायन् अर्चेत् समाहितः॥४६॥

इष्टापूर्तेन माम् एवं यः यजेत समाहितः।
लभते मयि सद्भक्तिं मत्स्मृतिः साधुसेवया॥४७॥

प्रायेण भक्तियोगेन सत्सङ्गेन विना उद्धव।
न उपायः विद्यते सध्र्यङ् प्रायणं हि सताम् अहम्॥४८॥

अथ एतत् परमं गुह्यं श्रुण्वतः यदुनन्दन।
सुगोप्यम् अपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखा॥४९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
एकादशपूजाविधानयोगो नाम एकादशोऽध्यायः॥११॥

अथ द्वादशोऽध्यायः।
श्रीभगवान् उवाच।
न रोधयति मां योगः न स्साङ्ख्यं धर्मः एव च।
न स्वाध्यायः तपः त्यागः न इष्टापूर्तं न दक्षिणा॥१॥

व्रतानि यज्ञः छन्दांसि तीर्थानि नियमाः यमाः।
यथा अवरुन्धे सत्सङ्गः सर्वसङ्ग अपहः हि माम्॥२॥

सत्सङ्गेन हि दैतेया यातुधानः मृगाः खगाः।
गन्धर्व अप्सरसः नागाः सिद्धाः चारणगुह्यकाः॥३॥

विद्याधराः मनुष्येषु वैश्याः शूद्राः स्त्रियः अन्त्यजाः।
रजः तमः प्रकृतयः तस्मिन् तस्मिन् युगे अनघ॥४॥

बहवः मत्पदं प्राप्ताः त्वाष्ट्रकायाधवादयः।
वृषपर्वा बलिः वाणः मयः च अथ विभीषणः॥५॥

सुग्रीवः हनुमान् ऋक्षः गजः गृध्रः वणिक्पथः।
व्याधः कुब्जा व्रजे गोप्यः यज्ञपत्न्यः तथा अपरे॥६॥

ते न अधितश्रुतिगणाः न उपासितमहत्तमाः।
अव्रतातप्ततपसः मत्सङ्गात् माम् उपागताः॥७॥

केवलेन हि भावेन गोप्यः गावः नगाः मृगाः।
ये अन्ये मूढधियः नागाः सिद्धाः माम् ईयुः अञ्जसा॥८॥

यं न योगेन साङ्ख्येन दानव्रततपः अध्वरैः।
व्याख्याः स्वाध्यायसंन्यासैः प्राप्नुयात् यत्नवान् अपि॥९॥

रामेण सार्धं मथुरां प्रणीते श्वाफल्किना मयि अनुरक्तचित्ताः।
विगाढभावेन न मे वियोग तीव्राधयः अन्यं ददृशुः सुखाय॥१०॥

ताः ताः क्षपाः प्रेष्ठतमेन नीताः मया एव वृन्दावनगोचरेण।
क्षणार्धवत् ताः पुनरङ्ग तासां हीना माया कल्पसमा बभूवुः॥११॥

ताः न अविदन् मयि अनुषङ्गबद्ध धियः स्वमात्मानम् अदः तथा इदम्।
यथा समाधौ मुनयः अब्धितोये नद्यः प्रविष्टाः इव नामरूपे॥१२॥

मत्कामा रमणं जारम् अस्वरूपविदः अबलाः।
ब्रह्म मां परमं प्रापुः सङ्गात् शतसहस्रशः॥१३॥

तस्मात् त्वम् उद्धव उत्सृज्य चोदनां प्रतिचोदनाम्।
प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतम् एव च॥१४॥

माम् एकम् एव शरणम् आत्मानं सर्वदेहिनाम्।
याहि सर्वात्मभावेन मया स्याः हि अकुतोभयः॥१५॥

उद्धवः उवाच।
संशयः श्रुण्वतः वाचं तव योगेश्वर ईश्वर।
न निवर्ततः आत्मस्थः येन भ्राम्यति मे मनः॥१६॥

श्रीभगवान् उवाच।
सः एष जीवः विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः।
मनोमयं सूक्ष्मम् उपेत्य रूपं मात्रा स्वरः वर्णः इति स्थविष्ठः॥१७॥

यथा अनलः खे अनिलबन्धुः ऊष्मा बलेन दारुण्यधिमथ्यमानः।
अणुः प्रजातः हविषा समिध्यते तथा एव मे व्यक्तिः इयं हि वाणी॥१८॥

एवं गदिः कर्मगतिः विसर्गः घ्राणः रसः दृक् स्पर्शः श्रुतिः च।
सङ्कल्पविज्ञानम् अथ अभिमानः सूत्रं रजः सत्त्वतमोविकारः॥१९॥

अयं हि जीवः त्रिवृत् अब्जयोनिः अव्यक्तः एकः वयसा सः आद्यः।
विश्लिष्टशक्तिः बहुधा एव भाति बीजानि योनिं प्रतिपद्य यद्वत्॥२०॥

यस्मिन् इदं प्रोतम् अशेषम् ओतं पटः यथा तन्तुवितानसंस्थः।
यः एष संसारतरुः पुराणः कर्मात्मकः पुष्पफले प्रसूते॥२१॥

द्वे अस्य बीजे शतमूलः त्रिनालः पञ्चस्कन्धः पञ्चरसप्रसूतिः।
दश एकशाखः द्विसुपर्णनीडः त्रिवल्कलः द्विफलः अर्कं प्रविष्टः॥२२॥

अदन्ति च एकं फलम् अस्य गृध्रा ग्रामेचराः एकम् अरण्यवासाः।
हंसाः यः एकं बहुरूपम् इज्यैः मायामयं वेद सः वेद वेदम्॥२३॥

एवं गुरु उपासनया एकभक्त्या विद्याकुठारेण शितेन धीरः।
विवृश्च्य जीवाशयम् अप्रमत्तः सम्पद्य च आत्मानम् अथ त्यज अस्त्रम्॥२४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
द्वादशोऽध्यायः॥१२॥

अथ त्रयोदशोऽध्यायः।
श्रीभगवान् उवाच।
सत्त्वं रजः तमः इति गुणाः बुद्धेः न च आत्मनः।
सत्त्वेन अन्यतमौ हन्यात् सत्त्वं सत्त्वेन च एव हि॥१॥

सत्त्वात् धर्मः भवेत् वृद्धात् पुंसः मद्भक्तिलक्षणः।
सात्विक उपासया सत्त्वं ततः धर्मः प्रवर्तते॥२॥

धर्मः रजः तमः हन्यात् सत्त्ववृद्धिः अनुत्तमः।
आशु नश्यति तत् मूलः हि अधर्मः उभये हते॥३॥

आगमः अपः प्रजा देशः कालः कर्म च जन्म च।
ध्यानं मन्त्रः अथ संस्कारः दश एते गुणहेतवः॥४॥

तत् तत् सात्विकम् एव एषां यत् यत् वृद्धाः प्रचक्षते।
निन्दन्ति तामसं तत् तत् राजसं तत् उपेक्षितम्॥५॥

सात्त्विकानि एव सेवेत पुमान् सत्त्वविवृद्धये।
ततः धर्मः ततः ज्ञानं यावत् स्मृतिः अपोहनम्॥६॥

वेणुसङ्घर्षजः वह्निः दग्ध्वा शाम्यति तत् वनम्।
एवं गुणव्यत्ययजः देहः शाम्यति तत् क्रियः॥७॥

उद्धवः उवाच।
विदन्ति मर्त्याः प्रायेण विषयान् पदम् आपदाम्।
तथा अपि भुञ्जते कृष्ण तत् कथं श्व खर अजावत्॥८॥

श्रीभगवान् उवाच।
अहम् इति अन्यथाबुद्धिः प्रमत्तस्य यथा हृदि।
उत्सर्पति रजः घोरं ततः वैकारिकं मनः॥९॥

रजोयुक्तस्य मनसः सङ्कल्पः सविकल्पकः।
ततः कामः गुणध्यानात् दुःसहः स्यात् हि दुर्मतेः॥१०॥

करोति कामवशगः कर्माणि अविजितेन्द्रियः।
दुःखोदर्काणि सम्पश्यन् रजोवेगविमोहितः॥११.
रजः तमोभ्यां यत् अपि विद्वान् विक्षिप्तधीः पुनः।
अतन्द्रितः मनः युञ्जन् दोषदृष्टिः न सज्जते॥१२॥

अप्रमत्तः अनुयुञ्जीतः मनः मयि अर्पयन् शनैः।
अनिर्विण्णः यथाकालं जितश्वासः जितासनः॥१३॥

एतावान् योगः आदिष्टः मत् शिष्यैः सनक आदिभिः।
सर्वतः मनः आकृष्य मय्यद्धा आवेश्यते यथा॥१४॥

उद्धवः उवाच।
यदा त्वं सनक आदिभ्यः येन रूपेण केशव।
योगम् आदिष्टवान् एतत् रूपम् इच्छामि वेदितुम्॥१५॥

श्रीभगवान् उवाच।
पुत्राः हिरण्यगर्भस्य मानसाः सनक आदयः।
पप्रच्छुः पितरं सूक्ष्मां योगस्य ऐकान्तिकीं गतिम्॥१६॥

सनक आदयः ऊचुः।
गुणेषु आविशते चेतः गुणाः चेतसि च प्रभो।
कथम् अन्योन्यसन्त्यागः मुमुक्षोः अतितितीर्षोः॥१७॥

श्रीभगवान् उवाच।
एवं पृष्टः महादेवः स्वयम्भूः भूतभावनः।
ध्यायमानः प्रश्नबीजं न अभ्यपद्यत कर्मधीः॥१८॥

सः माम् अचिन्तयत् देवः प्रश्नपारतितीर्षया।
तस्य अहं हंसरूपेण सकाशम् अगमं तदा॥१९॥

दृष्ट्वा माम् त उपव्रज्य कृत्वा पाद अभिवन्दनम्।
ब्रह्माणम् अग्रतः कृत्वा पप्रच्छुः कः भवान् इति॥२०॥

इति अहं मुनिभिः पृष्टः तत्त्वजिज्ञासुभिः तदा।
यत् अवोचम् अहं तेभ्यः तत् उद्धव निबोध मे॥२१॥

वस्तुनः यदि अनानात्वम् आत्मनः प्रश्नः ईदृशः।
कथं घटेत वः विप्राः वक्तुः वा मे कः आश्रयः॥२२॥

पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः।
कः भवान् इति वः प्रश्नः वाचारम्भः हि अनर्थकः॥२३॥

मनसा वचसा दृष्ट्या गृह्यते अन्यैः अपि इन्द्रियैः।
अहम् एव न मत्तः अन्यत् इति बुध्यध्वम् अञ्जसा॥२४॥

गुणेषु आविशते चेतः गुणाः चेतसि च प्रजाः।
जीवस्य देहः उभयं गुणाः चेतः मत् आत्मनः॥२५॥

गुणेषु च आविशत् चित्तम् अभीक्ष्णं गुणसेवया।
गुणाः च चित्तप्रभवाः मत् रूपः उभयं त्यजेत्॥२६॥

जाग्रत् स्वप्नः सुषुप्तं च गुणतः बुद्धिवृत्तयः।
तासां विलक्षणः जीवः साक्षित्वेन विनिश्चितः॥२७॥

यः हि संसृतिबन्धः अयम् आत्मनः गुणवृत्तिदः।
मयि तुर्ये स्थितः जह्यात् त्यागः तत् गुणचेतसाम्॥२८॥

अहङ्कारकृतं बन्धम् आत्मनः अर्थविपर्ययम्।
विद्वान् निर्विद्य संसारचिन्तां तुर्ये स्थितः त्यजेत्॥२९॥

यावत् नानार्थधीः पुंसः न निवर्तेत युक्तिभिः।
जागर्ति अपि स्वपन् अज्ञः स्वप्ने जागरणं यथा॥३०॥

असत्त्वात् आत्मनः अन्येषां भावानां तत् कृता भिदा।
गतयः हेतवः च अस्य मृषा स्वप्नदृशः यथा॥३१॥

यो जागरे बहिः अनुक्षणधर्मिणः अर्थान् भुङ्क्ते समस्तकरणैः हृदि तत् सदृक्षान्।
स्वप्ने सुषुप्तः उपसंहरते सः एकः स्मृति अन्वयात् त्रिगुणवृत्तिदृक् इन्द्रिय ईशः॥३२॥

एवं विमृश्य गुणतः मनसः त्र्यवस्था मत् मायया मयि कृता इति निश्चितार्थाः।
संछिद्य हार्दम् अनुमानस्त् उक्तितीक्ष्ण ज्ञानासिना भजतः मा अखिलसंशयाधिम्॥३३॥

ईक्षेत विभ्रमम् इदं मनसः विलासम् दृष्टं विनष्टम् अतिलोलम् अलातचक्रम्।
विज्ञानम् एकम् उरुधा इव विभाति माया स्वप्नः त्रिधा गुणविसर्गकृतः विकल्पः॥३४॥

दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततृष्णः तूष्णीं भवेत् निजसुख अनुभवः निरीहः।
सन्दृश्यते क्व च यदि इदम् अवस्तुबुद्ध्या त्यक्तं भ्रमाय न भवेत् स्मृतिः आनिपातात्॥३५॥

देहं च नश्वरम् अवस्थितम् उत्थितं वा सिद्धः न पश्यति यतः अध्यगमत्स्वरूपम्।
दैवात् अपेतम् उत दैवशात् उपेतम् वासः यथा परिकृतं मदिरामदान्धः॥३६॥

देहः अपि दैववशगः खलु कर्म यावत् स्वारम्भकं प्रतिसमीक्षतः एव सासुः।
तं अप्रपञ्चम् अधिरूढसमाधियोगः स्वाप्नं पुनः न भजते प्रतिबुद्धवस्तुः॥३७॥

मया एतत् उक्तं वः विप्राः गुह्यं यत् साङ्ख्ययोगयोः।
जानीतम् आगतं यज्ञं युष्मत् धर्मविवक्षया॥३८॥

अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः।
परायणं द्विजश्रेष्ठाः श्रियः कीर्तेः दमस्य च॥३९॥

मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम्।
सुहृदं प्रियम् आत्मानं साम्य असङ्ग आदयः गुणाः॥४०॥

इति मे छिन्नसन्देहाः मुनयः सनक आदयः।
सभाजयित्वा परया भक्त्या अगृणत संस्तवैः॥४१॥

तैः अहं पूजितः सम्यक् संस्तुतः परम ऋषिभिः।
प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः॥४२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
हंसगीतानिरूपणं नाम त्रयोदशोऽध्यायः॥१३॥

अथ चतुर्दशोऽध्यायः।
उद्धवः उवाच।
वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः।
तेषां विकल्पप्राधान्यम् उत अहो एकमुख्यता॥१॥

भवत् उदाहृतः स्वामिन् भक्तियोगः अनपेक्षितः।
निरस्य सर्वतः सङ्गं येन त्वयि आविशेत् मनः॥२॥

श्रीभगवान् उवाच।
कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता।
मया आदौ ब्रह्मणे प्रोक्ता धर्मः यस्यां मदात्मकः॥३॥

तेन प्रोक्ता च पुत्राय मनवे पूर्वजाय सा।
ततः भृगु आदयः अगृह्णन् सप्तब्रह्ममहर्षयः॥४॥

तेभ्यः पितृभ्यः तत् पुत्राः देवदानवगुह्यकाः।
मनुष्याः सिद्धगन्धर्वाः सविद्याधरचारणाः॥५॥

किन्देवाः किन्नराः नागाः रक्षः किंपुरुष आदयः।
बह्व्यः तेषां प्रकृतयः रजःसत्त्वतमोभुवः॥६॥

याभिः भूतानि भिद्यन्ते भूतानां मतयः तथा।
यथाप्रकृति सर्वेषां चित्राः वाचः स्रवन्ति हि॥७॥

एवं प्रकृतिवैचित्र्यात् भिद्यन्ते मतयः नृणाम्।
पारम्पर्येण केषांचित् पाखण्डमतयः अपरे॥८॥

मन्मायामोहितधियः पुरुषाः पुरुषर्षभ।
श्रेयः वदन्ति अनेकान्तं यथाकर्म यथारुचि॥९॥

धर्मम् एके यशः च अन्ये कामं सत्यं दमं शमम्।
अन्ये वदन्ति स्वार्थं वा ऐश्वर्यं त्यागभोजनम्।
केचित् यज्ञतपोदानं व्रतानि नियम अन्यमान्॥१०॥

आदि अन्तवन्तः एव एषां लोकाः कर्मविनिर्मिताः।
दुःख उदर्काः तमोनिष्ठाः क्षुद्र आनन्दाः शुच अर्पिताः॥११॥

मयि अर्पित मनः सभ्य निरपेक्षस्य सर्वतः।
मया आत्मना सुखं यत् तत् कुतः स्यात् विषय आत्मनाम्॥१२॥

अकिंचनस्य दान्तस्य शान्तस्य समचेतसः।
मया सन्तुष्टमनसः सर्वाः सुखमयाः दिशः॥१३॥

न पारमेष्ठ्यं न महेन्द्रधिष्ण्यम् न सार्वभौमं न रसाधिपत्यम्।
न योगसिद्धीः अपुनर्भवं वा मयि अर्पित आत्मा इच्छति मत् विना अन्यत्॥१४॥

न तथा मे प्रियतमः आत्मयोनिः न शङ्करः।
न च सङ्कर्षणः न श्रीः न एव आत्मा च यथा भवान्॥[१५॥

निरपेक्षं मुनिं शातं निर्वैरं समदर्शनम्।
अनुव्रजामि अहं नित्यं पूयेयेति अङ्घ्रिरेणुभिः॥१६॥

निष्किञ्चना मयि अनुरक्तचेतसः शान्ताः महान्तः अखिलजीववत्सलाः।
कामैः अनालब्धधियः जुषन्ति यत् तत् नैरपेक्ष्यं न विदुः सुखं मम॥१७॥

बाध्यमानः अपि मद्भक्तः विषयैः अजितेन्द्रियः।
प्रायः प्रगल्भया भक्त्या विषयैः न अभिभूयते॥१८॥

यथा अग्निः सुसमृद्ध अर्चिः करोति एधांसि भस्मसात्।
तथा मद्विषया भक्तिः उद्धव एनांसि कृत्स्नशः॥१९॥

न साधयति मां योगः न साङ्ख्यं धर्मः उद्धव।
न स्वाध्यायः तपः त्यागः यथा भक्तिः मम ऊर्जिता॥२०॥

भक्त्या अहम् एकया ग्राह्यः श्रद्धया आत्मा प्रियः सताम्।
भक्तिः पुनाति मन्निष्ठा श्वपाकान् अपि संभवात्॥२१॥

धर्मः सत्यदया उपेतः विद्या वा तपसान्विता।
मद्भ्क्त्यापेतम् आत्मानं न सम्यक् प्रपुनाति हि॥२२॥

कथं विना रोमहर्षं द्रवता चेतसा विना।
विनानन्द अश्रुकलया शुध्येत् भक्त्या विनाशयः॥२३॥

वाक् गद्गदा द्रवते यस्य चित्तम् रुदति अभीक्ष्णं हसति क्वचित् च।
विलज्जः उद्गायति नृत्यते च मद्भक्तियुक्तः भुवनं पुनाति॥२४॥

यथा अग्निना हेम मलं जहाति ध्मातं पुनः स्वं भजते च रूपम्।
आत्मा च कर्मानुशयं विधूय मद्भक्तियोगेन भजति अथः माम्॥२५॥

यथा यथा आत्मा परिमृज्यते असौ मत्पुण्यगाथाश्रवण अभिधानैः।
तथा तथा पश्यति वस्तु सूक्ष्मम् चक्षुः यथा एव अञ्जनसंप्रयुक्तम्॥२६॥

विषयान् ध्यायतः चित्तं विषयेषु विषज्जते।
माम् अनुस्मरतः चित्तं मयि एव प्रविलीयते॥२७॥

तस्मात् असत् अभिध्यानं यथा स्वप्नमनोरथम्।
हित्वा मयि समाधत्स्व मनः मद्भावभावितम्॥२८॥

स्त्रीणां स्त्रीसङ्गिनां सङ्गं त्यक्त्वा दूरतः आत्मवान्।
क्षेमे विविक्तः आसीनः चिन्तयेत् माम् अतन्द्रितः॥२९॥

न तथा अस्य भवेत् क्लेशः बन्धः च अन्यप्रसङ्गतः।
योषित् सङ्गात् यथा पुंसः यथा तत् सङ्गिसङ्गतः॥३०॥

उद्धवः उवाच।
यथा त्वाम् अरविन्दाक्ष यादृशं वा यदात्मकम्।
ध्यायेत् मुमुक्षुः एतत् मे ध्यानं मे वक्तुम् अर्हसि॥३१॥

श्रीभगवान् उवाच।
समः आसनः आसीनः समकायः यथासुखम्।
हस्तौ उत्सङ्गः आधाय स्वनासाग्रकृत ईक्षणः।३२॥

प्राणस्य शोधयेत् मार्गं पूरकुम्भकरेचकैः।
विपर्ययेण अपि शनैः अभ्यसेत् निर्जितेन्द्रियः॥३३॥

हृदि अविच्छिन्नम् ओङ्कारं घण्टानादं बिसोर्णवत्।
प्राणेन उदीर्य तत्र अथ पुनः संवेशयेत् स्वरम्॥३४॥

एवं प्रणवसंयुक्तं प्राणम् एव समभ्यसेत्।
दशकृत्वः त्रिषवणं मासात् अर्वाक् जित अनिलः॥३५॥

हृत्पुण्डरीकम् अन्तस्थम् ऊर्ध्वनालम् अधोमुखम्।
ध्यात्वा ऊर्ध्वमुखम् उन्निद्रम् अष्टपत्रं सकर्णिकम्॥३६॥

कर्णिकायां न्यसेत् सूर्यसोमाग्नीन् उत्तरोत्तरम्।
वह्निमध्ये स्मरेत् रूपं मम एतत् ध्यानमङ्गलम्॥३७॥

समं प्रशान्तं सुमुखं दीर्घचारुचतुर्भुजम्।
सुचारुसुन्दरग्रीवं सुकपोलं शुचिस्मितम्॥३८॥

समान कर्ण विन्यस्त स्फुरन् मकर कुण्डलम्।
हेम अम्बरं घनश्यामं श्रीवत्स श्रीनिकेतनम्॥३९॥

शङ्ख चक्र गदा पद्म वनमाला विभूषितम्।
नूपुरैः विलसत् पादं कौस्तुभ प्रभया युतम्॥४०॥

द्युमत् किरीट कटक कटिसूत्र अङ्गद अयुतम्।
सर्वाङ्ग सुन्दरं हृद्यं प्रसाद सुमुख ईक्षणम्॥४१॥

सुकुमारम् अभिध्यायेत् सर्वाङ्गेषु मनः दधत्।
इन्द्रियाणि इन्द्रियेभ्यः मनसा आकृष्य तत् मनः।
बुद्ध्या सारथिना धीरः प्रणयेत् मयि सर्वतः॥४२॥

तत् सर्व व्यापकं चित्तम् आकृष्य एकत्र धारयेत्।
न अन्यानि चिन्तयेत् भूयः सुस्मितं भावयेत् मुखम्॥४३॥

तत्र लब्धपदं चित्तम् आकृष्य व्योम्नि धारयेत्।
तत् च त्यक्त्वा मदारोहः न किञ्चित् अपि चिन्तयेत्॥४४॥

एवं समाहितमतिः माम् एव आत्मानम् आत्मनि।
विचष्टे मयि सर्वात्मत् ज्योतिः ज्योतिषि संयुतम्॥४५॥

ध्यानेन इत्थं सुतीव्रेण युञ्जतः योगिनः मनः।
संयास्यति आशु निर्वाणं द्रव्य ज्ञान क्रिया भ्रमः॥४६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
भक्तिरहस्यावधारणयोगो नाम चतुर्दशोऽध्यायः॥१४॥

अथ पञ्चदशोऽध्यायः।
श्रीभगवान् उवाच।
जितेन्द्रियस्य युक्तस्य जितश्वासस्य योगिनः
मयि धारयतः चेतः उपतिष्ठन्ति सिद्धयः॥१॥

उद्धवः उवाच।
कया धारणया कास्वित् कथंस्वित् सिद्धिः अच्युत।
कति वा सिद्धयः ब्रूहि योगिनां सिद्धिदः भवान्॥२॥

श्रीभगवान् उवाच।
सिद्धयः अष्टादश प्रोक्ता धारणायोगपारगैः।
तासाम् अष्टौ मत् प्रधानाः दशः एव गुणहेतवः॥३॥

अणिमा महिमा मूर्तेः लघिमा प्राप्तिः इन्द्रियैः।
प्राकाम्यं श्रुतदृष्टेषु शक्तिप्रेरणम् ईशिता॥४॥

गुणेषु असङ्गः वशिता यत् कामः तत् अवस्यति।
एताः मे सिद्धयः सौम्य अष्टौ उत्पत्तिकाः मताः॥५॥

अनूर्मिमत्त्वं देहे अस्मिन् दूरश्रवणदर्शनम्।
मनोजवः कामरूपं परकायप्रवेशनम्॥६॥

स्वच्छन्दमृत्युः देवानां सहक्रीडानुदर्शनम्।
यथासङ्कल्पसंसिद्धिः आज्ञाप्रतिहता गतिः॥७॥

त्रिकालज्ञत्वम् अद्वन्द्वं परचित्तादि अभिज्ञता।
अग्नि अर्क अम्बु विष आदीनां प्रतिष्टम्भः अपराजयः॥८॥

एताः च उद्देशतः प्रोक्ता योगधारणसिद्धयः।
यया धारणया या स्यात् यथा वा स्यात् निबोध मे॥९॥

भूतसूक्ष्म आत्मनि मयि तन्मात्रं धारयेत् मनः।
अणिमानम् अवाप्नोति तन्मात्र उपासकः मम॥१०॥

महति आत्मन् मयि परे यथासंस्थं मनः दधत्।
महिमानम् अवाप्नोति भूतानां च पृथक् पृथक्॥११॥

परमाणुमये चित्तं भूतानां मयि रञ्जयन्।
कालसूक्ष्मात्मतां योगी लघिमानम् अवाप्नुयात्॥१२॥

धारयन् मयि अहंतत्त्वे मनः वैकारिके अखिलम्।
सर्वेन्द्रियाणाम् आत्मत्वं प्राप्तिं प्राप्नोति मन्मनाः॥१३॥

महति आत्मनि यः सूत्रे धारयेत् मयि मानसम्।
प्राकाम्यं पारमेष्ठ्यं मे विन्दते अव्यक्तजन्मनः॥१४॥

विष्णौ त्र्यधि ईश्वरे चित्तं धारयेत् कालविग्रहे।
सः ईशित्वम् अवाप्नोति क्षेत्रक्षेत्रज्ञचोदनाम्॥१५॥

नारायणे तुरीयाख्ये भगवत् शब्दशब्दिते।
मनः मयि आदधत् योगी मत् धर्माः वहिताम् इयात्॥१६॥

निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः।
परमानन्दम् आप्नोति यत्र कामः अवसीयते॥१७॥

श्वेतदीपपतौ चित्तं शुद्धे धर्ममये मयि।
धारयन् श्वेततां याति षडूर्मिरहितः नरः॥१८॥

मयि आकाश आत्मनि प्राणे मनसा घोषम् उद्वहन्।
तत्र उपलब्धा भूतानां हंसः वाचः श्रुणोति असौ॥१९॥

चक्षुः त्वष्टरि संयोज्य त्वष्टारम् अपि चक्षुषि।
मां तत्र मनसा ध्यायन् विश्वं पश्यति सूक्ष्मदृक्॥२०॥

मनः मयि सुसंयोज्य देहं तदनु वायुना।
मद्धारण अनुभावेन तत्र आत्मा यत्र वै मनः॥२१॥

यदा मनः उपादाय यत् यत् रूपं बुभूषति।
तत् तत् भवेत् मनोरूपं मद्योगबलम् आश्रयः॥२२॥

परकायं विशन् सिद्धः आत्मानं तत्र भावयेत्।
पिण्डं हित्वा विशेत् प्राणः वायुभूतः षडङ्घ्रिवत्॥२३॥

पार्ष्ण्या आपीड्य गुदं प्राणं हृत् उरः कण्ठ मूर्धसु।
आरोप्य ब्रह्मरन्ध्रेण ब्रह्म नीत्वा उत्सृजेत् तनुम्॥२४॥

विहरिष्यन् सुराक्रीडे मत्स्थं सत्त्वं विभावयेत्।
विमानेन उपतिष्ठन्ति सत्त्ववृत्तीः सुरस्त्रियः॥२५॥

यथा सङ्कल्पयेत् बुद्ध्या यदा वा मत्परः पुमान्।
मयि सत्ये मनः युञ्जन् तथा तत् समुपाश्नुते॥२६॥

यः वै मद्भावम् आपन्नः ईशितुः वशितुः पुमान्।
कुतश्चित् न विहन्येत तस्य च आज्ञा यथा मम॥२७॥

मद्भक्त्या शुद्धसत्त्वस्य योगिनः धारणाविदः।
तस्य त्रैकालिकी बुद्धिः जन्म मृत्यु उपबृंहिता॥२८॥

अग्नि आदिभिः न हन्येत मुनेः योगम् अयं वपुः।
मद्योगश्रान्तचित्तस्य यादसाम् उदकं यथा॥२९॥

मद्विभूतिः अभिध्यायन् श्रीवत्स अस्त्रबिभूषिताः।
ध्वजातपत्रव्यजनैः सः भवेत् अपराजितः॥३०॥

उपासकस्य माम् एवं योगधारणया मुनेः।
सिद्धयः पूर्वकथिताः उपतिष्ठन्ति अशेषतः॥३१॥

जितेन्द्रियस्य दान्तस्य जितश्वास आत्मनः मुनेः।
मद्धारणां धारयतः का सा सिद्धिः सुदुर्लभा॥३२॥

अन्तरायान् वदन्ति एताः युञ्जतः योगम् उत्तमम्।
मया संपद्यमानस्य कालक्षेपणहेतवः॥३३॥

जन्म ओषधि तपो मन्त्रैः यावतीः इह सिद्धयः।
योगेन आप्नोति ताः सर्वाः न अन्यैः योगगतिं व्रजेत्॥३४॥

सर्वासाम् अपि सिद्धीनां हेतुः पतिः अहं प्रभुः।
अहं योगस्य साङ्ख्यस्य धर्मस्य ब्रह्मवादिनाम्॥३५॥

अहम् आत्मा अन्तरः बाह्यः अनावृतः सर्वदेहिनाम्।
यथा भूतानि भूतेषु बहिः अन्तः स्वयं तथा॥३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
सिद्धनिरूपणयोगो नाम पञ्चदशोऽध्यायः॥१५॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. गीता
  2. उद्धवगीता
    1. उद्धवगीता १ (अध्याय ०१-०५)
    2. उद्धवगीता २ (अध्याय ०६-१०)
    3. उद्धवगीता ३ (अध्याय ११-१५)
    4. उद्धवगीता ४ (अध्याय १६-२०)
    5. उद्धवगीता ५ (अध्याय २१-२५)
    6. उद्धवगीता ६ (अध्याय २६-३०)
    7. उद्धवगीता ७ (अध्याय ३१)

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=उद्धवगीता_३&oldid=46966" इत्यस्माद् पुनः प्राप्तिः