उद्धवगीता २

विकिस्रोतः तः
Jump to navigation Jump to search

अथ षष्ठोऽध्यायः।
श्रीशुकः उवाच।
अथ ब्रह्मा आत्मजैः देवैः प्रजेशैः आवृतः अभ्यगात्।
भवः च भूतभव्यैइशः ययौ भूतगणैः वृतः॥१॥

इन्द्रः मरुद्भिः भगवान् आदित्याः वसवः अश्विनौ।
ऋभवः अङ्गिरसः रुद्राः विश्वे साध्याः च देवताः॥२॥

गन्धर्वाप्सरसः नागाः सिद्धचारणगुह्यकाः।
ऋषयः पितरः च एव सविद्याधरकिन्नराः॥३॥

द्वारकाम् उपसञ्जग्मुः सर्वे कृष्णआदिदृक्षवः।
वपुषा येन भगवान् नरलोकमनोरमः।
यशः वितेने लोकेषु सर्वलोकमलापहम्॥४॥

तस्यां विभ्राजमानायां समृद्धायां महर्धिभिः।
व्यचक्षत अवितृप्ताक्षाः कृष्णम् अद्भुतदर्शनम्॥५॥

स्वर्गौद्यानौअपगैः माल्यैः छादयन्तः यदु उत्तमम्।
गीर्भिः चित्रपदार्थाभिः तुष्टुवुः जगत् ईश्वरम्॥६॥

देवाः ऊचुः।
नताः स्म ते नाथ पदारविन्दं बुद्धीन्द्रियप्राणमनोवचोभिः।
यत् चिन्त्यते अन्तर्हृदि भावयुक्तैः मुमुक्षुभिः कर्ममय ऊरुपाशात्॥७॥

त्वं मायया त्रिगुणया आत्मनि दुर्विभाव्यं व्यक्तं सृजसि अवसि लुम्पसि तत् गुणस्थः।
न एतैः भवान् अजित कर्मभिः अज्यते वै यत् स्वे सुखे अव्यवहिते अभिरतः अनवद्यः॥८॥

शुद्धिः नृणां न तु तथा ईड्य दुराशयानां विद्याश्रुताध्ययनदानतपक्रियाभिः।
सत्त्वआत्मनाम् ऋषभ ते यशसि प्रवृद्ध सत् श्रद्धया श्रवणसम्भृतया यथा स्यात्॥९॥

स्यात् नः तव अङ्घ्रिः अशुभाशयधूमकेतुः क्षेमाय यः मुनिभिः आर्द्रहृदौह्यमानः।
यः सात्वतैः समविभूतयः आत्मवद्भिः व्यूहे अर्चितः सवनशः स्वः अतिक्रमाय॥१०॥

यः चिन्त्यते प्रयतपाणिभिः अध्वराग्नौ त्रय्या निरुक्तविधिना ईश हविः गृहीत्वा।
अध्यात्मयोगः उत योगिभिः आत्ममायां जिज्ञासुभिः परमभागवतैः परीष्टः॥११॥

पर्युष्टया तव विभो वनमालया इयं संस्पर्धिनी भगवती प्रतिपत्निवत् श्रीः।
यः सुप्रणीतम् अमुयार्हणम् आदत् अन्नः भूयात् सदा अङ्घ्रिः अशुभआशयधूमकेतुः॥१२॥

केतुः त्रिविक्रमयुतः त्रिपत् पताकः यः ते भयाभयकरः असुरदेवचम्वोः।
स्वर्गाय साधुषु खलु एषु इतराय भूमन् पादः पुनातु भगवन् भजताम् अधं नः॥१३॥

नस्योतगावः इव यस्य वशे भवन्ति ब्रह्मआदयः अनुभृतः मिथुरर्द्यमानाः।
कालस्य ते प्रकृतिपूरुषयओः परस्य शं नः तनोतु चरणः पुरुषोत्तमस्य॥१४॥

अस्य असि हेतुः उदयस्थितिसंयमानां अव्यक्तजीवमहताम् अपि कालम् आहुः।
सः अयं त्रिणाभिः अखिल अपचये प्रवृत्तः कालः गभीररयः उत्तमपूरुषः त्वम्॥१५॥

त्वत्तः पुमान् समधिगम्य यया स्ववीर्य धत्ते महान्तम् इव गर्भम् अमोघवीर्यः।
सः अयं तया अनुगतः आत्मनः आण्डकोशं हैमं ससर्ज बहिः आवरणैः उपेतम्॥१६॥

तत्तस्थुषः च जगतः च भवान् अधीशः यत् मायया उत्थगुणविक्रियया उपनीतान्।
अर्थान् जुषन् अपि हृषीकपते न लिप्तः ये अन्ये स्वतः परिहृतात् अपि बिभ्यति स्म॥१७॥

स्माया अवलोकलवदर्शितभावहारि भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः।
पत्न्यः तु षोडशसहस्रम् अनङ्गबाणैः यस्य इन्द्रियं विमथितुं करणैः विभ्व्यः॥१८॥

विभ्व्यः तव अमृतकथा उदवहाः त्रिलोक्याः पादौ अनेजसरितः शमलानि हन्तुम्।
आनुश्रवं श्रुतिभिः अङ्घ्रिजम् अङ्गसङ्गैः तीर्थद्वयं शुचिषदस्तः उपस्पृशन्ति॥१९॥

बादरायणिः उवाच।
इति अभिष्टूय विबुधैः सेशः शतधृतिः हरिम्।
अभ्यभाषत गोविन्दं प्रणम्य अम्बरम् आश्रितः॥२०॥

ब्रह्म उवाच।
भूमेः भार अवताराय पुरा विज्ञापितः प्रभो।
त्वम् अस्माभिः अशेषआत्मन् तत् तथा एव उपपादितम्॥२१॥

धर्मः च स्थापितः सत्सु सत्यसन्धेषु वै त्वया।
कीर्तिः च दिक्षु विक्षिप्ता सर्वलोकमलआपहा॥२२॥

अवतीर्य यदोः वंशे बिभ्रत् रूपम् अनुत्तमम्।
कर्माणि उद्दामवृत्तानि हिताय जगतः अकृथाः॥२३॥

यानि ते चरितानि ईश मनुष्याः साधवः कलौ।
शृण्वन्तः कीर्तयन्तः च तरिष्यन्ति अञ्जसा तमः॥२४॥

यदुवंशे अवतीर्णस्य भवतः पुरुषोत्तम।
शरत् शतं व्यतीयाय पञ्चविंश अधिकं प्रभोः॥२५॥

न अधुना ते अखिल आधार देवकार्य अवशेषितम्।
कुलं च विप्रशापेन नष्टप्रायम् अभूत् इदम्॥२६॥

ततः स्वधाम परमं विशस्व यदि मन्यसे।
सलोकान् लोकपालान् नः पाहि वैकुण्ठकिङ्करान्॥२७॥

श्री भगवान् उवाच।
अवधारितम् एतत् मे यदात्थ विबुधेश्वर।
कृतं वः कार्यम् अखिलं भूमेः भारः अवतारितः॥२८॥

तत् इदं यादवकुलं वीर्यशौर्यश्रियोद्धतम्।
लोकं जिघृक्षत् रुद्धं मे वेलया इव महार्णवः॥२९॥

यदि असंहृत्य दृप्तानां यदुनां विपुलं कुलम्।
गन्तास्मि अनेन लोकः अयम् उद्वेलेन विनङ्क्ष्यति॥३०॥

इदानीं नाशः आरब्धः कुलस्य द्विजशापतः।
यास्यामि भवनं ब्रह्मन् न एतत् अन्ते तव आनघ॥३१॥

श्री शुकः उवाच।
इति उक्तः लोकनाथेन स्वयम्भूः प्रणिपत्य तम्।
सह देवगणैः देवः स्वधाम समपद्यत॥३२॥

अथ तस्यां महोत्पातान् द्वारवत्यां समुत्थितान्।
विलोक्य भगवान् आह यदुवृद्धान् समागतान्॥३३॥

श्री भगवान् उवाच।
एते वै सुमहोत्पाताः व्युत्तिष्ठन्ति इह सर्वतः।
शापः च नः कुलस्य आसीत् ब्राह्मणेभ्यः दुरत्ययः॥३४॥

न वस्तव्यम् इह अस्माभिः जिजीविषुभिः आर्यकाः।
प्रभासं सुमहत् पुण्यं यास्यामः अद्य एव मा चिरम्॥३५॥

यत्र स्नात्वा दक्षशापात् गृहीतः यक्ष्मणौडुराट्।
विमुक्तः किल्बिषात् सद्यः भेजे भूयः कलोदयम्॥३६॥

वयं च तस्मिन् आप्लुत्य तर्पयित्वा पितॄन्सुरान्।
भोजयित्वा उशिजः विप्रान् नानागुणवता अन्धसा॥३७॥

तेषु दानानि पात्रेषु श्रद्धया उप्त्वा महान्ति वै।
वृजिनानि तरिष्यामः दानैः नौभिः इव अर्णवम्॥३८॥

श्री शुकः उवाच।
एवं भगवता आदिष्टाः यादवाः कुलनन्दन।
गन्तुं कृतधियः तीर्थं स्यन्दनान् समयूयुजन्॥३९॥

तत् निरीक्ष्य उद्धवः राजन् श्रुत्वा भगवता उदितम्।
दृष्ट्वा अरिष्टानि घोराणि नित्यं कृष्णम् अनुव्रतः॥४०॥

विविक्तः उपसङ्गम्य जगताम् ईश्वरेश्वरम्।
प्रणम्य शिरसा पादौ प्राञ्जलिः तम् अभाषत॥४१॥

उद्धवः उवाच।
देवदेवेश योगेश पुण्यश्रवणकीर्तन।
संहृत्य एतत् कुलं नूनं लोकं सन्त्यक्ष्यते भवान्।
विप्रशापं समर्थः अपि प्रत्यहन् न यदि ईश्वरः॥४२॥

न अहं तव अङ्घ्रिकमलं क्षणार्धम् अपि केशव।
त्यक्तुं समुत्सहे नाथ स्वधाम नय माम् अपि॥४३॥

तव विक्रीडितं कृष्ण नृणां परममङ्गलम्।
कर्णपीयूषम् आस्वाद्य त्यजति अन्यस्पृहां जनः॥४४॥

शय्यआसनाटनस्थानस्नानक्रीडाशनआदिषु।
कथं त्वां प्रियम् आत्मानं वयं भक्ताः त्यजेमहि॥४५॥

त्वया उपभुक्तस्रक्गन्धवासः अलङ्कारचर्चिताः।
उच्छिष्टभोजिनः दासाः तव मायां जयेमहि॥४६॥

वाताशनाः यः ऋषयः श्रमणा ऊर्ध्वमन्थिनः।
ब्रह्मआख्यं धाम ते यान्ति शान्ताः संन्यासिनः अमलाः॥४७॥

वयं तु इह महायोगिन् भ्रमन्तः कर्मवर्त्मसु।
त्वत् वार्तया तरिष्यामः तावकैः दुस्तरं तमः॥४८॥

स्मरन्तः कीर्तयन्तः ते कृतानि गदितानि च।
गतिउत्स्मितैइक्षणक्ष्वेलि यत् नृलोकविडम्बनम्॥४९॥

श्री शुकः उवाच।
एवं विज्ञापितः राजन् भगवान् देवकीसुतः।
एकान्तिनं प्रियं भृत्यम् उद्धवं समभाषत॥५०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे देवस्तुत्युद्ध्वविज्ञापनं नाम
षष्ठोऽध्यायः॥६॥

अथ सप्तमोऽध्यायः।
श्री भगवान् उवाच।
यत् आत्थ मां महाभाग तत् चिकीर्षितम् एव मे।
ब्रह्मा भवः लोकपालाः स्वर्वासं मे अभिकाङ्क्षिणः॥१॥

मया निष्पादितं हि अत्र देवकार्यम् अशेषतः।
यदर्थम् अवतीर्णः अहम् अंशेन ब्रह्मणार्थितः॥२॥

कुलं वै शापनिर्दग्धं नङ्क्ष्यति अन्योन्यविग्रहात्।
समुद्रः सप्तमे अह्न्ह्येतां पुरीं च प्लावयिष्यति॥३॥

यः हि एव अयं मया त्यक्तः लोकः अयं नष्टमङ्गलः।
भविष्यति अचिरात् साधो कलिनाऽपि निराकृतः॥४॥

न वस्तव्यं त्वया एव इह मया त्यक्ते महीतले।
जनः अधर्मरुचिः भद्रः भविष्यति कलौ युगे॥५॥

त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धुषु।
मयि आवेश्य मनः सम्यक् समदृक् विचरस्व गाम्॥६॥

यत् इदं मनसा वाचा चक्षुर्भ्यां श्रवणआदिभिः।
नश्वरं गृह्यमाणं च विद्धि मायामनोमयम्॥७॥

पुंसः अयुक्तस्य नानार्थः भ्रमः सः गुणदोषभाक्।
कर्माकर्मविकर्म इति गुणदोषधियः भिदा॥८॥

तस्मात् युक्तैन्द्रियग्रामः युक्तचित्तः इदं जगत्।
आत्मनि ईक्षस्व विततम् आत्मानं मयि अधीश्वरे॥९॥

ज्ञानविज्ञानसंयुक्तः आत्मभूतः शरीरिणाम्।
आत्मानुभवतुष्टआत्मा न अन्तरायैः विहन्यसे॥१०॥

दोषबुद्ध्या उभयातीतः निषेधात् न निवर्तते।
गुणबुद्ध्या च विहितं न करोति यथा अर्भकः॥११॥

सर्वभूतसुहृत् शान्तः ज्ञानविज्ञाननिश्चयः।
पश्यन् मदात्मकं विश्वं न विपद्येत वै पुनः॥१२॥

श्री शुकः उवाच।
इति आदिष्टः भगवता महाभागवतः नृप।
उद्धवः प्रणिपत्य आह तत्त्वजिज्ञासुः अच्युतम्॥१३॥

उद्धवः उवाच।
योगेश योगविन्न्यास योगात्म योगसम्भव।
निःश्रेयसाय मे प्रोक्तः त्यागः संन्यासलक्षणः॥१४॥

त्यागः अयं दुष्करः भूमन् कामानां विषयआत्मभिः।
सुतरां त्वयि सर्वआत्मन् न अभक्तैः इति मे मतिः॥१५॥

सः अहं मम अहम् इति मूढमतिः विगाढः त्वत् मायया विरचित आत्मनि सानुबन्धे।
तत् तु अञ्जसा निगदितं भवता यथा अहम् संसाधयामि भगवन् अनुशाधि भृत्यम्॥१६॥

सत्यस्य ते स्वदृशः आत्मनः आत्मनः अन्यम् वक्तारम् ईश विबुधेषु अपि न अनुचक्षे।
सर्वे विमोहितधियः तव मायया इमे ब्रह्मआदयः तनुभृतः बहिः अर्थभावः॥१७॥

तस्मात् भवन्तम् अनवद्यम् अनन्तपारम् सर्वज्ञम् ईश्वरम् अकुण्ठविकुण्ठधिष्णि अयम्।
निर्विण्णधीः अहम् उ ह वृजनाभितप्तः नारायणं नरसखं शरणं प्रपद्ये॥१८॥

श्री भगवान् उवाच।
प्रायेण मनुजा लोके लोकतत्त्वविचक्षणाः।
समुद्धरन्ति हि आत्मानम् आत्मना एव अशुभआशयात्॥१९॥

आत्मनः गुरुः आत्मा एव पुरुषस्य विशेषतः।
यत् प्रत्यक्ष अनुमानाभ्यां श्रेयः असौ अनुविन्दते॥२०॥

पुरुषत्वे च मां धीराः साङ्ख्ययोगविशारदाः।
आविस्तरां प्रपश्यन्ति सर्वशक्ति उपबृंहितम्॥२१॥

एकद्वित्रिचतुष्पादः बहुपादः तथा अपदः।
बह्व्यः सन्ति पुरः सृष्टाः तासां मे पौरुषी प्रिया॥२२॥

अत्र मां मार्गयन्त्यद्धाः युक्ताः हेतुभिः ईश्वरम्।
गृह्यमाणैः गुणैः लिङ्गैः अग्राह्यम् अनुमानतः॥२३॥

अत्र अपि उदाहरन्ति इमम् इतिहासं पुरातनम्।
अवधूतस्य संवादं यदोः अमिततेजसः॥२४॥

अवधूतं द्विजं कञ्चित् चरन्तम् अकुतोभयम्।
कविं निरीक्ष्य तरुणं यदुः पप्रच्छ धर्मवित्॥२५॥

यदुः उवाच।
कुतः बुद्धिः इयं ब्रह्मन् अकर्तुः सुविशारदा।
याम् आसाद्य भवान् लोकं विद्वान् चरति बालवत्॥२६॥

प्रायः धर्मार्थकामेषु विवित्सायां च मानवाः।
हेतुना एव समीहन्ते आयुषः यशसः श्रियः॥२७॥

त्वं तु कल्पः कविः दक्षः सुभगः अमृतभाषणः।
न कर्ता नेहसे किञ्चित् जडौन्मत्तपिशाचवत्॥२८॥

जनेषु दह्यमानेषु कामलोभदवाग्निना।
न तप्यसे अग्निना मुक्तः गङ्गाम्भस्थः इव द्विपः॥२९॥

त्वं हि नः पृच्छतां ब्रह्मन् आत्मनि आनन्दकारणम्।
ब्रूहि स्पर्शविहीनस्य भवतः केवल आत्मनः॥३०॥

श्री भगवान् उवाच।
यदुना एवं महाभागः ब्रह्मण्येन सुमेधसा।
पृष्टः सभाजितः प्राह प्रश्रय अवनतं द्विजः॥३१॥

ब्राह्मणः उवाच।
सन्ति मे गुरवः राजन् बहवः बुद्ध्या उपाश्रिताः।
यतः बुद्धिम् उपादाय मुक्तः अटामि इह तान् श्रुणु॥३२॥

पृथिवी वायुः आकाशम् आपः अग्निः चन्द्रमा रविः।
कपोतः अजगरः सिन्धुः पतङ्गः मधुकृद् गजः॥३३॥

मधुहा हरिणः मीनः पिङ्गला कुररः अर्भकः।
कुमारी शरकृत् सर्पः ऊर्णनाभिः सुपेशकृत्॥३४॥

एते मे गुरवः राजन् चतुर्विंशतिः आश्रिताः।
शिक्षा वृत्तिभिः एतेषाम् अन्वशिक्षम् इह आत्मनः॥३५॥

यतः यत् अनुशिक्षामि यथा वा नाहुषआत्मज।
तत् तथा पुरुषव्याघ्र निबोध कथयामि ते॥३६॥

भूतैः आक्रमाणः अपि धीरः दैववशानुगैः।
तत् विद्वान् न चलेत् मार्गात् अन्वशिक्षं क्षितेः व्रतम्॥३७॥

शश्वत् परार्थसर्वेहः परार्थ एकान्तसम्भवः।
साधुः शिक्षेत भूभृत्तः नगशिष्यः परात्मताम्॥३८॥

प्राणवृत्त्या एव सन्तुष्येत् मुनिः न एव इन्द्रियप्रियैः।
ज्ञानं यथा न नश्येत न अवकीर्येत वाङ्मनः॥३९॥

विषयेषु आविशन् योगी नानाधर्मेषु सर्वतः।
गुणदोषव्यपेत आत्मा न विषज्जेत वायुवत्॥४०॥

पार्थिवेषु इह देहेषु प्रविष्टः तत् गुणआश्रयः।
गुणैः न युज्यते योगी गन्धैः वायुः इव आत्मदृक्॥४१॥

अन्तः हितः च स्थिरजङ्गमेषु ब्रह्म आत्मभावेन समन्वयेन।
व्याप्त्य अवच्छेदम् असङ्गम् आत्मनः मुनिः नभः त्वं विततस्य भावयेत्॥४२॥

तेजः अबन्नमयैः भावैः मेघ आद्यैः वायुना ईरितैः।
न स्पृश्यते नभः तद्वत् कालसृष्टैः गुणैः पुमान्॥४३॥

स्वच्छः प्रकृतितः स्निग्धः माधुर्यः तीर्थभूः नृणाम्।
मुनिः पुनाति अपां मित्रम् ईक्ष उपस्पर्शकीर्तनैः॥४४॥

तेजस्वी तपसा दीप्तः दुर्धर्षौदरभाजनः।
सर्वभक्षः अपि युक्त आत्मा न आदत्ते मलम् अग्निवत्॥४५॥

क्वचित् शन्नः क्वचित् स्पष्टः उपास्यः श्रेयः इच्छताम्।
भुङ्क्ते सर्वत्र दातॄणां दहन् प्राक् उत्तर अशुभम्॥४६॥

स्वमायया सृष्टम् इदं सत् असत् लक्षणं विभुः।
प्रविष्टः ईयते तत् तत् स्वरूपः अग्निः इव एधसि॥४७॥

विसर्गाद्याः श्मशानान्ताः भावाः देहस्य न आत्मनः।
कलानाम् इव चन्द्रस्य कालेन अव्यक्तवर्त्मना॥४८॥

कालेन हि ओघवेगेन भूतानां प्रभव अपि अयौ।
नित्यौ अपि न दृश्येते आत्मनः अग्नेः यथा अर्चिषाम्॥४९॥

गुणैः गुणान् उपादत्ते यथाकालं विमुञ्चति।
न तेषु युज्यते योगी गोभिः गाः इव गोपतिः॥५०॥

बुध्यते स्वेन भेदेन व्यक्तिस्थः इव तत् गतः।
लक्ष्यते स्थूलमतिभिः आत्मा च अवस्थितः अर्कवत्॥५१॥

न अतिस्नेहः प्रसङ्गः वा कर्तव्यः क्व अपि केनचित्।
कुर्वन् विन्देत सन्तापं कपोतः इव दीनधीः॥५२॥

कपोतः कश्चन अरण्ये कृतनीडः वनस्पतौ।
कपोत्या भार्यया सार्धम् उवास कतिचित् समाः॥५३॥

कपोतौ स्नेहगुणितहृदयौ गृहधर्मिणौ।
दृष्टिं दृष्ट्याङ्गम् अङ्गेन बुद्धिं बुद्ध्या बबन्धतुः॥५४॥

शय्याअसनाटनस्थानवार्ताक्रीडाशनआदिकम्।
मिथुनीभूय विस्रब्धौ चेरतुः वनराजिषु॥५५॥

यं यं वाञ्छति सा राजन् तर्पयन्ति अनुकम्पिता।
तं तं समनयत् कामं कृच्छ्रेण अपि अजितैन्द्रियः॥५६॥

कपोती प्रथमं गर्भं गृह्णति कालः आगते।
अण्डानि सुषुवे नीडे स्वपत्युः संनिधौ सती॥५७॥

तेषू काले व्यजायन्त रचितावयवा हरेः।
शक्तिभिः दुर्विभाव्याभिः कोमलाङ्गतनूरुहाः॥५८॥

प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्रवत्सलौ।
शृण्वन्तौ कूजितं तासां निर्वृतौ कलभाषितैः॥५९॥

तासां पतत्रैः सुस्पर्शैः कूजितैः मुग्धचेष्टितैः।
प्रत्युद्गमैः अदीनानां पितरौ मुदम् आपतुः॥६०॥

स्नेहानुबद्धहृदयौ अन्योन्यं विष्णुमायया।
विमोहितौ दीनधियौ शिशून् पुपुषतुः प्रजाः॥६१॥

एकदा जग्मतुः तासाम् अन्नार्थं तौ कुटुम्बिनौ।
परितः कानने तस्मिन् अर्थिनौ चेरतुः चिरम्॥६२॥

दृष्ट्वा तान् लुब्धकः कश्चित् यदृच्छ अतः वनेचरः।
जगृहे जालम् आतत्य चरतः स्वालयान्तिके॥६३॥

कपोतः च कपोती च प्रजापोषे सदा उत्सुकौ।
गतौ पोषणम् आदाय स्वनीडम् उपजग्मतुः॥६४॥

कपोती स्वात्मजान् वीक्ष्य बालकान् जालसंवृतान्।
तान् अभ्यधावत् क्रोशन्ती क्रोशतः भृशदुःखिता॥६५॥

सा असकृत् स्नेहगुणिता दीनचित्ता अजमायया।
स्वयं च अबध्यत शिचा बद्धान् पश्यन्ति अपस्मृतिः॥६६॥

कपोतः च आत्मजान् बद्धान् आत्मनः अपि अधिकान् प्रियान्।
भार्यां च आत्मसमां दीनः विललाप अतिदुःखितः॥६७॥

अहो मे पश्यत अपायम् अल्पपुण्यस्य दुर्मतेः।
अतृप्तस्य अकृतार्थस्य गृहः त्रैवर्गिकः हतः॥६८॥

अनुरूपा अनुकूला च यस्य मे पतिदेवता।
शून्ये गृहे मां सन्त्यज्य पुत्रैः स्वर्याति साधुभिः॥६९॥

सः अहं शून्ये गृहे दीनः मृतदारः मृतप्रजः।
जिजीविषे किमर्थं वा विधुरः दुःखजीवितः॥७०॥

तान् तथा एव आवृतान् शिग्भिः मृत्युग्रस्तान् विचेष्टतः।
स्वयं च कृपणः शिक्षु पश्यन् अपि अबुधः अपतत्॥७१॥

तं लब्ध्वा लुब्धकः क्रूरः कपोतं गृहमेधिनम्।
कपोतकान् कपोतीं च सिद्धार्थः प्रययौ गृहम्॥७२॥

एवं कुटुम्बी अशान्त आत्मा द्वन्द्व आरामः पतत् त्रिवत्।
पुष्णन् कुटुम्बं कृपणः सानुबन्धः अवसीदति॥७३॥

यः प्राप्य मानुषं लोकं मुक्तिद्वारम् अपावृतम्।
गृहेषु खगवत् सक्तः तम् आरूढच्युतं विदुः॥७४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
यद्वधूतेतिहासे सप्तमोऽध्यायः॥७॥

अथास्षटमोऽध्यायः।
सुखम् ऐन्द्रियकं राजन् स्वर्गे नरकः एव च।
देहिनः यत् यथा दुःखं तस्मात् न इच्छेत तत् बुधाः॥१॥

ग्रासं सुमृष्टं विरसं महान्तं स्तोकम् एव वा।
यदृच्छया एव अपतितं ग्रसेत् आजगरः अक्रियः॥२॥

शयीत अहानि भूरीणि निराहारः अनुपक्रमः।
यदि न उपनमेत् ग्रासः महाहिः इव दिष्टभुक्॥३॥

ओजः सहोबलयुतं बिभ्रत् देहम् अकर्मकम्।
शयानः वीतनिद्रः च नेहेत इन्द्रियवान् अपि॥४॥

मुनिः प्रसन्नगम्भीरः दुर्विगाह्यः दुरत्ययः।
अनन्तपारः हि अक्षोभ्यः स्तिमित उदः इव अर्णवः॥५॥

समृद्धकामः हीनः वा नारायणपरः मुनिः।
न उत्सर्पेत न शुष्येत सरिद्भिः इव सागरः॥६॥

दृष्ट्वा स्त्रियं देवमायां तत् भावैः अजितेन्द्रियः।
प्रलोभितः पतति अन्धे तमसि अग्नौ पतङ्गवत्॥७॥

योषित् हिरण्य आभरण अम्बरादि द्रव्येषु मायारचितेषु मूढः।
प्रलोभितात्मा हि उपभोगबुद्ध्या पतङ्गवत् नश्यति नष्टदृष्टिः॥८॥

स्तोकं स्तोकं ग्रसेत् ग्रासं देहः वर्तेत यावता।
गृहान् अहिंसत् न आतिष्ठेत् वृत्तिं माधुकरीं मुनिः॥९॥

अणुभ्यः च महद्भ्यः च शास्त्रेभ्यः कुशलः नरः।
सर्वतः सारम् आदद्यात् पुष्पेभ्यः इव षट्पदः॥१०॥

सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम्।
पाणिपात्र उदरामत्रः मक्षिका इव न सङ्ग्रही॥११॥

सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षुकः।
मक्षिकाः इव सङ्गृह्णन् सह तेन विनश्यति॥१२॥

पद अपि युवतीं भिक्षुः न स्पृशेत् दारवीम् अपि।
स्पृशन् करीव बध्येत करिण्या अङ्गसङ्गतः॥१३॥

न अधिगच्छेत् स्त्रियं प्राज्ञः कर्हिचित् मृत्युम् आत्मनः।
बल अधिकैः स हन्येत गजैः अन्यैः गजः यथा॥१४॥

न देयं न उपभोग्यं च लुब्धैः यत् दुःख सञ्चितम्।
भुङ्क्ते तत् अपि तत् च अन्यः मधुहेव अर्थवित् मधु॥१५॥

सुख दुःख उपार्जितैः वित्तैः आशासानां गृह आशिषः।
मधुहेव अग्रतः भुङ्क्ते यतिः वै गृहमेधिनाम्॥१६॥

ग्राम्यगीतं न श्रुणुयात् यतिः वनचरः क्वचित्।
शिखेत हरिणात् वद्धात् मृगयोः गीतमोहितात्॥१७॥

नृत्यवादित्रगीतानि जुषन् ग्राम्याणि योषिताम्।
आसां क्रीडनकः वश्यः ऋष्यशृङ्गः मृगीसुतः॥१८॥

जिह्वया अतिप्रमाथिन्या जनः रसविमोहितः।
मृत्युम् ऋच्छति असत् बुद्धिः मीनः तु बडिशैः यथा॥१९॥

इन्द्रियाणि जयन्ति आशुः निराहाराः मनीषिणः।
वर्जयित्वा तु रसनं तत् निरन्नस्य वर्धते॥२०॥

तावत् जितेन्द्रियः न स्यात् विजितानि इन्द्रियः पुमान्।
न जयेत् रसनं यावत् जितं सर्वं जिते रसे॥२१॥

पिङ्गला नाम वेश्या आसीत् विदेहनगरे पुरा।
तस्या मे शिक्षितं किञ्चित् निबोध नृपनन्दन॥२२॥

सा स्वैरिण्येकदा कान्तं सङ्केत उपनेष्यती।
अभूत्काले बहिर्द्वारि बिभ्रती रूपमुत्तमम्॥२३॥

मार्ग आगच्छतो वीक्ष्य पुरुषान्पुरुषर्षभ।
तान् शुल्कदान्वित्तवतः कान्तान्मेनेऽर्थकामुका॥२४॥

आगतेष्वपयातेषु सा सङ्केतोपजीवनी।
अप्यन्यो वित्तवान्कोऽपि मामुपैष्यति भूरिदः॥२५॥

एअवं दुराशया ध्वस्तनिद्रा द्वार्यवलम्बती।
निर्गच्छन्ती प्रविशती निशीथं समपद्यत॥२६॥

तस्या वित्ताशया शुष्यद्वक्त्राया दीनचेतसः।
निर्वेदः परमो जज्ञे चिन्ताहेतुः सुखावहः॥२७॥

तस्या निर्विण्णचित्ताया गीतं श्रुणु यथा मम।
निर्वेद आशापाशानां पुरुषस्य यथा ह्यसिः॥२८॥

न हि अङ्गाजातनिर्वेदः देहबन्धं जिहासति।
यथा विज्ञानरहितः मनुजः ममतां नृप॥२९॥

पिङ्गला उवाच।
अहो मे मोहविततिं पश्यत अविजित आत्मनः।
या कान्तात् असतः कामं कामये येन बालिशा॥३०॥

सन्तं समीपे रमणं रतिप्रदं वित्तप्रदं नित्यम् इमं विहाय।
अकामदं दुःखभय आदि शोक मोहप्रदं तुच्छम् अहं भजे अज्ञा॥३१॥

अहो मयात्मा परितापितो वृथा साङ्केत्यवृत्त्याऽतिविगर्ह्यवार्तया।
स्त्रैणान्नराद्याऽर्थतृषोऽनुशोच्या त्क्रीतेन वित्तं रतिमात्मनेच्छती॥३२॥

यदस्थिभिर्निर्मितवंशवंश्य स्थूणं त्वचा रोमनखैः पिनद्धम्।
क्षरन्नवद्वारमगारमेतद् विण्मूत्रपूर्णं मदुपैति कान्या॥३३॥

विदेहानां पुरे ह्यस्मिन्नहमेकैव मूढधीः।
याऽन्यस्मिच्छन्त्यसत्यस्मादात्मदात्काममच्युतात्॥३४॥

सुहृत्प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम्।
तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा॥३५॥

कियत्प्रियं ते व्यभजन्कामा ये कामदा नराः।
आद्यन्तवन्तो भार्याया देवा वा कालविद्रुताः॥३६॥

नूनं मे भगवान् प्रीतः विष्णुः केन अपि कर्मणा।
निर्वेदः अयं दुराशाया यत् मे जातः सुखावहः॥३७॥

मैवं स्युर्मन्दभग्यायाः क्लेशा निर्वेदहेतवः।
येनानुबन्धं निहृत्य पुरुषः शममृच्छति॥३८॥

तेन उपकृतम् आदाय शिरसा ग्राम्यसङ्गताः।
त्यक्त्वा दुराशाः शरणं व्रजामि तम् अधीश्वरम्॥३९॥

सन्तुष्टा श्रद्दधत्येतद्यथालाभेन जीवती।
विहराम्यमुनैवाहमात्मना रमणेन वै॥४०॥

संसारकूपे पतितं विषयैर्मुषितेक्षणम्।
ग्रस्तं कालाहिनाऽऽत्मानं कोऽन्यस्त्रातुमधीश्वरः॥४१॥

आत्मा एव हि आत्मनः गोप्ता निर्विद्येत यदाखिलात्।
अप्रमत्तः इदं पश्यत् ग्रस्तं कालाहिना जगत्॥४२॥

ब्राह्मण उवाच।
एअवं व्यवसितमतिर्दुराशां कान्ततर्षजाम्।
छित्वोपशममास्थाय शय्यामुपविवेश सा॥४३॥

आशा हि परमं दुःखं नैराश्यं परमं सुखम्।
यथा संछिद्य कान्ताशां सुखं सुष्वाप पिङ्गला॥४४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे पिङ्गलोपाख्याऽनेष्टमोऽध्यायः॥८॥

अथ नवमोऽध्यायः।
ब्राह्मणः उवाच।
परिग्रहः हि दुःखाय यत् यत् प्रियतमं नृणाम्।
अनन्तं सुखम् आप्नोति तत् विद्वान् यः तु अकिञ्चनः॥१॥

सामिषं कुररं जघ्नुः बलिनः ये निरामिषाः।
तत् आमिषं परित्यज्य सः सुखं समविन्दत॥२॥

न मे मानावमानौ स्तः न चिन्ता गेहपुत्रिणाम्।
आत्मक्रीडः आत्मरतिः विचरामि इह बालवत्॥३॥

द्वौ एव चिन्तया मुक्तौ परम आनन्दः आप्लुतौ।
यः विमुग्धः जडः बालः यः गुणेभ्यः परं गतः॥४॥

क्वचित् कुमारी तु आत्मानं वृणानान् गृहम् आगतान्।
स्वयं तान् अर्हयामास क्वापि यातेषु बन्धुषु॥५॥

तेषम् अभ्यवहारार्थं शालीन् रहसि पार्थिव।
अवघ्नन्त्याः प्रकोष्ठस्थाः चक्रुः शङ्खाः स्वनं महत्॥६॥

सा तत् जुगुप्सितं मत्वा महती व्रीडिता ततः।
बभञ्ज एकैकशः शङ्खान् द्वौ द्वौ पाण्योः अशेषयत्॥७॥

उभयोः अपि अभूत् घोषः हि अवघ्नन्त्याः स्म शङ्खयोः।
तत्र अपि एकं निरभिदत् एकस्मान् न अभवत् ध्वनिः॥८॥

अन्वशिक्षम् इमं तस्याः उपदेशम् अरिन्दम।
लोकान् अनुचरन् एतान् लोकतत्त्वविवित्सया॥९॥

वासे बहूनां कलहः भवेत् वार्ता द्वयोः अपि।
एकः एव चरेत् तस्मात् कुमार्याः इव कङ्कणः॥१०॥

मनः एकत्र संयुज्यात् जितश्वासः जित आसनः।
वैराग्याभ्यासयोगेन ध्रियमाणम् अतन्द्रितः॥११॥

यस्मिन् मनः लब्धपदं यत् एतत् शनैः शनैः मुञ्चति कर्मरेणून्।
सत्त्वेन वृद्धेन रजः तमः च विधूय निर्वाणम् उपैति अनिन्धनम्॥१२॥

तत् एवम् आत्मनि अवरुद्धचित्तः न वेद किञ्चित् बहिः अन्तरं वा।
यथा इषुकारः नृपतिं व्रजन्तम् इषौ गतात्मा न ददर्श पार्श्वे॥१३॥

एकचार्यनिकेतः स्यात् अप्रमत्तः गुहाशयः।
अलक्ष्यमाणः आचारैः मुनिः एकः अल्पभाषणः॥१४॥

गृहारम्भः अतिदुःखाय विफलः च अध्रुवात्मनः।
सर्पः परकृतं वेश्म प्रविश्य सुखम् एधते॥१५॥

एको नारायणो देवः पूर्वसृष्टं स्वमायया।
संहृत्य कालकलया कल्पान्त इदमीश्वरः॥१६॥

एक एवाद्वितीयोऽभूदात्माधारोऽखिलाश्रयः।
कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु।
सत्त्वादिष्वादिपुएरुषः प्रधानपुरुषेश्वरः॥१७॥

परावराणां परम आस्ते कैवल्यसंज्ञितः।
केवलानुभवानन्दसन्दोहो निरुपाधिकः॥१८॥

केवलात्मानुभावेन स्वमायां त्रिगुणात्मिकाम्।
संक्षोभयन्सृजत्यादौ तया सूत्रमरिन्दम॥१९॥

तामाहुस्त्रिगुणव्यक्तिं सृजन्तीं विश्वतोमुखम्।
यस्मिन्प्रोतमिदं विश्वं येन संसरते पुमान्॥२०॥

यथा ऊर्णनाभिः हृदयात् ऊर्णां सन्तत्य वक्त्रतः।
तया विहृत्य भूयस्तां ग्रसति एवं महेश्वरः॥२१॥

यत्र यत्र मनः देही धारयेत् सकलं धिया।
स्नेहात् द्वेषात् भयात् वा अपि याति तत् तत् सरूपताम्॥२२॥

कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः।
याति तत् स्सत्मतां राजन् पूर्वरूपम् असन्त्यजन्॥२३॥

एवं गुरुभ्यः एतेभ्यः एष मे शिक्षिता मतिः।
स्वात्मा उपशिक्षितां बुद्धिं श्रुणु मे वदतः प्रभो॥२४॥

देहः गुरुः मम विरक्तिविवेकहेतुः बिभ्रत् स्म सत्त्वनिधनं सतत अर्त्युत् अर्कम्।
तत्त्वानि अनेन विमृशामि यथा तथा अपि पारक्यम् इति अवसितः विचरामि असङ्गः॥२५॥

जायाअत्मजार्थपशुभृत्यगृहाप्तवर्गान् पुष्णाति यत् प्रियचिकीर्षया वितन्वन्॥
स्वान्ते सकृच्छ्रम् अवरुद्धधनः सः देहः सृष्ट्वा अस्य बीजम् अवसीदति वृक्षधर्मा॥२६॥

जिह्वा एकतः अमुम् अवकर्षति कर्हि तर्षा शिश्नः अन्यतः त्वक् उदरं श्रवणं कुतश्चित्।
ग्राणः अन्यतः चपलदृक् क्व च कर्मशक्तिः बह्व्यः सपत्न्यः इव गेहपतिं लुनन्ति॥२७॥

सृष्ट्वा पुराणि विविधानि अजया आत्मशक्त्या वृक्षान् सरीसृपपशून्खगदंशमत्स्यान्।
तैः तैः अतुष्टहृदयः पुरुषं विधाय ब्रह्मावलोकधिषणं मुदमाप देवः॥२८॥

लब्ध्वा सुदुर्लभम् इदं बहुसम्भवान्ते मानुष्यमर्थदमनित्यमपीह धीरः।
तूर्णं यतेत न पतेत् अनुमृत्युः यावत् निःश्रेयसाय विषयः खलु सर्वतः स्यात्॥२९॥

एवं सञ्जातवैराग्यः विज्ञानलोक आत्मनि।
विचरामि महीम् एतां मुक्तसङ्गः अनहङ्कृतिः॥३०॥

न हि एकस्मात् गुरोः ज्ञानं सुस्थिरं स्यात् सुपुष्कलम्।
ब्रह्म एतत् अद्वितीयं वै गीयते बहुधा ऋषिभिः॥३१॥

श्रीभगवानुवाच।
इत्युक्त्वा स यदुं विप्रस्तमामन्त्रय गभीरधीः।
वन्दितोऽअभ्यर्थितो राज्ञा ययौ प्रीतो यथागतम्॥३२॥

अवधूतवचः श्रुत्वा पूर्वेषां नः स पूर्वजः।
सर्वसङ्गविनिर्मुक्तः समचित्तो बभूव ह॥३३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
नवमोऽध्यायः॥९॥

अथ दशमोऽध्यायः।
श्रीभगवान् उवाच।
मया उदितेषु अवहितः स्वधर्मेषु मदाश्रयः।
वर्णाश्रमकुल आचारम् अकामात्मा समाचरेत्॥१॥

अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम्।
गुणेषु तत्त्वध्यानेन सर्वारम्भविपर्ययम्॥२॥

सुप्तस्य विषयालोकः ध्यायतः वा मनोरथः।
नानामकत्वात् विफलः तथा भेदात्मदीः गुणैः॥३॥

निवृत्तं कर्म सेवेत प्रवृत्तं मत्परः त्यजेत्।
जिज्ञासायां सम्प्रवृत्तः न अद्रियेत् कर्म चोदनाम्॥४॥

यमानभीक्ष्णं सेवेत नियमान् मत्परः क्वचित्।
मदभिज्ञं गुर्ं शान्तम् उपासीत मदात्मकम्॥५॥

अमान्यमत्सरः दक्षः निर्ममः दृढसौहृदः।
असत्वरः अर्थजिज्ञासुः अनसूयौः अमोघवाक्॥६॥

जायापत्यगृहक्षेत्रस्वजनद्रविण आदिषु।
उदासीनः समं पश्यन् सर्वेषु अर्थम् इव आत्मनः॥७॥

विलक्षणः स्थूलसूक्ष्मात् देहात् आत्मेक्षिता स्वदृक्।
यथाग्निः दारुणः दाह्यात् दाहकः अन्यः प्रकाशकः॥८॥

निरोध उत्पत्ति अणु बृहन् नानात्वं तत्कृतान् गुणान्।
अन्तः प्रविष्टः आधत्तः एवं देहगुणान् परः॥९॥

यः असौ गुणैः विरचितः देहः अयं पुरुषस्य हि।
संसारः तत् निबन्धः अयं पुंसः विद्यात् छिदात्मनः॥१०॥

तस्मात् जिज्ञासया आत्मानम् आत्मस्थं परम्।
सङ्गम्य निरसेत् एतत् वस्तुबुद्धिं यथाक्रमम्॥११॥

आचार्यः अरणिः आद्यः स्यात् अन्तेवासि उत्तर अरणिः।
तत् सन्धानं प्रवचनं विद्या सन्धिः सुखावहः॥१२॥

वैशारदी सा अतिविशुद्धबुद्धिः धुनोति मायां गुणसम्प्रसूताम्।
गुणान् च सन्दह्य यत् आत्मम् एतत् स्वयं च शाम्यति असमिद् यथा अग्निः॥१३॥

अथ एषां कर्मकर्तॄणां भोक्तॄणां सुखदुःखयोः।
नानात्वम् अथ नित्यत्वं लोककालागम आत्मनाम्॥१४॥

मन्यसे सर्वभावानां संस्था हि औत्पत्तिकी यथा।
तत् तत् आकृतिभेदेन जायते भिद्यते च धीः॥१५॥

एवम् अपि अङ्ग सर्वेषां देहिनां देहयोगतः।
काल अवयवतः सन्ति भावा जन्मादयोः असकृत्॥१६॥

अत्र अपि कर्मणां कर्तुः अस्वातन्त्र्यं च लक्ष्यते।
भोक्तुः च दुःखसुखयोः कः अन्वर्थः विवशं भजेत्॥१७॥

न देहिनां सुखं किञ्चित् विद्यते विदुषाम् अपि।
तथा च दुःखं मूढानां वृथा अहङ्करणं परम्॥१८॥

यदि प्राप्तिं विघातं च जानन्ति सुखदुःखयोः।
ते अपि अद्धा न विदुः योगं मृत्युः न प्रभवेत् यथा॥१९॥

कः अन्वर्थः सुखयति एनं कामः वा मृत्युः अन्तिके।
आघातं नीयमानस्य वध्यसि एव न तुष्टिदः॥२०॥

श्रुतं च दृष्टवत् दुष्टं स्पर्धा असूया अत्ययव्ययैः।
बहु अन्तराय कामत्वात् कृषिवत् च अपि निष्फलम्॥२१॥

अन्तरायैः अविहतः यदि धर्मः स्वनुष्ठितः।
तेनापि निर्जितं स्थानं यथा गच्छति तत् श्रुणु॥२२॥

इष्त्वा इह देवताः यज्ञैः स्वर्लोकं याति याज्ञिकः।
भुञ्जीत देववत् तत्र भोगान् दिव्यान् निज अर्जितान्॥२३॥

स्वपुण्य उपचिते शुभ्रे विमानः उपगीयते।
गन्धर्वैः विहरन्मध्ये देवीनां हृद्यवेषधृक्॥२४॥

स्त्रीभिः कामगयानेन किङ्किणीजालमालिना।
क्रीडन् न वेद आत्मपातं सुराक्रीडेषु निर्वृतः॥२५॥

तावत् प्रमोदते स्वर्गे यावत् पुण्यं समाप्यते।
क्षीणपुण्यः पतति अर्वाक् अनिच्छन् कालचालितः॥२६॥

यदि अधर्मरतः सङ्गात् असतां वा अजितेन्द्रियः।
कामात्मा कृपणः लुब्धः स्त्रैणः भूतविहिंसकः॥२७॥

पशून् अविधिना आलभ्य प्रेतभूतगणान् यजन्।
नरकान् अवशः जन्तुः गत्वा याति उल्बणं तमः॥२८॥

कर्माणि दुःख उदर्काणि कुर्वन् देहेन तैः पुनः।
देहम् आभजते तत्र किं सुखं मर्त्यधर्मिणः॥२९॥

लोकानां लोक पालानां मद्भयं कल्पजीविनाम्।
ब्रह्मणः अपि भयं मत्तः द्विपराधपर आयुषः॥३०॥

गुणाः सृजन्ति कर्माणि गुणः अनुसृजते गुणान्।
जीवः तु गुणसंयुक्तः भुङ्क्ते कर्मफलानि असौ॥३१॥

यावत् स्यात् गुणवैषम्यं तावत् नानात्वम् आत्मनः।
नानात्वम् आत्मनः यावत् पारतन्त्र्यं तदा एव हि॥३२॥

यावत् अस्य अस्वतन्त्रत्वं तावत् ईश्वरतः भयम्।
यः एतत् समुपासीरन् ते मुह्यन्ति शुचार्पिताः॥३३॥

कालः आत्मा आगमः लोकः स्वभावः धर्मः एव च।
इति मां बहुधा प्राहुः गुणव्यतिकरे सति॥३४॥

उद्धवः उवाच ।
गुणेषु वर्तमानः अपि देहजेषु अनपावृताः।
गुणैः न बध्यते देही बध्यते वा कथं विभो॥३५॥

कथं वर्तेत विहरेत् कैः वा ज्ञायेत लक्षणैः।
किं भुञ्जीत उत विसृजेत् शयीत आसीत याति वा॥३६॥

एतत् अच्युत मे ब्रूहि प्रश्नं प्रश्नविदां वर।
नित्यमुक्तः नित्यबद्धः एकः एव इति मे भ्रमः॥३७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
दशमोऽध्यायः॥१०॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. गीता
  2. उद्धवगीता
    1. उद्धवगीता १ (अध्याय ०१-०५)
    2. उद्धवगीता २ (अध्याय ०६-१०)
    3. उद्धवगीता ३ (अध्याय ११-१५)
    4. उद्धवगीता ४ (अध्याय १६-२०)
    5. उद्धवगीता ५ (अध्याय २१-२५)
    6. उद्धवगीता ६ (अध्याय २६-३०)
    7. उद्धवगीता ७ (अध्याय ३१)

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=उद्धवगीता_२&oldid=46963" इत्यस्माद् पुनः प्राप्तिः