आपस्तम्ब गृह्यसूत्राणि, हरदत्तस्य अनुकूला, सुदर्शनसूरेः तात्पर्यदर्शनम् च

विकिस्रोतः तः
Jump to navigation Jump to search

अथ प्रथमः पटलः
प्रथमः खण्डः
१. सामान्यपरिभाषाः
१ प्रतिज्ञासूत्रम् ।
अथ कर्माण्याचाराद्यानि गृह्यन्ते ॥ आपस्तम्बगृह्यसूत्र १.१ ॥
टीकाः
अनुकूलावृत्ति १.१
नमो रुद्राय यद्गृह्यमापस्तम्बेन निर्मितम् ।
क्रियते हरदत्तेन तस्य वृत्तिरनाकुला ॥
द्विप्रकाराणि कर्माणिश्रुतिलक्षमानि आचारलक्षमानि च ।
तत्र श्रुतिलक्षणानि व्याख्यातानि ।
अथेदानीं यानि कर्माणि विवाहप्रभृतीनि आचारात्प्रयोगात्गृह्यन्ते ज्ञायन्ते, न प्रत्यक्षश्रुतेः, तानि व्याख्यास्यामः ।
किं प्रयोजनं सूत्रस्य?स्मार्तानां कर्मणां अधिकारः ।
तेन
उदगयनादिनियमः."सर्वत्र स्वयं प्रज्वलितेऽग्ना"(आप.गृ.८५) वित्येवमादीनि च गार्ह्येष्वेव कर्मसु भवन्ति, न श्रौतेषि ।
अत्राथशब्देन
श्रौतोपदेशानन्तरं स्मार्तोपदेशं करिष्यामीति वदन् तदपेक्षामस्य दर्शयति ।
तत्र याः परिभाषाः"स त्रयाणां वर्मानांऽ(आप.परि१२) "मन्त्रान्तैः कर्मादीन् सन्निपातयेत्"(आप.परि.२१.)"रौद्र, राक्षसऽ(आप.परि२९)"तदिदं स४ अप्रायश्चित्तऽमित्येवमाद्यास्ता इहापि भवन्ति(इदंकार्याणि) ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.१
यो वर्णैरिज्यते नित्यैः कर्मभिश्चोदितैर्निजैः ।
तेभ्योऽ(१) पवर्गदो यश्च तं नमाम्यद्वयं हरिम्(२) ॥१॥
आपस्तम्बमुनिं वन्दे मन्दधीहितकाम्यया ।
योऽनुष्ठेयपदार्तानां क्रमकल्पयत् ॥२॥
यत्कृतं वेदवद्भाष्यमाद्रियन्ते विपश्चितः ।
स कपर्दी चिरं जीयाद्वेदवेदार्थतत्त्ववित् ॥३॥
सुदर्शनार्यः(३)कुरुते गृह्यतात्पर्यनिर्णयम्(४) ।
केवलं वैदिकश्रद्धाप्रेरितो मन्दधीरपि ॥४॥
अथशब्द आनन्तर्यार्थः ।
तदर्थ पूर्ववृत्तमुच्यते ।
इह हि यज्ञा एकविंशतिभेदाः ।
तत्र च सप्त पाकयज्ञसंस्थाः
औपासनहोमो, वैश्वदेवं, पार्वण, मष्टका, मासिश्राद्धं, सर्पबलिं, रीशानबलिरिति ।
सप्त च हविर्यज्ञसंस्थाःग्निहोत्रं, दर्शपूर्णमासा, वाग्रयणं, चातुर्मास्यानि, निरूढपशुबन्धस्, सौत्रामणिः, पिण्डपितृयज्ञादयो दर्वीहोमा इति ।
(५)सप्तैव च सोमसंस्थाःग्निष्टोमो,ऽत्याग्निष्टोम, उक्थ्य, ष्योडशी, वाजपेयो,ऽतिरात्रोऽप्तोर्याम इति ।
एते च नित्याः नियतप्रदिकालीनजीवननिमित्तका इत्यर्थः ।
कुत एते च नित्याः?ऽजायमानो वै ब्राह्मणस्त्रिभिऋणवा जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेनऽदेवेभ्यः प्रजया पितृभ्यः,(तै.सं.६३१०) इत्यत्रऽयज्ञेनऽइत्यकवचनंऽयज्ञं व्याख्यास्यामःऽ(आप.परि.११) इतिवत्जात्यभिप्रायं मन्यमानस्य भगवतो वसिष्ठस्यऽनैयमिकंह्येतदृणत्रयं संस्तुतम्ऽ(व.सं.११४७) इति
वचनेन एषामवश्यानुष्ठेयत्वावगमात् ।
तथाऽसायं प्रातरत ऊर्ध्वम्ऽ(आप.गृ.७१९.)ऽयावज्जीवमग्निहोत्रं जुहोति,ऽऽवसन्ते ज्योतिष्टोमेन यजेतऽ(आप.श्रौ.१०२५) इत्येवमादिभिः,ऽअहरहः प्रवृज्यन्तेऽ(तै.ब्रा.२१३.), अर्धमासेर्ऽधमासे प्रवृज्यतेऽ(तै.बार.३२८),ऽपुनर्भक्ष्योऽस्य सोमपीथोभवतिऽ (तै.ब्रा.३२३). इत्येवमादिभिः, (१) कर्मण्योरम्भन्यायेन च प्रयोगाभ्यासावगमात् ।
तथैव सोमस्येषट्यादेश्चाकरणे ऐन्द्राग्नशुविभ्रष्टेष्ट्यादि प्रायश्चित्तविधानेन प्रत्यवायोत्पत्त्यवगमात् ।
तथैवऽस एतांश्टतुर्होतॄनात्मस्परणानपश्यत्ऽ(तै.ब्रा.२३७) इति अग्निहोत्रादिसोमान्तानामात्मनिष्क्रयणार्थत्वावगमात् ।
न तु सौर्यादिवत्(२) कोवलं काम्याः उक्तहेतूनां सर्वेषामनुपपत्तैः ।
यत एवैते नित्यां अत एवऽअनाहिताग्नितास्तेयम्ऽ(मनु.११६५). इत्यनाहिताग्निताया उपपातकगणे पाठः ।
अत एव नित्याधिकारविधिप्रयुक्तमाधानम् ।
काम्यसिद्धिस्तु नितयानुष्टानेनैव गुणफलाधिकारविधया प्रासङ्गिकी भवतु ।
मीमांसकमत्या तु यद्यपि काम्याधिकारविधिग्रयुक्तमाधानं, काम्यानुष्ठानैन च नित्यसिद्धिः (३) प्रसङ्गात्॑तथापि कल्पसूत्रकारणां प्रक्रियया साधिकारत्वेन (४)प्रयुक्तिसक्तियोग्यतया अन्यतोऽप्रयुक्तौ नित्याधिकारविधिप्रयुक्तिरप्युपपन्ना ।
यथा(५) विवरणमते स्वविधिप्रयुक्तमध्ययनमिति ।
तस्मात्मन्दमध्यमोत्कृष्टबुद्धिभि (६) स्सर्वैरपि त्रैवर्णिकैरेतेऽवश्यं कर्तव्याः ।
ते च नानासाधनका नानाशाखान्तरस्थाङ्गका मीमांसान्यायसहस्रनिर्धार्यवचनव्यक्तिका मन्दबुद्धिभिरिदानीन्तनैर्(७) दुर्शाना अज्ञाने चानुष्ठातुमशक्ताः कथञ्चन प्रत्यवेयुरितु कृपाविष्टचेतस्कतया सूत्रकारेणऽयज्ञं व्याख्यास्यामःऽ(आप.परि.११) इति परिभाषायामेकविंशतियज्ञान् सामान्यतः (८)
संक्षेपतश्च व्याखायाय तावन्मात्रेणानुष्ठानानुपयोगात्ऽअथातो दर्शपूर्णमासौऽ(आप.श्रौ.११) इत्यारभ्य श्रौता हविर्यज्ञास्सोमसंस्थाः (९)
क्षामवत्यादयो नैमित्तिकाः प्रसङ्गात्काम्याश्च(१०) विशेषतो व्याख्याताः ॥
अथ अनन्तरम् ।
<आचारात्>आङित्युपसर्गस्य अविच्छेदो व्याप्तिरभिप्रेतोर्ऽथः ।
चारः चरणं क४ असु प्रवर्तनम्,ऽपिण्डपितृयज्ञेन चरन्तिऽ(आप.श्रौ.१७२) इत्यादौ दर्शनात् ।
तेन यत्सर्वेषु देशेषु सर्वेषु कोलेषु च सर्वैस्त्रैविद्यवृद्धैश्शिष्टैर्लौकिकप्रयोजनाभावेऽप्यविच्छिन्नमवि(१)गानेनाद्रियमाणं, अतएव मूलान्तरासम्भावात्स्वमूलभूतवेदानुमानेलिङ्गभूतं कर्मसु प्रवर्तनं स आचारः ।
तस्मादाचारातनुमितैर्वेदैः यानि औपासनहोमादीनि पाकयज्ञशब्दवाच्यानि पाणिग्रहणादीनि च यशेष्वधिकारिष्यमाणदेहसंस्कारार्थानि<कर्माणि गृह्यन्ते>ज्ञायन्ते कर्तव्यत्वेन तानि व्याख्यास्याम इति शेषः ।
यत एव आचारानुमेयवेदावगम्यानि गार्ह्यअणि कर्माणि अत एव तेभ्यः प्रथममनुष्ठेयेभ्योऽपि पूर्व श्रौतानां व्याखायानं कृतम्॑प्रत्यश्रुतिविहितेषु जिज्ञासायाः प्रथमभावित्वात्, अनुमितवेदार्थजिज्ञासाया(२) श्चरमभावित्वात्, जिज्ञासाशान्त्र्थत्वाच्च व्याख्यानस्येति ।
अत्र च आचारादित्याचारेणोपलक्ष्य गार्ह्यअणि कर्माणि वदन्नेवं ज्ञापयति इह साक्षादनिबद्धानामपि येषांऽजमदग्नीनां तु पञ्चावत्तम्ऽ (आप.श्रौ.२१८२) इत्यादीनां पदार्थानामाचारः कृत्स्नदेशादिव्याप्तस्स्यात्तेऽपि वेदमूला एवोति ।
कृत्स्नदेशादिव्याप्तिश्चाधिकपौनरुक्त्यादिभिश्श्रौते दर्शनेन गृह्यान्तरैर्र्धमशास्त्रैः न्यायबलेन सम्प्रदायविद्वाख्यातृवचनैर्वा निश्चेतव्या ।
इदं चाधिकारसूत्रम् ।
यान्यङ्गान्युत्तरत्रऽपुरस्तादुदग्वोपक्रमःऽ(आप.गृ१५) इत्यादीनि वक्ष्यन्ते तेषां गार्ह्यकर्मार्थतां, श्रौतानां सार्वत्रिकाणामपि स्वतोऽनिदमर्थतां च ज्ञापयितुम् ।
एतच्च(३) समानोपदेशातिदेशयोरभावात् ॥
केचित्कर्माणीत्येतद्गृह्ये वक्ष्यमाणान्यस्मच्चरणार्थान्येव, न तुधर्मशब्दाधिकृतधर्मशास्त्रोक्तवत्सर्वार्तानि ।
तथा श्रौतानन्तरं गार्ह्यअधिकारः श्रौतोक्तसार्वत्रिकधर्मामामिह प्राप्त्यर्थ इति ॥
२ उदगयनादिकालविधिः ।
उदगयनपूर्वपक्षाहःपुण्याहेषु कार्याणि ॥ आपस्तम्बगृह्यसूत्र १.२ ॥
टीकाः
अनुकूलावृत्ति १.२
उदगयनादिविधानं दक्षिणायनादिप्रतिषेधार्थम् ।
समुञ्चयश्चोदगयनादीनां न विकल्पः ।
<पुण्याहाः>देवनक्षत्राणि ज्योतिश्शास्त्रे प्रसिद्धानि यमनक्षत्राणि च तद्विहितानि ।
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.२
उदगयनादयः प्रसिद्धाः ।
पुण्याहास्त्वह्नो नवधा विभक्तस्यायु जो भागाः प्रातस्सङ्गव(१) मध्याह्णसायंशब्दवाच्याः पुण्यनक्षत्रापरपर्यायाः पञ्च ।
ऽसमानस्याह्नः पञ्च पुण्यानि नक्षत्राणिऽ(तै,ब्रा.२५.६)ऽमित्रस्य सङ्गवः ।
तत्पुण्यं तेजस्स्व्यहःऽ (तै.ब्रा.१५६) इत्यादिश्रुतेः ।
युग्मास्त्वश्लीलाः,ऽचत्वार्यश्लीलानिऽ(तै.ब्रा.१५६) इति श्रुतेः ।
केचित्कृत्तिकादिविशाखान्तानि देवनक्षत्राणि पुण्याहाः,ऽयान्येव देवनश्रत्राणि ।
तेषु कुर्वीत यत्कारी स्यात् ।
पुण्याह एव कुरुतेऽ (तै.ब्रा.१५२) इति श्रुतेः ।
उदगयनेत्यादिरयं समासो द्वन्द्वः ।
तेषु कार्याणि ।
गार्ह्यअणीति शेषः ।
एषां समुच्चयः न विकल्पः ।
एतच्च सामान्यविधानं तत्र तत्र विशेषविधानेनापोद्यते नियम्यते च ।
एवमुदगयनादीनां विदाने सत्यपि क्वचिदनियमः प्रतिभासते ।
ऽसर्व ऋतवो विवाहस्यऽ (आप.गृ.२१२.) इति वचनात्यदा दक्षिणायनेऽपि विवाहस्स्यात्तदा समावर्तनं तत्कालसमीपकाल एव ।
इतरथा उदगयनसमावृत्तस्य शरदि विवाहे सति बहुकालव्यवधाने,ऽअनाश्रमी न तिष्ठेत दिनमेकमपि द्विजःऽ ।
(दक्षसं.अ.१) इति निषेधातिक्रमप्रसङ्गात् ।
किञ्च आश्वलायनगृह्येऽउदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मोपनयनगोदानविवाहाःऽ(आश्व.गृ.१५) इत्यत्र चौलविकारत्वादेव गोदानस्य उदगयनप्राप्तौ पुनस्तत्र तद्विधिः तद्विकारान्तरे समावर्तने उदगयननियमानिवृत्त्यर्थ इति गम्यते ।
तथा बौधायनीये समावर्तनस्य चौलविकारत्वादेव आपूर्यमाणपक्षप्राप्तौ पुनस्तत्र तद्विधि(२) रुदगयनानियमार्त इति गम्यते ।
तथा गृहनिर्माणप्रवेशयोः ज्योतिश्शास्त्रे दक्षिणायनस्यापि विधानातविगीतशिष्टाचाराच्च उदगयनानियमः ।
तथा अपरपक्षेऽप्यापञ्चम्याः
ज्योतिश्शास्त्रादन्नप्रीशन(३)गृहनिर्मामप्रवेशान् रात्रावप्याचरन्ति ।
तथैव यदा पुण्याहाः ज्यौतिषोक्तदोषोपहताः तदा अश्लीलेष्वपि ।
तथैव यदा पुण्याहा ज्योतिषोक्तदोषोपहताः तदा अश्लीलेष्वपि तदुक्तगुणयुक्तेषि(४) अविगानेन कर्माण्याचरन्ति ।
ज्योत्श्शास्त्रमपि (१)
वेदाङ्गत्वादगृह्यमाणकारणत्वात्, शिष्टपरिगृहीतत्वाच्च कल्पसूत्रादिवदादरणीयमेव ।
निर्णये ति शिष्टाः प्रमाणं सर्वत्र ॥
३ यज्ञोपवीतप्रादक्षिण्यादिविधिः ।
यज्ञोपवीतिना ॥ आपस्तम्बगृह्यसूत्र १.३ ॥
टीकाः
अनुकूलावृत्ति १.३
कार्याणि इत्यनुवर्तते ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.३
कार्याणीति सम्बन्धः ।
ननु यज्ञोपवीतं पाकयज्ञेषुऽप्रागपवर्माणिऽ(आप.प.२१५) इत्यादिना सिद्धम् ।
विवाहादिहोमेषु जपादिषु चऽहोमे जप्यकर्मणिऽ(आप.ध.११५१) इत्यादिना ।
अतोऽत्रैतद्विधिर्र्व्यथः ।
सत्यम्॑यत्राप्राप्ति(२)र्हेमन्तप्रत्यवरोहणादिषु तत्रायं विधिस्सार्थ एव ॥
प्रदक्षिणम् ॥ आपस्तम्बगृह्यसूत्र १.४ ॥
टीकाः
अनुकूलावृत्ति १.४
प्रदक्षिणं च तानि कर्तव्यानि दक्षिनं पाणिं प्रतिगतं प्रदक्षिणम् ।
उदाहरणं परिस्तरणादि ।
ननुतदिदमुभयमविधेयं, पूर्वमेव श्रौतेषु विहितत्वात्ऽदैवानीऽति(आप.प.२३५) तत्रोच्यते, इह मानुषेषु जातकर्मादिष्वप्येतयोः प्रवृत्तिरिष्यते९३)तदर्थमयमारम्भः ।
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.४
कार्याणीत्येव सम्बन्धः ।
इदं तु प्रादक्षिण्यं पाकयज्ञेषु तत्कोटिषु च विवाहादिषु परिभाषासिद्धमपि(४)
तद्वतिरिक्तगार्ह्यरथ विधीयते ।
ऽततापवर्गःऽ(आप..गृ.१६) इति चेत्थमेव ॥
पुरस्तादुदग्वोपक्रमः ॥ आपस्तम्बगृह्यसूत्र १.५ ॥
टीकाः
अनुकूलावृत्ति १.५
अनियमे नियमार्थमिदं वचनम् ।
दक्षिणतः पश्चाद्वोपक्रामो माभूदिति ।
परिस्तरणाद्येवोदाहरणम् ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.५
कार्य इति शेषः ।
अयं तु सर्वेष्वपि यज्ञायज्ञरूपगार्ह्येष्वप्राप्तत्वाद्विधीयते ॥
तथापवर्गः ॥ आपस्तम्बगृह्यसूत्र १.६ ॥
टीकाः
अनुकूलावृत्ति १.६
तेषामपवर्गोऽपि तथा प्रत्येतव्यः ।
पुरस्तादुदग्वेत्यर्थः ।
अपवर्गः परिसमाप्तिः ।
न चात्र उपक्रामापवर्गयोः समानभिदं नियमनं क्रियतेपुरस्तादुपक्रान्ते तत्रैव समाप्यं उदगारभ्यं च तत्रैवेति ।
किं तर्हि यथासंभवं प्रवृत्तिः तद्यथा परिस्तरणस्य पुरस्तादुपक्रान्तस्य तत्रैवापवर्गासम्बवादुदगपवर्गः ।
तत्रापवर्गविधेरानर्थक्यं, श्रौतेष्वेव परिभाषितत्वात्"प्रागपवर्गाण्युदगपवर्गाणि वे"ति (आप.प.२१५) ।
उच्यते ।
यद्यपवर्गविधिः पुनरिह नारभ्यते, अपरेणाग्निं द्वे कुटी कृत्वेऽ(आप.गृ.१९१४). त्यत्र दक्षिणापवर्गता प्राप्नोति, अत्रोपक्रमस्योदग्गतत्वनियमात् ।
अतो विप्रतिषेधे अपवर्गबलीयस्त्वं यथा स्यादित्ययमारम्भः ।
अन्यथा प्रदक्षिणपरिभाषया सामान्यपरिभाषा बाध्यते किञ्चिद्दैवानि कर्माणीति तत्र विशेषितम् ।
अत्र मानुषेषु कर्मादिष्वपि प्राप्यर्थोऽपवर्गनियमः ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.६
पुरस्तादुदग्वा क्रियापरिसमाप्तिः कार्येत्यर्तः ।
ननुऽपुरस्तादुदग्वोपक्रमःऽइति विधेरेव समन्तपरिषेकादावर्थसिद्धत्वान्नारब्धव्यंऽततापवर्गः, इति ।
नः अनारभ्यमाणोऽस्मिन् सूत्रे प्राचीलेखोत्पवनादेरुदीचीलेखा(१) कुटीकरणादेश्चापवर्गः प्रत्यक्दक्षिणा च स्यात् ।
अतस्तद्वाधनायेदमारब्धव्यमेव ।
केचित्प्राचीनानां लेखानामुदगुपक्रमः, उदीचीनानां च प्रागपवर्गः, अग्निपरिस्तरणवदुभयाविध्यसम्भवात्(२) इति ॥
४ पित्र्याणामपरपक्षादिविधिः ।
अपरपक्षे पित्र्याणि ॥ आपस्तम्बगृह्यसूत्र १.७ ॥
प्राचीनावीतिना ॥ आपस्तम्बगृह्यसूत्र १.८ ॥
प्रसव्यम् ॥ आपस्तम्बगृह्यसूत्र १.९ ॥
दक्षिणतोऽपवर्गः ॥ आपस्तम्बगृह्यसूत्र १.१० ॥
टीकाः
अनुकूलावृत्ति १.१०
पितृदैवत्यकर्माण्यपरपक्षे कार्याणि ।
"मासिश्राद्धस्यापरपक्षे"(आ.प.गृ.२१.१).ऽया माध्याः पौर्णमास्या उपरिष्टाद्यष्टकेतिऽ (आप.गृ.२११०) तत्रापरपक्ष उपदिष्टः ।
इदं तु नियमनं यानि गयाश्राद्धादीनि देशविशेषेण पात्रविशेषेण काम्यान्युपदिष्टानि अस्माभिश्च परिगृहीतानिपार्वणे नातोन्यानीत्यत्र तेषवपरपक्षप्राप्त्यर्थ च ।
तेन पूर्वपक्षे मृतस्यापरपक्ष एकोद्दिष्टं कर्तव्यं न त्वेकादशेऽहनि ।
अनुष्ठानञ्चै(त्वे) कादशेऽहनि ।
मासिश्राद्धस्यापरपक्षविधेः प्रयोजनं तत्रैव वक्ष्यामः ।
अयं चापरपक्षविधिः कृत्स्नस्योदगयनादेरपवादो न पूर्वस्मादुदग्वा यथायोगम् ।
उदाहरणं परिस्तरणादि ।
तदिदं प्राचीनावीत्यादित्रयमविधेयम् ।
श्रौतेष्वेव परिभाषितत्वात्॑ुच्यतेऽयज्ञोपवीतिना प्रदक्षिणंऽऽतथापवर्गऽइत्येताः परिभाषा अविशेषेणात्र प्रकरणे पठिताः सामान्यपरिभाषाया बाधितत्वात्पित्र्येष्वपि प्राप्नुवन्ति तद्वाधार्थमिदम् ।
अत्र च येषां पित्र्याणां स्वातन्त्र्येण स्वकोले प्रवृत्तिः तेषामेवायं प्राचीनावीतविधिः नत्वन्यत्राङ्गत्वेन प्रयुज्यमानानाम् ।
तेन दैवेषि मानुषेषु च कर्मसु"पितरः पितामहा"इत्यत्र यज्ञोपवीतमेव भवति ।
<अपर आह>"तस्मादभ्याताना वैश्वदेवा"(तै.सं.३४६). इति दर्शनात्"पितरः पितामहा"इत्यस्यापि पित्र्यत्वादेव प्राचीनावीतस्याप्रसङ्गः इति ।
तथा"अपरपक्षे पित्र्याणी"त्यस्मिन्नधिकारे (१) अभिहितं प्राचीनावीतमविशेषेण पित्र्ये कर्माणि साङ्गे प्रवर्तते ।
तेन पित्र्ये आज्यभागन्ते कर्मणि जयादौ च प्राचीनावीतमेव भवति ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.१०
कार्याणीत्येव ।
अयं च विधिस्स्वतन्त्रपित्र्योद्देशेन ।
(२) अङ्गानां तु सहप्रयोज्यानां मुख्यकालत्वेन कालविध्यपेक्षाभावात् ।
एष च न पूर्वपक्षमात्रापवादः ।
किं तर्हि?सर्वापवादार्थ विध्यन्तरम् ।
आः!कुत एतद्ज्ञायते ? ।
ऽन च नक्तं श्राद्धं कुर्वीतऽ(आप.ध.२१७२३) इति ज्ञापनात् ।
(३) यदि ह्ययं पूर्वपक्षमात्रापवादस्स्यात्, तत उदगयनादीनां त्रयाणामपवादाभावाद्रात्रावप्रसक्तेः प्रतिषेधो न स्यात्, (४) अस्ति च प्रतिषेधः, इत्यतो ज्ञायते विध्यन्तरमेवेति ।
प्रयोजनं त्वविशेषेण दक्षिणायनेऽप्यपरपक्षेऽह्नि काम्यश्राद्धानि कर्तव्यानीति ।
मासिश्राद्धं तुऽमासि मासि कार्यम्ऽ(आप. धर्म.२१६४) इति (५) वीप्सया दक्षिणायनेऽपि सिद्धमेव ।
नन्वस्मिन् सतिऽमासिश्राद्धस्यापरपक्षेऽ(आप.गृ.२११.) इति विधिः किमर्थः? ।
नियमार्थः ।
तथा हिअपरपक्ष एव मासिश्राद्धम्, न पुनर्दऐवान्मानुषाद्वा(१) विघातादपरपक्षेऽतिक्रान्ते"सर्वोऽपरपक्षः पूर्णमासस्य"इतयादिवत्पूर्वपक्षेऽपि कर्तव्यम् ।
किन्तु प्रारब्धस्मार्तनित्यकर्मव्यापत्तौ प्रायश्चित्तमेव ।
तच्चऽभूर्भुवस्सुवस्स्वाहाऽइत्येको होमस्सर्वप्रायश्चित्ताख्यः ।
ऽयद्यविज्ञाता सर्वव्यापद्वा भूर्भुवस्स्वरिति सर्वा अनुद्रुत्याहवनीय एव जुहुयात्ऽ(ऐ.ब्रा २४३४). इति बह्वृचश्रुतेः ।
अयं चात्रौपासने, नैमित्तिकैकविधिपरश्रुतिस्थाहवनीयशब्दस्य न्यायतो निमित्तवत्कर्मार्ताग्निमात्रप्रदर्शनार्तत्वात् ।
उपवासश्च कार्यः ।
वेदोदितानां नित्यानां कर्मणां समतिक्रमे ।
स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥
(मनु.११२०३)
इति मनुवचनात् ।
(२) आतमिनोः प्राणायामश्च,ऽनियमातिक्रमे चान्यस्मिन्ऽ(आप.ध.२१२१८.) इति वचनात् ।
एतोषां समुच्चयं एव न विकल्पः,ऽएकस्मिन् दोषे श्रूयमाणानि प्रायश्चित्तानि समभ्युच्चीयेरन्ऽ(आप.श्रौ. ९१२) इति दर्शितत्वात् ।
प्रसङ्गादन्येषां लोपेऽपि प्रायश्चित्तमुच्यते ।
एवमन्येषामपि प्रारब्धानां प्रायस्चित्तं पाकयज्ञानां व्यापत्तौ, गौमकालेऽप्यतिक्रान्ते ।
गौणकाले ति स४ अप्रायश्चित्तपूर्वकं तेऽनुष्ठेयाः ।
औपासनहोमस्य तु बहुकालातिक्रमे अष्टभ्यो होमकालेभ्यः पूर्व प्रत्येकं सर्वप्रायश्चित्तपूर्वकं (३) अताता होमाः कर्तव्याः ।
अत्रोपवासप्राणायामयोराचारी न दृश्यते ।
ऊर्ध्व तु धार्यमाणेऽप्यग्नौऽअनुगतो मन्थ्यःऽ(आप.गृ.५१७)
इत्याद्यग्न्युत्पत्तिप्रायश्चित्ते भवतः,ऽचतुरात्रमहूयमानोऽग्निर्लौकिकस्सम्पद्यतेऽइति वचनात् ।
यदि पुनरालस्यादिनोत्सन्नाग्निरेव चिरकालं वर्तेत तदा स्मृत्यन्तरतस्तत्कालानुरूपं कृच्छ्रादिकं होमद्रव्यदानं च वेदितव्यम् ।
स्वकालं अनारब्धानां तु पाकयज्ञानां सर्वप्रायश्चित्तं हुत्वाऽरम्भः कर्तव्यः ॥
(४) केचित्पाकयज्ञानां (५) स्वकालेष्वनारम्भे आरब्धानां चाकरणे गौणकालातिक्रमे च चतुर्गृहीतेनाज्येन सग्रहेण सप्तहोत्रा जुह्वति ।
यद्यपिऽसप्तहोत्रा यज्ञविभ्रष्टं याजयेच्चतुर्गृहातेनाज्येनऽ(आप.श्रौ.१४१४११) इति श्रौतो दर्वीहोमः यज्ञविभ्रेषे युक्तः, तथापिऽएषा वा अनाहिताग्नेरिष्टिर्यच्चतुर्होतारःऽ(आप.श्रौ.१४१३२.) इत्युपक्रम्यऽआहिताग्नेस्तान् प्रतियादुभयोरितरान्ऽ(आप.श्रौ.१४१५५)
इत्युपसंहारात्, गार्ह्ये विभ्रेषे आहत्य प्रायश्चित्तविधानेनापेक्षितत्वाच्च तद्विभ्रेषेऽपि युक्त एवोति ।
तत्तु कपर्दिस्वामिनोक्तम् ॥
जातकर्मादीनां तु (१) स्वकालातिक्रमे सर्वप्रायश्चित्तपूर्वकं तदनुष्ठानम् ।
कर्माङ्गानां तु लोपे सर्वप्रायश्चित्तं प्राणायामश्च ।
अनुष्ठानं चारादुपकारकाणामाकर्मसमाप्तेः ।
द्रव्यसंस्काराणां तु द्रव्योपयोगात्पूर्वमेव सम्भवताम् ।
पाकयज्ञेष्वाग्निहोत्रिक(२) विधौ चोपनयने चाङ्गव्यापत्तौऽमुवस्स्वाहाऽइति तत्त(३) त्कर्माङ्गाग्नौ होमः ।
ऽअनाज्ञातम्ऽइति तिसृभिश्च होमो जपो वा ।
भुवरनाज्ञातविध्यर्थयोर्विकल्पो वा,ऽब्राह्मणावेक्षो विधिःऽ(आप.गृ.२१०) इतिऽश्रुतितस्संस्कारःऽ(आप.धर्म.२१०९) इति श्रौतप्रायश्चित्तप्राप्त्यर्थत्वात् ।
ननुऽभवःऽ इति दक्षिणाग्नौऽअनाज्ञातंऽइति चाहवनीये ।
सत्यम्, इह तयोरग्न्योरभावात्नैमित्तिकानामप्यङ्गत्वेनेतराङ्गवत्प्रधानाग्नौ होमस्य युक्तत्वाच्च ॥
(४) केचित्सर्वेषु गार्ह्यकर्मसु तदङ्गेषु च भ्रेषेऽअनुक्तमन्यतो ग्राह्यम्ऽइति न्याय्न गृह्यान्तरोक्तानि प्रायश्चित्तान्याहुः, तच्चिन्त्यम् ॥
अलं प्रासङ्गीकेन ।
प्रकृतमुच्यते ।
यत्तुऽअपरपक्षस्यापराह्णश्श्रेयानिऽ(आप.धर्म.२१६५०) इति, तदपराह्णविधानार्थमनुवादः, यथा पात्नीवतेऽसर्वत्रानुवषट्कारो द्विदैवत्यर्तुग्रहादित्यसावित्रपात्नीवतवर्जम्ऽ(आप.श्रौ.१२१४२) इत्यनुवट्काराभावे प्राप्तेऽपिऽअपि वोपांश्वनुवषट्कुर्यात्"(आप.श्रौ.१३१४९,१०) इति ।
ऽसर्वेष्वेवापरपक्षस्याहस्सुऽ(आप.धर्म.२१६७) इति त्वहर्विशेषणार्थम् ।
अपरपक्षस्याहस्स्वेव मासिश्राद्धं, न पूर्वपक्षस्याहस्सु विकलपेनाप्यभिमतमिति ।
इतरथा आशौचादतिक्रान्तेऽपरपक्षे
दैवात्पितॄणां श्राद्धे तु आशौचं जायते यदि ।
आशौचेऽथ व्यतीते वै तेभ्यश्श्राद्धं प्रदीयते ॥
इति स्मृत्यन्तरात्कदाचित्पूर्वपक्षस्याहस्स्वपि विकल्पेनेदं स्यात् ।
नित्यश्राद्धं तुऽएवं संवत्सरम्ऽ(आप.ध.२१८१३) इति
अत्यन्त(४) संयोगे द्वितीयाबलात्पूर्वपक्षेऽपि ॥७॥
पित्र्याणि कार्याणीति शेषः ।
इदंतु वासोविन्यासभेदविधानं स्वतन्त्रास्वतन्त्रसर्वपित्र्यार्थम्,ऽप्राचीनावीतिना पित्र्याणिऽइत्यनेन वाक्येन अविशेषावगमात्, उद्देश्ये पित्र्यमात्रे लब्धे अधिकाप्रकृत(१) स्वातन्त्र्यविवक्षायां वाक्यभेदापत्तेः, अङ्गेष्वपि प्राचीनावीते विधेयेऽअपरपक्षे पित्र्याणिऽइतिवदनपेक्षितत्वाभावाच्च ।
तेन यानि स्वतन्त्राणि यथा प्रधानाहुतयः, यानि चास्वतन्त्राणि यथा द्वितायनिमार्जनादीनि, तानि सर्वाण्येव प्राचीनावीतिना कार्याणि ।
इत्थमेवऽयज्ञोपवीतिनाऽइत्यपि ।
तेन पित्र्याङ्गान्यपि दैवान्याघारादीनि यज्ञोपवीतिनैव ।
इतराङ्गानां तु पात्रप्रयोगादीनां तत्तत्प्रधानवदेव ॥
केचितङ्गानां प्रधानधर्मता न्याय्येति पित्र्याङ्गानि दैवान्यपि प्राचीनावीतिना, दैवाङ्गानि पित्र्याण्यति यज्ञोपवीतिनेति, तच्चिन्त्यंमे ॥ ८ ॥
तथैव शेषः ॥९॥
पित्र्येषु कार्य इति शेषः ।
अत्रऽप्राचीनावीतीऽ(आप.परि.२.१६)इत्यादिपरिभाषया एषां त्रयाणामपि सिद्धत्वात्
अपाकयज्ञनित्यषोडशश्राद्धाद्यर्थो विधिः ॥१०॥
निमित्तावेक्षाणि नैमित्तिकानि ॥ आपस्तम्बगृह्यसूत्र १.११ ॥
टीकाः
अनुकूलावृत्ति १.११
प्राचीनावीतिना प्रसव्यं दक्षिणतोऽपवर्ग इति पूर्वसूत्रेण सम्बन्धः ।
निमित्तानि यानि नैमित्तिकानि कर्मानि तानि निमित्तमवेक्ष्य तदनन्तरमेव कर्तव्यानि, न तत्र उदगयनाद्यपेक्षा ।
"अगारस्थूणाविरोण"(आप.गृ.२३९) इत्युदाहरणानि ।
तत्रामावास्यायां निशशायामिति वचनात्तावानुत्कर्षः ।
गृहप्रवेशनं नैमित्तिकमिति केचित् ।
नेत्यन्ये ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.११
नैमित्तिकान्याग्रयणातिथ्यसीमन्तादीनि निमित्तावेक्षाणि ।
निमित्तानि व्रीहिपाकादीन्येवानुष्ठानेऽवेक्षन्ते नोदगयनादीनीत्यर्थः ।
अत्रापि सम्भवत पूर्वपक्षादेर्नापवाद ॥११॥
एवं प्रयोगानुवन्धं कालादिकमुक्त्त्वा इदानीं सर्वगार्ह्यप्रधानहोमानां साधारणतन्त्रनामानं प्राच्योदाच्याङ्गसमुदायं प्रयोज्यभेदमाहऽअग्निमिध्वाऽ इत्यादिऽमन्त्र सन्नामःऽ(आप.गृ.२८.) इत्यन्तेन ।
२. अग्निमुखनिरूपणम्
१ परिस्तरणादि ।
अग्निमिध्वा प्रागग्रैर्दर्भैरग्निं परिस्तृणाति ॥ आपस्तम्बगृह्यसूत्र १.१२ ॥
प्रागुदगग्रैर्वा ॥ आपस्तम्बगृह्यसूत्र १.१३ ॥
टीकाः
अनुकूलावृत्ति १.१३
उक्ताः पाकयज्ञपरिभाषाः अथ तेषां साधारणतन्त्रं वक्ष्यतेअग्निमिध्वेति ।
तदग्नेरुपसमाधानमित्युच्यते ।
एतच्च कर्माङ्गम् ।
किं पुनरत्राग्निः? पत्नीसम्बन्धेष्वौपासनम् ।
अन्य लौकिकः केचिज्जातकर्मप्रभृति"परिग्रहमग्नेरिच्छन्ति ।
अन्ये पुनः उपनयनप्रभृति ।
अपरे"यत्रान्त्यां समिधमादध्यात्तं वापरिगृह्णीया"दिति ।
यत्र तु प्सिद्धौऽग्निर्नास्ति तत्र श्रौत्रियागारादाहरणं मथनं वा ।
"यत्र क्वचीग्नि"मित्ययं तु देशसंस्कारः सर्वत्र भवति यदि स्यादस्स्कृतो देशः ।
अग्निमिध्वेति प्रकृते पुनरग्निग्रहणं येषु तन्त्रं न प्रवर्तते तत्रापि परिस्तरणं यथा स्यादितिअग्निंपरिस्तृणाति सर्ववेति ।
उपसमाधानं तु तत्रार्थसिद्धम् ।
प्रागुदगग्रैर्वा ।
अथ वा न सर्वतः प्रागग्गैरेव परिस्तरणं किं तर्हि प्रागग्रैरुदगग्रैश्च ।
तत्रोदगग्राः पश्चात्पुरस्ताच्च ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.१३
अत्र च अग्निपदार्थविशेषप्रतिपत्त्यर्थ स्मार्तेष्वग्निर्निरूप्यते ।
तत्र याज्ञवल्क्यवचनम् ।
कर्म स्मार्त विवागाग्नौ कुर्वीत प्रत्यहं गृही ।
(या.स्मृ.२९७) इति ।
अस्यार्थगृही गृहस्थः सपत्नीकः स्मार्त कर्म विवागाग्नौ
औपासनाग्नौ कूर्वीत ।
यस्य कर्मणाः प्रयोगे संकल्पावघातान्वारम्भद्रव्यत्यागानुमत्यादिपदार्थद्वारा पत्न्यास्सहत्वं तत्कर्म स्वौपासने कुर्वीत इत्येतत् ।
अथ वा यस्य अग्निसाध्यस्य कर्मणः फलं साक्षात्कर्मान्तरप्रणाल्या वा जायापतिगाम्यन्यतरगामि वा भवति तत्कर्म गृही स्वौपासने कुर्यात्,ऽकुर्वीतऽइत्यात्मनेपदश्रवणादिति ।
एवं च स्मार्तानि पाकयज्ञसीमन्तादीनि औपासनाग्नौ कर्तव्यानि ।
गृहप्रवेशोऽपि तत्कर्मजन्यवास्तुशान्तेः जायापत्यायुराद्यर्थत्वादौपासन एव ।
तथा पित्रादेर्मातामहादेश्च सपिण्डीकरणमप्यौपासने ।
सपिण्डीकरणफलस्य प्रेतत्वनिवृत्त्या पितृत्वप्राप्तिरूपस्याभ्युदयिकमासिश्राद्धादौ सम्प्रदानार्थत्वात्, तत्फलस्य च जायापतिगामित्वादिति ।
अत एव सपिण्डीकरणं सर्वैरपि पुत्रैर्न कर्तव्यम्, एकेनापि कृत्पुतृतया सम्प्रदानत्वसिद्धेः ।
अतो यत्र पत्न्यास्सहत्वं क्रियाफलं वा जायापतिगामि तत्कर्म (१ट.ठस्वैपासने.) औपासन एव ।
यदि तु पुत्रोऽनग्निरनुपनीतादिः संवत्सरे पूर्णेऽवश्यं कर्तव्यत्वात्सपिण्डीकरणं करोति, तदा श्रोत्रियागारादाहृतेऽग्नौ॑वोधायनेनऽअथ वा श्रोत्रियागारादेव तमौपासनम्ऽ(बौ.गृ.६२) इत्यौपासनसंस्तवात्, आचाराच्च ।
अनुपनूतोऽपि पुत्रश्श्राद्धाधिकार्येव, अर्हत्यनुपनीतोऽपि विनाप्यग्निं विनाऽपदम् ॥
(मनु. २१७२)
इति वचनात्,ऽऽन वब्रह्माभिव्याहारयोदन्यत्र स्वधानिनयनात्ऽ(गौ.ध.२५) इति गौतमवचनस्थस्वधाशब्दस्य सकलीर्ध्वदैहिकप्रदर्शनार्थत्वाच्च ।
भ्राता वा भ्रातृपुत्रो वा सपिण्डश्शष्य एव वा ।
सपिण्डीकरणं कृत्वा कुर्यादभ्युदयं ततः ॥
इति वचनात्यदा भ्रातृपुत्रादिः करोति तदा यथोक्तसहत्वफलभागित्वयोरभावात्श्रोत्रियागरादाहृताग्नावेव ॥
अन्ये तुभ्रात्रादिगतपितृत्वप्राप्तिरपि पुत्रगतपूतत्वादिफलवत्पतिगामि फलमित्यौपासने॑तच्छिन्त्यम् ॥
तथा जातकर्मचौलोपाकरणसमापनगोदानसमावर्तनान्यपि ।
तथोमनयनमपि ।
आचार्यकरणसिध्द्यर्थ मुपनयनमिति मतेऽपि नाचार्यस्यौपासने ।
तस्य नित्यधार्यत्वात्ऽत्र्यहमेतमाग्निं धारयन्तिऽ(आप.गृ.१११९) इति सूत्रविरोधात् ।
विवाहोप्यस्मिन्, निर्मन्थ्ये वा, असभ्भवाद्विवाहजन्यौपासनस्य ।
सम्भवेऽपि प्रथमौपासनस्य, न तस्मिन् द्वितीयादिविवाहः ॑ऽयां कामयेत राष्ट्रमस्यै प्रजा ,स्यादिति तस्या औपासनेऽइति प्रतिणार्यमौपासनभेदावगमात्, बौधायनीये अग्निद्वयसंसर्गविधानात्, आटाराट्ट ।
कर्मार्थस्यौपासनस्य संस्कृते देशे, अनुपसमाहितस्यान्यस्य वाग्नेः,ऽयत्र क्व टाग्निम्ऽ(आप.ध.२११३.) इति धर्मशास्त्रोक्तविधिना अग्निप्रतिष्ठापनं कर्तव्यम् ॥
केचितिदं नाग्न्यङ्गं, कर्माङ्गमेवेति प्रतिकर्म कार्यम्, उखायां चाग्नेर्धारणमिति ॥
अथ सूत्रं व्याख्यायते ।
<अग्निमिद्ध्वा>इन्धीतेत्यर्थः ।
यद्यप्यर्थप्राप्तमग्नेरिन्धनं तथाप्येतद्वचनातिद्धमपि पुनरिन्धीत ।
अत्र विध्यर्थे लिङ्गादौग्राह्ये क्त्वाग्रहणमिन्धनस्य परिस्तरणपूर्वकालतानियमार्थम् ।
तेन इन्धनानन्तरं परिस्तरणमेव कार्य, न तु तयोर्ध्येऽवश्यकार्यमपि मूत्रनिरसनादि कर्मार्थसंभारोपकल्पनं च ॥
नन्वेकस्मिन् सूत्रे इन्धनपरिस्तरणयोर्विधाने वाक्यभेदस्स्यात्॑सत्यम्, न तु सूत्रे वाक्यभेदो दोषः ॑सूचनात्सूत्रमिति मिर्वचनात् ।
इत्यमेव व्याख्यानं प्रयोजनं च सर्वत्र त्काग्रहणेषु ।
<प्रागग्रैर्दर्भैरग्निं परिस्तृणाति> ।
सर्वासु दिक्षु प्रागग्रैः कुशैरग्निं परिस्तृणाति ॥१२॥
अथ वा प्रागग्रैरुदग्ग्रैश्च दर्भैरग्निं परिस्तृणाति ।
दक्षिणत उत्तरश्च प्रागग्रैः, पश्चात्पुरस्ताच्चोदगग्रैः ,ऽउदगग्राः पश्चात्पुरस्ताच्चऽ(आप.श्रौ.२१४१५) इति श्रौते दर्शनात् ।
एतान् कुशान् दक्षिणानुत्तरान् करोति , उत्तराश्चाधरान्॑बौधायनभरद्वाजगृह्याभ्या मुक्तत्वात् ।
दक्षिणतः पक्ष उपरिष्टाद्भवत्यधस्यादुत्तरःऽइति ।
अत्रऽअग्निमिद्ध्वाऽइति प्रकृतेऽप्यग्नौ,ऽअग्निम्ऽइति पुनर्वचनं नियमार्थमग्निमेव परिस्तृणाति नान्यदङ्गपीति ।
तेन उत्तरेण पूर्वेण वा निहितमुदकं बहिरेव भवति ॥
केचितितन्त्रकेष्वपि कर्मस्वाग्निः परिस्तीर्य एवेति नियमार्थमिति ॥१३॥
दक्षिणाग्रैः पित्र्येषु ॥ आपस्तम्बगृह्यसूत्र १.१४ ॥
दक्षिणाप्रागग्रैर्वा ॥ आपस्तम्बगृह्यसूत्र १.१५ ॥
टीकाः
अनुकूलावृत्ति १.१५
तत्र दक्षिणाग्राः पश्चात्पुरस्ताच्च ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.१५
पित्र्येषु मासिश्राद्धादिषु कर्मसु सर्वासु दिक्षु दक्षिणाग्रैः परिस्तृणाति ॥ १४ ॥
यज्वा दक्षिणाग्रैः प्रागग्रैश्च दर्भैः ।
पश्चात्पिरस्ताच्च दक्षिणाग्रैः, उत्तरतो दक्ष्णतश्च प्रागग्रैः ।
उत्तरानुत्तरान् दक्षिणांश्चाधारान् कुर्यात् ।
तथा प्रागुपक्रम्य प्रसव्यं परिस्तृणाति ॥१५॥
२ पात्रप्रयोगः ।
उत्तरेणाग्निं दर्भान्त्संस्तीर्य द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति देवसंयुक्तानि ॥ आपस्तम्बगृह्यसूत्र १.१६ ।
टीकाः
अनुकूलावृत्ति १.१६
परिस्तरणानन्तरं अग्नेरुत्तरतः पात्रप्रयोगार्त दर्भान् प्रागग्रान् संस्तृणाति ।
प्रथितं स्तरणम् ।
<प्रयुनक्ति> सादयति ।
<न्यञ्चि> न्यग्भूतानि ।
सर्वाणि च द्रव्याणि प्रयोजनवन्ति पात्रग्रहणेन गृह्यन्ते ।
तेनोपनयनादौ मोखलादीनामपि सादनं भवति ।
तत्र यानि देवसंयुक्तानि तानि द्वन्द्वं प्रयुनक्ति ।
द्वे द्वे इत्यर्थः ।
पार्वणादीनि देवकर्माणि ।
अग्निग्रहणमनर्थकमविकृतत्वातग्निमिध्वेति ।
ज्ञापकार्थ चैतत्ज्ञापयतिअग्निपरिस्तरणे विहितोऽयं पात्रप्रयोगे नानुवर्तते इति ।
कदा पुनरसौ ?दर्भाग्रविशेषस्तन्त्राभावे प्रवृत्तिश्च ।
तेन पित्र्येष्वपि प्रागग्राणामेव संस्तरणं अग्नेश्चोत्तरतः तन्त्राभावे च पात्रप्रयोगाभावात् ।
अदिकारात्त्वाग्निप्रतिपत्तावेव ।
तदप्युभयं प्रतित्त्व्यं स्यात्
अधिकारादेवः ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.१६
अग्नेरुत्तरतोऽदूरेण दर्भान् संस्तूणाति ।
एते च प्रागग्राः, बौधायनगृह्यात् ।
प्रथितं च स्तरणं, समुपसर्गात् ।
उदक्च स्तरमापवर्गः ।
पित्र्येष्वप्यग्नेरुत्तरत एव प्रागग्रैः,ऽउत्तरत उपचारो विहारः,(आप.प.२.१०) इति सिद्धेऽपीहाप्युत्तरेणेति वचनात्, प्रकृतेऽप्यग्नौऽअग्निमित्यधिकशब्दस्य अधिकार्तपरत्वस्य युक्तत्वात्, परिस्तरणवद्विशेषस्यानुक्तेश्च ।
अपवर्गस्तु दक्षिणत एव ।
<देवस्युक्तानि>देवकर्मसंयुक्तानि ।
<पात्राणि>दर्व्यादीनि ।
<द्वन्द्वं,>द्वे द्वे ।
<न्यञ्चि> अधोबिलानि ।
<प्रयुनक्ति> सादयति ।
ननुउत्तरत्रऽमनुष्यसंयुक्तानिऽऽपितृसंयुक्तानिऽइति विशेषणेनैव सिद्धत्वात्ऽदेवसंयुक्तानिऽइति व्यर्थम् ।
न॑दैवानि हि कर्माणि द्विविधानिपुरुषार्थरूपाणि मनुष्यसंस्कारकाणि च ।
तत्रोभयत्रापि देवपात्राणां दर्व्यादीनां द्वन्द्वतासिध्द्यर्थत्वात् ॥१६॥
तत्र मनुष्यस्स्कारकर्मार्थेषु केषुचित्पात्रेष्वपवादमाह
सकृदेव मनुष्यसंयुक्तानि ॥ आपस्तम्बगृह्यसूत्र १.१७ ॥
टीकाः
अनुकूलावृत्ति १.१७
यानि मनुष्यसंयुक्तानि पात्राणि तानि सकृदेव प्रयुनक्ति, न द्वन्द्वम् ।
मनुष्यकर्माणि विवाहादीनि ।
एवकारः क्तियाभ्यावृत्तिप्रतिषेधार्थः ।
पात्र बाहुल्यात्द्वाभ्यां बाहुभ्यां सादनाशक्तावप्युपायेन सकृदेव सादनमिति ।
केचित्मेखलादीनामेव मनुष्यसंयुक्तानां सकृत्प्रयोगमिच्छन्ति, न होमार्थानाम् ।
वयं तु मनुष्यसंयुक्तानि मनुष्यकर्मसंयुक्तानीत्यवोचाम ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.१७
<मनुष्यसंयुक्तानि> मनुष्यद्वारा संयुक्तानि अश्मवासोमेखलादीनि सकृदेव क्रियाभ्यावृत्तिपरिहारेण प्रयुनक्ति, पात्रबहुत्वेऽप्युपायेन ।
केचित्मनुष्यसंस्कारकर्मसु दर्व्यादीन्यपि सकृदेवेति ॥१७॥
एकैकशः पितृसंयुक्तानि ॥ आपस्तम्बगृह्यसूत्र १.१८ ॥
टीकाः
अनुकूलावृत्ति १.१८
यानिपितृकर्मस्युक्तानि तान्येकैकशः प्रयुनक्ति एकमोकमित्यर्थः ॥१३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.१८
पितृकर्मार्थानि दर्व्यादीनि स्वधापात्रादीनि च एकमोकं प्रयुनक्ति ॥१८॥
३ पवित्रसंस्कारः ।
पवित्रयोस्संकार आयामतः परीमाणं प्रोक्षणीसंस्कारः पात्रप्रोक्ष इति दर्शपूर्णमासवत्तूष्णीम् ॥ आपस्तम्बगृह्यसूत्र १.१९ ॥
टीकाः
अनुकूलावृत्ति १.१९
पवित्रयोस्संम्कारः तृणं काष्ठं वे त्येवमादिः ।
तयोरायामतो यत्परिमाणं दीर्घप्रमाणं प्रादेशमात्रा (आप.श्रौ.१११९.) वित्येतत् ।
प्रोक्षणासंस्कारः"पवित्रान्तर्हितायामाग्निहोत्रहवण्या"(आप.श्रौ.१११९) मित्यादि ।
तत्राग्निहोत्रहवण्या इहाभावात्पात्रान्तरं प्रापयते ।
उत्तानानि पात्राणि इत्यादि पात्रप्रोक्षणम् ।
तदेतत्पदार्थचतुष्टयं दर्शयति ।
दर्शपूर्ममासयेरिवात्रापि कर्तव्यम् ।
तूष्णीमिति मन्त्रप्रतिषेधः ।
यथा प्रोक्षणे पात्राणामुक्ता क्रिया विस्रंसनञ्चेध्मस्यतदन्तर्भावादेव सिद्धम् ।
इदं तु वचनं नियमार्थम्पवित्रयोरेवायामत परिमाणं यथा स्यात्
इध्मस्य दर्भाग्रयोश्चाज्ये प्रत्यस्यमानयोर्मा भूदिति ।
कथं पुनस्तत्र प्रसङ्गः ?एतदेव ज्ञापयतिभवत्यत्रापि दर्शपूर्णमासवत्तूष्णीं संस्कार इति ।
आयामग्रहणमायामपरिमाणस्यैव पवित्रयोर्नियमेन य वा संख्यापरीमाणं दार्शपूर्णमासिकमेवेध्मस्य भवति ।
तेनात्राविद्यमानेष्वनूयाजेषु न एकविंशातिदारुरिध्मो भवति ।
उपहोमास्त्वनूयाजार्थे भवन्ति ॥१४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.१९
पवित्रयोस्संस्कारो दर्शपूर्ममासाभ्यां तुल्यं मन्त्रवर्ज कार्यः ।
समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते, तृणं काष्ठं वान्तर्धाय छिनत्ति, न नखेन ।
ततो.प उपस्पृशेत् ।
ऽगौद्रराक्षसऽ(आप.प.२९) इति वचनात् ।
ततस्तयोर्मूलादारभ्याऽग्रादद्भिर्मार्जनम् ।
तयोश्चायामतः परिमाणं दर्शपूर्णमासवदेव ।
यद्यपिऽपवित्रयोस्संस्कारो दर्शपूर्णमासवत्ऽइति वचनादेव तद्वदायामतः परिमाणं प्राप्तम्, तथापि यदायामतः पर्मामं प्रादेशमात्राविति तदेव तद्वत्, न त्विह पृथुत्वेनापि साम्यमित्येवमर्थऽआयामतः परिमाणम्ऽइति पुनर्वचनम् ॥
केचित्पवित्रयोरेवायामतः परिमाणं दर्शपूर्णमासवत्, न त्विध्मस्य दर्भाग्रयोश्चाज्ये प्रत्यस्यमानयोरिति नियमार्थ पुनर्वचनम् ।
एवं ब्रुवतैव सूत्रकारेण दर्शपूर्णमासवत्तूष्णीमिध्मस्य दर्भाग्रयोश्च संस्कार प्रसिद्ध वदभ्यनुज्ञातः ।
तथैव चाचारः ।
तेन खादिरः पालासो वा शुल्वसन्नद्ध इध्मो विस्रस्य त्रिः प्रोक्षितव्यः ।
पार्वणे च पूर्वद्युस्सन्नद्धव्यः ।
दर्भाग्रे चऽतृणं काष्टं वाऽ(आप.श्रौ.१११७.) इत्यादिविधिवा संस्कृत्याज्ये प्रत्यसितव्ये ।
अत्र च यद्यप्ययमर्थःऽआयामतःऽइति वाऽपरिमाणंऽइति वान्यतरेण सिद्धः तथापि नियमान्तरार्थमेवमुक्तम् ।
आयामत एव यत्परिमाणं तदेव पवित्रयोः दर्शपूर्णमासवत्, न संख्यातः परिमाणम् ।
तेनेध्मस्य संख्यापरिमाणं दार्शपूर्णमासिकमेवऽएकविंशतिदारुमिध्मम्ऽ (आप.१५.६) इति आयामस्यैव पवित्रयोर्नियमितत्वात् ।
यद्यप्यनूयाजाभावादेकविंशत्या न कार्यम्॑तथाप्येतद्वलात्तत्स्थाने जयादयः कल्प्याः इत्यायुक्तं भूयिष्ठं च पूर्वव्याख्यानेनान्यथासिद्धेऽपि सूत्रे कल्पयन्ति ॥
प्रोक्षणीसंस्कारोऽपि दर्शपूर्णमासवत्तूष्णीम् ।
उदगग्राभ्यां पवित्राभ्यां अन्तर्हितायां वेकङ्कत्यां स्नुच्यप आनीय ताभ्यां त्रिरुत्पूय प्रोक्षेत् ।
पात्रपेरोक्षणमपि तद्वत्तूष्णीम् ।
उत्तानानि पात्राणि कृत्वेध्मं च विस्रस्य ताभिस्सपवित्रेण पाणिना त्रिः प्रोक्षेत् ॥१९॥
४ प्रणीताप्रणयनम् ।
अपरेणाग्निं पवित्रान्तर्हिते पात्रेऽप आनीयोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूय समं प्राणैर्हृत्वोत्तरेणाग्निं दर्भेषु सादयित्वा दर्भैः प्रच्छाद्य ॥ आपस्तम्बगृह्यसूत्र १.२० ॥
टीकाः
अनुकूलावृत्ति १.२०
पात्रप्रोक्षणानन्तरमपरेणाग्निं प्रणीतार्थेपानो पवित्रं निधाय तस्मिन्नुदगग्रे पवित्रे अन्तर्धायाप आनीय्य पवित्राभ्यां उदगग्राभ्यां त्रिरुत्पुनाति प्रागपवर्गम् ।
अग्निग्रहणं पात्राधिकारात् ।
अङ्गुष्ठोपकनीष्ठोभ्यामुत्तानाभ्यां पाणिभ्यामिति कल्पान्तरे दृष्टो विशेषः ।
उत्पूय ता अपस्समं प्राणैर्हरति ।
मुखेन तुल्यमित्यर्थः ।
हृत्वोत्तरेणाग्निं दर्भेषु संस्तीर्णेषु सादयति ।
अग्निग्रहणं पात्रैर्व्यवधानं मा भूदिति ।
सादयित्वा दर्भैः प्रच्छादयति ।
सर्वञ्चैतत्पवित्रहस्तः करोति ॥१५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.२०
अग्नेरदूरेण पश्चात्पवित्रान्तर्हिते कस्मिंश्चित्पात्रेऽप आनीयोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पुनाति ।
अत्र प्रकृतयोरपि पवित्रयोः पुनर्ग्रहणात्पाण्योः प्रागग्रत्वमाचारसिद्धंऽआङ्गुष्ठोपकनिश्ठिकाभ्यामुत्तानाभ्यां पाणिभ्याम्ऽ(आश्व.गृ.१३३.) इत्याश्वलायनोक्तं च ज्ञापितम् ।
ततस्ता अपस्समं प्राणैर्हृत्वा प्रामस्थानभ्यां मुकनासिकाभ्यां सममुदूधृत्य उत्तरेणाग्निं पुनस्तीर्णेषु दर्भेषु सादयति,ऽदर्भाषुऽइति वचनात् ।
अन्ये पूर्वस्तीर्णेषु ।
ततो दर्भैः प्रच्छादयेतच् ।
अत्रऽअपरेणाग्निम्ऽइत्यग्निग्रहणं पात्राणामपरेण मा भूदिति ।
ऽउत्तरेणाग्निम्ऽइति तु पात्रव्यवदाननिवृत्त्यर्तम् ॥२०॥
५ ब्रह्मवरणम् ।
ब्राह्मणं दक्षिणतो दर्भेषु निषाद्य ॥ आपस्तम्बगृह्यसूत्र १.२१ ॥
टीकाः
अनुकूलावृत्ति १.२१
प्रकृतत्वादग्नेः दक्षिणत ।
तत्रापरेणाग्निं दक्षिणातिर्कम्य तूष्णीं तृमं निरस्योपवेशनमिच्छन्ति ।
अग्रेणाग्निं परित्यान्ये ।
ऽहौत्रब्रह्मत्वे स्वं कुर्वन् ब्रह्मासनमुपविश्य चि(छ)त्रमुत्तरासङ्गं कमण्डलुं वा तत्र कृत्वाधान्यत्कुर्या (खा० ऊ०११२६.) दिति कल्पान्तरम् ।
कृताकृतमाज्यहोमेषु परिस्तम् ।
तथाज्यभागौ वा ब्रह्मा वेदा(त्या)श्वलायनः ॥१३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.२१
अग्निमिध्वेति प्रकृतत्वातग्नेर्दक्षिणतो दर्भेषु कंचिद्ब्रह्मणमुपवेशयेत् ।
न तु दर्शपूर्ममासवद्ब्रह्माणं, समानविधानवचनानाम्
चोदनालिङ्गानि विनात्र तदीयस्य ब्रह्ममः प्राप्त्यभावात्,ऽब्राह्मणं दक्षिणतो दर्भेषु निषाद्यऽइति कृत्स्नविधानाच्च ।
तेनात्र ब्रह्मधर्भावरणतृणनिरसनादयो न कर्तव्याः ।
पितृभूतर्त्विक्पक्षेऽपि यः पितुर्ब्रह्मा स एवात्र निषाद्यत इति नियमो नास्ति ॥
अन्ये तुश्रौते ब्रह्मा दक्षिणेनाग्निं दर्बेषु निविष्टो दृष्ट ।
तथेव बह्वृचानां छन्दोगानां च गृह्ये ब्रह्मेत्येव चोदितः ।
अतोऽत्रापिऽब्राह्मणं दक्षिणतऽ इति लक्षणया ब्रह्मैव चोद्यते ।
तेन सम्भवन्तो ब्रह्मधर्मा इहापीति ।
तन्न, स्वगृह्यस्थस्य ब्राह्मणशब्दस्य श्रुत्यर्तत्यागेन परगृह्याल्लक्षणाश्रयणस्यायुक्तत्वात् ।
न च दक्षिणतो निषदितस्य ब्राह्मममात्रस्य ब्रह्मत्वं सूत्रकारस्येष्टम् ।
यदि हि तथा स्यात्,ऽयं ब्राह्मणं विद्यां विद्वांसं यशो नर्च्छेत्" (आप.श्रौ.१४१३७). इत्यत्राल्पैरेवाश्ररैःऽब्रह्मणे वरं ददातिऽइति ब्रूयात्, न पुनस्त्रिगुणैःऽयो दक्षिणत आस्ते तस्मै वरं ददाति"(आप.श्रौ.१४१३९.) इति ।
सम्भवतां धर्माणां प्राप्तौ मन्त्राणामपि प्राप्तिर्दुर्वारा ।
ऽब्राह्मणं दक्षिणतो निषाद्यऽ इत्यत्रानुक्तानां मन्त्रादीनां परिसंख्येयं चेति वदतां चोक्तिरीत्या स्वार्तपरत्वे सम्भवति दोषत्रययुक्तपरिसंख्याश्रयणं निर्हेतुकम् ॥२१॥
६ आज्यसंस्कारः ।
आज्यं विलाप्यापरेणाग्निं पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरूप्योदीचोऽङ्गारान्निरूह्य तेष्वधिश्रित्य ज्वलतावद्युत्य द्वे दर्भाग्रे प्रत्यस्य त्रिः पर्यग्नि कृत्वोदगुद्वास्याङ्गारान् प्रत्यूह्योदगग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पूय परित्रे अनुप्रहृत्य ॥ आपस्तम्बगृह्यसूत्र १.२२ ॥
टीकाः
अनुकूलावृत्ति १.२२
अथाज्यसंस्कार तत्र विलापनमाज्यस्य यस्मिन्कस्मिंश्चिदग्नौ भवति उत्तरत्राज्यग्रहणात् ।
<निर्वापः>आनयनम् ।
पुनराज्यग्रहणमनाघारेऽपि कर्मणि संस्कारः आज्यस्य यथा स्यात् ।
आज्यं सर्वत्र निरुप्य जुहोतीति ।
<निरूहणं>पृथक्करणम् ।
उदग्वचनं पुत्र्येष्वपि यथा स्यात् ।
एतोनोद्वासनं व्याख्यातम् ।
<अवद्योतनं>ज्वलता तृणेनावदीपनम् ।
तत्र द्वे दर्भाग्रे पवित्रवत्संस्कृत्याज्ये प्रत्यस्यति प्रक्षिपति ।
द्वे ग्रहणमेकं वे त्यस्याग्निहोत्रदृष्टस्य विकल्पस्य प्रतिषेधार्थम् ।
तेनाग्निहोत्रिकेऽपि तन्त्रे द्वे एव दर्भाग्रे भवतः ।
ततस्तदाज्यं त्रिः प्रदक्षिणं पर्यग्नि करोति आज्यस्य सर्वतोऽग्निं त्रिरावर्तयति तृणेनोल्मुकेन वा ।
तत्र पित्र्येष्वपि प्रदक्षिणं पर्यग्निकरणमिच्छन्ति ।
<उद्वासनं> निर्हरणम् ।
<प्रत्यूहन> माग्निमा संसजैनम् ।
<पुनराहारं> पुनराहृत्याहृत्य ।
त्रीण्येतानि उत्पवनानि प्रत्यगपवर्गाणि ।
अनुप्रहरणमग्नैः प्रकरणात्
"विस्रस्याद्भिस्संस्पृश्ये"ति कल्पान्तरात् ॥
इति श्रीहरदत्तविरचितायां गृह्यसूत्रवृत्तावनाकुलायां प्रथमः खण्डः ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १.२२
यद्यपिऽसर्पिराज्यं प्रतीयात्ऽ(आप.प.२२५) इति परिभाषासिद्धं विलापनं, तथापि विलीनमप्याज्यं होमार्थेऽग्नौ कर्मार्थ पुनर्विलापयेत् ।
ततोऽग्नेः पश्चात्स्थापितायां पवित्रान्तर्हितायामाज्यस्थाल्यां तदाज्यमानयेत् ।
ऽआज्यं विलाप्यऽइति प्रकृतेऽपि पुनराज्यग्रहणमाज्यस्यैव निर्वापादयः न पुनःऽदध्न एवाञ्जलिना जुहोति"(आप.गृ.२२१०) इत्यत्र(२) पशुप्रभवस्य होमद्रव्यत्वेऽपि यदीयतदीयन्यायाद्दध्नो भवेयुरित्येवमर्थम् ॥
केचिततन्त्रकेऽपि कर्मण्याज्यं निर्वापादिभिस्संस्कार्यमित्येवमर्थमिति ॥
अद्रिमित्यग्नेरेव पश्चात्न ब्राह्मणस्येति ।
केचितन्यस्मिन्नग्नौ विलपनं, होमार्थाग्नेरेव पश्चान्निर्वाप इत्येवमर्थमिति ॥
अथाङ्रारानुदीचो <निरूह्य>निर्र्वत्य, तेष्वङ्गारेषु आज्यधिश्रित्य, ज्वलता तृणेनावद्युत्य अधोगामिन्या दीप्त्या द्योतयित्वा, द्वे दर्भाग्रे अनियतायामे तृणाद्यन्तर्धाय छित्वाद्भिस्संस्पृश्य ते युगपदाज्ये प्रक्षिपेत्ऽद्वेऽइत्यधिकशब्दात्, आचाराच्च ।
अथोल्मुकमादायाज्ये प्रदक्षिणं त्रिः पर्यग्नि कृत्वा समन्ततोऽग्निमावर्त्य तदुदगवतारयेत् ।
अत्र निरूहणोद्वासनयोरुदगपवर्गस्यऽतथापवर्गःऽ(आप.गृ.१६) इति सिद्धस्य पुनर्विधानमेतयोर्नित्यमुदगेवापवर्गः न तु दैवे विकल्पेनापि प्रागपवर्गः, नापि पित्र्ये दक्षिणतोऽपवर्ग इति नियमार्थम् ।
तथैव पित्र्येष्वेतयोर्मध्यस्थं पर्यग्निकरणमपि सन्दंशन्यायाद्दैववत्प्रदक्षिणमेव ।
इत्थमेव शिष्टाचारः ।
ततोऽङ्गारान् पूर्व निरूढान्<प्रत्यूह्य> पुनरायतनस्थाग्निना संयोज्य ।
अत्राज्यसंस्कारकाणां अङ्गाराणां प्रयूहनविधानात्ऽअपृवृत्ते कर्मणिऽ(आप.परि.४२१) इति न लौकिकत्वम् ।
अवदेयोतनपर्यग्निकरणाग्नयोस्तु यदा आयतनस्थादुपादानं तदा तयोरग्नयेरपवृत्तकर्मत्वेन लौकिकत्वात्त्त्यागः ।
यदा तु निरूढात्तदा तदा तस्मिन्नेव क्षेपः ।
अथ पूर्ववदुदगग्राभ्यां पवित्राभ्यां<पुनराहारं त्रिरुत्पूय>पुनराहृत्याहृत्य त्रिरुत्पूय ।
अत्र पुरस्तादारभ्य पश्चान्नीत्वा पुरस्तात्परिसमाप्तिः ।
केचिताङो बलाद्विपरीतमाहुः ॥
ततस्ते <पवित्रे अनुप्रहृत्य>ईचारानुकूलं प्रहृत्य, यदि ग्रन्थिस्स्यात्तदा विस्रस्याद्भिससंस्पृश्य प्रागग्रे अग्नौ प्रहरेदित्यर्थः ॥२२॥
इतिश्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने प्रथमः खण्डः
इत्यापस्तम्बीये गृह्यप्रश्ने प्रथमः खण्डः ॥
द्वितीयः खण्डः
७ दर्वीसंस्कारः ।
येन जुहोति तदग्नौ प्रतितप्य दर्भैः संमृज्य पुनः प्रतितप्य प्रोक्ष्य निधाय दर्भानद्भिस्संस्पृश्याग्नौ प्रहरति ॥ आपस्तम्बगृह्यसूत्र २.१ ॥
टीकाः
अनुकूलावृत्ति २.१
संमार्जनं सुग्वत् ।
<प्रतितपनं>न्यग्भूतस्य तपनम् ।
अग्निग्रहणमनर्धकम् , अन्यत्र प्रतितपनस्यासम्भवात् ।
तत्क्रियते दर्शपूर्णमासयोस्सम्मार्जने ये धर्मास्तेषामिह प्राप्त्यर्थमाहवनीये गार्हपत्ये वा चोदितं यत्प्रतितपनं तदस्मिन्नग्नौ भवतीति ।
अग्निमात्रं भिद्यते ।
अन्यत्समानं"सुवमग्रैरित्यादि (आप.श्रौ.२४४) ।
अग्नौ प्रहरतीति पुनरग्निग्रहणं सुक्संमार्जनधर्मा इह प्रवर्तन्त इति ।
पाकयज्ञेषु च दर्व्या होमः, कल्पान्तरे दृष्टत्वाद्दर्शनाच्च ।
यजयं समावर्तने दर्व्यामादायाज्येनाभ्यानायन्नित्यन्यपरे वाक्ये दर्वीं प्राप्तां दर्शयति ।
यच्चायं सकृदुपहत्येति उपघातं स्थालीपाकाद्दर्शयति तदपि नादर्व्यामुपपद्यते ।
तत्राज्यहोमेष्वेका दर्वी ।
स्थालीपाकेषु द्वे होमार्थ चावदानार्थ च ।
उभयोरपि सम्मार्जनम् ।
अवदानस्य होमार्थत्वात्यथाग्निहोत्रे स्रुवस्य ।
तत्र दर्वीमग्नौ प्रतितप्येति वक्तव्यम् ।
येन जुहोतीति किमुच्यते ?
"मध्यमेनान्तमेन वा पलाशपर्णेमे"त्यत्रापि यथा स्यात्, अग्निहोत्रे आग्निहोत्रिके च तन्त्रे यथा स्यादिति ।
यद्येवमञ्जलेरपि प्रसङ्गः ।
विवाहसर्पयज्ञादिषु ज्ञापकात्सिद्धम् ।
यदयमौपकार्ये पार्वणवदिति यत्नं करोति तत्ज्ञापयतिअञ्जलिहोमा अधर्मग्राहकाः यावदुक्तधर्माण इति ।
तेन सादनादि त्रयमञ्जलेर्न भवति ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.१
येन पात्रेण दर्व्या स्रुवेणाञ्जलिना वा जुहोति तदग्नौ प्रतितप्येत्यादि व्यक्तार्थम् ।
दर्व्याश्च होमपात्रत्वंऽदर्व्यामाधायाज्येनाभ्यानायन्ऽ(आप.गृ.१२९) इत्यन्यपरे वाक्ये सिद्धवद्दर्शनात्, आचाराच्च ।
बोधायनेनतुऽनिऋतिगृहीता दर्वीऽइति
दर्वीनिन्दा स्नुवविधानार्था, न तु दर्व्या निषेधार्था ।
अतो दर्वीस्नुवयोर्विकल्पः ।
तत्र केवलाज्यहोमेषु एकैव दर्वी स्रुवो वा, उपस्तरणाद्यभावात् ।
चर्वादिहोमेषु तु द्वे दर्व्यौ स्रुवौ वा उपस्तरणाद्यर्थ होमार्थ च ।
उपस्तरणाद्यर्थस्यापि संस्कारः, उपस्तरणादि प्रदानान्तस्य होमपदार्थत्वात्, श्रौते स्रुवस्यापि संस्कारदर्शनात्, आचाराच्च ।
दर्व्यादीनां त्रयाणां तन्त्रवद्धोमेष्वेव संस्कारः, अतन्त्रकेषु तन्त्रान्तर्गतधर्मानुपपत्ते ।
तेनऽअनुगतोऽपि वोत्तरया जुहुयात्ऽ(आप.गृ.५२०)ऽसर्षपान् फलीकरणमिश्रान्ऽ(आप.गृ.१५६) इत्यादिषु न दर्व्यादीनां संस्कार ।
अत्राग्नौ प्रतितप्याग्नौ प्रहरतीत्यर्थस्द्धाग्निग्रहणमेवनामायं कृत्स्नविधिरिति ज्ञापयितुम् ।
तेनऽस्रुवमग्रेऽ(तै.ब्रा.३.३१)
इत्याद्यैष्टिकस्रुक्संमार्जनधर्माणामिहानुपपत्तिप्रसङ्ग एव ।
केचिताग्नौ प्रतितप्याग्नौ प्रहरतीति प्रयोजनान्तरशून्यादग्निग्रहणादैष्टिकस्रुक्सम्मार्गधर्मा इहापि भवन्तीति ।
प्रतितपनं त्वस्मिन्नेवाग्नौ ।
इह च सम्मार्गदर्भाणामग्नावेव प्रहरणम्, न पुनर्वैकल्पिकम् ।
तथाऽयेन जुहोतीऽत्यत्र सामान्यवचनम्
ऽमध्यमेनान्तमेन वा पलाशपर्णेनऽ(आप.गृ.२२४) इत्याद्यतन्त्रकेऽपि कर्मणि आग्निहोत्रिके च विधौ होमार्थपात्रस्यापि संस्कारो यथा स्यादित्येवमर्थम् ।
अञ्जलेस्त्वपूपहोमे अवदानप्राप्त्यर्थेमऽपार्वणवत्"(आप.गृ.२२१) इति यन्तेनाञ्जलिहोमा अपूर्वा यावदुक्तधर्माण इति
ज्ञापनान्न संस्कार इति ॥१॥
शम्याः परिध्यर्थे विवाहोपनयसमावर्तनसीमन्तचौलगोदानप्रायश्चित्तेषु ॥ आपस्तम्बगृह्यसूत्र २.२ ॥
टीकाः
अनुकूलावृत्ति २.२
अथ परिधीन् परिदधाति ।
दर्शपूर्णमासवत्सर्व तूष्णीं तत आधारसमिधौ ।
कुत एतत्?प्रसिद्धवदभ्यानुज्ञानाच्छम्याः परिध्यर्थ इति<परिध्यर्थे>परिधिकार्य इत्यर्थ ।
<शम्याः>लोकप्रसिद्धाः युरप्रान्तयोः छिद्रैषु कीलरूपाः काष्ठाविशेषा ।
तासां सहेध्मेन सन्नहनम् ।
<प्रायश्चित्तं>अद्भुतोत्पातप्रायश्चित्तम् ।
विवाहे च हृदयसंसर्गार्थे सर्वत्र शम्याः ।
विवाहादिभ्योऽन्यत्र सर्वत्र पार्वणादिषु परिधय एव ।
चौलग्रहणमनर्थकं सीमन्तातिदेशात्सिद्धम् ।
ज्ञापकार्थन्तु, एतत्ज्ञापयतिविवाहादिष्विह संकीर्त्तेष्वेव सम्याः, न तैरतिदिष्टेषु इति ।
तेन सीमन्तादतिदिष्टे पुंसवने परिधय एव ।
पार्वणादिषु च पक्कहोमेषु तथा"एवमत ऊर्ध्व"मिति वैवाहिकेन स्थालीपाकादिति दर्शनात्प्रसङ्गः ॥ २ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.२
विवाहादिषु कर्मसु<परिध्यर्थे>परिधानां कार्ये परिधीनां स्थान इति यावत्,<शम्याः> युगकीलका भवन्ति ।
ताश्च पलाशादीनामन्यतमेन कॢप्ताः परिधिस्थौल्यायामाः, तत्स्थानापन्नत्वात् ।
युक्तं चैतत्, यस्मादेवैविधेविषयै वार्तिककारपादैरुक्तम्
ऽसम्भवन्ती खलेवाली खादिरी किन्नु ब्ध्यते ।
इति ॥
अत्र विवाहशब्देन स्थालीपाकवर्जितः साङ्गो विवाहो गृह्यते ।
तद्वर्जनकारणं पार्वणैनेत्यत्र वक्ष्यामः ।
सीमन्ते शम्याविधानादेव तद्विकारे चौले चौलविकारे च गोदाने सम्याप्राप्तावपि तयोर्ग्रहणं सीमन्तविकारेऽपि पुंसवने तासां निवृत्त्यर्थम् ।
प्रायश्चित्तं चऽअगारस्थूणाविरोहणेऽ(आप.गृ.२३९) इत्यादिना विहितम् ।
अत्र चऽपलाशकार्र्ष्मयऽ(आप.श्रौ१५८)इत्यादिसूत्रोक्तगुणयुक्तांस्त्रीन् परिधीन् संस्पृष्टान् ।
ऽपरिधीन् परिदधारिऽ(तै.ब्रा.३३७) इत्यादि विधानात्तूष्णीं परिदध्यादिति सूत्रकारस्याभिप्राय,ऽशम्या परिध्यर्थेऽइति सिद्धवत्परिधीनङ्गीकृत्य तत्स्थाने सम्याविधानात्, आचाराच्च ॥२॥
८ अग्नेः पूर्व परिषेचनम् ।
अग्निं परिषिञ्चत्यदितेऽनुमन्यस्वे ति दक्षिणतः प्रचीन मनुमतेऽनुमन्यस्वेति पश्चादुदीचीनं सरस्वतेऽनुमन्यस्वे त्युत्तरतः प्राचीनं देव सवितः प्रसुवे ति समन्तम् ॥ आपस्तम्बगृह्यसूत्र २.३ ॥
टीकाः
अनुकूलावृत्ति २.३
परिषेचनमुदकेन पर्युक्षणम् ।
अग्निग्रहणं परिध्यधिकाराद्बहीःपरिधिर्माभूदिति ।
प्राचीनमुदीचानमित्युच्यते प्रागुदग्वा(ग्चा) यतं परिषेचनकर्म यथा॰दिति ।
तथापवर्गस्तु परिभाषासिद्ध एव ।
ऽदेव सवितः प्रसुवेऽतेतावान्मन्त्रः कल्पान्तरेषु भूयस्सु तथा दर्शनात् ।
बोधायनीये च विस्पष्टमेतत्ऽअन्वमंस्थाः प्रासावीरित्मन्त्रान्तान् सन्नमयतीऽ(बौ.गृ.१४.७) ति ।
छन्दोगानामेव त्वयं मन्त्रादिः ।
<समन्तं> सम इत्यर्थः ।
तत्र पुरस्तादुपक्रम्य प्रदक्षिणं सर्वत्र प्रतिमन्त्रमुदकदानम् ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.३
अग्निमेवोदकेन परिषिञ्चति न परिध्याङ्गमपि ।
तद्विधिमाह<आदितेऽनुमन्यस्वेत्यादिना ।
प्राचीनं> प्रागायतम् ।
<उदीचानमुदगायतम् ।
समन्तं>सर्वतः ।
अत्रऽदेव सवितः प्रसुवऽइत्येतावानेव मन्त्रः, नर्च आदिप्रदेशः ।
तथा नोत्तरे परिषेचनेऽप्रासावीऽरिति प्रसुवपदस्योहः ।
वैश्वदेवकाण्डे एकाग्निविधावेवमोवाम्नातानांऽअदितेऽनिमन्यस्वऽइत्यादानामष्टानां यजुषां पूर्वोत्तरपरिषेचनस्थेष्वष्टसु व्यापारेषु श्रुतिस्थानाभ्यां विनियोगात्, वाजपेयप्रकरणस्थाया ऋचः स्वतोऽत्रापि विनियोगायोग्यत्वात्, आदिप्रदेशे समुदायलक्षणापत्तेः, यजु प्राये मन्त्राष्टके ऋचोऽप्रतीतत्वात्, ऊहपक्षे आर्षपाठबाधप्रसङ्गात्,ऽतस्मादृचं नोहेत्ऽइति बह्वृचश्रुतिविप्रतिषिद्धस्य ग्रहणप्रसङ्गात्, अस्मदीयानामाचाराच्च ।
विस्पष्टं चैतत्बोधायनानां,ऽश्रन्वमंस्थाः प्रासावीरिति मन्त्रान्तान् सन्नमयतिऽ(बौ.गृ.१४३७) इति ।
एवं चोत्तरपरिषेचनेऽअन्वमंस्थाः प्रासावीःऽइति पूर्वमन्त्रेभ्यो विशेषमात्रस्य पाठः न पुनरबहः ।
यथाग्नौऽएतेनैव त्रैष्टुभेनछन्दसाहरिष्टकामुपदधेऽ इति ।
सन्नामशब्दश्चात्र गौणः ।
अत एवैते मन्त्राः वैश्वदेवकाण्डमुपाकृत्य प्रागुत्सर्जनादध्येतव्याः, ब्राह्मयज्ञपारायणयोश्च ॥३॥
पैतृकेषु समन्तमेव तूष्णीम् ॥ आपस्तम्बगृह्यसूत्र २.४ ॥
टीकाः
अनुकूलावृत्ति २.४
अक्रियमाण एवकारे समन्तपरिषेचने मन्त्रप्रतिषेधार्थमेतत्स्यात् ।
एवकारात्तु दक्षिणतः प्राचीनमित्यादे त्रयस्य निवृत्तिः ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.४
पैतृकेषु कर्मसु समन्तमेव परिषिञ्चति, न दक्षिणत प्राचीनम्ऽइत्यादि ।
तच्च तूष्णीम् ॥४॥
९ इध्माधानं, आघारहोमश्च ।
इध्ममाधायाघारावाघारयति दर्शपूर्णमासवत्तूष्णीम् ॥ आपस्तम्बगृह्यसूत्र २.५ ॥
टीकाः
अनुकूलावृत्ति २.५
इध्म इति समुदायस्योपदेशात्पञ्चदशादारुमिध्मं सकृदेवादधाति ।
ऽअभिघार्येऽति कल्पान्तरं दर्शपूर्णमासवदित्त्युत्तरं परिधिसन्धिमन्ववहृत्य दक्षिणं परिधिसन्धिमन्ववहृत्येत्येवमादिता विधाने तूष्णीमिति मन्त्रोच्चारणप्रतिषैध ।
तेन"प्रजापतिं मनसा झ्याय"न्नित्यैतदपि न भवति ।
मनसा मन्त्रोच्चारणं तत्र विधीयत इति कृत्वा काम्यानामाधारकल्पानामिहाप्रवृत्तिः प्रकृतिविषयत्वात्तेषाम् ।
केचित्स्रुवेण पूर्वमाघारमिच्छन्ति ।
अन्ये पुनः उभावपि दर्व्यैव वेदोपभृतोरभावातुपयमनमपि न भवति ।
आसीन एव चोतरमप्याधारं जुहोति ।
न चाभिप्राणिति ।
अत्र प्रमाणमुपरिष्टाद्वक्ष्यामः ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.५
इध्ममग्नावादधाति ।
स च खादिरः पालाशो वा पञ्चदशसङ्ख्याकोर्ऽथलक्षणस्थौल्यायामः, इध्मनामधेयात्, श्रौते दर्शनाच्च ।
युगपच्चाधानम्,ऽइध्मम्ऽइत्येकवचनेन समुदायस्य विवक्षितत्वात् ।
तच्च तूष्णीम्, मन्त्रस्याविधानात् ॥
अन्येऽतूष्णाम्ऽइत्यारभ्येदमेकं सूत्रं कत्वा हिरण्यकेशिनां योमन्त्रःऽअयं त इध्मः इति , सःऽअनुक्तमन्यतो ग्राह्यम्ऽइति न्यायेन नोपसंहर्तव्य इति व्याचक्षते ।
तेषां पैतृकेषु समन्तपरिषेचनं समन्त्रकं स्यात् ।
केचित्गृह्यान्तरात्, इध्मोऽभिधार्याधेयः इति ॥
<आघारौ>आघारनामकौ होमौ द्वौ ।
<आघारयति> दीर्घधारया जुहोति, दर्शपूर्णमासवत् ।
ऽउत्तरं परिधिसन्धिमन्ववहृत्य... दक्षिणाप्राञ्चं ऋजुं सन्ततं ज्योतिष्मत्याघारमाघारयन् सर्वाणीध्मकाष्ठानि संस्पर्शयक्ति (आप.श्रौ.२१२७)ऽदक्षिणं परिधिसन्धिमन्ववहृत्यऽ(आप.श्रौ.२१३११)
ऽप्राञ्चमुदञ्चम्ऽ(आप.श्रौ.२१४१) इत्यादिऽऋजू प्राञ्चौ होतव्यौ तिर्यञ्चौ वा व्यतिषक्तावव्यातिषक्तौ वाऽ(आप.श्रौ.२१२८) इति वैकल्पिकास्त्रय आघारपक्षा एव दर्शपूर्णमासाभ्यां तुल्यं कर्तव्याः॑न पुनर्द्वितीयाघारस्यऽपूर्वोर्धे मध्ये पश्चार्धे वा जुहुयात्ऽ (आप.श्रौ.२१४८) इत्यनाघारपक्षोऽपि ।
इमौ च द्वावप्यासीनोदर्व्या तूष्णीमाघारयति, दुर्वीहोमानामपूर्वत्वेनैष्टिकाघारधर्माणां मन्त्राणां चाप्राप्तौः ।
तूष्णीमितिऽतूष्णीं पञ्चाज्याहुतीर्हुत्वाऽ(आप.गृ.२२४) इतिवत्स्वाहाकारस्यापि निवृत्त्यर्थम् ।
अत उभयोरप्याघारयोः प्रजापतिर्देवताऽयत्तूष्णीम् ।
तत्प्राजापत्यम् ।
(तै.ब्रा.२१४) इति श्रुते ।
कथं पुनरिमावजुहोतिचोदनौ दर्वीहोमौ ?उच्यतेयद्यपि जुहोतीत्येवं न चोदनास्ति. तथाप्याघारयतीति दीर्घधा एगुणकजुहोतिचोदनार्थत्वात्, याज्ञिकप्रसिद्धेश्च दर्वीहोमावेव ।
किञ्च अथाज्यभागौ जुहोतिऽ(आप.गृ.२६) इत्याज्यभागौ स्पष्टमेव दर्वीहोमौ॑तत्साहचर्यादाघारावपि तथा ।
यथा अंशोरनारभ्याधीतस्य विनियोगसन्निधेरङावेऽप्यदाभ्यसाहचर्यात्सोमनियोगसम्बन्धः ।
एवं वा व्याख्यानमाधारावाघारयति ।
ऽपुरस्तादुदग्वोपक्रमऽ(आप.ग.१५) इत्येतस्मात्परत्वेन प्रबलांऽतथापवर्गःऽ(आप.गृ.१६)
इति गार्ह्यपरिभाषामनुसृत्य प्रागपवर्गाभ्यामुदगपवर्गाभ्यां वा दीर्घधाराभ्यां जुहोति, न तु कोणदिगपवर्गाभ्याम् ।
नाप्यैष्टिकाघारधर्मा मन्त्राश्च, अपूर्वत्वादेव ।
जेवते तु दर्शपूर्णमासवत्प्रथमस्य प्रजापतिः, द्वितीयस्येन्द्र इत्यर्थ ।
तूष्णीमिति पूर्ववदेव ।
अन्ये तु आघाराविति नामधेयंऽमासमाग्निहोत्रं जुहोतिऽइतिवतैष्टिकाघारधर्मातिदेशकम् ।
अत्र स्रुवेण ध्रुवाया आज्यमादाय आसीनोऽन्यमाघारमाघारयन् (आप.श्रौ.२१२७)ऽजुह्वेहीति जुहूमादत्तेऽ(आप.श्रौ.२१३२) इत्यादिषु सर्वेषु आघारधर्मेषु तन्मन्त्रेषु च प्राप्तेषुऽआघारावाघारयतिऽइति परिसङ्ख्याथम् ।
आघारयतीति दीर्घधाराधर्मकावेव होमौकुर्यात्, नान्यधर्मकाविति ।
ऽतूष्णीऽमिति तुधर्मावान्तरभेदानां मन्त्राणां निवृत्त्यर्थम् ।
दर्शपूर्णमासवदिति त्वनर्तकमेवेत्याहुः ।
तन्न॑दर्वीहोमयोरपूर्वयोः विशेषतश्चाङ्गभूतयोः
धर्मातिदेशानपेक्षत्वात्, स्वतश्च नाम्नो धर्मलक्षणाया अयुक्तत्वात्, आघारयतीत्यत्र च सति गत्यन्तरे परिसङ्ख्याया अन्याय्यत्वात्, आघारव्यतिरिक्तधर्मपरिसङ्ख्याने चातिदेशवैफल्यात्, परिसङ्ख्यायाश्च मन्त्रपरिसङ्ख्यानेऽपि सामर्थ्यात्तूष्णींपदस्य वैयर्थ्यापत्तेःऽदर्शपूर्णमासवद्ऽइति पदं व्यर्थमिति स्वेनैवोक्तत्वात्,ऽआघारावाघारयतिऽति च पदयोरतिदेशपरिसङ्ख्यार्थत्वे होमविधायकशब्दाभावात्, तद्भावाय च परिसङ्ख्यात्यागे सर्वेषामाघारधर्माणां श्ष्टाचारविरुद्धानुष्ठानापातात्, आज्यभागादीनामपीत्थमतिदेशे अभ्युपेये तत्राप्यैष्टिकाज्यभागादिधर्माणां सर्वेषामनुष्ठानप्रसङ्गाच्च ।
तस्मात्पूर्वे एव व्याख्याने सुष्ठु ।
यतोऽपूर्वावेवाघारौ, यतश्चऽसमिदभावश्च, अग्निहोत्रवर्जम् (आप.प.३८,९) इति परिभाषा, अत एव आघारसमिधो र्निवृत्तिः ।
अन्ये कुर्वन्ति ।
तस्मिन् पक्षे परिधिनिधानानन्तरम्॑श्रौते तथा दृष्टत्वात् ।
अनूयाजसमितनुयादाभावादेव निवृत्ता ।
तेनेध्मसन्नहनं परिधिभिस्सहाष्टादशधा, विशातिधा वा न पुनरेकविंशतिधा ॥५॥
१० आज्यभागहोमौ ।
अथाज्यभागौ जुहोत्यग्नये स्वाहेत्युत्तरार्धपूर्वार्धे सोमाय स्वाहेति दक्षिणार्धपूर्वार्धे समं पूर्वेण ॥ आपस्तम्बगृह्यसूत्र २.६ ॥
टीकाः
अनुकूलावृत्ति २.६
अग्रेरुत्तरभाग उत्तरार्धः, पूर्वभागः पूर्वाधः तयोरन्तरालं<उत्तरार्धपूर्वार्धः> ।
सममित्नि देशतः ।
समं तौ होतव्यौ न विषमावित्यर्थः ।
उपदेशादाघारानन्तर्ये सिद्धे अथेति वचनं सम्बोधनार्थम् ।
किं सिद्धं भवति ?आघारयोराज्यभागयोश्च साधर्म्य सिद्धं भवति ।
तेन जेयोतिष्मत्यग्नौ होमः ।
आघारयोः प्रसिद्धो धर्मः ।
तस्याज्यभागयोरपि प्रवृत्तिः ।
तथा आज्वभागयोः प्रसिद्धो धर्मः आसीनहोमोऽप्युच्छ्वासाभावश्च ।
तस्याघारयोरपि प्रवृत्तिः ।
तेन यदुक्तमुत्तरस्मिन्नप्याघारे स्थानाभिप्राणने न भवत इति तदुपपन्नं भवति ।
<आज्यभागा>वितिहोमयोस्संज्ञा ।
प्रयोजनमग्नेरुपसमाधानाद्याज्यभागान्त इत्येवमादयः ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.६
इथ आघारानन्तरं अर्थकृत्यमप्यकृत्वाऽज्यभागनामकावपूर्वौ होमौ जुहोति ।
तत्र प्रथममग्नये स्वाहेति मन्त्रेणाग्नेरु<त्तरार्धपूर्वार्धे, > प्रागुदीज्यामित्र्तः ।
द्वितीयं सोमाय स्वाहेति<दक्षिणार्धपूर्वोर्धे>, दक्षिणपूर्वस्यामित्यर्थः ।
<समं पूर्वेण> आघारसम्भेदमवधिं कृत्वाक्ष्णया रज्वा यावत्यन्तरे पूर्वो हुतः तावत्यन्तर एवोत्तरं जुहोति, न पुनस्सन्निकृष्टं विप्रकृष्टं वा ॥६॥
११ प्रधानहोमानन्तरं जयादीनां विधानम् ।
यथोपदेशं प्रधानाहुतीर्हुत्वा जयाभ्यातानान्राष्ट्रभृतः प्राजापत्यां व्याहृतीर्विहृताः सौविष्टकृतीमित्त्युपजुहोति । यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्विष्टकृद्विद्वान्त्सर्वस्विष्टं सुहुतं करोतु स्वाहेति ॥ आपस्तम्बगृह्यसूत्र २.७ ॥
टीकाः
अनुकूलावृत्ति २.७
<यथोपदेशमिति> ।
यस्मिन् यस्मिन् कर्मणि या प्रधानाहुतय इत्युपद्श्यन्ते, यथा"अन्वारब्धायामुत्तरा आहुती" (आप.गृ.१४२)रितितास्ता इत्यर्तः ।
<जयाः> "चित्तञ्च चित्तिश्च"(तै.सं.३४४) इत्येवमादयः ।
<अभ्यातानाः> "अग्निर्भूतानां (तै.सं.३४५) इत्यादय ।
<राष्ट्रभृत> "ऋताषाडृतधामे"(तै.सं.३४७) त्यादयः ।
प्रजापते न त्वदेतानीत्येषा<प्राजापत्या> ।
<व्याहृतयः> प्रसिद्धाः ।
विदृतवचनं समस्तनिवृत्त्यर्थम् ।
एतेषामनुपदेशः सिद्धत्त्वात् ।
सौविष्टकृती अप्रसिद्धत्त्वात्पठिता ।
नन्वेषापि सूत्रे पठिता "यदस्य कर्मणोऽत्यरीरिचं यद्वान्यूनमिहाकरम् ।
अग्निष्टत्स्विष्टकृद्विद्वान्त्सर्व स्विष्टं सुहुतं करोतु स्वाहे"ति सर्वप्रायश्चित्तेषु, (आप.श्रौ.३१२९) एवं तर्हि एतत्ज्ञापयति पाकयज्ञविधिरयं अन्येषामपि केषाञ्चित्साधारण इति ।
दृश्यते च कालगिरेयाणामनेन प्रवृत्ति विवाहादिषु"कर्मसु"ये होमाश्चोदिताः तेष्वेतस्य प्राप्त्यर्थ तेषां कालोपदेशार्तमिदम् ।
जयादीनां पुरस्तादाज्यभागयोश्चोपरिष्ठात्प्रधानाहुतय इति नार्थः ।
एतदर्थेनानेन तत्रैवोभयोरप्युपदिष्टत्वात् ।
ऽअग्नेरुपसमाधानाद्यज्यभागान्त उत्तराहुतीर्हुत्वाऽइति"स्थालीपाकाज्जुहोति"इत्यतिदेशात्तत्र प्राप्तिः ।
पार्वणे तु तथा आग्नेयस्थालीपाकविधौ वक्ष्यामः ।
अथ येष्वाऽज्यभागान्तऽइति वाऽजयादि प्रतिपद्यतऽइति वा वचनं नास्ति यथा पण्यफलीकरणहोमे तत्र प्राप्त्यर्थेमिदमुच्यते ।
विवाहादिषु तत्र विधानमनर्थकं, आज्यभागान्ते जयादि प्रतिपद्यत इति वचनात्पण्यहोमादयोऽपूर्वा यावदुक्तधर्माणः ।
इदं तर्हि प्रयोदनं कव्यान्तरोक्तानि नित्यानि नैमित्तिकानिकाम्यानि वा यद्यस्मदादिभिरनुष्ठीयन्ते तदा तेष्वपि एतस्य तन्त्रस्य प्रवृत्तिर्यथा स्यादिति ।
नन्वेतदपि पार्वणातिदेशदर्शनात्सिद्धमाचाराद्यानिगृह्यन्ते इति॑सत्यं पक्वहोमेषु सिद्धं, न त्वाज्यहोमेषुऽकूश्माण्डैर्घृतमिऽत्यादिषु, तस्यापक्वविषयत्वात् ।
विवाहादिषु तन्त्रविधाननियमार्थ यस्मिन् गृहमेधचोदितास्तेषु अत्राग्नेरुपसमाधानाद्याज्यभागान्त इति जयादिप्रतिपद्यत इति वा वचनं तत्रैव तन्त्रप्रवृत्तिः इति ।
तेन पण्यहोमादयो यावदुक्तधर्माण इति सिद्धम् ।
प्रधानाहुतिग्रहणं जयादेराज्यभागान्तस्य च तत्र प्रसिध्द्यर्थम् ।
<उपजुहोतीति> उपशब्द आनन्तर्यार्थः ।
तेन प्रधानाहुत्यनन्तरमुपहोमाः ।
तेनेशानयज्ञे परिषेचनान्ते बलिहरणं भवति ।
श्राद्धे वानुपदेशनं स्थालीपाके च बहिर्रनुप्रहरणं सौविष्टकृतीमित्युच्यते स्विष्टकृद्देवतेति ज्ञापनार्थम् ।
तेनाज्यहोमस्विष्टकृत्पक्वहोमेषु भवति ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.७
यथोपदेशं येन हविरादिना विवाहादिषु प्रधानाहुतय उपदिष्टास्तेन तेन विधानेन ता हुत्वा ।
<जयाः>चित्तं च स्वाहे(तै.सं.॰र४४) ति त्रयोदश ।
अग्निर्भूतानामधिपतिस्समावत्वस्मिन्निति(तै.सं.३४७)<राष्ट्रभृतो> द्वाविंशतिः ।
तत्र ऋताषाडित्यनुद्रुत्यऽतस्मै स्वाहेऽत्यन्तेन प्रथमाहुतिं जुहोति ।
ऽताभ्यस्स्वाहाऽइत्येतावतैवोत्त्राम् ।
एवमुत्त्रे पञ्च पर्यायाः ।
तत्रऽनाम स इदं ब्रह्माऽइत्यनुषङ्गः ।
ऽताभ्यः स्वाहाऽइति च ।
ऽभुवनस्य पते... स्वस्तिभिस्वाहाऽइति त्रयोदशी ।
ऽपरमेष्ठीऽत्यादयः पूर्ववच्चत्वारः पर्यायाः ।
ऽसनो भुवनस्य पते..... यच्छ स्वाहाऽइति द्वाविंशी ।
ऽप्रजापते न त्वेतानिऽइति ऋक्प्राजापत्या ।
प्राजापत्ययर्चा वल्मीकवपायामवनयेत्ऽ(तै.ब्रा.३७२) इति श्रुतेः ।
सूत्रकारेणऽप्रजापते न त्वदेतानीऽति प्राजापत्ययर्चा वल्मीकवपायामवनीयऽ (आप.श्रौ.९२४) इति व्याख्यातत्वात् ।
<व्याहृती विहृताः>ऽभूः स्वाहा, भुवः स्वाहा सुवः स्वाहाऽइति ।
<सौविष्टकृती>ऽयदस्यऽ कर्मणः इति ऋक् ।
आत्र चास्याः स्विष्टकृद्देवताक्त्वं लिङ्गादेव सुगमम् ।
देवताज्ञानस्य कर्माङ्गत्वमपि"यो ह वा अविदितार्षेयच्छन्दोदेवताब्राह्मणेन मन्त्रेण याजयति वाध्यापयति वा स्थाणुमृच्छति"इत्यादिश्रुतेः, अविदित्वा ॠषिं छन्दो दैवतं योगमेव च ।
योऽध्यापयेज्जपेद्वापि पापीयान् जायते तु सः ॥
इति स्मृतेश्च सिद्धम् ।
अतो यत्रर्षे यादिज्ञानानां नैवंविधिः तत्र तानि पाक्षिकाणीति गम्यते ।
एवमेता जयादिका
अष्टपञ्चाशदाहुतीः प्रधानहोमानन्तरमुपजुहोत् ।
यत्रापि सर्पबलायादौ पार्वणातिदिष्टः स्विष्टकृत तत्रापि प्रधानाहुत्यनन्तरमेवैताः ।
ततः स्विष्टकृत्॑ क्त्वाप्रत्यत्यात्, उपोपसर्गाच्च ॥
केचित्स्विष्टकृतोऽनन्तरं जयादयःऽअग्निः स्विष्टकद्वितीय (आप.गृ.७७) इति स्विष्टकृत प्रधानतुल्यधर्मत्वज्ञापनादिति ।
ननुयद्यत्यैव सर्वप्रधानहोमानन्तर साधारण्येन जयादय उपदिष्टाः किमर्थ तत्र तत्रऽजयादि प्रतिपद्यतेऽइति वचनम् ? उच्यतेयत्रैतद्वचनं नास्ति पार्वणादौ न तत्र जयादय इत्येवमर्थम् ।
एवं तर्ह्यत्र साधारणविधानमेवानर्थकम् ।
न ॑केवलं जयादिविझ्यर्थत्वात् ।
अन्यथा विवाहादा वेतेष्वन्वारम्भोऽपि स्यात् ।
किञ्च अस्मिन्नसतितत्र तत्रऽजयाभ्यातानानिऽत्यादिमन्त्रसन्नाम इत्यन्ते गुरुर्ग्रन्थः पुनः पुनः पठितव्यस्स्यात् ।
तस्मादन्वारम्भादिनिवृत्त्यर्त ग्रन्थलाघवार्थ चेदं साधारणविधानम् ।
केचित्यत्राज्यभागान्तं पुरस्तात्तन्त्रं तत्र सर्वत्र जयाद्युत्तरतन्त्रम् ।
एतयोर्मध्येऽयथोपदेशं प्रधानाहुतीःऽइत्यादिशेषेण प्रधानहोमानां विधानात् ।
आग्नेयेऽपि च स्थालीपाके जयादिर्विद्यत एव,ऽसिद्धमुत्तरम्ऽ(आप.गृ.७१४) इति पदद्वयसूत्रेण जयाद्युत्तरतन्त्रोपदेशात्
मासिश्राद्धे द्धादौ चऽपार्वणेनऽ(आप.गृ.७२३) इत्यातिदेशात् ।
आज्यहोमेषु जयाद्यनन्तरं श्रौतवत्तूष्णीं परिधीनग्नौ प्रहृत्य तान् दर्वीसंस्रावेणाभिजुहोति॑परिधितत्संस्काराणां श्रौतवदभ्यनुज्ञानस्योक्तत्वात्, कृतकार्याणां प्रतिपत्त्यपेक्षत्वाताचाराच्च ।
शम्याश्चेत्, अस्मिन् काले अपोह्या॑ऽअथ शम्या उपोद्यऽ(बौ.गृ.१४३७) इति बोधायनवचनात्, आचाराच्च ॥७॥
१२ अग्नेरुत्तरं परिषेचनम् ।
पूर्ववत्परिषेचनमन्वमंस्थाः प्रासावीरिति मन्त्रसन्नामः ॥ आपस्तम्बगृह्यसूत्र २.८ ॥
टीकाः
अनुकूलावृत्ति २.८
<पूर्ववदिति> ।
पैतृकेषु समन्तमेव तूष्णीम् ।
अन्यत्र मन्त्रवन्ति चत्वारि परिषेचनानि ॥७॥
सन्नमनं<सन्नामः>, ऊह इत्यर्थः ।
ऽअनुमन्यस्वेऽत्यस्याऽन्वमंस्थाऽइति सन्नामः ।
ऽप्रसुवेऽत्यस्यऽप्रासावीऽरिति ।
प्राक्परिषेचनात्तूष्णीं परिधीनां प्रहरणम् ।
पुरस्तादुपहोमानामेकविंशत्या समिधोऽभ्याधानम् ।
बर्हिरनुप्रहरणमाद्यहोमेषु नास्ति, लेपयोरित्यस्या समिधोऽभ्याधानम् ।
बर्हिरनुप्रहरणमाज्यहोमेषु नास्ति, लेपयोरित्यस्य पख्वहोमविषयत्वात् ।
परिषेचनान्ते प्रणीताविमोकः ।
ब्रह्मा च कर्मान्ते यथेतं प्रतिनिष्कामति ।
मन्त्रसन्नाम इति मन्त्रग्रहणं मन्त्राणामयसूहविधिर्यथास्वात्, अन्यथाग्नेरपि सन्नामस्सम्भाव्येत ।
सन्नामशब्दस्यान्यत्रापि दर्शनात्, यथासन्नमयत्यनुमार्ष्टि वेति ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.८
अग्नि <परिषेचनं पूर्ववत्> ।
अयं तु विशेषः, अदितेऽनुमन्यस्वेत्यादिषु त्रिषु अनुमन्यस्वेत्यस्य स्थानेऽअन्वमंस्थाःऽइति , देवसवितरित्यत्रऽप्रसुवऽइत्यस्य स्थानेऽप्रासावीःऽइति ।
अत्र श्रौतवत्प्रणीता विमुञ्चति तूष्णीम्॑कृतकार्याणामासां प्रतिपत्त्यपेक्षत्वात्, प्रणीताद्भ्यो दिशोऽभ्युपनीयऽ(बौ.गृ.१४३८) इति बोधायनवचनात्, आचाराच्च ।
ब्राह्मणश्च यथाशक्ति दानमानादिना सत्कृतो गच्छेत् ॥
अत्रेयं स्थितिः अग्निमिध्वेत्यादि मन्त्रसन्नाम इत्यन्तः प्राच्योदीच्याङिगसमुदायः सर्वगार्ह्यप्रधानहोमानां साधारणः,ऽयथोपदेशं प्रधानाहुतीर्हुत्वाऽइति प्राच्योदीच्यपदार्थापेक्षया होमानां विशेषणं प्राधान्याभिधानात् ।
एवञ्चाहोमेषु नामकरणादिषु तन्त्रस्याप्रसह्ग एव ।
नन्वेवंऽअग्नेरुपसमाधानाद्याज्यभागान्तेऽइति किमर्थस्तत्र तत्र पुनरुपदेशः?उत्यते यत्र पुनःऽअपिवोत्तरया जुहुयात्ऽ(आप.गृ.५२०)
ऽकाममन्युभ्यां वा जुहुयात्ऽ(आप.ध.१२६१३) इत्यादिषु नोपदेशः नैवतत्रेदं तन्त्रमिति नियमार्थः ।
कुत एतत्? केवलाज्यहविष्वेव प्रयोदनान्तरमन्तरेणास्य तन्त्रस्योपदेशात् ।
उपाकरणसमापनादीनां तु तत्र तन्त्रोपदेशाभाव्ऽपिऽकूश्माण्डैर्जुहुयाद्घृतम्ऽइत्यादेरिव तन्त्रार्थित्वावगमातनेन साधारणविधानेनैव तन्त्रम् ।
तन्त्रार्तित्वावगमस्तु गृह्यान्तरेषु तन्त्रवतामेवोपदेशात् ।
आपस्तम्बदर्शनानुगतोपदेशात्, अविगीतशिष्टाचाराच्च ।
यद्येवमाज्यौषधहविष्केऽपि विवाहे किमर्थस्तन्त्रोपदेशः? ।
उच्यतेलाजहोमानां कृत्स्नविधानेन तन्त्रानपेक्षत्वात् ।
उपनयनादिवदाज्यहोमार्त एव तन्त्रोपदोशः ।
तताऽतस्मिन्नुपविशत उत्तरो वरःऽ(आप.गृ४९) इत्यस्यानन्तरमेवग्नेरुपसमाधानादि, न तुऽयथास्थानमुपविश्यऽ (आप.गृ.५१०) इत्यस्यानन्तरमिति क्रमार्थश्च ।
तता केवलौषधहविषि स्थालीपाकेऽपि क्रमार्थ एव ।
यद्यपि श्रौते दर्शनात्पात्रप्रोक्षणानन्तरमवघातादि युक्तम्, तथाप्येतद्वचनबलात्तन्त्रात्पुरस्तादेवेति ।
ऐशानेऽपि स्थालीपाके स्थण्डिलकल्पनान्ते त्त्रम्, नतु पार्वणवद्गृह एव प्रतिष्ठिताभिघारणानन्तरमिति क्रमार्थ एव ।
केचित्कल्पान्तरविहितेषु अपार्वणातिदेशेषु आज्यहोमेषु तन्त्रार्थिषुऽकूश्माण्डैर्जुहुयाद्घृतम्ऽइत्यादिष्वस्य तन्त्रस्य प्राप्त्यर्त यथोपदेशमिति सामान्यविधानम् ।
अत्रत्येषु तु विवाहादिषु येष्वेव पुनर्विधानं तत्रैव, नान्यत्र पण्यहोमादिष्विति नियमार्थ तत्र तत्र तन्त्रविधानम् ।
पित्र्येषु तुऽएकैकशः पितृसंयुक्तानिऽ(आप.गृ.११८) इत्यादिविशेषविधानात्तन्त्रसिद्धिरिति ॥८॥
एवं सर्वगार्ह्यहोमानां साधारणं स्मार्त विधिमुक्त्वा, इदानीं पाकयज्ञेषु वैकल्पिकं श्रौतं विधिमाह
१३ पाकयज्ञशब्दार्थः ।
लौकिकानां पाकयज्ञशब्दः ॥ आपस्तम्बगृह्यसूत्र २.९ ॥
टीकाः
अनुकूलावृत्ति २.९
लोके भवा<लौकिकाः>लोकस्मृतिलक्षणा इत्यर्थः ।
लोकशब्देन शिष्टा उच्यन्ते ।
पाकयज्ञ इति विवाहादीनां संज्ञा विधीयते ।
पाकशब्दोऽल्पवचनः, यथाक्षिप्रं यजेत पाको देव (आप.गृ.२०१५) इति ।
पाकगुणको यज्ञः पाकयज्ञ इति निर्वचने आज्यहोमेषु संज्ञान स्यात् ।
तत्संज्ञाप्रयोजनं"यज्ञं वायख्यास्यामः"(आप.प.११) इत्यत्र एतोषामन्तर्बावः ।
"निऋतिं पाकयज्ञेन यजेते"त्यत्र च धर्मप्राप्तिः ॥ १० ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.९
लोकयन्ति वेदैर्वेदार्थानिति लोकाः त्रैविद्यवृद्धाः शिष्टाः द्विजन्मानः ।
तैर्लोकैराचर्यन्ते यानि कर्मणि तानि<लौकिकानि,>तेषां मध्ये सप्तानां औपासनहोमादीनां<पाकयज्ञशब्दः> संज्ञात्वेन प्रसिद्धः, नतु श्रौतानां विवाहादीनां च, तत्र लोकानामप्रयोगात् ।
यदि लोकप्रयोगादेवैषां पाकयज्ञनामता प्रसिद्धैव, तर्हिऽपाकयज्ञेषु ब्राह्मणावेक्षो विधिःऽइत्येतावतालम्, किमर्थऽलौकिकानां पाकयज्ञसभ्दः, इति ?उच्यतेपाकेन पक्वेन चरुणा साध्यो यज्ञः पाकयज्ञः इत्येवं व्युत्पन्नसंज्ञानुवादात्नान्तरीयकावगतश्चरुरेवाग्निहोत्रिकविधौ हविः, न पुनर्विध्यन्तरवदाज्यादिकमपीति नियमज्ञापनार्थम् ।
बौधायनेन तु अत्राज्यं हविरुपदिष्टम् ।
न त्वाग्निहोत्रिकं हविरिह भवति, अग्निहोत्रधर्मप्रापकप्रमाणाभावात् ।
ऽद्विर्जुहोतिऽ (आप.गृ.२११) इत्येवमादयः पुनः पञ्च पदार्थाः वचनबलाद्भवन्ति ।
देवतास्तु तत्तन्मन्त्रप्रतिपाद्या एव ॥१०॥
तत्र ब्राह्मणावेक्षो विधिः ॥ आपस्तम्बगृह्यसूत्र २.१० ॥
द्विर्जुहोति द्विर्निमार्ष्टि द्विः प्राश्नात्युत्सृप्याचामति निर्लेढीति ॥ आपस्तम्बगृह्यसूत्र २.११ ॥
टीकाः
अनुकूलावृत्ति २.११
तत्र तेषु पाकयज्ञेष्वपरो विधिर्ब्रह्मणावेक्ष इत्याचक्षते ।
ब्राह्मणमात्मनि प्रमाणत्वेनावेक्षत इति<ब्राह्मणावेक्षः> ब्राह्मणदृष्ट इत्यर्थः ।
विधिः प्रयोगः, प्रगुक्त आघारवान् दर्शपूर्णमासप्रकृतिः ।
अयं त्वग्निहोत्र प्रकृतिः ब्राह्मणावेक्षः ।
उभयोर्विकल्पस्तत्रेत्युच्यतेयेषु पाकयज्ञेषु आघारवतस्तन्त्रस्य प्रवृत्तिः तत्रावास्य विकल्पेन प्राप्तिरिति दर्शनार्थम् ।
तेन पण्यहोमादिषु अस्य विधेरप्रवृत्तिः ।
तत्रऽ<द्विर्जुहोती>ऽत्यनेन अग्निहोत्राहुत्योरुभयोर्धमः पाकयज्ञेषु प्रधानाहुतिं स्विष्टकृतं चाधिकृत्य विहितो वेदितव्यः ।
ऽ<द्विर्निमार्ष्टीऽ> <ति> चाग्निहोत्रवल्लेपनिमार्जनम् ।
ऽ<द्विः प्राश्नाती>ऽत्युङ्गुलिप्राशनम् ।
ऽ<उत्सृप्याचामतीऽ> <ति>च यत्तत्रतृतीयं प्राशनं बर्हिषोपयम्योदङ्ङावृत्योत्सृप्याचामतीति तच्चोदितम् ।
<निर्लेढीति>यत्तत्रऽद्विःस्रुचं निर्लेह्य, इति च तच्चोदितम् ।
यावता च विधानेन होमादिसंसिद्धिस्तावदमन्त्रवदग्निहोत्रादेव प्रत्येतव्यम् ।
तद्यथास्रुवेणोन्नयनं, पालाशीसमिदाहुतिधारणार्था, चतुर्गृहीतं पञ्चगृहीतं इति ।
तत्र प्रयोगः अग्निमिध्वा परिसमूह्य, परिस्तीर्य, पर्युक्ष्य,आज्यहोमेष्वाज्यं संस्कृत्य, पक्वहोमेषु स्थालीपाकं स्रुक्स्रुवं संमृज्य यावत्प्रधानाहुति चतुर्गृहीतानि पञ्चगृहीतानि वा समवद्यति ।
यत्रोभयं हविस्तत्र तस्योभयस्य, यथामासिश्राद्धे ।
ततः पश्चादग्नेर्बर्हिष्युपसाद्य पालाशीं समिधमाधाय सर्वानेव मन्त्रान् समनुद्रुत्य सकृदेव प्रधानाहुतीर्हुत्वा प्रातरग्निहोत्रवल्लेपमपमृज्य बर्हिषि निमार्ष्टि यद्यहनि कर्म ।
अथ रात्रौ सायमग्निहोत्रवत् ।
ततस्सौविष्टकृतीं द्वितीयामाहुतिं उत्तराहुतिवज्जुहोतिअग्नये स्विष्टकृते स्वाहेति स्थालीपाकेषु ।
ऽयदस्य कर्मणऽ इत्याज्यहोमेषु ।
इशानयज्ञे तु कर्म तत्र चोदितेन मन्त्रेण ।
ततः पूर्ववल्लेपमवमृज्य प्राचीनावीती दक्षिणतो भूमौ न्मार्ष्टि ।
ततः स्रुचं सादयित्वा अङ्गुलिप्राशनादिनिर्लेपनान्तमग्निहोत्रवत् ।
ततो दर्भैः सुक्प्रक्षालनं, ततः परिसमूहनपर्युक्षणे ।
एतदाग्निहोत्रिकं नाम तन्त्रं सर्वपाकयज्ञेषु आघारवता तन्त्रेण सह विकल्प्यते ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.११
तत्र तेषु पाकयज्ञेषु मध्ये पार्वणादिषु पञ्चसु ब्राह्मणावेक्षो विधिर्भवति ।
यो विधिः प्रत्यक्षमेव ब्राह्मणमवेक्षते, नाग्निमिद्ध्वेत्यादिवल्लोकाचारानुमेयम्, सोऽप्येषु विकल्पेन भवतीत्यर्थ ।
नानयोर्विध्योर्मिथ संसर्गः ।
नापि स्मार्तस्यानेन बाधः ।
प्रत्यक्षब्राह्मणस्यापि स्मृत्यनुवादे कल्पसूत्राधिकारणन्यायेन स्मृतितुल्यप्रमाणत्वात् ।
अत एवऽसर्व पाप्मानं तरति, तरति ब्रह्महत्यां योऽश्वमेधेन यजतेऽ(तै.सं.५३१२) इति श्रुत्याऽयजेत वाश्वमेधेनऽ(मनु११७४) इति मनुस्मृत्यनुवादेनच अश्वमेधद्वादशवार्षिकयोर्विकल्पः ।
बौधायनीये च व्याक्तोऽयमर्थः ।
तत्रोदाहरन्ति
आधारं प्रकृतिं प्राह दर्वीहोमस्य बादरिः ।
अग्निहोत्रं तथाऽत्रेयः काशकृत्स्नस्त्वपूर्वताम् ॥
इति (बौ.गृ.१४४४) तां न मिथः संसादयेदनादेशात्ऽ (बौ.गृ.१५१) इति ।
होममन्त्रादयस्तु विध्यन्तरीया अर्थादाचाराच्चेहापि भवन्ति ।
यद्यस्यापि स्मृतितुल्यमेव प्रामाण्यं, किमर्थऽब्राह्मणावेक्षःऽइति ? ।
उक्तोत्तरमेवैतत् ।
आग्निहोत्रिकविधौभ्रेषेऽयदि यजुष्टऽ(ऐ.ब्रा.२५३४) इति श्रौतं प्रायश्चित्तम् ।
न तु स्मार्तनाशेऽयद्यविज्ञाता सर्वव्यापद्वाऽ (ऐ.ब्रा.२५३४.) इति ॥१०॥
सर्वे प्रधानहोमाः प्रधानहोमत्वसामान्यादेको होम इत्यभिप्रेत्य स्विष्टकृदपेक्षया श्रुतिः द्विर्जुहोतीत्याह, न पुनर्द्विरेव जुहोतीति ।
ऽसप्तदश प्राजापत्यान्ऽ(तै.ब्रा.१३४) इतिवदिह सम्प्रतिपन्नदेवतैकत्वाभावात् ।
केचित्यावन्तः प्रधानहोमास्तावन्ति चतुर्गृहीतानि स्रुचि सहावदाय होममन्त्रान् सर्वाननुद्रुत्य सकृदेव जुह्वति ।
द्विर्निमार्ष्टित्यादि व्यक्तार्थम् ॥
प्रयोगस्तु न परिस्तरणदर्वीसंस्कारोपस्तरणादीनि, अत्रानुपदेशात् ।
चरुपाकस्त्वर्थाद्विद्यत एव ।
तेन चरुणा प्रधानाहुतिस्विष्टकृत्प्राशनभक्षणेभ्यः पर्याप्तेन दर्वीं पूरयित्वापर्णाग्निं दर्भेषु सादयित्वाऽदाय तत्तन्मन्त्रैः सर्वाः प्रधानाहुतीः क्तमेण हुत्वा दर्व्यास्ततो लेपमादाय दर्भैर्निमृज्य शेषात्स्विष्टकृते हुत्वा प्राचीनावीती पुनर्लेपमादायदक्षिणतो भूम्यां निमृज्याय उपस्मृश्य यज्ञोपवीती दर्व्या लेप मङ्गुल्याऽदाय प्राश्य शुद्ध्यर्थमाचम्य पुनरप्येवं कृत्वा उदङ्ङावत्योत्सृप्य दर्व्या हविश्शेषं सर्व भक्षयित्वा तां निर्लेह्याचम्य तां दर्भैरद्भिः प्रक्षलयेदिति ।
ननुवैश्वदेवौपासनहोमयोः कस्मान्नायं विधिः ?उच्यते ।
तत्रऽउभयतः परिषेचनम्ऽ(आप.गृ.७२२)इति एककार्ययोः द्वयोरपि विध्योः परिसङ्ख्यानातत एव बर्हिर्लेपप्रतिपत्त्योरभावाच्च ॥
केचित्पाकयज्ञ इत्यत्र पाकशब्दस्याल्पवाचकत्वात्विवाहादयोऽपि सोमाद्यपेक्षया पाकयज्ञ इति तेष्वप्ययं विधिरिति ।
तन्न॑तेषां मनुष्यसंस्कारार्थत्वेन अप्राधान्यात्प्रधानवाचियज्ञशब्दवाच्यत्वानुपपत्तेः ॥११॥
एकाग्निविधिकाण्डे विवाहमन्त्राणां पूर्वमाम्नानात्विवाहमेव पूर्व व्याख्यास्यन् तस्योदगयनादिनियमापवादेन कालमाह
३. वैवाहिकविषयाः
१.विवाहकालः ।
सर्व ऋतवो विवाहस्य शैशिरौ मासौ परिहाप्योत्तमं च नैदाघम् ॥ आपस्तम्बगृह्यसूत्र २.१२ ॥
टीकाः
अनुकूलावृत्ति २.१२
अथ विवाहविधिः प्रागुपनयनात् ।
शिशिरं परिहाप्योति वक्तव्ये शैशिरौ मासावित्युच्यतेऽउत्तमञ्च नैदाघऽमित्यत्र मासप्रतिपत्त्यर्थम् ।
अन्यथा दिवसोऽपि प्रतीयेत ।
सर्र्वतुविधानं उदगयनापवादः ।
पूर्वपक्षादयस्तु परिभाषाप्राप्ताः विवाहेऽवस्थिता एव यथोपनयने वसन्तादिविधान इति केचित् ।
अन्ये तु पूर्वपक्षादेरप्यपवादं मन्यन्ते ।
तेषामपरपक्षे रात्रौ च न निषिध्यते विवाहः ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.१२
<सर्वे षडृतवः> प्रतेयोकं मासद्वयरूपाः विवाहस्य कालाः ।
दादशापि मासाः सापरपक्षादिकाः कार्त्स्न्ये काला इत्यर्थः ।
ऋतव इत्यनेन लक्षणया मासा एव विधित्सिताः, नर्तव इति कुतोऽवगम्यते ?उच्यते शैशिरौ मासाविति मासपर्युदासात् ।
अन्यथा विधिपर्युदासयोरेकविषयत्वात्लघुत्वाच्च शिशिरं परिहाप्येति ब्रूयात् ।
प्रयोजनं तु विवाहस्य पूर्वपक्षादिनियमाभावः ।
यत्र पुनरुपनयनादावेवंविधहेत्वभावादृतोतेव विधित्सा, तत्र द्ववदानद्वारा पुरोडाशस्य यागसाधनत्ववत्सामान्यविध्यवरुद्धपूर्वपक्षादिद्वारेणापि
ऋतोः कर्मसाधनत्वासिद्धेः पूर्वपक्षादिर्नियत एव ।
शिशिरस्यर्तो यौ द्वौ मासौ माघफाल्गुनौ, निदाघस्य ग्रीष्मस्य यश्चोत्तमोन्त्य आषाढः, तानेतांस्त्रीन्मासान्<परिहाप्य> वर्जयित्वा ।
अत्रोत्तममिति तमप्प्रत्ययात्यस्सौरतोऽन्त्यो नैदाघः, यश्चाधिकमासतो द्वितीय आषाढः तावपि पर्युदस्तौ ॥१२॥
सर्वाणि पुण्योक्तानि नक्षत्राणि ॥ आपस्तम्बगृह्यसूत्र २.१३ ॥
टीकाः
अनुकूलावृत्ति २.१३
सर्र्वतुविधानस्य सर्वापवादत्वात्पुण्याहविधानार्थमिदम् ।
तथा च रात्र्यपरपक्षयोः विवाहपिरतिषेधः ।
एवमप्युक्तग्रहणमनर्थकं तत्क्रियते मुहूर्तपरिग्रहार्थं यानि पुण्यानि नक्षत्राणि यानि पुण्योक्तानि मुहूर्तानि तानि सर्वाणि विवाहस्य यथा स्युरिति ।
तत्र नक्षत्राणि ज्योतिश्शास्त्रादवगन्तव्यानि ।
प्रातस्सङ्गवो मध्यन्दिनोऽपराह्णस्सायामित्येते मुहूर्ताः ॥१३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.१३
यानि ज्यौतिषे पुण्योक्तानि शुभफलप्रदत्वेनोक्तानि नक्षत्राणि ।
नक्षत्रग्रहणस्य प्रदर्शनार्थत्वात्तिथ्यादीन्यति ।
तत्र पुण्योक्तानि सर्वाण्यत्रोपसंहर्तव्यानि ॥१३॥
२. विवाहे मङ्गलानुष्ठानम् ।
तथा मङ्गलानि ॥ आपस्तम्बगृह्यसूत्र २.१४ ॥
टीकाः
अनुकूलावृत्ति २.१४
"ब्राह्मणान् भोजयित्वाशिषोवाचयित्वे"त्येवमादीनि स्वशास्त्रप्रसिद्धानि ।
मङ्गलानि स्नातोऽहतवासा गन्धानुलिप्त, स्रग्वी भुक्तवानित्येवमादीनि नापितकर्माङ्कुरार्पणादीनि लोकप्रसिद्धानि ।
तान्येतानि सर्वाणि प्रत्येतव्यानि ॥१४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.१४
शङ्खदुन्दुभिवीणाववादित्रसम्प्रवादनानि कुलस्त्रीगीतानि केशश्मश्त्वादिप्रकल्पनाहतधौताच्छिद्रविचित्रवासोधारणगन्धानुलेपनसुगन्धस्रग्धारणापदातिगमनच्छत्रध्वजादीनि शिष्टाचारप्रसिद्धानि मङ्गलानि विवाहे उपसंहर्तव्यानि ॥१४॥
३. आचारादपि वैवाहिकक्रियाग्रहणम् ।
आवृतश्चास्त्रीभ्यः प्रतीयेरन् ॥ आपस्तम्बगृह्यसूत्र २.१५ ॥
टीकाः
अनुकूलावृत्ति २.१५
मन्त्ररहिताः क्रियाः<आवृत>इत्युच्यन्ते ।
यस्मिन् जनपदे ग्रामे कुले वा या आवृतः प्रसिद्धाः तास्तयैव व्यवस्थिताः यथा प्रतीयेरन्न सर्वत्रैवमर्तम् ॥१५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.१५
<आवृतः>क्रियाः वैवाहुक्य अविशेषात्समन्त्रका अमन्त्रकाश्च ।
तास्सर्वा आस्त्रीभ्य सर्ववर्णेभ्यस्सकाशादवगम्य प्रतीयेरन् कुर्वीरन् विवोढारः ।
तत्र समन्त्रका ग्रहपूजाङिकुरारोपणप्रतिसरबन्धाद्या आचारसिद्धाः ।
अमन्त्रकाः नाकबलियक्षबलीन्द्राणीपूजादयः ।
ताश्च यथाजनपदं यथावर्ण यथाकुलं यथास्त्रीपुंसं व्यवस्थिता एव ।
न तु सर्वास्सर्वत्र समुच्चिताः ॥१५॥
इन्वकाभिः प्रसृज्यन्ते ते वराः प्रतिनन्दिताः ॥ आपस्तम्बगृह्यसूत्र २.१६ ॥
टीकाः
अनुकूलावृत्ति २.१६
नक्षत्रप्रशंसार्था गाथा विवाहप्रकरणे वरप्रसङ्गार्थमुदाहृता ।
यदि वराः कन्याया वरयितारः कन्या वरणार्त इन्वकाभिप्रसृज्यन्ते ॥ १६ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.१६
ते वरास्तैर्दुहितृमद्भिः ।
<प्रतिनन्दिताः>सिद्धार्था भवन्ति ।
तस्माद्वरप्रसङ्गे प्रशस्तमिन्वका नाम नक्षत्रम् ।
ऽइन्वकाशब्दो मृगशिरसीऽति स्वयमेव व्याख्यास्यति ।
तस्मात्ज्ञायतेस्मृत्यन्तरप्रसिद्धा लौकिक्येवयं गाथा, न सूत्रकारस्य कृतिरिति ॥१७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २.१६
<इन्काभिः> मृगशिरसिऽनक्षत्रे च लुपिऽ(पा.२३४५) इति सप्तम्यर्थे तृताया ।
ये <वराः>वरयितारो मृगशिरसि प्रसृज्यन्ते कन्यावरणार्थ प्रेष्यन्ते, ते दुहितृमद्भिः<प्रतिनन्दिताः>प्रकर्षेण पूजिताः, सिद्धार्था भवन्तीत्यर्थः ॥१६॥
इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने द्वितीयः खण्डः ॥
तृतीयः खण्डः
४. मघासु गवां क्रयादिना ग्रहणम् ।
मधाभिर्गावो गृह्यन्ते ॥ आपस्तम्बगृह्यसूत्र ३.१ ॥
टीकाः
अनुकूलावृत्ति ३.१
यदि मघाभिः गावः क्रयादिना गृह्यन्ते ताश्च गावः प्रतिनन्तिता भवन्ति ।
तस्मात्गोपरिग्रहे मघाः प्रशस्ताः ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.१
ऽआर्षे दुहितृमते मिथनौ गावौ देयौऽ(आप.घ.२१११८) इति वचनादार्षे विवाहे वरैर्दीयमाना गावो दुहितृमद्भिर्मघासु गृह्यन्ते ।
एतदुक्तं भवतिआर्ष विवाहं मघास्वेव कुर्यात्, न ब्राह्मादिवत्नक्षत्रान्तरेऽपीति ॥१॥
५. फल्गुनीभ्यां युद्वार्थ सेनाव्यूहनम् ।
फल्गुनीभ्यां व्यूह्यते ॥ आपस्तम्बगृह्यसूत्र ३.२ ॥
टीकाः
अनुकूलावृत्ति ३.२
यदि फल्गुनीभ्यां व्यूह्यते सेना युद्धाकाले साच प्रतिनन्दिता भवति ।
तस्मात्सेनाव्यूहे प्रशस्ते फल्गुन्यौ ।
अविशेषात्पूर्वे उत्तरे च ।
सर्वत्र"नक्षत्रे च लुपी"(पा.सू.२३४५) त्यधिकरणे तृतीया ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.२
अत्र च वधूः फल्गुन्योरेव<व्यीह्यते>नीयते स्वगृह्यात्, न तुऽतां ततःऽ(आप.गृ.५१३) इति वचनात्ब्राह्मादिवत्तदानीमेव ॥
केचित्ऽइन्वकाभिऽरित्यादिऽफल्गुनीभ्यां व्यूह्यतेऽइत्यन्तमुत्तरत्रेन्वकाशब्दस्य व्याख्यानात्शाखान्तरीया गाथेति कल्पयन्तः, मघासु गवां क्रयादिना स्वीकारः, सेनायाश्च युद्धे व्यूहः, अविशेषात्पूर्वयोरुत्तरयोर्वा फल्गुन्योरिति प्रकृतानुपयोगितया व्याचक्षते ॥२॥
६ यां दुहितरं भर्तुः प्रिया स्यादिति कामयते तां स्वातीनक्षत्रे दद्यात्
यां कामयेत दुहितरं प्रिया स्यादिति तां निष्ट्यायां दद्यात्प्रियैव भवति नेव तु पुनरागच्छती ति ब्राह्मणावेक्षो विधिः ॥ आपस्तम्बगृह्यसूत्र ३.३ ॥
टीकाः
अनुकूलावृत्ति ३.३
<यां> दुहितरं पिता प्रियां<कामयेत>भर्तुरियं<प्रियास्यादिति तां निष्ठायां>नक्षत्रे दद्यात् ।
एवं दत्ता सा भवत्येव तस्य<प्रिया> ।
अयं चापरोऽस्य नक्षत्रस्य गुणः सा प्तृगृहात्पुनरर्थिनी नागच्छति ।
पतुगृह एव तस्यास्सर्वे कामास्सम्पद्यन्ते ।
अन्ये तु निन्दामिमां मन्यन्ते ।
ब्रह्मणावेक्षो विधिरिति वचनातन्येऽपि स्मृत्यपेक्षा नक्षत्यपेक्षा नक्षत्रविधयो भवन्ति ।
अन्यथा पुंसवने तिष्यवत्विवाहे इदमेव नक्षत्रं स्यात् ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.३
इयं भर्तुः<प्रिय स्यादिति यां दुहितरं> पिता कामयेत तां<निष्ट्यायां> स्वातौ वराय दद्यात् ।
सा तस्य<प्रियैव भवति ।
नेव तु> नैव च रोगदारिद्यादिना पीड्यमाना अर्थिनी पुनः पितृगृहमागच्छति॑स्वगृह एव तस्यास्सर्वे अर्थोस्सम्पद्यन्त इति ब्राह्मणावेक्षो विधिः ।
अत्रापि पूर्ववत्स्मार्तपुण्योक्तनक्षत्रैर्विकल्पः ॥३॥
इन्वकाशब्दो मृगशिरसि ॥ आपस्तम्बगृह्यसूत्र ३.४ ॥
टीकाः
अनुकूलावृत्ति ३.४
छन्दसि प्रयुक्तत्वादेतयोरर्थकथनम् ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.४
एते सूत्रे व्यक्तार्ते ॥४॥
५)
निष्ठ्याशब्दस्स्वातौ ॥ आपस्तम्बगृह्यसूत्र ३.५ ॥
७ विवाहे गवालम्भनम् ।
विवाहे गौः ॥ आपस्तम्बगृह्यसूत्र ३.६ ॥
टीकाः
अनुकूलावृत्ति ३.६
विवाहस्थाने गौरालब्धव्या दुहितृमता ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.६
विवाहस्थाने गौस्सन्निधाप्या ॥६॥
गृहेषु गौः ॥ आपस्तम्बगृह्यसूत्र ३.७ ॥
टीकाः
अनुकूलावृत्ति ३.७
गृहेषु च गौरालब्धव्या तेनैव दुहितृमता ।
तयौर्विनियोगः ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.७
तथा गृहेषु शालायां अन्या गौस्सन्निधाप्या ॥७॥
किमर्थमित्यत आह
८ गवा अर्हणीयः ।
तया वरमतिथिवदर्हयेत् ॥ आपस्तम्बगृह्यसूत्र ३.८ ॥
टीकाः
अनुकूलावृत्ति ३.८
या विवाहे गौः तया वरमतिथिवत्पूजयेत् ।
अतिथिवदिति वचनात्मधुपर्केण च ।
"गोमधुपर्करहो वेदाध्याय"(आप.ध.२८५) इति वचनात् ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.८
<तया> विवाहस्थाने सन्निधापितया गवा, न त्वनन्तरोक्तया,<वरमतिथिवत्> अतिथिं यथा तथा<अर्हयेत्> पूजयेत् ।
<तया> हविरुत्पत्तिद्वारेणोत्सर्गद्वारेण वा ङ्गभूतया युक्तेन मधुपर्केण वरमवोदाध्यायिनमपि पूजयेदित्यर्थः ॥८॥
योऽस्यापचितस्तमितरया ॥ आपस्तम्बगृह्यसूत्र ३.९ ॥
टीकाः
अनुकूलावृत्ति ३.९
<योऽस्य> वरस्या<पचितः> पूज्यः तेन सहागत आचार्यस्त<मितरया>गृहेषु या गौरालभ्यते तया ।
किमिवेत्यपोक्षायां<अतिथिवदर्हये> दित्येव ।
विवाहे वराय तत्सहेयोभ्यश्चान्यस्मिन्नग्नौ पृतगन्नसंस्कारो भवति ।
वपाहोमश्चतत्रैव ।
अपचितय तत्सहोयेभ्यश्च गृहेषु पृथगन्नसंस्कारः ।
गोश्च वपाश्रपणं होमश्चौपासन एवोत्यनुष्ठानप्रकार ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.९
<योऽस्य> वरस्य पित्राचार्यत्वादिना सम्बन्धी, लोके<चापचितो> विद्या भिजनादिसम्पत्त्या ।
यद्वा, वरस्यापचितः पूज्यः ।
<तमितरया> गृहेषु सन्निधापितया अतिथिवदर्हयेदिति सम्बन्धः ।
एतन्मधुपर्कद्वयमपि विवाहाङ्गं, प्रकरणात् ।
दातृपुरुषार्थत्वे तुऽआचार्यायर्त्विजे श्वशुराय राज्ञो वरायापचिताय चऽइति ब्रूयात् ।
प्रत्युतऽअतिथिः पितरो विवाहश्चऽ(आप.गृ.३१०) इति विवाहसम्बन्धमेवाह ।
ननुवरं चापचितं चातिथिवदर्हयेदिति वक्तव्येऽविवाहे गौःऽइत्यादि किमर्थम्?उच्यतेउभयोः पूज्योर्भिन्नदेशत्वेन भिन्नतन्त्रत्वज्ञापनार्थम्॑ इतरथा सम्भवतां तन्त्रता स्यात् ।
ऽसर्वेभ्यो वैकामविभवत्वात्ऽइति कल्पान्तरे सर्वेभ्यः ऋत्विग्भ्यो विकल्पेन गवैकत्वदर्शनादिहापि वरापचितयोर्विकल्पेन प्रसक्तं गवैकत्वं माभूदिति प्रतिषेधार्थ च ॥९॥
९ गोरालम्भस्थानानि ।
एतावद्गोरालम्भस्थानमतिथिः पितरो विवाहश्च ॥ आपस्तम्बगृह्यसूत्र ३.१० ॥
टीकाः
अनुकूलावृत्ति ३.१०
एतोष्वेव त्रिषु स्नेषु गोरालम्भः नान्यत्र पाकयज्ञेषु ।
अतिथिशब्देनातिथ्यकर्म व्यपदिश्यते"यत्रास्मा अपचितिं कुर्वन्ती" (आप.गृ.१३२) त्येवमादि ।
पितृशब्देनाष्टका कर्म"श्वोभूते दर्भेण गा"(आप.गृ.२२३) मित्यादि ।
विवाहशब्देनानन्तरोक्तस्य ग्रहणम् ।
कल्पान्तरोष्वीशानयज्ञादावपि गोरालम्भ आम्नातः, तत्प्रतिषेधार्थो नियमः ।
एवं ब्रुवता कल्पान्तरे दृष्टा अन्ये विशेषा अभ्यनुज्ञाता भवन्ति ॥ ९ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.१०
<अतिथिः>वेदाध्याय्यागतः<पितरः>अष्टकाकर्म,<विवाहश्चेति,> यदेतत्त्त्रयं एतावत्गवालम्बाङ्गक४ अनिमित्तम् ।
एतदुक्तं भवति
यथातिथिः पितरश्च गवालम्भाङ्गकर्मनिमित्तभूताः एवं विवाहोऽप्यस्मादेव वचनाद्विशेषणान्तरनिरपेक्षा इति ।
यद्येतत्सूत्रमेवं न व्याख्यायेत तताऽगौरिति गां प्राहऽ(आप.गृ.१३१५)ऽश्वोभूते दर्बेण गामुपाकरोतिऽ(आप.गृ.२२३)ऽविवाहे गौःऽ(आप.गृ.३६) इत्येतैरेव सिद्धत्वात्
व्यर्थमेव स्यात्॑तेन अवेदाध्यायिभ्यामपि वरापचिताभ्यां धर्मोक्तगोरहितो मधुपर्को देयः ।
वेदाध्याय्भ्यां तु तत्सहित इति ॥
केचितेतत्त्त्रयमेवास्माकं गोरालम्बस्थानम्, न पुनरन्येषामिव विकल्पेनापीज्ञानबसिश्शूलगवापरनामा ।
एवं वदन्नस्माकमपि कल्पान्तरोक्तानपि विशेषान् विकल्पेनानुजानातीति ॥१०॥
अथ विवाहे वर्जनीयाः कन्या आह
१० वरणे वर्जनीयाः कन्याः ।
सुप्तां रुदन्तीं (तीं) निष्क्रान्तां वरणे परिवर्जयेत् ॥ आपस्तम्बगृह्यसूत्र ३.११ ॥
टीकाः
अनुकूलावृत्ति ३.११
वरेषु वरणार्थ प्राप्तेषु या कन्या स्वपिति रोदिति निष्क्तामति वागृहात्, तस्या वरणं न कर्त्तव्यम् ।
अशुभलिङ्गान्येतानीति ।
परिशब्दोऽत्यन्तप्रतिषेधार्थः मनश्चक्षुषोर्निबन्धे सत्यपीति ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.११
या वरेषु वरणार्थ प्राप्तेषु स्वपिति, या रोदिति, या वा गृहान्निष्क्तामति, ता एता<वरणे परिवर्जयेत्>अत्यन्तं वर्जयेत्, ऋद्धौ ज्योतिषादिभिर्ज्ञातायामपि॑यतस्स्वापादीनामत्रानृद्धिलिङ्गत्वं प्रबलत्वं च विवक्षितम् ॥११॥
दत्तां गुप्तां द्योतामृषभां शरभां विनतां विकटां मुण्डां मण्डूषिकां साङ्कारिकां रातां पालीं मित्रां स्वनुजां वर्षकारीं च वर्जयेत् ॥ आपस्तम्बगृह्यसूत्र ३.१२ ॥
टीकाः
अनुकूलावृत्ति ३.१२
<दता>वाचान्यस्मै दत्ता ।
<गुप्ता प्रयत्नेन रक्ष्यमाणा ।
>दुश्शीला वा सा भवति अशुभलक्षणा वा ।
<द्योता>विषमदृष्टिः ।
<ऋषबा>
ऋषभशीला ।
<शरभा>अतिदर्शनीया ।
जारास्तां कामयेरन् सा च तान् ।
<विनता> विनतगात्रा, कुब्जा वा ।
<विकटा>विस्तीर्णजङ्घा ।
<मण्डा>अपनीतकेशा ।
<मण्डूषिका>मण्डूकत्वकश्लक्ष्णेत्यर्तः ।
वामनेत्यन्ये ।
<सांकारिका>कुलान्तरे जाता कुलान्तरस्यापत्यत्वं गता वा, यस्यां वा गर्भस्थायां माता अस्थिसञ्चितवती ।
<राता> रतिशीला ।
<पाली> वत्सादीनां पालयित्री ।
<मित्रा> वमित्रवती बहुमित्रेत्यर्तः ।
स्वयं वा मित्रभूता< ।
स्वनुजा> यस्या स्वनुजा शोभना स्वयंदर्शनीया सा स्वनुजा वरजननादूर्ध्वमल्पीयसि काले जाता तस्मिन्नेव संवत्सरे जातेत्यन्ये ।
<वर्षकारी> वर्षेणाधिका वर्षकारी स्वेदनशीला इत्यन्ये ।
वर्जयेदित्युच्यते वरणे परिवर्जयेदित्यस्यानुवर्तनं माभूदिति ।
तेन योषु वरणं नास्ति ब्राह्मादिषु विवाहेषु तेषिवप्यासां प्रतिषेधः ।
किञ्चि तदनुवृक्तावत्यन्तप्रतिषेधप्रसङ्गः ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.१२
दत्ताद्याःपञ्चदश कन्या वर्जयेत् ।
<दत्ता>अनेयस्मै वाचा प्रतिश्रुता, उदकपूर्व वा प्रतिपादिता ।
<गुप्ता>अदर्शनार्थ कञ्चुकादिभिरावृता, प्रयत्नसंरक्ष्यमाणा वा दौश्शील्यादिशङ्कया ।
<द्योता>पिङ्गाक्षी, बभ्रुकेशी वा, विषमदृष्टिर्वा ।
<ऋषभा> प्रधाना, ऋषभस्येव शरीरं गतिः शीलं वा यस्यास्सा, ककुद्वास्ति यस्यास्सा ।
<शरभा> शीर्णदीप्तिः, सर्वनीललोम्नी वा, अरूपा वा, निष्प्रभा वा ।
केचित्दर्शनीया, यतस्सा जारकाम्या ।
<विनता>कुब्जा ।
<विकटा>विकटजङ्घा, विस्तीर्णजङ्घा वा ।
<मुण्डा> अपनीतकेशा, अजातकेशा वा ।
<मण्डूषिका> अल्पकाया, अरुणदती वा मण्डूकत्वग्वा ।
अपरेवामनाङ्गा, दग्धाङ्गा वा ।
<साङ्कारिका>गर्भस्थायां यस्यां सत्यां माता भर्तुरस्थिसञ्चयनकारिका, कुलान्तरस्य दुहितृत्वं गता वा ।
<राता>रमणाशीला कन्दुकादिक्रीडाप्रियेत्यर्थः, ऋतुस्नाता वा ।
केचित्रतिशीला विषयोपभोगशीलेत्यर्थः ।
<पाली>वत्सक्षेत्रादिपालिका ।
<मित्रा>बहुमित्रा, सखी वा ।
<स्वनुजा>शोभनानुजा यस्यास्सा, न तु शोभनोऽनुजो यस्याः शोभनायामनुजायां कदाचित्प्रमादस्स्यादिति ।
केचित्वरजन्मसंवत्सर एव पश्चाज्जातेति ।
<वर्षकारी>वराद्वर्षेणाधिका ।
यात्यन्तं स्रवति सा वा ।
<परिवर्जयेदि>त्यनुशङ्गे सत्यपि वर्जयेदिति पुनर्वचनं ब्राह्मादिषु सर्वेषु विवाहेष्वासां प्रतिषेधार्थम्॑सति गत्यन्तरे ऋद्धावपि परीक्षितायां दत्तेततरासामनिषेधार्थ वा ॥१२॥
नक्षत्रनामा नदीनामा वृक्षनामाश्च गर्हिताः ॥ आपस्तम्बगृह्यसूत्र ३.१३ ॥
सर्वाश्च रेफलकारोपान्ता वरणे परिवर्जयेत् ॥ आपस्तम्बगृह्यसूत्र ३.१४ ॥
टीकाः
अनुकूलावृत्ति ३.१४
नक्षत्रं नाम यासां ता तथा<नक्षत्रनामाः, नदीनामाः वृक्षनामाश्च>रोहिणी गङ्गा करेजोत्यादयः ।
ताश्च विवाहे<गर्हिताः ।
>तथा
<सर्वाश्च रेफलकारोपान्त्याः>एवं भूतं नाम इत्यर्तः ।
करा काला सुवेलेत्यादयः ।
ताः<वरणे परिवर्जयेत्>वरणमप्यासां न कर्तव्यमित्यर्थः ॥ १२ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.१४
नक्षत्रस्य नामेव नाम यासां<नक्षत्रनामाः ।
>एकस्य नामशब्दस्य लेपः, उष्ट्रमुखादिवत् ।
एवमिखादिवत्विग्रहः रोहिणी चित्रेत्येवमादयो नक्षत्रनामाः ।
गङ्गेत्यादयो <नदीनामाः> ।
शिंशुपेत्याद्या<वृक्षनामाः> ।
<गर्हीताः>वर्जनीयाः ॥१३॥
रेफो वा लकारो वा यासां नाम्नौपान्त उपधेत्यर्थः यथा गौरी शालीत्यादि ।
शेषं व्यक्तम् ।
अत्र चकारेण गर्हिता इत्यनुकर्षणातासां वर्जनीयत्वे सिद्धेऽसर्वा वरणे परिवर्जयत्ऽइति व्यर्थम् ।
न॑सुग्रहार्थत्वात् ।
अथ वा या एता रेफलकारोपान्ता गौरी शालीत्याद्या, याश्च प्रकारान्तरेणापि स्मृत्यन्तरोक्ता रेफलकारोपान्ताः, यथा सगोत्रा समानप्रवरा पुंश्चलीति तास्सर्वा वरणे परिर्जयेदिति ज्ञापनार्थम् ।
इदं त्विहवक्तव्यमसत्यपि गत्यन्तरे व्यक्तेऽप्यृद्धिलिङ्गे स्रगोत्रादीनां सर्वथानिषेध एव ।
गौर्यादीनां तु न तथा गुप्तादीनामिवेति ॥
केचित्नक्षत्रनामेत्यादिकेयं शास्त्रान्तरगीता गाता, तस्याः पादपूररमानिऽसर्वा वरणे परिवर्जयेऽदिति पदानीति परिकल्पयन्तो, यस्मान्नक्षत्रादिनामा रेफलकारोपान्ताश्च गर्हिताः तस्मात्तास्सर्वो वरणे परिवर्जयेदिति व्याचक्षते ॥१४॥
११ ऋद्विपरीक्षा ।
शक्तिविषये द्रव्याणि प्रतिच्छन्नान्युपनिधाय ब्रूयादुपस्पृशेति ॥ आपस्तम्बगृह्यसूत्र ३.१५ ॥
नाना बीजानि संसृष्टानि वेद्याः पांसून् क्षेत्राल्लोष्टं शकृच्छ्मशानलोष्टमिति ॥ आपस्तम्बगृह्यसूत्र ३.१६ ॥
टीकाः
अनुकूलावृत्ति ३.१६
ऽलक्षणसम्पन्नामुपयच्छेतेऽति वक्ष्यति ।
तत्र लक्षणानामज्ञातत्वात्तत्परीक्षणोपाय उपदिश्यते ।
नचायं नित्यो विधिः॑ऽसक्तिविषयऽइति वचनात् ।
<शक्ति>स्सामर्थ्य यदि सम्फवः ।
यदि वधूज्ञातयोऽनुमन्येरन् तदा कर्तव्यं नान्यथेत्यर्थः ।
तत्कथं कर्तव्यम्?उच्यतेद्रव्याणि पञ्चवक्ष्यमाणानि मृत्पिण्डेषु प्रतिच्छन्नानि कृत्वा उपनिधाय कन्यासमीपे निधाय तां ब्रूयाद्वरः एषां पिण्डानां एकतमुपस्पृशेति ।
कानि पुनस्तानि द्रव्याणि?नानाबीजानि संसृष्टानि व्रीहियवादीनि ।
वेद्याः पांसूनाहृतान्, सस्यसम्पन्नात्क्षेत्रादाहृतं लोष्टं, सकृत्गोमयं, श्मशानादाहृतं लोष्टमित्येतानि ।
बीजानां द्रव्यत्वाव्यभिचारेऽरि द्रव्याणीत्युच्यतेशास्त्रान्तरे दृष्टानामन्येषामपि द्रव्याणामिह विकल्पेन प्राप्त्यर्थ तद्यथाअविदासिनोहदात्सर्वसम्पन्ना देवनात्कितवी इरिणादधन्येति(आश्व.गृ.१५६) ॥१३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.१६
शक्तिस्समर्थ्यम् ।
<विषये>ऽवकाशः ।
अस्यामृद्धिपरीक्षायां वरतत्पक्षिणां सामर्थ्यस्यावकाशे सम्भवति, यदि कन्या च तदीयाश्चेमां परीक्षामभ्युपगच्छेयुरित्यर्थः ।
यत एवात्र शक्तिविषय इत्याह, अत एवैषा ऋद्धिपरीक्षा ज्योतिषादिभिर्वैकल्पिकी, न तु नित्यवद्विवाहाङ्गम् ।
<द्रव्याणि>वक्ष्यमाणानि मृत्पिण्डेषु च प्रतिच्छन्नान्येकस्मिन् भाजने निधाय कन्यां समीपे च कृत्वा, तां ब्रूयादेषां पिण्डानामेकमुपस्पृशेति ॥ १५ ॥
कानि तानीत्यत आह
<नानाबीजानि>व्रीहियवादिबीजानि ।
<संसृष्टानि>एकस्मिन् पिण्डे क्षिप्तानि ।
<वेद्याः> सौमिक्याः आहृतान् पांसून् ।
<क्षेत्रात्> सस्यसम्पन्नादाहृतं लोष्टम् ।
अविशिष्टे प्रसिद्धे ॥१६॥
पूर्वेषामुपस्पर्शने यथालिङ्गमृद्धिः ॥ आपस्तम्बगृह्यसूत्र ३.१७ ॥
उत्तमं परिचक्षते ॥ आपस्तम्बगृह्यसूत्र ३.१८ ॥
टीकाः
अनुकूलावृत्ति ३.१८
तत्र बीजस्पर्शने प्रजाभिस्समृद्धिः ।
वेदिपुरीषे यज्ञैः, क्षेत्रलोष्टे धनधान्यैः, गोमये पशुभिः, श्मशानलोष्टे मरणमिति यथालिङ्गार्थः ।
उत्तममन्त्यं द्रव्यं<परिचक्षते>गर्हन्ते वर्जयन्तीत्यर्थः ॥१४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.१८
<पूर्वेषां> चतुर्णामुपस्पर्शने <यथालिङिगमृद्धिः ।>
नानाबीजानामुपस्पर्शने प्रजानां समृद्धिः ।
वेद्याः पांसूनां यज्ञानां, क्षेत्राल्लोषटस्य सस्यानां, शकृतश्च पशूनामिति ।
ऋद्धिनिश्चयाद्विवाहकर्तव्यतानिश्चय इत्यर्तः ॥१७॥
<उत्तमं> श्मशानलोष्टं<परिचक्षते> गर्हन्ते शिष्टां, जायापत्योरन्यतरस्य वा मरणलिङ्गत्वादिति ॥१८॥
उद्वाह्यामाह
१२ उद्वाह्यकन्यासम्पत् ।
बन्धुशीललक्षणसम्पन्नामरोगामुपयच्छेत ॥ आपस्तम्बगृह्यसूत्र ३.१९ ॥
टीकाः
अनुकूलावृत्ति ३.१९
उक्ता वर्जनीयाः कन्याः ।
अथ ग्राह्या उच्यन्ते ।
बन्धुशब्देन कुलमुच्यते ।
यदुक्तमाश्वलायनेन"कुलमग्रे परिक्षेत ये मातृतः पितृतश्चेति यथोक्तं पुरता"(आश्व.गृ१५१०० दिति ।
<शीलसम्पन्ना> आर्यशीला ।
<लक्षणसम्पन्ना>स्त्रीलक्षणैरुपेता रोगराहिता क्षयापस्मारादिरहिता ॥१५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.१९
अत्र<सम्पन्नामिति> प्रत्येकं सम्बध्यते ।
<बन्धुसम्पन्नां>प्रशस्ताभिजनाम् ।
<शीलसम्पन्ना>मास्तिक्यादिगुणान्विताम्< ।>
लक्षणसम्पन्नां गूढगुल्फत्वादिस्त्रीलक्षणयुक्ताम् ।
<अरोगां>क्षयापस्मारकुष्ठाद्यचिकित्स्यरोगरहिताम् ।
उपयच्छेत उद्वहेत् ॥१९॥
अथ वरगुणानाह
१३ वरगुणाः ।
बन्धुशीललक्षणसम्पन्नश्श्रुतवानरोग इति वरसम्पत् ॥ आपस्तम्बगृह्यसूत्र ३.२० ॥
टीकाः
अनुकूलावृत्ति ३.२०
श्रुतवान् श्रुताध्ययनसम्पन्नः ।
वरसम्पत्वरगुणाः ।
एवंगुणाय कन्यका देयोत्यर्थः ॥१६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.२०
<बन्दुशीललक्षणसम्पन्न>इति पूर्ववद्व्याख्यानम् ।
<श्रुतवान्>श्रुताध्ययनसम्पन्नः॑विदुषश्चोदुतकर्मानधिकारात्, धर्माद्यर्थत्वाच्च विवाहस्य ।
<अरोग>इति पूर्ववत्॑तस्याप्यसमर्थत्वेनानदिकारात् ।
एवंभूता वरसम्पत् ।
एवङ्गुणाय वराय कन्यादेयेत्यर्थः ॥२०॥
अथर्द्धिनिश्चये एकायं मतमाह
यस्यां मनश्चक्षुषोर्निबन्धस्तस्यामृद्विर्नेतरदाद्रियेतेत्येके ॥ आपस्तम्बगृह्यसूत्र ३.२१ ॥
टीकाः
अनुकूलावृत्ति ३.२१
<यस्यां>कन्यायां वरस्य<मनसश्चक्षुषश्च> निबन्धः तृप्तिरुत्पद्यते <तस्यामृद्धि>र्ध्रुवा,<नेतरत्>न दत्तादिगुणदोषाद्यनुदर्शनमादरणीयमित्येके शिष्टा ब्रुवते ।
अत्र पक्षे सर्वगुणासम्पन्नायामपि यस्यां मनश्चक्षुषी न निबध्येते सा वर्जनीया ।
शास्त्रानिषिद्धास्तत्रापि पक्षे वर्ज्या एव, यथा सवर्णा सर्गोत्रेति ॥१७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ३.२१
<यस्यां> कन्यायां वरस्य<मनस्चक्षुषीर्निबन्धः>नितरां बन्धनं, यस्यामासत्त्यतिशयेन मनस्चक्षुषी निबद्धे अव तिष्ठत इत्यर्थः ।
<तस्यां>जायायां सत्यां धर्मादीनां समृद्धिः,<नेतरत्>गुणदोषानुदर्शन<माद्रियेतेत्येके>ब्रूवते ।
एतदुक्तं भवति अत्र मनश्चक्षुषोर्निबन्ध एवादरणे कारणम्, न तु ज्योतिषादिना ज्ञाता गुणाः ।
तथा तदभाव एव परिवर्जने कारणम्, न स्वापादयो दोषा इति ।
उभयोरपि मतयोर्दत्तादीनां निषेधमाद्रियेतैव॑ऽसर्र्वणापूर्वशास्त्रविहितायाम्ऽ(आप.ध.२१३१)ऽअसमानार्षगोत्रजाम्ऽऽपञ्चमात्सप्तमादूर्ध्वम्ऽइत्यादिवचनजातात् ॥२१॥
इत्थंसुदर्शनार्येण गृह्यतात्पर्यदर्शनम् ॥
प्रथमे पटलेऽकारि यथाभाष्यं यथामति ॥
इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने तृतीयः खण्डः ॥
समाप्तश्च प्रथमः पटलः
====================================================================================
अथ द्वितीयः पटलः
चतुर्थः खण्डः
४ विवाहप्रकरणम्
१ वरप्रेषणम् ।
सुहृदस्समवेतान्मन्त्रवतो वरान् प्रहिणुयात् ॥ आपस्तम्बगृह्यसूत्र ४.१ ॥
टीकाः
अनुकूलावृत्ति ४.१
अथ कन्यावरणविधिः ।
इन्वकाभिः प्रसृज्यन्त इत्युक्तम् ।
तस्मिन्नन्यस्मिन् वा पुण्यनक्षत्रेव ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा,<सुहृदः>
बन्धून्<समवेतान्> सङ्गतान्<मन्त्रवतः>श्रुताध्ययनसम्पन्नान्<वरान्> कन्यावरयितॄन्<प्रहिणुयात्>प्रस्थापयोत्यूयममुष्मात्कुलात्मह्यं कन्यां वृणीध्वमिति ।
यद्यप्येवंविधे कार्ये सुहृदामेव सम्भावना तथापि सुहृद इत्युच्यते मन्त्रवतामसम्भवे सुहृत्वमात्रपरिग्रहार्थम् ।
मन्त्रवत इति ब्राह्मणानोमेव ग्रहणम् ।
तेन क्षत्रियवैश्ययोरपि ब्राह्मणा एव वराः ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.१
पूर्वत्रऽइन्वकाभिः प्रसृज्यन्तेऽ(आप.गृ२१६) इति विवाहोपयोगिनो वरप्रेषणस्य कालोऽभिहितः ।
इदानीं तस्य विधिमाह
<सुहृदः>आत्मनो मित्राणि ।
<समवेतान्>आत्मानं प्रत्येककार्यान् ।
<मन्त्रवतः>मन्त्रब्राह्मणवतः,ऽशुचीन्मन्त्रवतःऽ(आप.ध.२१५११)
इतिवन्मन्त्रग्रहणस्य प्रदर्शनार्थत्वात् ।
<वरान्>वरयितॄन् ।
वरः<प्रहिणुयात्>प्रेषयेत् ।
एते युग्मा ब्राह्मणाश्चेति केचित् ॥२॥
तानादितो द्वाभ्यामभिमन्त्रयेत ॥ आपस्तम्बगृह्यसूत्र ४.२ ॥
टीकाः
अनुकूलावृत्ति ४.२
गच्छतस्तान् वराननन्तरमाम्नातस्य मन्त्रसमाम्नायस्यादितो द्वाभ्यां ऋग्भ्यां पप्रसुग्मन्तेत्योताभ्यां अभिमन्त्रयेत ।
अभिलक्ष्य मन्त्रोच्चारणमभिमन्त्रणम् ।
ततस्ते कन्याकुलं गत्वाएवंगोत्रायामुष्मै सहत्वकर्मभ्यो युष्मदीयां कन्यां वृणीमहैति ब्रूयः ।
ततस्ते प्रतिब्रूयुःशोभनं तथा दास्यामैति ।
तत्र ब्राह्मे विवाहे दैवे चार्थलोपात्वरणलोपः कल्पान्तरदर्शनाच्चनात्र वरान् प्रहिणुयादिति ।
तथा गान्धर्वराक्षसयोश्च ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.२
<तान्>प्रस्थितान् ।
मन्त्रसमाम्नाय<स्यादितः>ऽप्रसुग्मन्ताऽइति द्वाभ्यां ऋग्भ्यां<अभिमन्त्रयेत> ।
अभिमन्त्रणं आभिमुख्येन मन्त्रस्योच्चारणम् ।
अनुमन्त्रमप्येवम्ऽअनुमन्त्रयितव्यद्रव्यगतचित्तेनेति तु भेदः ॥
अथ सूत्रस्यापूर्णत्वात्क्रम उच्यते
कृतप्राणायामोऽवरान् प्रेषयिष्येऽइति सङ्कल्प्य,ऽप्रसुग्मम्तेऽति द्वाभ्यां वरानभिमन्त्र्य,ऽयूयममुष्मात्कुलात्मह्यं कन्यां वृणीध्वम्ऽइति प्रेषयेत् ।
ततस्ते दुहितृमतो गृहं गत्वा, कन्यां दत्तसगोत्रत्वादिदोषरहितां बन्ध्वादिगुणसम्पन्नां च यत्नतोऽवधार्य, दुहितृमन्तं पित्रीदिकंऽगौतमगोत्राय विष्णुशर्मणे वराय भवदीयां कन्यां प्रजासहत्वकर्मभ्यो वृणीमहेऽइति ब्रूयुः ।
ततस्स पित्रादिर्ऽदास्यामीऽति प्रतिब्रूयात् ।
ततस्ते प्रत्येत्य,ऽसुद्धार्ता वयऽमिति वराया वेदयेयुः ।
एतच्च वरप्रेषणाद्यासुरार्षयोरेव, नान्येषु अर्थलोपात् ।
अथ यस्मिन्नहनि विवाहः ततः पूर्वमेव पञ्चमे तृतीय वाहनि यथाशिष्टाचारमङ्कुरारोपणं कुर्यात् ।
तथा श्वो विवाह इत्यद्य विवाह इति च ।
ऽतथा मङ्गलानिऽऽआवृतश्चास्त्रीभ्यः प्रतीयेरत्ऽ(आप.गृ.२१४,१५) इत्युक्तानि कर्माणि वरो वधूश्च यथाकालं यथायोग्यंकुरुतः ।
केचित्पूर्वेद्युर्नान्दीश्राद्धं कल्पान्तरादिति ।
ततः पित्रादिर्वधूकुलं प्राप्ताय वराय कन्यामुदकपूर्व दद्यातिमां वत्सरोत्रजां लक्ष्मीदायीं गौतमगोत्राय विष्णुशर्मणे तपभ्यं प्रजासहत्वकर्मभ्यः प्रतिपादयामीति ।
गान्धर्वराक्षसयोस्तु न प्रतिपादनम्, दातृव्यापारा नपेक्षत्वात् ।
ततस्तां वरः प्रतिगृह्य विवाहस्थानेऽयत्र क्वचाग्निम्ऽ(आप.ध.२११३) इत्यादिविधिनाग्निं प्रतिष्ठाप्य, तत्रैव यस्यां शालायां कन्याऽस्ते तां गत्वा मधुपर्क प्रतिगृह्णाति यथार्ह यथाविधि ।
एवमेव वरापचितोऽपि ॥२॥
अनन्तरं वरः किं कुर्यादित्यत्राह
२. कन्यायाः समीक्षणम् ।
स्वयं दृष्ट्वा तृतीयां जपेत् ॥ आपस्तम्बगृह्यसूत्र ४.३ ॥
टीकाः
अनुकूलावृत्ति ४.३
ततो विवाहे निश्चिते पूर्वेद्युर्नान्दीश्राद्धं कृत्वा परेद्युर्ब्रअह्मणान् भोजयित्वाशिषो वाचयित्वा वरो वधूकुलं गच्छति ।
तस्मै कूर्चदानादि भोजनान्तं मधुपर्क दत्वा कन्यां प्रतिपादयतितुभ्यमिमां प्रजासहत्वकर्मभ्यः प्रतिपादयामीति ।
ततस्तां वरः स्वयं दृष्ट्वा तृतीयामृचं जपेत्
अभ्रातृघ्नीमित्येताम् ।
स्वयमित्यनुच्यमाने वरं दृष्ट्वेत्यर्थः स्यात्प्रकृतत्वात् ।
स्वयं ग्रहणात्तु कन्यां दृष्ट्वत्यर्थो भवति ।
तत्र ब्राह्मे विवाह उदकपूर्व प्रतिपादनम् ।
गान्धर्वराक्षसयोस्तु नैव प्रतिपादनम् ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.३
वरः<स्वयं>कन्याम दृष्ट्वाऽअब्रातृघ्नीम्ऽइति<तृतीयां> ऋचं<जपेत्> ।
दृष्ट्वै वचक्षुषी उपसंहरति ।
जपश्च सर्वत्र चातुस्स्वर्येण॑नतु करणमन्त्रादिवदेकश्रुत्या ।
ऽएकश्रुति दूरात्सम्बुद्धौऽ(पा.सू.१२३३)ऽयज्ञकर्मण्यजपन्यूखसामसुऽ(पा.सू.१२३४) इति वचनात् ।
अत्र च स्वयमिति विशेषमं वरयितॄमां प्रकृतानामयं जपो मा भूदिति ।
केचित्स्वयं वधूमेव दृष्ट्वा जपेत्॑न तु वरानिति ।
स्वयं दृष्ट्वेत्यादि च सर्वविवाहानामविकृतम् ॥३॥
चतुर्थ्या समीक्षेत ॥ आपस्तम्बगृह्यसूत्र ४.४ ॥
टीकाः
अनुकूलावृत्ति ४.४
अवयवश ईक्षणं<समीक्षणम्> ।
अघोरचक्षुरित्येषा चतुर्थीम् ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.४
ऽअघोरचक्षुःऽइत्यनया समीक्षेत ।
वध्वा दृष्ट्वो स्वदृष्टिं निपातयति, अघोरचक्षुरपिघ्न्येधीति मन्त्रालिङ्गात् ।
केचित्समीक्षेत अवयवशो निरीक्षेतेति ।
अत्र वरो वधूश्च दर्मेष्वासीनौदर्भान् धारयमाणौ कृतप्राणायामौ सङ्कल्पयेते आवाभ्यां कर्माणि कर्तव्यानि, प्रजाश्चोत्पादयितव्यांिति ॥ ४ ॥
३. तस्याः भ्रुवोरन्तरे सम्मार्जनम् ।
अङ्गुष्ठेनोपमध्यमया चाङ्गुल्या दर्भं संगृह्योत्तरेण यजुषा तस्या भ्रुवोरन्तरं संमृज्य प्रतीचीनं निरस्येत् ॥ आपस्तम्बगृह्यसूत्र ४.५ ॥
टीकाः
अनुकूलावृत्ति ४.५
मध्यमासमीपे व४ अत इत्युपमध्यमा तयाङ्गुल्या अनामिकयेत्यर्थः ।
<भ्रुवोरन्तरं>मध्य<मित्तरेण यजुषा>इदमहमित्यनेन ।
संमार्जनमन्त्रोऽयं न निरसनमन्त्रः ।
<प्रतीचीनं>प्रत्यग्गतम् ।
उपर्युपरि शिरो निरस्येत् ।
तत उदकोपस्पर्शनं अङ्गुष्ठसाहचर्यादुपमध्यमयेति विशेषणादेव सिद्धे अङ्गुल्येति विशेष्यनिर्देशो विस्पष्टार्थम् ।
यजुषेति विशेषणं उत्तरेणेति दिग्वाचिताशङ्का मा भूदिति ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.५
<उपमध्यमा>उपकनिष्ठिका, न तु प्रदेशिनी, तस्या विस्रंसिकेति व्यपदेशात् ।
<उत्तरेण यजुषा>ऽइदमहं या त्वयिऽइत्यनेन ।
शेषं व्यक्तम् ।
दर्भ निरस्याप उपस्पृशेत् ॥५॥
प्राप्ते निमित्त उत्तरां जपेत् ॥ आपस्तम्बगृह्यसूत्र ४.६ ॥
टीकाः
अनुकूलावृत्ति ४.६
वध्वा स्वबन्धूनां च रोदनं<निमित्तं जीवा>रुदन्तीति लिङ्गात् ।
उत्तरामृचंऽजीवारुदन्तीऽत्येताम्, सर्वत्र समावेशनान्ते विवाहकर्मण्यस्मिन्निमित्तेऽयं जपो भवति ।
निमित्तावृत्तौ मन्त्र आवर्तते ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.६
जीवांरुदन्तीऽति मन्त्रलिङ्गनुरूपे निमित्ते प्राप्ते मात्रादिभिः कन्यकया वा अन्योन्यवियोगचिन्तया रोदने कृते इमामृचं जपेत् ॥६॥
४. तस्याः स्नानार्थजलाहरणार्थ युग्मानां ब्राह्मणानां प्रेषणम् ।
युग्मान्समवेतान्मन्त्रवत उत्तरयाद्भ्यः प्रहिणुयात् ॥ आपस्तम्बगृह्यसूत्र ४.७ ॥
टीकाः
अनुकूलावृत्ति ४.७
वधूस्नापनार्थानामपामाहरणं<उत्तरयर्चा>ऽव्युक्षत्क्रूरऽमि त्येतया ।
मन्त्रवतः<प्रहिणुयात्> प्रस्थापयेत् ।
ऽतथा मङ्गलानीऽत्येव सिद्धे युग्मवचनं पञ्चभिर्मन्त्रैः स्नापनं वक्ष्यति, तत्र प्रतिमन्त्रं स्नापनावृत्तिः ।
तत्र च स्नापनस्यायुग्मत्वात्तदर्थानामुदकुम्भानामप्ययुग्मत्वं स्यात् ।
एवमाहर्तॄणां ब्राह्मणानामपि ।
अतो युग्मानित्युच्यते ।
तेन प्रतिमन्त्रं कुभ्भभेद प्रतिकुभ्भं ब्राह्मणभेदश्च सिद्धो भवति ।
तत्र यदि चत्वारः कुम्भाः चतुर्थेन कुब्भेन चतुर्थपञ्चमाभ्यां मन्त्राभ्यामभिषेकः ।
यदा त्वष्टौ तदा प्रतिमन्त्रं पञ्चभिस्तूष्णीमितरैः ।
समवेतवचनमुदकाहरणे सह प्रवृत्त्यर्थम् ।
मन्त्रवत इति ब्राह्मणानां ग्रहणम्,"आस्यै ब्राह्मणा"इति मन्त्रे दर्शनात् ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.७
<युग्मान्> समसङ्ख्याकान् ।
<समवेतान्मन्त्रवत>इति पूर्ववत् ।
<उत्तरया>ऽव्युक्षत्क्रूरम्ऽइत्येतया प्रैषत्वादुच्चैः प्रयुक्तयाद्भ्यः प्<रहिणुयात्>वधूस्नापनार्था उप आहर्तु प्रेषयेत् ।
एते च ब्राह्ममा एव,ऽआस्यै ब्राह्मणाऽइति मन्त्रलिङ्गात् ।
ते च ब्राह्मणा यास्वप्सु पुरुषाः स्नानादिषु पूर्व न मृताः ताभ्यस्तृणावकाद्यपनीयाप आनन्यन्ति॑ऽअवीरघ्नीःऽइति मन्त्रलिङ्गात् ॥७॥
५. तस्याः स्नापनम्, अहतवस्रधारणं, योक्त्रसन्नहनं च ।
उत्तरेण यजुषा तस्याश्शिरसि दर्भेण्वं निधाय तस्मिन्नुत्तरया दक्षिणं युगच्छिद्रं प्रतिष्ठाप्य छिद्रे सुवर्णमुत्तरयान्तर्धायोत्तराभिः पञ्चभिस्स्नापयित्वोत्तरयाहतेन वाससाऽच्छाद्योत्तरया योक्त्रेण सन्नह्यति ॥ आपस्तम्बगृह्यसूत्र ४.८ ॥
टीकाः
अनुकूलावृत्ति ४.८
ततस्तैरप्स्वाहृतासु<तस्या>वध्वाशिशरसि<दर्भेणवं>दर्भैः परिकल्पितं मण्डलं<उत्तरेण यजुषा>ऽअर्यम्णो अग्निऽमित्यनेन<निधाय> तस्मिन्निण्वे इत्तरयाऽखेऽनसऽइत्यनया दक्षिणं युगच्छिद्रं दक्षिमस्या युगधुरो बाह्यच्छिद्रं<प्रति>ष्ठाप्य तस्मिन्<छिद्रे सुवर्णमुत्तरयर्चा>ऽशं ते हिरण्यऽमित्येतया<न्तर्धाय>ताभिरद्भिस्ता<मुत्तराभिः> <प्चभिः>ऽहिरण्यवर्णाऽइत्येताभिः प्रतिमन्त्रं स्नापयति ।
कथं पुनच्छिद्रस्यान्तर्धानेन स्नापनं संभवति । तथान्तर्धानं कुरुते यथोदकमवस्रवति ।
ततस्तामुत्तरयर्च्चाऽपरि त्वा गिर्वणो गिरऽइत्येतयाहतेन वाससाऽच्छादयति ।
स्वयमेव मन्त्रमुक्त्वा परिधापयति आच्छाद्याचमय्य उत्तरयर्चा आशासानेत्येतया योक्तत्रेण सन्नह्यति ।
ऊर्ध्वज्ञुमासीना(आप.श्रौ.२५२)
मित्यादिदार्शपौर्णमासिको विशेष इहेष्यते ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.८
<दर्भेण्वं,>दर्भैः परिकल्पितमिण्वं निगलाकृतिं परिमण्डलाकारमित्यर्थः ।
<तदुत्तरेण यजुषा>ऽअर्यम्णो अग्निंऽइत्यनेन <वध्वाश्शिरसि> <निधाय तस्मिन्निण्वे>वर<उत्तरया>खेऽनसऽइत्येतया<दक्षिणं युगछिद्रं ,> युगस्य दक्षिणं च्द्रं दक्षिमस्या धुरो बारह्यछिद्रं <प्रतिष्ठाप्य, छिद्रे सुवर्णमुत्तरया>ऽशं ते हिरण्यम्ऽइत्येत<यान्तर्धाय, उत्तराभिः>ऽहिरम्यवर्णाश्शुचयः पावकाः प्रचक्रमुर्हित्वाऽइत्यादिभिः प्<अञ्चभिः>ऋग्भिः स्नापयति ।
एतच्च पञ्चानामन्ते सकृदेव,ऽवचनादेकं कर्म बहुमन्त्रम्ऽ(आप.प.१४७) इत्युक्तत्वात् ।
एवं सर्वत्र एवं विधेष्वन्नप्राशनादिषु ॥
केचित्पञ्चभिरिति वचनात्प्रतिमन्त्रमिति ।
तन्न॑तिसृभ्योऽ वशिष्टयोर्विकल्पनिवृत्त्यर्थत्वादस्य ।
इतरथा क्रियाभ्यावृत्तिवाचक प्रत्ययाश्रुतेः गुणार्थ प्रधानस्नानाभ्यावृत्तिकल्पनापत्तिः, प्रयुक्तिगौरवं च ॥
उत्तरयाऽपरि त्वार्र्वणो गिरःऽइत्येतया ।
अहतेन अनिवसितेन वाससा परिधाप्य, द्विराचमप्य, उत्तरयाऽआशासाना सौमनसम्ऽ इत्येतया योक्त्रेण सन्नग्यति ।
कृत्स्नविधानम् ।
केचितैष्टिकसन्नहनविधिप्रदर्शनार्थमिति ॥८॥
अथैनामुत्तरया दक्षिणे हस्ते गृहीत्वाग्निमभ्यानीयापरेणाग्निमुदगग्रं कटमास्तीर्य तस्मिन्नुपविशत उत्तरो वरः ॥ आपस्तम्बगृह्यसूत्र ४.९ ॥
टीकाः
अनुकूलावृत्ति ४.९
अथ सन्नहनानन्तरंऽयत्र क्वचाग्निऽमित्यादिकल्पेनाग्निं प्रसाधयति ।
मथित्वा श्रोत्रियागाराद्वाहृत्य ततो वधूमग्निमभ्यानयति ।
उत्तरयर्चाऽपूषात्वेतऽइत्येतया ।
आनयनमन्त्रोऽयम् ।
हस्तग्रहणं तु तूष्णीमेव ।
उदगग्रवचनं दक्षिणाग्रनिवृत्त्यर्थम् ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.९
अथशब्द उक्तार्थः अर्थकृत्यप्रतिषेधार्थ इति ।
<एनां> वधूं<दक्षिणे हस्ते गृहीत्वा, उत्तरया>ऽपूषा त्वेतो नयतुऽइत्येतया
<अग्निमभ्यानीया>ग्न्यभिमुखमानयति॑नयत्विति मन्त्रलिङ्गात् ।
व्यवहितेऽपि नयने विनियोगात्<अपरेणाग्निम्>अग्नेरदूरेणऽपस्चादुगग्रं <कटमास्तीर्य, तस्मिन्>कटे युगप<दुपविशतः,> यतोत्तरो <वरो> दक्षिणा वधूः ॥९॥
६. अग्नेरुपसमाधानादि कर्म ।
अग्नेरुपसमाधानाद्याज्यभागान्तेऽथैनामादितो द्वाभ्यामभिमन्त्रयेत ॥ आपस्तम्बगृह्यसूत्र ४.१० ॥
टीकाः
अनुकूलावृत्ति ४.१०
अथैवमुपविश्याग्नेरुपसमाधानादि कर्म प्रतिपद्यते ।
अग्निमिध्वा प्रागग्रैरित्यादि आज्यभागान्ते कर्मणि कृते अथानन्तरमुपोत्थाय एनामासीनां वझूं तृतीयस्यानुवाकस्यादितो द्वाभ्यामृग्भ्यांऽसोमः प्रथमऽइत्येताभ्यामभिमन्त्रयेत ।
अग्नेरुपसमाधानादि वचनं तन्त्रप्राप्त्यर्थम् ।
आज्यभागान्तग्रहणमभिमन्६णादेरुत्तरस्य कर्मण कालोपदेशार्थम् ।
अथशब्दोऽवस्थान्तरप्रदर्शनार्थः ।
आज्यभागान्तमासीनः कृत्वा अतोत्थायाभिमन्त्रणादि प्रतिपद्यत इति ।
तथा च बोधायनःथास्या उपोत्थाय हृदयदेश (बौ.गृ.१४१) मिति ।
आश्वलायनश्चतिष्ठन् प्राङ्मुखः प्रत्यङ्मुख्या आसीनाया (आश्व.१७३) इति ।
एनामित्युच्यते अग्नेरभिमन्त्रणं मा शङ्कीति ।
उत्तराभ्यामिति वक्तव्ये आदितो द्वाभ्यां इत्युच्यते मन्त्रसमाम्नाये अनुवाकव्यवस्थाप्रदर्शनार्थम् ।
तेन"शेषं समावेशने जपे"दित्यादावनुवाकशेषस्य ग्रहणम् ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.१०
अथं तन्त्रोपदेशः क्रमार्थ इत्युक्तमेव ।
यदि तु लाजहोमास्तन्त्रशून्या आगन्तुकाः, तदा स क्रमतन्त्रविधानार्तः ।
अथोति पूर्ववत् ।
केचित्कल्पान्तरसिद्धो पोत्थानानन्तर्यप्रदर्शमार्थमिति ॥
<एनां>वझूं वरः<आदित अ>नुवाकस्यऽसोमः प्रथमःऽइत्यस्यऽसोमः प्रथमःऽइति<द्वाभ्यां> ऋग्भ्यामभिमन्त्रयेत ॥१०॥
७. पाणिग्रहणम् ।
अथास्यै दक्षिणेन नीचा हस्तेन दक्षिणमुत्तानं हस्तं गृह्णीयात् ॥ आपस्तम्बगृह्यसूत्र ४.११ ॥
टीकाः
अनुकूलावृत्ति ४.११
अथ तथैवावस्थितः<अस्यै> अस्याः तथैवासीनाया दक्षिणमुत्तानं हस्तं गृह्णीयात् ।
<दक्षिणेन नीचा>न्यक्भूतेन पस्तेन ।
इदं पाणीग्रहणं नामकर्म ।
दक्षिणेनेति न वक्तव्यम् ।
एकपाणिसाध्येषु कर्मसु दक्षिणस्यैव प्रसिद्धत्वात् ।
अथाप्रसिद्धः, अन्यत्रानियमः प्राप्नोति ।
यथात्रैव पुरस्तादुपनयने च ।
एवं त४ इ नात्र दक्षिमहस्तो विधीयते ।
किं तर्हि?न्यक्ताविदानार्तमनूद्यते योऽयं दक्षिणो हस्त सर्वकर्मसु प्रसिद्धः तेन नीचापाणिग्रहणमिह कर्तव्यमिति ।
अस्मादेव चानुवादात्सर्वत्र दक्षिणपाणिरिति सिद्धम् ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.११
अनेन नित्यविधिनाऽसोऽभीवाङ्गुष्ठम्ऽइत्येतावन्मात्रस्य व्यवहितस्यापि सम्बन्धः ।
इतरथा स इति न ब्रूयात् ।
अस्मै अस्या वध्वाः॑षष्ठ्यर्थे चतुर्थी ।
<उत्तानं दक्षिणं हस्तं>वरस्स्वेन<नीचा> न्यग्णूतेन दक्षिमहस्तेन ।
<अभीवाङ्गुष्ठं>अभिरुपर्यथः ।
इवेत्यवधारकः ।
उपर्यङ्गुष्ठमेव गृह्णीयात् ॥११॥
अथ काम्यं विधिदिवयमाह
८. तत्र कामनायां विशेषः ।
यदि कामयेत स्त्रीरेव जनयेयमित्यङ्गुलीरेव गृह्णीयात् ॥ आपस्तम्बगृह्यसूत्र ४.१२ ॥
टीकाः
अनुकूलावृत्ति ४.१२
अङ्गुलीरेव नाङ्गुष्ठं नापि पाणितलम् ।
पूर्वोक्तस्यैवायं कामसंयुक्तो विशेषविधिः ।
तेनेहापि दक्षिणेन नीचा हस्तेनेत्येवमादयो विशेषा भवन्ति ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.१२
अङ्गुलीरेव नाङ्गुष्ठम् ।
शेषं नित्यवत् ॥१२॥
यदि कामयेत पुंस एव जनयेयमित्यङ्गुष्ठमेव सोऽभीवाङ्गुष्ठमभीव लोमानि गृह्णाति ॥ आपस्तम्बगृह्यसूत्र ४.१३ ॥
टीकाः
अनुकूलावृत्ति ४.१३
गृह्णीयादित्यनुवर्तते ॥१३॥ ॥१४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.१३
<अभीव लोमानि>, यथा वरस्याङ्गुष्ठलोमानि सर्वाण्येवोपरि भवन्ति तथा गृह्णाति ।
शेषं नित्यवदेव ।
अतो वध्वङ्गुष्ठमप्युत्तानम् ॥ १३ ॥
पूर्वोक्तस्य नित्यस्य काम्ययोश्च मन्त्रानाह
गृभ्णामि त इत्येताभिश्चतसृभिः ॥ आपस्तम्बगृह्यसूत्र ४.१४ ॥
टीकाः
अनुकूलावृत्ति ४.१४
यः माणिग्रहणे कामं नेच्छति स पाणिमभीवाङ्गुष्ठमभीव लोमानि गृह्णीयादित्येव ।
अभिशब्द उपरिभावे ।
इव शब्द ईषदर्थे ।
यथा लोमानि हस्तजातानि इषदभिस्पृषाट्नि भवन्ति ।
<अङ्गु॰ठञ्च>तथा गृह्णीयादित्यर्थः ।
"लोमान्ते हस्तं शाङ्गुष्ठमुभयकाम" (आश्व.गृ१७५) इत्याश्वलायनः ॥१५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.१४
गृह्णीतीति सम्बन्धः ।
सर्वासामन्त एव ॥१४॥
९. सप्तपदीगमनम् ।
अथैनामुत्तेरणाग्निं दक्षिणेन पदा प्राचीमुदीचीं वा दिशमभि प्रक्रमय त्येकमिष इति ॥ आपस्तम्बगृह्यसूत्र ४.१५ ॥
टीकाः
अनुकूलावृत्ति ४.१५
अथेदानीमेनां वधूमृत्त्थाप्योत्तरेणाग्निं यो देशस्तस्मात्प्रक्रम्य प्राचीं वा दिशमभि उदीचीं वा दक्षिणेन पदा सप्त पदानि प्रक्रामयति
एकमिष इत्येतैर्मन्त्रैः ।
प्राग्गतान्युदग्गतानि वा पदानि निधापयतीतियर्थः ।
अत्र स्वयमेव पादं गृहीत्वा मन्त्रांश्चोक्त्वा निधापयति ।
संभाराक्रमणवत् ।
दक्षिणेन पदेति मन्त्राणां दक्षिणसम्बन्धार्थ पूर्वप्रवृत्त्यर्थ च, तस्मात्तूष्णीमितरस्य पश्चादनुप्रवृत्तिः ।
इह सोमाय जनिविदे स्वाहेत्येतैः प्रतिमन्त्रमित्यत्र एतैः प्रतिमन्त्रमिति न वक्तव्यम् ।
यथाचैतत्तथा तत्रैव वक्ष्यामः ।
तस्मात्तयोरिहपकर्षेण संबन्धः ।
एकमिष इत्येतैः प्रतिमन्त्रमिति ।
इतरथा प्रतिपदं मन्त्रसम्बन्धो न सिध्यति ।
पदानाञ्च सप्तसंख्यानियमोऽतोत्तराभिस्तिसृभिः प्रदक्षिणऽमित्यत्र तिसृणामन्ते परिक्तमणारम्भः तद्वदिहापि स्यात् ।
ऽविष्णुस्त्वा न्वेत्विऽति सर्वत्रा नुषजन् जपति प्रथमोत्तमयोः पठितत्वात् ॥ १६ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.१५
अथाग्नेरदूरेणोत्तरत आरभ्यैनां<दक्षिणेन पदा>पादेन<प्राचीमुदीचीं वा दिशमभि>प्रागायतान्युदगायतानि वा सप्त पदानि प्रक्रमयति॑ऽएकमिषेऽइत्यादिभिस्सप्ताभिडऽविष्णुस्त्वान्वेषुऽइत्यनुषक्तैः प्रतिमन्त्रम् ॥१५॥
सखेति सप्तमे पदे जपति ॥ आपस्तम्बगृह्यसूत्र ४.१६ ॥
टीकाः
अनुकूलावृत्ति ४.१६
उक्तं सप्तपदानि प्रतिमन्त्रं प्रक्रमयतीति ।
तत्र सप्तमे पदे निहिते पादमुपसंगृह्यैवऽसखासप्तपदेऽत्यापभ्य जपति होममन्त्रेभ्यः प्राक्ये मन्त्राः तानित्यर्थः ।
त६ कल्पान्तरे दृश्यतेऽसप्तमं पदमुपसंगृह्येति ॥१७॥
प्राग्धोमादित्युच्यते जपपरिमाणार्थम् ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ४.१६
स वर<स्सप्तमे पदे> निहितेऽसखा सप्तदाऽइत्यादिऽसूनृतेऽइत्यन्तं जपति, चातुस्स्वर्येणैव ॥१६॥
इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने चतुर्थः खण्डः
अथ पञ्चमः खण्डः
१० वैवाहिकाः प्रधानहोमाः ।
प्राग्घोमात्प्रदक्षिणमग्निं कृत्वा यथास्थानमुपविश्यान्वारब्धायामुत्तरा आहुतीर्जुहोति सोमाय जनिविदे स्वाहे त्येतैः प्रतिमन्त्रम् ॥ आपस्तम्बगृह्यसूत्र ५.१ ॥
टीकाः
अनुकूलावृत्ति ५.१
समाप्य जपमथाग्निं प्रदक्षिणं करोति तया सह प्रदक्षिणं परिक्तामतीत्यर्थः ।
सर्वत्र दक्षिणे हस्ते गृहीत्वा परिक्रमणम् ।
ततो यतास्थानमुपविशतः ।
यस्य यत्स्थानमुपदिष्टंऽउत्तरो वरऽइति तस्मिन्नित्यर्थः ।
<उपविश्य>वध्वा<मन्वारब्धायां>अन्वरब्धवत्यां <उत्तरा>ष्षोडश प्रधानाहुतीर्जुहोति ।
होमाय जनिविदेस्वाहेत्योतैः प्रतिमन्त्रम् ।
दर्वीहोमत्वादेवोपवेशने सिद्धे उपविश्येत्युच्यते नियमार्थौत्तरा एव षोडशोपविश्यजुहोति, अन्याः स्थित्वैवेति ।
तेन लाजास्तिष्ठता होतव्याः ।
तथा च कल्पान्तरेषु बहुषु दृश्यते बोधायनानां बह्वृचानां छन्दोगानां वाजसनेयिनामाथर्वणिकानाञ्च ।
उपहोमोषु यथाप्राप्तमासनमेव भवति ।
एतच्च वक्ष्यामः ।
अन्ये त्वासीनयोरेव होममिच्छन्ति ।
ऽसोमाय जनिविदऽइति मन्त्रनिर्देशो होममन्त्राणामदिप्रत्ययनार्थः तेन प्रागेव तस्मात्जपमन्त्राः ।
तदुक्तं पुरस्तात्प्राग्घोमादिति ।
उत्तरा आहुती रित्येव प्रतिमन्त्रं होमस्सिद्धः यथान्येषु होमेषु ।
एतैः प्रतिमन्त्रमित्येतत्तु पुरस्तादपकृष्यत इत्युक्तम् ।
तत्रादितश्चत्वारो मन्त्राः स्वाहाकारान्ताः पठिताः ।
ततो द्वादसर्चः, तास्वन्ते स्वाहाकारः जुहोतिचोदनः स्वाहाकारप्रदानः इति ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.१
सखेति जपित्वा,<प्राग्घोमात्> होमात्प्राकग्निप्रदक्षिणमेव वध्वा सहकुर्यान्नान्यदर्थकृत्यमावश्यकमपि॑ऽप्राग्घोमादिऽत्यधिकग्रहणात् ।
ततो <यथास्थानं>ऽउत्तरो वरः इत्युक्तस्थानानतिक्रमेण, न त्वनियमेन,<उपविश्य>वध्वा<मन्वारब्धायामुत्तराः>उत्तरमन्त्रकरणिका
<आहुती>र्होमान् जुहोति ।
के पुनस्त उत्तरे मन्त्राः?कथं च जुहोति ?इत्यत आहऽसोमाय जनिविदेऽइत्यादयष्षोडश मन्त्राः ।
तेषामदितश्चत्वारि यजूंषि,ऽप्रेतो मुञ्चातिऽइत्यादयो द्वादशर्चः ।
एतैः प्रतिमन्त्रं प्रतिस्वाहाकारं जुहोति, न पुनःऽयज्ञंस्वाहा वाचि स्वाहा वातेधास्स्वाहाऽ(तै.सं.१११३) इतिवत्ऽअवदीक्षमदास्थ स्वाहाऽ(एका.१४४) इत्येतेनैव स्वाहाकारेण होमः ।
पूर्वेषामहोमार्थता च ।
जुहोशब्दार्थश्च तद्धितेन चतुर्थ्या मन्त्रलिङ्गादिना वा प्रतिपन्नाश्चोदिता देवताश्चोदितेनैव चतुर्थ्यन्तशब्देनोदिश्य यजमानेन त्यक्तस्य हविषश्चोदिताधारे प्रक्षेपः ।
इह च मन्त्रलिङ्गात्सोमादयो देवताः ।
ताश्च न जनिवित्त्वादिविसेषविशिष्टाः ।
होमविध्यनुपपत्त्या हि मन्त्रप्रतिपन्नानां देवतात्वं कल्प्यम्, साच देवतामात्रकल्पनयो शाम्यति ।
न पुनर्निर्बीजां गुर्वीं विशिष्टकल्पनां प्रयुक्तिगौरवापादिकामयुक्तामपेक्षते ।
न च ग्राहकमन्त्राम्नानतयोरनुपपत्त्या विशिष्टानां देवतात्वकल्पना ।
विशेषणानांऽमूर्धा दिवः ककुत्ऽ इत्यादिवत्स्तुत्त्या देवताधिष्ठानान्वयेऽपि तयोश्च रितार्थत्वात् ।
हविश्चाज्यमाऽजुहोतीति चोद्यमाने सर्पिराज्यं प्रतीयात्ऽ(आप.प.१२५) इति परिभाषावचनात् ।
विवादादेरयज्ञत्वेऽपि यज्ञेष्वधिकरिष्यमाणपुरुषदेहयोग्यतापादकत्वेन तत्र यज्ञधर्मा युक्ता एव ।
अन्यथा
आधानपवमानेष्ट्यादिष्वयज्ञेषुऽयज्ञोपवीती प्रदक्षिणम्ऽ(आप.प.२१५) इत्यादयो न प्रापनुयुः ।
होमाधारस्तूपसमाहितोऽग्निस्स्थित एव ॥१॥
११ वध्वाः अश्मन उपर्यास्थापनम् ।
अथैनामुत्तरेणाग्निं दक्षिणेन पदाश्मानमास्थापयत्यातिष्ठेति ॥ आपस्तम्बगृह्यसूत्र ५.२ ॥
टीकाः
अनुकूलावृत्ति ५.२
पदप्रक्रणणं पदास्थापनम्<अश्मा> दृषत्पुत्रः ।
स च प्रागेव पात्रैस्सह प्रतिष्ठापितो भवति ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.२
व्यक्तार्थम् ॥२॥
१२ लाजहोमाः ।
अथास्या अञ्जलावुपस्तीर्य द्विर्लअजानोप्याभिघारयति ॥ आपस्तम्बगृह्यसूत्र ५.३ ॥
तस्यास्सोदर्यो लाजानावपतीत्येके ॥ आपस्तम्बगृह्यसूत्र ५.४ ॥
टीकाः
अनुकूलावृत्ति ५.४
अथशब्दः स्थानसम्बन्धार्थः ।
अथोत्थित एवास्याश्चोत्थिताया एवेति ।
तेनावदानप्रभृत्थानमेव भवति ।
तत्र दार्शपौर्णमासिकोऽवदानकल्पः प्रदर्शितः न कल्पान्तरम् ।
तदिहापि प्रत्यभिधागणं पञ्चावत्तञ्च पञ्चावत्तिनां भवति ।
लाजानां च लौकिकः संस्कारः ।
पात्रैश्च सह सादनप्रोक्षणे भवतः ।
अञ्जलेस्तु न सादनादि भवतीत्युक्तम् ॥४॥
सोदर्यो लाजानावपतीति वचनातुपस्तरणाभिघारणे वरस्यैव भवतः ।
पक्षान्तरे तु तस्यैव सर्वम् ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.४
एते अपि सूत्रे व्यक्तार्थे ।
आचाराल्लाजानां त्रिरावापो जमदग्नीनाम् ।
लाजहोमाश्चापूर्वाः,ऽअस्या अञ्जलावुस्तीयऽइत्यादि कृत्स्नविधानात्पार्वणातिदेशाभावात्पाकयज्ञधर्माग्निमुखप्रत्यभिघारणस्विष्टकृल्ले पाञ्जनानामप्राप्तिरेव ॥
केचित्कृत्स्नाविधानादेव साधारणतन्त्रस्य प्राप्त्यभावात्लाजकिंशुकहोमेषु तन्त्रमध्यस्थं येन जुहोतात्याद्यञ्जलिसंस्कारमपि नेच्छन्ति ॥३॥
जुहोती यं नारी ति ॥ आपस्तम्बगृह्यसूत्र ५.५ ॥
टीकाः
अनुकूलावृत्ति ५.५
वरस्यैव जुहोतिक्रिया ।
पात्रस्थानीयो वध्वञ्जलिः ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.५
वर एवऽइयं नारीऽइत्यनया ऋचाभिन्नेन वध्वञ्जलिना देवतीर्थेन लाजान् जुहोति ।
न पार्श्वेन॑ुपदेशातिदेशोरभावात् ।
केचित्ऽप्रदक्षिणमग्निं कृत्वा यथास्थानमुपविश्यऽइत्येष विधिरुत्तरतो वरोऽभ्यन्तरतो वधूरित्येवंरूपयथास्थाननियमार्थो न युज्यते ।
कुतः?
यतो विवाहे वधूप्राधान्येन तस्या अभ्यन्तरीभावो न्यायसिद्धः ।
वधूप्राधान्यं च स्त्रीणां अपुनर्विवाहादेव वेदितव्यमिति ।
एतच्चऽतस्मिन्नुपविशत उत्तरो वरःऽ(आप.गृ.४९) इत्यत्र सूत्रे व्याख्यातम् ।
अतो यथास्थानानुवोदेन परिभाषासिद्धोपवेशननियमार्थ एवायं विधिः ।
उत्तराष्षोडशैवाहुतारुपविश्य जुहोति, न लाजहोमानपि ।
ते त्वस्मादेव नियमात्बहुतरगृह्यान्तरानुरोधाच्च अविगीतास्मदीयाचारमुल्ल्ङ्घयापि तिष्ठतैव होतव्या इति ।
तन्न॑यत औपासनोत्पादनद्वारा देहसंस्कारोत्पादनद्वारा च जायापत्युभयसाध्ययज्ञोपकारके विवाहे तयोर्सममेव स्वामित्वलक्षणं प्राधान्यम् ।
अपि च चोदितसर्वकर्मसु पतिप्रयोगे यस्त्वया धर्माः कर्तव्यस्सोऽनया वध्वा सहेति पत्न्यास्सहत्ववचनात्प्रत्युत अप्राधान्यमेव स्त्रीणाम् ।
अपुनर्विवाहस्त्वासामप्राधान्येऽपिऽतस्मान्नैका द्वौ पति विन्दतेऽ(तै.स.६६४) इति निषेधबलादेवोपपध्यते ।
तस्मात्
न्यायतोऽभ्यन्तरीभावस्यानियमे विपर्यये वा प्राप्ते, उपवेशनानुवादेन यथास्थानमुत्तर एव वर इत्येतन्नियमार्थ एवायं विधिः तेन लाजहोमा अप्यासीनेनैव होतव्याः ।
तस्यऽआसीनो दर्वीहोमान् जुहोतिऽ(आप.प.३१०) इति सर्वदर्वीहोमानामविशेषेणास्माकं चोदितत्वात्, स्वसूत्रोक्तविषये बहुतराणामपि गृह्यान्तराणामनुपसंहार्यत्वाच्च ॥५॥
१३ अग्निप्रदक्षिणादि ।
उत्तराभिस्तसृभिः प्रदक्षिणमग्निं कृत्वाश्मानमास्थापयति यथा पुरस्तात् ॥ आपस्तम्बगृह्यसूत्र ५.६ ॥
टीकाः
अनुकूलावृत्ति ५.६
<उत्तराभिस्तिसृभिः>तुभ्यमाग्रे पर्यवहन्नित्यादिभुः अग्निं प्रदक्षिणं करोति ।
तां हस्ते गृहीत्वा तिसृणामन्ते परिक्रमणारम्भः
ऽवचनादेकं कर्म बहुमन्त्रऽमिति ।
उत्तराभिरिति बहुवचनेनैव त्रित्वपरिग्रहसिद्धे तिसृभिरिति वचनं तिसृभिरेकमेव परिक्रमणं यथा स्यात्प्रतिमन्त्रं क्रियाभ्यावृत्तिर्मा भूदिति ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.६
उत्तराभिःऽतुभ्यमग्रे पर्यवहनंऽइत्यादिभिस्तिसृभिः ।
प्रदक्षिणमग्निंकृत्वा ।
यथा पुरस्ताता तथा आतिष्ठेममित्यनया ॥६॥
होमश्चोत्तरया ॥ आपस्तम्बगृह्यसूत्र ५.७ ॥
टीकाः
अनुकूलावृत्ति ५.७
यथा पुरस्तादिति वर्तते ।
उत्तरयाऽअर्यमणं नु देवऽमित्येतया ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.७
लाजहोमश्चोत्तरयाऽअर्यमणं नु देवम्ऽइत्येतया ॥७॥
पुनः परिक्रमणम् ॥ आपस्तम्बगृह्यसूत्र ५.८ ॥
आस्थापनम् ॥ आपस्तम्बगृह्यसूत्र ५.९ ॥
टीकाः
अनुकूलावृत्ति ५.९
पुनरपि परिक्रमममग्नेः कर्तव्यं आस्थापनञ्चाश्मनः ।
पुनश्शब्दः क्रियाभ्यावृत्तिद्योतनार्थः ।
तेनोत्तराभिस्तिसृभिरित्यादिर्भवति ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.९
अग्निप्रदक्षिणम् ॥८॥
आत्मनः ॥९॥
होमश्चोत्तरया ॥ आपस्तम्बगृह्यसूत्र ५.१० ॥
टीकाः
अनुकूलावृत्ति ५.१०
<उत्तरया>ऽत्वमर्यमेऽत्येतया ऋचा ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.१०
ऽत्वमर्यमा भवसिऽइत्येतया ॥१०॥
पुनः परिक्रमणम् ॥ आपस्तम्बगृह्यसूत्र ५.११ ॥
टीकाः
अनुकूलावृत्ति ५.११
पुनस्शब्दः पूर्ववत् ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.११
ऽहोमश्चोत्तरयाऽइत्यादिषु पञ्चसु सूत्रेषुऽयथा पुरस्तात्ऽइत्यनुषङ्गः ।
कार्यः कार्यमिति च यथालिङ्गं वाक्यशेषः ॥११॥
जयादि प्रतिपद्यते ॥ आपस्तम्बगृह्यसूत्र ५.१२ ॥
टीकाः
अनुकूलावृत्ति ५.१२
पूर्वमग्नेरुपसमाधानादिवचनेन तन्त्रप्राप्तिर्दर्शिता ।
इदं तु वचनं कोलोपदेशार्थ परिक्रमणादूर्ध्व जयादयो यथा स्युरिति ।
इतरथा जयादीनुपजुहोतीति वचनाल्लाजहोमानन्तरमुपहोमः स्यात्ततस्तृतीयं परिक्रमणम् ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.१२
एतदुक्ताभिप्रायम्यत्र वचनं तत्रैव जयादयो, नान्यत्र॑न्वारम्भश्चैषु नास्तीति ॥१२॥
१४ योक्त्रविमोकानन्तरं शिबिकादिना वध्वाः स्वगृहं प्रति नयनम् ।
परिषेचनान्तं कृत्वोत्तराभ्यां योक्त्रं विमुच्य तां ततः प्र वा वाहयेत्प्र वा हारयेत् ॥ आपस्तम्बगृह्यसूत्र ५.१३ ॥
टीकाः
अनुकूलावृत्ति ५.१३
परिषेचनान्त ग्रहणं तन्त्रशेषोपलक्षणम् ।
तेन प्रणीताविमोकस्याप्यन्ते योक्त्रविमोकः ।
जयादि प्रतिपद्यत इत्येव सिद्धे परिषेचान्तग्रहणं तदनन्तरमेव योक्त्रविमोको यथा स्यात्प्रस्थानकाले मा भूदिति ।
<उत्तराभ्यां>ऽप्र त्वा मुञ्चामीऽत्येताभ्याम्॑वचनादेकं कर्म बहुमन्त्रमिति ।
द्विमन्त्रो विमोकः ।
तत इति वचनं योक्त्रविमोकस्य प्रस्थानकालनियमो मा भूत्यथोपपद्यते श्वो वा सद्यो वा तदा प्रतिष्ठेतेत्येवमर्थम् ।
<प्रवाहणं>रथादिभिर्नयनं,<प्रहारणं>मनुष्यवाह्येन शिबिकादिना नयनम् ।
उभयत्र वाशब्दः उभयोरपि पक्षयोस्तुल्यत्वज्ञापनार्थः ।
अन्यथा रथानयनस्येह प्रत्यक्षकल्पोपदेशादनुपदिष्टकल्पं मनुष्ययानमाग्निहोत्रिककल्पवत्सूचितं विज्ञायेत ।
अतः
उभयत्र वाशब्दः, तेन मनुष्यनयनेऽप्यारोहतीमुत्तराभिरुत्तरया शंत उत्तराभि रित्येवमादयो मन्त्राः सिध्धा भवन्ति ॥१३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.१३
<परिषेचनान्तं कृत्वा,>सामर्थ्यात्तन्त्रशेषं समाप्येत्यर्थः ।
तेन शम्यापोहनप्रणीताविमो कब्राह्मणोद्वासनान्यपि करोति ।
<उत्तराभ्यांऽ> <प्र> त्वा मुञ्चामिऽइति द्वाभ्यां ऋग्भयाम् ।
योक्त्रं विमुञ्चति ।
ततः अनन्तरं<तां>वधूं हस्तिनमश्वं वा<प्रवाहयेत्> ।
शिबिकामान्दोलिकां रथं मनुष्यं वा<प्र वा हारयेत्> ।
उभयत्रऽव्यवाहिताश्चऽ(पा.सू.१४२८) इति वाशब्दव्यवधानम् ।
वाशब्दद्वयं तु तुल्याविमौ विधी, नान्यतरोऽनुकल्प इति ज्ञापयितुम् ।
अत्रऽविमुच्येऽति क्त्वाप्रत्यये सत्यपिऽततऽइति यदाह तज्ज्ञापयति, नावश्यं क्त्वाप्रत्यययुक्तं वचनं पूर्वकालतां समानकर्तृकतां वा विदधाति ।
कदाचित्केवलक्रियाविधानमेव सिद्धवदनुवदति, यथाऽवेदं कृत्वाग्नीन् परिस्तीर्यऽ(आप.श्रौ.११२१५) इति ।
अत्र हि न वेदकरणस्य परिस्तरणपूर्वकालता॑वेदपरिवासनविधानाग्न्यागारसमूहनायतनोपलेपनानामपि मध्ये कर्तव्यत्वात् ।
तथात्रापिऽपरिषेचनान्तं कृत्वोत्त्राभ्यां योक्त्रं विमुच्यऽइति प्रमीतामोक्षणादेर्मध्ये कर्तव्यत्वात् ।
तथा दधिघर्मेऽएतस्मिन् काले श्रातं हविरिति प्रत्युक्त्वा तमादायाहवनीयं गत्वाऽ(आप.श्रौ.१३३४) इति ।
तत्रापि प्रतिप्रस्थाता तधिघर्मसंस्कर्ता, होमकर्ताध्वर्युः ततस्समानकर्तृत्वाभावः ।
तथैवान्यत्राप्यश्वमेधेऽदक्षिणापप्लाव्याहं च त्वं च वृत्रहन्निति ब्रह्म यजमानस्य हस्तं गृह्णातिऽ(आप.श्रौ.) इति ।
तथैवात्रऽस्मृतं च म इत्येतद्वाचयित्वा गुरवे वरं दत्वोदायुषेत्युत्थाप्यऽ(आप.गृ.१११७) इति ॥१३॥
१५ वैवागिकाग्नेर्नित्यधारणम् ।
समोप्यैतमग्निमनुहरन्ति ॥ आपस्तम्बगृह्यसूत्र ५.१४ ॥
टीकाः
अनुकूलावृत्ति ५.१४
एतं वैवाहिकमग्निमुखायां समोप्य दम्पत्योर्गच्छतोरनु पृष्ठतः<हरन्ति>तदीयाः पुरषाः ।
समोप्यवचनं श्रौतेष्वग्निषु दृष्टस्य समारोपणस्य प्रतिषेधार्थम् ।
एवं प्रतिषेदं कुर्वन्नेतद्दर्शयति अनुगतो मन्थ्य इत्यत्र श्रौतवदवक्षाणेभ्यो मन्थनमिति ।
अनुशब्दः पुरस्तान्नयनप्रतिषेधार्थः ॥१४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.१४
एतं विवाहाग्निं समोप्योखायामनुहरन्ति अव्यवायेन वध्वाः पश्चान्नयन्ति परिकर्मिणः ।
एतमितिग्रहणं विवाहाग्नेरौपासनाख्यस्य संस्कारशब्दाभिव्यङ्ग्यस्य प्रयाणेऽपि नित्यं प्रत्यक्षनयनार्थम् ।
अगृह्यमाणे त्वेतमित्यास्मिनदृष्टार्थ सर्वार्थस्य लौकिकाकाग्नेरनुहरणं स्यात् ।
औपासनस्य च गृह्यान्तरेण प्रयाणे विहितं समारोपणं स्यात् ॥१४॥
नित्यः ॥ आपस्तम्बगृह्यसूत्र ५.१५ ॥
धार्यः ॥ आपस्तम्बगृह्यसूत्र ५.१६ ॥
टीकाः
अनुकूलावृत्ति ५.१६
एष वैवाहिकोऽग्निर्नित्यः शाश्वतिको <धार्यः>पत्नीसम्बन्धानां कर्मणामर्थाय ॥१५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.१६
पाणिग्रहणादारभ्य सर्वाचारलक्षणकर्मार्थमयमग्निर्नित्यः, यावज्जीवं नोत्सृज्यते॑ऽपाणिग्रहणादिरग्निस्तमौपासनमित्याचक्षते, तस्मिन् गार्ह्याणि कर्माणिऽ(हि.गृ.२६.१,२) इति हिरण्यकेशिवचनात् ।
अतः साङ्गे विवाहे समाप्तेऽपिऽअपवृत्ते कर्मणि लौकिकस्सम्पद्यतेऽ (आप.प.४२२) इति न भवति ॥१५॥
नित्य इति सिद्धे धार्य इत्यारम्भात्प्रयाणेऽप्यस्य समिध्यात्मन्यरप्योर्वा समारोपणं गृह्यान्तरविहितं विकल्पेनापि न स्यात् ।
यथाऽजुह्वा स्रुवेण वा सर्वप्रायश्चित्तानि जुहोतिऽ(श्रौ.२१११) इत्यत्रऽअध्वर्यु कर्तारम् (आप.प.१२६) इति वचनातध्वर्युरेव कर्ता, नतुऽजुहोतिजुतीति प्रायश्चित्ते ब्रह्माणम्ऽ (आश्व.श्रौ.१११६) इत्याश्वलायनसृत्रविहितो ब्रह्मा विकल्पेनापि ।
एवं चऽसमोप्यैतमग्निमनुहरन्तिऽ(आप.गृ.५१४) इति सर्वस्य धर्मोऽयं , न वैवाहिकप्रयाणस्यैव ।
यथा समोप्यैतावग्नी अन्वारोप्यऽ इत्याग्निकप्रयाणेऽस्य विहितो धर्मस्सर्वार्थः ।
एवं विधेषु यद्यपि याज्ञिका विकल्पं नेच्चन्ति, तथापि विकल्पोऽस्तीत्यत्र ज्ञापकं भवति ।
ऽसवर्णापूर्वशास्त्रविहितायां यतर्तु गच्छतः पुत्रास्तेषां कर्मभिस्सम्बन्धःऽऽदायेनाव्यतिक्रमश्चोभयोःऽऽपूर्ववत्यामसंस्कृतायां वर्णान्तरे च मैथुने दोषःऽ(आप.घ.२१३१,२,३)
इत्यसवर्णदारसङ्ग्रहणं प्रतिषिध्य स्वयमेवाह सूत्रकारः स त्रयाणां वर्णानाम्ऽ(आप.प.१२) इति ।
त्रयाणामित्येतस्य पदस्यार्थो भाष्यकारेण व्याख्यातःऽतिस्रो हि तस्य भार्यास्स्मृत्यन्तरवचनादप्रतिषिद्धाः, तस्य कथं सह ताभिरधिकारस्स्यादित्येवमर्था त्रिसङ्ख्याऽइति ।
एतत्सूत्रभाष्याभ्यामसवर्णदारसङ्ग्रहस्स्मृत्यन्तरविहितो न सर्वथैव निषिद्ध इति गम्यते ।
तच्चान्येष्वप्येवांविधेषु विकल्पस्य ज्ञापकमेव ॥ १३ ॥
अस्यौपासनस्यो द्वातस्योत्पत्तिमाह
१६ अनुगतौ मथनम् ।
अनुगतो मन्थ्यः ॥ आपस्तम्बगृह्यसूत्र ५.१७ ॥
टीकाः
अनुकूलावृत्ति ५.१७
<अनुगतः>उद्वातः मन्थयः मन्थनेनोत्पाद्यः ।
अस्मिन् पक्षे विवाहेऽप्यस्य योनिरेषैव ।
धारणं चारप्योर्विवाहप्रभृति भवति ।
तत्र विवाहे अरणीभ्यां मन्थनम्, अनुगते स्वेभ्य एवावक्षाणेभ्य इत्युक्तम् ।
तदभावे भस्मना अरणी संस्पृश्य मन्थनम् ॥१६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.१७
यद्ययमग्निरनुगतः निर्वाणस्स्यात्तदा<मन्थ्यः>तेभ्य एवावक्षणेभ्योऽधि मन्थितव्यः ।
यदि तनि न स्युरसमर्थानि वा, तदासय भल्मना अरणी संस्पृश्य मन्थितव्यः ॥१७॥
१७ श्रोत्रियागाराद्वाऽहरणम् ।
श्रोत्रियागाराद्वाऽहार्यः ॥ आपस्तम्बगृह्यसूत्र ५.१८ ॥
टीकाः
अनुकूलावृत्ति ५.१८
श्रुतवृत्ताध्ययनसम्पन्नो ब्राह्मणः<श्रोत्रियः>तस्य गृहे यः पचनाग्निः तस्माद्वाहार्यः ।
अस्मिन् पक्षे विवाहेऽप्यस्य योनिरेषैव ॥१७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.१८
अथवाधीतवेदस्य गृहादाहार्यः ।
अयं च व्यवस्थितो विकल्पः ।
यदि मथितेऽग्नौ विवाहस्तदा मन्थ्यः ।
यद्याहृतेऽग्नौ तदाहार्यः ।
नष्टेषपहृते वाग्नावियमेवोत्पत्तिः ।
अनुगत इत्यस्य नष्टापहृतयोः प्रदर्शनार्थत्वात् ॥१८॥
प्रायश्चित्त्माह
१८ तत्र दम्पत्योरन्यतरस्योपवासः ।
उपवासश्चान्यतरस्य भार्यायाः पत्युर्वा ॥ आपस्तम्बगृह्यसूत्र ५.१९ ॥
टीकाः
अनुकूलावृत्ति ५.१९
अत्र व्यवहितकल्पनया पदानां सम्बन्धः ।
अग्नावनुगते भार्यायाः पत्युश्च उभयोरुपवासो भवति तयोरन्यतरस्य वेति ।
चशब्द उभयोरुपवाससमुच्चयार्तः ।
भार्यायाः पत्युश्चेति ।
वाशब्दोऽन्यतरस्य विकल्पार्थः ।
तयोरन्यतरस्य वेति ।
<उपवासः>उभयोरपि
कालयोरभोजनं, प्रसिद्धेः अनुगमनानन्तरमेव चाग्निप्रकल्पनं सर्वप्रायश्चित्तहोमश्च ।
नन्वनुगतो मन्थ्य इति प्रकृतं तत्किमनुगत इति निमित्तनिर्देशेन ? उच्यतेदम्पत्योः प्रस्थानमिह प्रकृतम् ।
तां ततः प्र वा वाहयेदिति ।
प्रासह्गिकस्त्वग्निधर्मः ।
ततश्चोपवासविधिरपि प्रसिथानशेष एव विज्ञायेत ।
तथा चऽत्रिरात्रमुभयोरधश्शय्या बरह्मचर्यऽमित्यादीनां प्रासङ्गिकेन संबन्धो न भवति ।
किन्तु प्राकरणिकेनैव ।
अनुगते उभयोरुपवासोऽन्यतरस्य वेत्येव सिद्धे भार्यायाः पत्युश्चेति पृथङ्निर्देशः कथमस्याग्नेरत्यन्तं भार्यासंबन्धः प्रतिज्ञापितस्यादिति ।
अत एव भार्यायाः पूर्वविर्देशः तेन यस्मिन् कर्मणि भार्यायास्सहत्वं नास्ति यथोपाकरणसमापनयोस्तस्यैतस्मिन्नग्नावप्रवृत्तिः ।
सपत्नीबाधनादौ च पत्त्युस्सहत्वाभावेऽपि भार्यासबन्धादेवास्मिन्नग्नौ प्रवृत्तिः ॥१८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.१९
अन्यतरस्य कालस्य अह्नो वा रात्रेर्चा सम्बन्धी उपवासः अनशनं भार्यायाः पत्युर्वा भवति ।
चकारोग्न्युत्पत्तिप्रायस्चित्तयोः समुच्चयार्थः ।
यद्यहनि रात्रौ वा प्राग्भोजनादनुगतिस्तदा मथित्वाऽहृत्य वाऽयत्रक्वचेऽति विधिनेपसमाधायऽयद्यविज्ञाता सर्वव्यापद्वाऽ इति
सर्वप्रायश्चित्तं हुत्वा कालशेषमुपवसेत् ।
यदि भोजनादूर्ध्व तदा तत्कालशेषमागामिकालं च ।
सर्वता तु विज्ञातमात्र एवानुगमने उत्पादनादि कार्यम्, निमित्तानन्तरं नैमित्तिकस्यावश्यकर्तव्यत्वात् ॥
अन्ये तु भार्यापत्योरुभयोरप्युपवासो न विकल्पः, स्वामित्वाविशेषात्,ऽपर्वसु चोभयोरुपवासःऽ(आप. ध.२१४) इति स्मार्ते समुच्चयस्य दृष्टत्वाच्च ।
वाशब्दस्तु चार्थ इति ।
तेषामुपवासश्चान्यतरस्येत्येतावदेवालं सूत्रम् ।
अर्थादेव स्वामिनोरुभयोरप्युपवासो भविष्यति ॥
केचित्ऽउपवासश्चान्यतरस्य भार्यायाः पत्युर्वानुगतेऽइति सूत्रं छित्वा व्यवहितान्वयकल्पनया व्याचक्षते अनुगतोऽग्नौ बार्यायाः पत्युश्चोपवासोऽन्यतरस्य वेति ।
अत्र प्रकृतेऽपि पुनरनुगत इति ग्रहणमधिकयत्नमन्तरेणैवंविधानां प्रासङ्गिकार्थता न स्यात्, किन्तु परमप्रकृतार्थतैवेति ज्ञापयितुमिति ॥१९॥
अनुगतेऽपि वोत्तरया जुगुयान्नोपवसेत् ॥ आपस्तम्बगृह्यसूत्र ५.२० ॥
टीकाः
अनुकूलावृत्ति ५.२०
उत्तरयर्चाऽअयाश्चाग्नेऽइत्येतया जुहुयाताहुतिमेकाम् ।
इयमाहुति स्तन्त्रवति न भवति ।
परिस्तरणाज्यसंस्कारदर्वीसंमार्जनानि भवन्ति ।
अपि वेति वचनादेव वैकल्पिकत्वे सिद्धे उपवासप्रतिषेध इयमाहुतिरुप वासस्यैव प्रत्याम्नाया यथा स्यादिति ।
तेनेहापि सर्वप्रायश्चित्थोमस्य समुच्चयो भवति ।
तदिदं प्रायश्चित्तमप्यपहरणादिनाग्निनाशेऽपि द्रष्टव्यम् ।
अस्यैवाग्नेर्बुद्धिपूर्वोत्सर्गे द्वादशाहादूर्ध्व विच्छेदे च स्मृत्यन्तरे प्रायश्चित्तमुक्तम् ।
तत्राप्यग्निसंकार एतावानेव ॥१९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.२०
अपि वा अग्ना<वनुगते उत्तरया>ऽअयाश्चाग्नेऽइत्येतयाऽज्यं जुहुयान्नोप वसेत् ।
अनुगत इति पुनर्वचनान्न्ष्टापहृतयोर्नायं विकल्पः, किन्तूपवास एव ।
अपि वेत्येनेनैव उपवासपक्षे व्यावृत्ते, नोपवसेदित्यारम्भादुपवासमात्रेणैवायं विकल्पः प्रायश्चित्तं त्वत्राप्यस्त्येव ॥२०॥
१९ रथेन गमने विशेषाः ।
उत्तरा रथस्योत्तम्भनी ॥ आपस्तम्बगृह्यसूत्र ५.२१ ॥
टीकाः
अनुकूलावृत्ति ५.२१
अथ दम्पत्योः प्रस्थाने विशेषधर्मा उपदिश्यन्ते ।
उत्तरा सत्येनोत्तभिते त्येषा ।
<रथस्योत्तंभनी>अनयर्चा रथस्योत्तभनं कर्तव्यमित्यर्थः ।
केन?वरेण, अधिकृतत्वात् ॥२०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.२१
<उत्तरा>ऽसत्येनोत्तभिताऽइत्येषा<रथस्योत्तम्भनी>उत्तम्भने करणमन्त्रः ॥२१॥
वाहावुत्तराभ्यां युनक्ति दक्षिणमग्रे ॥ आपस्तम्बगृह्यसूत्र ५.२२ ॥
टीकाः
अनुकूलावृत्ति ५.२२
याभ्यमूह्यते रथः तौ <वाहौ>अश्वावनङ्वाहौ वा ।
<उत्तराभ्यां>ऽयुञ्जन्ति ब्रध्नं,ऽयोगे, इत्येताभ्यां<युनक्ति>युगधुरेराबध्नाति ।
युञ्जन्तीति दक्षिणं, योगे योगे इत्युत्तरम् ।
केचिदुभाभ्यामेकैकस्य योगमिच्छन्ति ॥२१॥
अर्थात्पश्चात्सव्यम् ।
प्रत्यङ्मुखत्वे च न सिध्यति वचनम् ।
अन्यत्र तथापवर्ग इत्येव सिद्धम् ॥२२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.२२
<उत्तराभ्यां>ऽयुञ्जन्ति ब्रध्नंऽऽयोगे योगेऽइति द्वाभ्यां अश्वावनड्वाहौ वा युगधुरोराबध्नाति ।
तयोश्च<दक्षिणं> वाहं पूर्व<यनक्ति> ।
द्वाभ्यां द्वाभ्यामेकैकं, नैवैवया ।
अत्र च उत्तराभ्यामिति द्वन्द्वापवादेनैकशेषेण समभिव्याहृतयोजनक्रियापेक्षयेतरेतरयोगाभिहितयोर्द्वयोरपि मन्त्रयोस्सहितयोर्विनियोगात्ऽएकमन्त्राणि कर्माणिऽ(आप.प.१४१) इत्वस्यापवादः ।
नन्वेवं द्वितीयस्य मन्त्रस्यादृष्टार्थता स्यात्?
सत्यम्तथापि, द्वाभ्यां द्वाभ्यामेकैकमिति परमाप्तभाष्यकारवचनादेकैकवाहयोजने सहितमन्त्रद्वयाचारः कृत्स्नदेशकालकर्तृव्याप्त इत्यनुमीयते ॥ २२ ॥
आरोहतीमुत्तराभिरभिमन्त्रयते ॥ आपस्तम्बगृह्यसूत्र ५.२३ ॥
टीकाः
अनुकूलावृत्ति ५.२३
अथ तं रथं युक्तमारोहति वधूः ।
तामारोहतीमारोहन्तीं उत्तराभि"स्सुकिंशुकमि"त्येवमादिभिः अभिमन्त्रयते ।
इह बहुवचननिर्देशात्त्रिप्रभृति अनियमप्रसङ्गे मन्त्रलिङ्गाच्चतसृभिरिति नियमः ।
याने तूत्तंभनादि सर्व भवति ।
अश्वपुरुषादिषु च अभिमन्त्रणादयः दम्पतीधर्मा भवन्तीत्त्युक्तम् ।
ऽसुचक्रऽमिति मन्त्रलिङ्गात्रथ एव मन्त्रा इत्येके ।
वधूप्रतिपादनपरत्वात्मन्त्रस्य रथालिङ्गत्वमर्थवाद इत्यन्ये ॥२३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.२३
<रथमारोहति>मरोहन्ती वधूम् ।
नुमभावश्छान्दसः ।
ऽसुकिंशुकम्ऽ इत्यादिभिश्चतसृभिरभिमन्त्रयते ।
रथमेवारोहन्तीं नाश्वादिम्॑ सुचक्रिमिति लिङ्गविरोधात् ।
ऽउदुत्तरम्ऽइति वा तिसृभिरश्वादिकमारोहन्तीमभि मन्त्रयते ॥२३॥
२० युग्ययोः योजनप्रकारः ।
सूत्रे वर्त्मनोर्व्यवस्तृणात्त्युत्तरया नीलं दक्षिणस्यां लोहितमुत्तरस्याम् ॥ आपस्तम्बगृह्यसूत्र ५.२४ ॥
टीकाः
अनुकूलावृत्ति ५.२४
द्वे<सूत्रे>नीललोहिते रथस्य वर्त्मनोरुभयोर्ः ।
भविष्यन्निर्देशोऽयं ययोर्र्वतीष्येते रथचक्रे तयोर्र्वत्मनोः ।
वर्तिन्योरिति युक्तं पठितुम् ।
तथा च दक्षिणस्यामुत्तरस्यामित्युत्तरत्र स्रीलिङ्गानिर्दशोऽव कल्पते ।
<व्यवस्तृणाति> विशब्दस्तिर्यगर्थे,तिर्यगवस्तृणाति ।
<उत्तरया> नीललोहित इत्येतया ॥२४॥
<तयोस्सूत्रयोः> यन्नीलं दक्षिणस्यां वर्त्मन्यां<व्यवस्तृणाति> ॥२५॥
<उत्तरस्यामिति>सव्यस्य चक्रस्य वर्त्मन्यामित्यर्थः ।
सूत्रे युगपत्गृहीत्वा सकृदेव मन्त्रुमक्तवा व्यवस्तृणाति ।
सत्यपि देशभेदे मन्त्रलिङ्गात् ॥
<अपर> आहदेशभेदात्मन्त्राभ्यावृत्तिरिति ।
अभियानं तु सान्नाय्यकुम्भीवत्द्रष्टव्यमप्रस्रेसाय यज्ञस्योऽखे उपदधाम्यह मिति ।
सूत्रव्यवस्तरणमश्वादिषु नास्ति रथसंधात् ॥ २६ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.२४
वर्त्मनोः<वर्तन्योरित्यर्थपीठः ।
नीलं दक्षिणस्यामिति स्त्रीलिङ्गनिर्देशात् ।
रथस्य> <भाविन्योर्र्वतन्योः नीललोहिते भवतः उत्येतया द्वे> सूत्रे व्यवस्तृणाति<तिर्यक्स्तृणाति ।
एतच्च युगपत्, नीललोहिते भवत इति>
<द्विवचनलिङ्गात् ।
तयोश्च सूत्रयो>र्दक्षिणस्यां<वर्वन्यां> नीलं<व्यवस्तृणाति,>उत्तरस्यां<च> लोहितम्< ॥ २४ ॥
>ते उत्तराभिरभियाति ॥ आपस्तम्बगृह्यसूत्र ५.२५ ॥
टीकाः
अनुकूलावृत्ति ५.२५
ते <सूत्रे> अभियाति<उपरियाति ।
उत्तराभिस्तिसृभिः ऋग्भिः ये वध्वश्चन्द्रमित्येताभिः>
<तत्र रथेन गच्छन्नुपरियाति ।
मन्त्रास्त्वश्वादिगमनेऽपि वक्तव्याः गमनार्थत्वात्तेषां,नेत्यतये ।
मन्त्रलिङ्गात्त्रित्वनियमः ।>
<त्रयाणामन्ते गमनारम्भः ॥ २७ ॥>
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.२५
<ये वध्वश्चन्द्रमिति तिसृभिर्व्यवस्तीर्णे सूत्रे> अभियाति<उपरिगच्छति> ॥ २५ ॥
२१ नैमित्तिको जपः ।
तीर्थस्थाणुचतुष्पथव्यतिक्रमे चोत्तरां जपेत् ॥ आपस्तम्बगृह्यसूत्र ५.२६ ॥
टीकाः
अनुकूलावृत्ति ५.२६
अतीत्य<गमनमतिक्रमः अतिक्रम एव> व्यतिक्रमः<विशब्दोऽनर्थकः,>यथोपाय एवाभ्पाय इति ।
<उत्तसामृचं जपेद्वरः> तामन्दसानेत्येताम् ।
<निमित्तावृत्तौ जपस्यावृत्तिः ।
>च शब्दः प्रत्येकंजपसंबन्धार्थः ।
<इतरथा>
<त्रयाणामतिक्रमसन्निपाते जपः कार्यस्स्यात्मन्त्रलिङ्गात् ।
>न च मन्त्रे तीर्थादयस्स्तूयन्ते ।
किंतर्ह्यश्विनौ, तेनैकातिक्रमणे इतरयोः श्रवणं व्यर्थ स्यादिति न चोदनीयं, तत्पदोद्धारो वा शङ्कनीयः ॥ २८ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ५.२६
तीर्थ पुण्यनद्यादि ।
<स्थाणुर्गवां>कण्डूयनार्थ निखातः ।
<चतुष्पथः> प्रसिद्धः ।
एतेषां व्यतिक्रमेऽता मन्दसानाऽइत्येतां जपेत् ।
तीर्थादीनां चान्यतमव्यतिक्रमेऽपि कृत्स्नाया एव जपः , न त्वितरपदरहितायाः॑यतो लिङ्गाच्छुतिर्बलीयसी,ऽऐन्द्र्या गार्हपत्यमुपतिष्ठतेऽ इतिवत् ।
नन्वत्राचाराच्छ्रुतिरनुमेयेति न तया लिङ्गबाधो युक्तः ।
मैवम्, लिङ्गस्यात्र श्रुति विहितशोषिदिषयसापोक्षत्वात् ।
तत्र ह्यनुमेयश्रुतेर्दौर्बल्यं यत्रास्याः प्रत्युक्षुश्रुत्यैव विरोधः ।
अतोऽनुमेयापि श्रुतिस्सापेक्षलिङ्गबाधिकैव ।
वृत्तिभेदस्तु तीर्थादिशब्दानां तत्तद्व्यतिक्रमे मन्त्रप्रयोगभेदादुपपद्यते ।
अतस्तीर्थव्यतिक्रमेऽपि स्थाणुपथशब्दौ दुर्मतिस्थानसामान्यात्तीर्थमेवाभिवदतः ।
एवं स्थाणुमितरौ ।
चतुष्पथमपीतरौ ।
यथेध्मसम्भरणमन्त्रे उपवेषमेक्षणधृष्टिशब्दा अग्रिसंस्पर्शिकाष्ठमयत्वसामान्यातिध्मदारूण्येवाभिवदन्ति ।
यथा वा जातकर्मण्युत्तराभ्यामभिमन्त्रणं, मूर्धन्यवघ्राणं, दक्षिणे कर्णे जापः, (आप.गृ.१५१) इत्यभिमन्त्रणावघ्राणजपानां जातसंस्कारक्रियासामान्यादभिजिघ्रामीत्यभिवदनम् ।
किञ्चित्राश्विनोः प्राधान्येन स्तूयमानत्वात्तत्सकाशात्तीर्थादिव्यतिक्रमोत्थदोषोपहतेः प्रार्थ्यमानत्वादविकृताया एव जपः ।
अपि च पदान्तरोद्धारे जगतीत्वभङ्गप्रसङ्गः ।
न्यायतस्तु जपमन्त्रो नार्थपरः अतो नात्र तीर्थादयोऽश्विनौ वा तात्पर्येणाभिधीयन्ते ।
तस्मात्शूपपादः कृत्स्नाया एव जपः ।
एष एव न्यायो नदीनां धन्वनां च व्यतिक्रमे ॥२६॥
षष्ठः खण्डः
२२ मार्गमध्ये नावा नदीतरणे जपः ।
नावमुत्तरयानुमन्त्रयते ॥ आपस्तम्बगृह्यसूत्र ६.१ ॥
टीकाः
अनुकूलावृत्ति ६.१
अथ यदि पथि नावा तार्या नदी वापी वा स्यात्तत्र<नाव>मुत्तरयर्चाऽअयं नो मह्याः पारं स्वस्तीऽत्येतया<नुमन्त्रयते>
अनुमन्त्रयेतेत्यर्थः ।
पृष्ठतः स्थित्वा अनुवीक्ष्य मन्त्रोच्चारणमनुमन्त्रणम् ।
कृतेऽनुमन्त्रणे वरो वधूश्च तामारोहतः ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ६.१
यदि पथि नदी नावा तरितव्या स्यात्, तदा वरःऽअयं नो मह्याः पारम्ऽइत्येतया नावमनुमन्त्रयते ।
ततस्तामुभावग्निना सहारोहतः ॥ १ ॥
न च नाव्यां स्तरती वधूः पश्येत् ॥ आपस्तम्बगृह्यसूत्र ६.२ ॥
टीकाः
अनुकूलावृत्ति ६.२
ये नावं नयन्ति(ते) नावि भवा नाव्याः कैवर्ताः तान्<तरती> तरन्ती तरणकाल इत्यर्थः ।
स्त्रीलिङ्गनिर्देशादेव सिद्धे वधूग्रहणं दर्शनप्रतिषेधो वध्वा एव यथा स्यादिति ।
तेन तीर्त्वोत्तरां जपेदिति वरस्यैव भवति ।
चशब्दो वध्वा वरस्य च सहतरणप्रदर्शनार्थः ।
संहोभौ तरतः ।
वध्वास्त्वयं चापरो विशेष इति ।
केचित्नावा तार्॰ आपो नाव्या इति व्याचक्षते ।
तेषां पुंलिङ्गनिर्देशोऽनुपपन्नः ॥ २ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ६.२
<नाव्यान्>नौनेतॄन् कैवर्तान् ।
<तारतीति>छान्दसं रूपम् ।
तरन्ती तरणकाले ।
ऽलक्षणहेत्वोः क्रियायाःऽ(पा.शू.३२१२६) इति शत्रादेशः ।
वधूर्न पश्येत् ।
चकारात्वध्वास्तरणदर्शनप्रतिषेधश्च, वरस्य केवलं सह तरणमिति ज्ञापयति ॥२॥
तीर्त्वोत्तरां जपेत् ॥ आपस्तम्बगृह्यसूत्र ६.३ ॥
टीकाः
अनुकूलावृत्ति ६.३
<तीर्त्वा>पारं प्राप्य<उत्तरामृचं>ऽअस्य पारऽइत्येतां जपेद्वरः ।
यदि नदी न भवति तदा या ओषधय इत्येतामपि जपेत् ।
नदीनां धन्यानाञ्च व्यतिक्रमे इति वक्ष्यति ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ६.३
पारं प्राप्यऽअस्य पारेऽइत्येतां वर एव जपेत् ॥३॥
२३ श्मशानादिब्यतिक्रमे होमः ।
श्मशानाधिव्यातिक्रमे भाण्डे रथे वा रिष्टेऽग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं करोति ॥ आपस्तम्बगृह्यसूत्र ६.४ ॥
टीकाः
अनुकूलावृत्ति ६.४
श्मशानभूमेरध्युपरि व्यतिक्रमे भाण्डे भाजनादौ रथे रिष्टे नष्टे रथ इति प्रदर्शनमन्येषु चैवंप्रकारेषु दर्निमित्तेषु वक्ष्यमाणहोमः कार्यः ।
तत्राग्नेरुपसमाधानादि तन्त्रं प्रतिपद्यते ।
अधिशब्दप्रयोगाच्छ्मशानभूमेरुपरि गमन एवैतत्भवति ।
तीर्थादीनां तु समापेनातिक्रमेऽपि भवति ॥४॥
उत्तरा आहुतीर्जुहोति ।
ऽयदृतेचिऽदित्याद्यास्सप्त उत्तरमन्त्रैरैतैराहुतीर्जुहोतीत्यर्थः ।
मन्त्रलिङ्गात्सप्तनियमः ।
हुत्वा जयादितन्त्रशेषं प्रतिपद्यते ।
सकृत्पात्रप्रयोगः ।
शम्याः परिध्यर्थे ।
अग्नेरुपसमाधानादि वचनं तन्त्रप्राप्त्यर्थ, आज्यभागान्तवचनमन्वारम्भकालोपदेशार्थम् ।
ऽजयादि प्रतिपद्यतऽइत्येतच्चान्वारम्भानिवृत्त्यर्थम् ।
तथा जयादि यथासिद्धं प्रतिपद्यत इति ॥५॥
यदिदमग्नेरुपसमाधानादि परिषेचनान्तं कर्म तदनन्तरं नैमित्तिकमुक्तं तत्करोति ।
सकृदेव, न पुनः पुनरित्यर्थः ।
अनन्तरोक्तानां निमित्तानां देशकालभेदेनावृत्तावपि सकृदोवान्तेऽयं होमो भवतीत्यर्थः ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ६.४
<श्मशानाधिव्यतिक्रमे>श्मशानभूमेरुपरि व्यतिक्रमे,<भाण्डे>वधूभूषणादौ <रथे वा रिष्टे>, अग्नेरुपसमाधानादि परिषेचनान्तं करोति ।
केवलाज्यहविष्षु न वचनाभावे तन्त्रमित्युक्तमेव ।
आज्यभागान्त इति त्वन्बारम्भकालविध्यर्थम् ।
<उत्तराः>ऽयदृते विदभिश्रिषःऽइति सप्तकरणिका आहुतीः ।
शेषं व्यक्तम् ॥४॥
२४ क्षीर्यादिव्यतिक्रमे कर्तव्यो जपः ।
क्षीरिणामन्येषां वा लक्ष्मण्यानां वृक्षाणां नदीनां धन्वनां च व्यतिक्रम उत्तरे यथालिङ्गं जपेत् ॥ आपस्तम्बगृह्यसूत्र ६.५ ॥
टीकाः
अनुकूलावृत्ति ६.५
<क्षीरिणां> न्यग्रोधादीनामलक्ष्मण्यानाम्, अन्येषामपि<लक्षण्यानां>लक्षणयुक्तानां प्रसिद्धानां सीमावृक्षणामित्यर्थः ।
लक्ष्मण्यानामित्यपि पाठे अयमेवार्थः ।
<नदीनां>सोदकानां अनुदकानाञ्च ।
<धन्वनां> निर्जलानामरण्यानाञ्च <व्यतिक्रमे> उत्तरेऋचौ यथालिङ्ग यस्य लिङ्ग यस्यां दृश्यते तद्व्यतिक्रमे तां जपेत् ।
तत्र वृक्षातिक्रमे ये गण्धर्वा इति, नद्यतिक्रमे या ओषधय इति, धन्वातिक्रमे यानि धन्वानीति ।
यथालिङ्गवचनं उभयत्रोभे मा भूदिति ।
नद्यतिक्रमेऽपि कृत्स्ना भवति ।
तथा धन्वातिक्रमेऽपि ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ६.५
<क्षीरिणः>क्षीरवन्तः प्लक्षन्यग्रोधादयः लक्ष्म चिह्नं तत्र भवाः<लक्ष्मण्याः>दुर्गा तिन्त्रिणिका सीमाकदम्बा इत्येवमादयः ।
<नद्यः> प्रसिद्धाः<धन्वानो>दीर्घाण्यरण्यानि येषु ग्राम्याः पशवो न निवसन्ति ।
एतेषां चव्यतिक्रमे <उत्तरे यथालिङ्गं जपेत्> ।
ऽये गन्धर्वाःऽइति वृक्षाणां व्यतिक्रमे,ऽया ओषधयःऽइति नदीनां धन्वनाम् ।
यथालिङ्गमिति वचनं जातकर्मवन्मा भूदिति ।
क्षीरिणामित्यादि बहुत्वमविवक्षितम्, निमित्तगतत्वात्, हविरुभयत्ववत् ॥५॥
गृहानुत्तरया सङ्काशयति ॥ आपस्तम्बगृह्यसूत्र ६.६ ॥
टीकाः
अनुकूलावृत्ति ६.६
अथ स्वं गृहं प्राप्य रथादवरोप्य यद्धनं तस्या वहतुत्वेनागतं तच्च गृहान् प्रपाद्य ततस्तया तान्<सङ्काशयति>सम्यगीक्षयति
उत्तरयर्चा सङ्काशयामीत्येतया ।
मन्त्रश्चास्मिन्नर्थे यथाकथञ्चित्योजनीयः ।
सङ्काशयामि दर्शयामि वहतुं वध्वाः पितृकुलादानीतं धनं ब्रह्माणा मैत्रेण अघोरेण चक्षुषा न केवलमघोरेण, किं तर्हि मैत्रेण गृहैर्मदीयैस्सार्ध गृहं च मदीयमित्यर्थः ।
अस्यां पर्याणद्धं विश्वरूपाख्यं यदाभरणं तत्परिभ्यः एकस्मिन् बहुवचनम् ।
पत्यै मह्यं स्योनं मुखम् ।
सविता करोत्विति ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ६.६
वरःस्वगृहान् ज्ञातिधनसंयुक्तान् वधूंऽसङ्काशयामिऽइति ऋचा<सङ्काशयति>दर्शयति ।
ननुयद्यपि समित्युपसर्गःऽसमवदाय दोहाभ्यांऽ(आप.श्रौ.२२०३) इत्यादौ सहार्थे दृष्टः, तथापि गृहाणां ज्ञातिधनसहितत्वमेवात्राभिप्रेमिति कुतो निश्चीयते?
उच्यतेऽसङ्काशयामिवहतुम्ऽइति मन्त्रलिङ्गानुसारात् ।
मन्त्रार्थश्च भाष्योक्तः ॥७॥
वाहावुत्तराभ्यां विमुञ्चति दक्षिणमग्रे ॥ आपस्तम्बगृह्यसूत्र ६.७ ॥
टीकाः
अनुकूलावृत्ति ६.७
उत्तराभ्यां आवामगन्"अयं नो देवस्सवितेऽत्येताभ्याम् ।
योगवदेकैकेन मन्त्रेण विमोकः ॥९॥
अर्थात्सव्यं पश्चात् ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ६.७
ऽआवामगन्ऽइति द्वाभ्यामेकैकं वाहं विमुञ्चति ॥७॥
२५ गृहप्रवेशः ।
लोहितं चर्माऽनडुहं प्राचीनग्रीवमुत्तरलोम मध्येऽगारस्योत्तरयाऽस्तीर्य गृहान् प्रपादयन्नुत्तरां वाचयति दक्षिणेन पदा ॥ आपस्तम्बगृह्यसूत्र ६.८ ॥
टीकाः
अनुकूलावृत्ति ६.८
विमुच्य वाहौ वरः पूर्व गृहं स्वयं प्रविश्य यत्र दम्पत्योर्वासः तत्रागारस्य मध्ये चमीस्तृणाति उत्तरयर्चाऽशर्मा वर्मेऽत्येतया तच्चानडुहं भवति लोहितञ्च वर्णेन ।
प्राचीनमुत्तरलोमेत्यास्तरणे प्रकारः ।
आस्तीर्य ततो दक्षिणेन पदा गृहान्<प्रपादयति ।
वधूं>प्रवेशयति ।
प्रपादयंस्तामुत्तरामृचं<वाचयति>ऽगृहानिऽति प्रकृते पुनर्गृहानित्युच्यते हतरथा अगारस्यापि प्रकृतत्वात्प्रवेशने मन्त्रः शंक्येत ।
इदमेव ज्ञापकमन्तरगारमध्ये चर्मास्तरणमिति ।
प्रपादयन् वाचयतीति वचनान्मन्त्रकर्मणोरदिसंयोगः ।
न मन्त्रान्ते प्रदानम् ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ६.८
ततो वरः पूर्व स्वगृहान् प्रविश्यऽशर्म वर्मऽइत्येतया यथासूत्रं चर्मास्तीर्य ततो वधूं<दक्षिणेन पदा>गृहान्<प्रपादयन्>प्रवेशयन्ऽ गृहान् भद्रान्ऽइत्येतां वाचयति ॥८॥
न च देहलीमभि (धि) तिष्ठति ॥ आपस्तम्बगृह्यसूत्र ६.९ ॥
टीकाः
अनुकूलावृत्ति ६.९
देहलीनामद्वाराधस्ताद्दरु ।
पर्यन्तवेदिकेत्यपरे ।
तां प्रपादनकाले स्वयं सा च नातिक्रामोदितयर्थः ।
तयोः प्रपन्नयोरग्निमनुप्रपादयति ॥ १२ ॥
प्रपद्य गृहानथ तत्कालमशनमश्नीयात्ततो यस्मिन्नगारे चर्मातिपद्यते ।
सकृत्पात्राणि शम्याः परिध्यर्थे ॥१३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ६.९
सा च प्रविशन्ती देहलां नाभितिश्ठति ।
केचित्चकाराद्वरोऽपि इति ॥९॥
२६ प्रवेशहोमः ।
उत्तरपूर्वे देशेऽगारस्याग्रेरुपसमाधानाद्याज्यभागान्तेऽन्वारभ्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वोत्तरया चर्मण्युपविशत उत्तरो वरः ॥ आपस्तम्बगृह्यसूत्र ६.१० ॥
टीकाः
अनुकूलावृत्ति ६.१०
उत्तरास्त्रयोदशप्रधानाहुतीःऽआगन्गोष्ठऽमित्याद्याः लिङ्गविरोधे सत्यपि वर एव जुहोति, विधेर्वलीयस्त्वात् ।
भवति लिङ्गञ्चाविवक्षितम् ।
देवतास्मरणार्थत्वात्मन्त्राणाम् ।
उत्तरो वर इत्ययं विशेषः सर्वेषु होमेषु भवतीत्युक्तम् ।
उत्तरपूर्वदेशेगारस्येति विधिरग्नेस्सर्वत्र वेदितव्यः ॥१४॥
<उत्तरयर्चा>ऽइह गावः प्रजायध्वऽमित्येतया ।
तदुपविशतः परिषेचनान्तवचनमानन्तरमेवोपवेशनं कर्तव्यं नान्यदिति ।
तेन भोजनं प्रागेव्ति सिद्धम् ।
तत्रोपवेशने मन्त्र उभयोरपि भवति ।
इहाग्निसम्बन्धाभावातुत्तरो वर इत्युक्तम् ।
प्राङ्मुखौ चोपविशतः ॥१५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ६.१०
<उत्तराः>ऽआगनित्यादित्रयोदशाहुतीः ।
<उत्तरया>ऽइह गावः प्रजायध्वम्ऽइत्येतया ।
पूर्वेमास्तीर्णे <चर्मण्युपविशतः> ।
पूर्ववदुत्तर एव वरः ॥१०॥
२७ जीवपुत्रायाः पुत्राय फलदानम् । २८ दम्पत्योर्वाग्यमः ।
अथास्याः पुंस्वोर्जीवपुत्रायाः पुत्रमङ्क उत्तरयोपवेश्य तस्मै फलान्युत्तरेण यजुषा प्रदायोत्तरे जपित्वा वाचं यच्छत (ति) आ नक्षत्रेभ्यः ॥ आपस्तम्बगृह्यसूत्र ६.११ ॥
टीकाः
अनुकूलावृत्ति ६.११
य पुमांसमेव सूते न स्त्रियं सा पुंशूःऽतस्याः पुंस्वो जीवपुत्राया इति पाठः ।
न रेफः पाठ्यः, पठ्यमानो वा छान्दसो द्रष्टव्यः ।
जीवा एव पुत्रा यस्या न भृताः जीवपुत्रायाः जीवपत्या इति च द्रष्टव्यम् ।
तथा मङ्गलानीति ।
एवं भूतायास्त्रैवर्णिस्त्रियाः पुत्रमपत्तरयर्चाऽसोमेनादित्याऽइत्येतया अस्या वध्वा अङ्क उपवेश्य तस्मै कुमाराय फलान्युत्तरेण यजुषाऽप्रस्वस्थः प्रेयऽमित्यनेन प्रदाय तत उत्तरे ऋचौ
ऽइह प्रियंऽऽसिमङ्गलीःऽइत्येते जपित्वा तत उभौ तस्मिन्नेव चर्मण्यासीनौ वाचं यच्छतः ।
आनक्षत्रेभ्याः नक्षत्राणामुदयादित्यर्थः ।
कुमारश्च फलानि गृहीत्वा यथार्थ गच्छति ॥१६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ६.११
पुंस्वोः पुंस्वाः इत्यर्चपाठः या पुंस एव सूते न स्त्रीरपि, या च सूत एव न तु वन्ध्या सती क्रयादिना पुत्रवती, सा पुंसूः ।
जीवन्त एव पुत्राः पुमांसो यस्यास्सा जीवपुत्रा, न पुनःऽभ्रातृपुत्रौ स्वसृदुहितृभ्याम्ऽ(पा.१२६८) इत्येकशेषवचनाद्यस्या दुहितरोऽपि जीवन्ति, पुत्रश्चैको जीवति, सापीह जीवपुत्रा विवक्षिताः पुंस्वोरिति विशेषणानुपपत्तेः ।
एवं भूतायाः पुत्रंऽसोमेनादित्याःऽइत्येतया वध्वा अङ्क उपवेश्यऽप्र स्वस्थःऽइति यजुषा पुत्राय फलानि कदल्यादीनि प्रदायऽइह प्रियं प्रजयाऽइति ऋचौ जपित्वा, उभौ वाचं यच्छतः ।
आनक्षत्रेभ्यः नक्षत्राणामोदयात् ॥११॥
२९ वध्वै ध्रुवारुन्धतीप्रदर्शनम् ।
उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्योत्तराभ्यां यथालिङ्गं ध्रुवमरुन्धतीं च दर्शयति ॥ आपस्तम्बगृह्यसूत्र ६.१२ ॥
टीकाः
अनुकूलावृत्ति ६.१२
उदितेषु नक्षत्रेष्विति वचनात्ततः प्राकू तस्मिन्नेव चर्मणि वाग्यतयोरासनं पश्चादुपनिष्क्रमणम् ।
उदितेष्वित्येव सिद्धे नक्षत्रग्रहणं विस्पष्टार्थम् ।
<उत्तराभ्यां> ध्रुवक्षितिऽऽसप्रर्षयःऽइत्येताभ्याम् ।
उभयत्र मन्त्रेण दर्शनं वध्वाः कर्म, वरस्तु पश्यन् ध्रुवमिति निर्दिर्श्य पूर्वा वाचयति वस्चादरुन्धतीमित्त्युत्तराम् ।
ततो वाग्विसर्गः मन्त्रलिङ्गादेव यथालिङ्गदर्शने सिद्धे यथालिङ्गवचनं विकल्पार्थम् ।
उत्तराभ्यां ध्रुवमरुन्धतीञ्च दर्शयति यथालिङ्गं वेति ।
तेनोत्तरस्यामृचि सर्वेषां सप्तर्षीणां कृत्तिकादिनामरून्धत्याश्च सहदर्शनं वध्वाः कर्म पक्षे भवति, केवलमरुन्धत्या एव वा ॥१७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ६.१२
उत्तराभ्यांऽध्रुवक्षितिर्ध्रुवयोनिःऽइत्येताभ्यां यथालिङ्गं पूर्वया सप्रऋषया ध्रुवमुत्तरयारुन्धतीं च दर्शयति वधूम् ।
यथालिङ्गमिति च जातकर्मवद्द्वाभ्यां द्वाभ्यामेकैकं मा भूदिति ॥
केचित्यथालिङ्गमित्यत्र नास्ति, प्रयोक्तॄणां प्रमादात्प्रदेशान्तरदृष्टमिह सञ्चरितपठितमिति ॥
अपरेउत्तराभ्यां यथाक्रमं ध्रुवमरुन्धतीं च दर्शयति॑यथालिङ्गं वा इति भित्वा सूत्रं साध्याहारं व्याचक्षते ।
ऽसप्रऋषयः प्रथमाम्ऽइत्येतया सप्तऋषीन् कृत्तिका अरुन्धतीं च सह दर्शयति ।
अरुन्झतीमेव वेति विकल्पार्थ यथालिङ्गवचनामिति ॥१२॥
द्वितीये पटले सिद्धं यथाभाष्यं यथामति ।
कृतं सुदर्शनार्येण गृह्यतापर्यदर्शनम् ॥
इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यपदर्शने षष्ठः खण्डः ॥
॥ द्वितीयः पटलश्च समाप्तः ॥
====================================================================================
अथ तृतीयः पटलः
सप्तमः खण्डः
३० आग्नेयस्थालीपाकः ।
(तस्य धर्माः)
अथैनामाग्नेयेन स्थालीपाकेन याजयति ॥ आपस्तम्बगृह्यसूत्र ७.१ ॥
टीकाः
अनुकूलावृत्ति ७.१
अथेति वचनादेतस्यामव रात्र्यां स्थालीपाको भवति ।
स्थाल्यां पच्यत इति स्थालीपाकः ।
तस्य देवताविधानंाग्नेयोनेति ।
ननुविधास्यते"अग्निर्देवता स्वाहाकारप्रदान"इति, सत्यम्, अपरमपि तत्र भवतिअग्निस्विष्टकृत्द्वितीय इति ।
ततश्च स एव यदि देवताविधिः स्यात्द्विदेवत्यमिदं हविः स्यात् ।
ततश्च निर्वपणकाले ताभ्यामुभाभ्यां सङ्कल्पः क्रियेत ।
यद्यपि वस्तुतो गिणभूतः स्विष्टकृद्यागः तथापि प्रधानवत्तत्र चोद्यतेऽअग्निस्विष्टकृद्वितीयऽइति ।
ततश्च तस्मा अपि सङ्कल्पः क्रियेत ।
तस्मात्केवलोऽयमाग्नेयस्थालीपाक इति ।
(वक्तव्यमेवमाद्रेयस्यैव प्रदानस्य)यद्यप्रत्तदैवतमित्येतत्प्रायश्चित्तं भवति ।
स्विष्टकृतस्तु प्रत्तदैवमित्येतदेव ।
ऽएनां याजयतीऽति वचनात्सहत्वमुभयोरस्मिन् कर्मणि नास्ति ।
वध्वा एवोदं कर्म, वरस्य त्वार्त्विज्यमेव ।
तेन यदिदं स्थालीपाकरिवेषणं ब्रीह्यादिदक्षिणा च तत्वधूधनस्यैव भवति ।
यत्रैदमुच्यतेऽपद्रीहि पारीणह्यस्येशोऽइति (तै.सं.६२१) ॥ १ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.१
ननुऽअथ पत्न्यवहन्तिऽऽश्रपयित्वाऽइत्येतावदेव वक्तव्यम्॑यतौत्तरत्रऽअग्निर्देवताऽ(आप.गृ.७५) इति विधानादाग्नेयत्वं सिद्धम्ऽ स्थालीपाकेनेति तु श्रपयित्वेति विधानात्, एनां याजयतीति चान्वारब्धायामिति विधानात्॑तः किमर्थमिदमधिकमारभ्यतेऽअथैनामाग्नेयेन स्थालीपाकेन याजयतिऽइति ? उच्येते सूत्रं तावदृषिप्रणीतं नानर्थकं भवितुमर्हति ।
तेन लोके व्युत्पत्तिसिद्धाध्याहारादिभिरपि यस्सूत्रस्यार्थस्सम्पाद्यते सोऽपि वेदार्थोनुष्ठेय उच्यतेध्रुवमरुन्धतीं च दर्शयित्वा, अनन्तरं यत्राग्नेयेन स्थालीपाकेन यागं करोति तत्रैवैनां पत्नीं याजयति पत्न्यामन्वारब्धायां जुहोति, न पर्वसु पार्वणविकारेषु च ।
एवमतिदेशेषार्थतया सूत्रमर्थवदेव ॥
अन्येयाजयतीति वचनात्वरादन्योऽप्यस्य स्थालीपाकयागस्य कर्तेति ।
तन्न॑प्रकरणेनास्य विवाहाङ्गत्वात्ऽसह्ङ्गं प्रधानम्ऽ (आप.प.२३९) इति साङ्गस्य प्रधानस्यैककर्तृकत्वात् ॥
केचितुत्तरत्र न केवलमग्निर्देवतेति विधिः,ऽअग्निस्स्विष्टकृत्द्वितीयः इत्यपि ।
तेन द्विदैवत्योऽयं स्थालीपाको मा भूत, किन्त्वेकदैवत्य एवेत्येवमर्थमाग्नेयेनेति विधानम् ।
तेनाग्नेय एव सङ्कल्पितस्य व्रीह्यादेरर्थाक्षिप्तो लौकिको निर्वापः कार्यः ।
ऽएनां याजयतिऽइति तु नास्मिन् कर्मण्युभयोरधिकारः, किन्तु वध्वा एव ।
वरस्तु ऋत्विक्स्थानीयः ।
तेन होमादौ द्रव्यत्यागस्स्त्रीधनादेवेति ।
तन्न॑वध्वेकाधिकारे हि प्रकरणावगतविवाहाङ्गत्वबाधः,अधिकारसाध्यभेधेन शास्त्रतदर्थयोर्भेदात् ।
आचारसिद्धवरकर्तृकत्वबाधापत्तिश्च॑न्यार्त्विज्येऽप्यविरोधात् ॥ १ ॥
पत्न्यवहन्ति ॥ आपस्तम्बगृह्यसूत्र ७.२ ॥
टीकाः
अनुकूलावृत्ति ७.२
अरुन्धतीदर्शनानन्तरमगारं प्रविश्य व्रीहीन् यवान् वा नवानग्नये संकल्पितान्निर्वपति यावद्धोमाय ब्रह्मणभोजनाय च पर्याप्तं मन्यते ।
प्रोक्षणञ्च तूष्णीं संस्कृताभिरद्भिः ।
ततस्तान्<पत्न्यवहन्ति> ।
ऽएना पत्याऽइत्यादिवत्सावहन्तीति सर्वनाम्ना निर्देशे कर्तव्ये पत्नीग्रहणं पत्नीकर्मेदं यथा विज्ञायेत ।
इतरथा याजमानं विज्ञायेत ।
वधूरिह यजमानेति कृत्वा पार्वणादिषु पत्युरवहननं प्राप्नोति ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.२
स्थालीपाकार्थ व्रीह्यादिकम् ।
ऽसावहन्तिऽइति वक्तव्येऽपत्न्यवहन्तिऽइत्याधिकाक्षरात्पत्न्यवघातमेव कुर्यात्, न तु श्रपणादिकमपि ।
तदादिकं वर एव ।
केचित्पत्नीत्यारम्भादवहननं पत्नीकर्मैव, न तु यजमानकर्म ।
यजमानकर्मत्वे हि सहाधिकारे पार्वणादौ पत्युरवहननं स्यात्, तस्य तत्र यजमानत्वात् ।
अत एव पार्वणादौ नान्वारम्भः॑पत्न्यवहन्तीतिवत्पत्न्यामन्वारब्धायामित्यवचनादिति ।
मैवम्॑वध्वेकाधिकारस्यैव निरस्तत्वात् ॥२॥
३१ स्थालीपाकहोमः, तस्यावदानसंख्या ।
श्रपयित्वामिघार्य प्रचीनमुदीचीनं वोद्वास्य प्रतिष्ठितमभिघार्याग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायां स्थालीपाकाज्जहोति ॥ आपस्तम्बगृह्यसूत्र ७.३ ॥
टीकाः
अनुकूलावृत्ति ७.३
ततस्तानवहतांस्त्रिष्फलीकृतान् प्रक्षाल्य श्रपयति वरः ।
अग्रेरुपसमाधानादिवचनं तन्त्रविधानार्थ कालविधानार्थ च प्रतिष्ठताभिघारणान्ते कथं तन्त्रं प्रतिपद्येत, न प्रागिति ।
तेनाभिघारणमसंस्कृतेनाज्येन भवति ।
अत्रापि सकृदेव पात्रप्रयोगः ।
तथा शम्याः
विवाहशेषत्वादस्य ।
नेत्यन्ये ॥३॥
आज्यभागान्तवचनं अन्वारम्भकालोपदेशार्थम् ।
स्थालीपाकादित्यनर्थकम्, तस्य होमार्थत्वात् ।
न च वाच्यं ब्राह्मणभोजनार्थ स्थालीपाको, होमस्त्वाज्यादेव प्राप्नोतीति ।
यागविधानात्देवताविधानाच्च ।
एवं तर्हि शैलीयमाचार्यस्ययत्रोभयं हविर्भवत्याज्य ञ्चौषधयश्च तत्र प्रधानाहुतिविशेषणं करोति स्थालीपाकादन्नादपूपादाज्याहुतिरुति ।
तेन यत्र विशेषणं नास्ति तत्रैकमेव हविरिति सिद्धं भवति ।
तेनाग्रयणे
आज्यस्याभावः ।
ततश्च सकृदुपघातपक्ष एव तत्र भवति, आज्याभावेनोपस्तरणाभिघारणयोरसम्भवात् ।
विवाहे चऽयथा स्थानमुपविश्येऽत्यत्र आज्याहुतिरिति विशेषणाभावादाज्यमेव तत्र धर्मवद्धाविः, लाजास्त्वधर्मका इति सिद्धम् ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.३
उद्वास्य सौकर्यादपरेणाग्निं प्रतिष्ठाप्य ।
प्रतिष्ठितमभिघारयति ।
ओषधिहविष्कोऽप्यत्र तन्त्रविधानं क्रमार्थमित्युक्तमेव ।
ऽआज्यभागान्तेऽन्वारब्धायाम्ऽ ।
उपस्तरणप्रभृत्यन्वारम्भः प्रधानहोमान्तम् ॥३॥
सकृदुपस्तरणाभिघारणे द्विरवदानम् ॥ आपस्तम्बगृह्यसूत्र ७.४ ॥
टीकाः
अनुकूलावृत्ति ७.४
अनेन पौरोडाशिकोऽवदानकल्प इह प्रदर्शितो विज्ञेयः ।
ऽतस्मादङ्गुष्ठपर्वमात्रऽ(आप.श्रौय२१८९) मित्याद्यपि भवति ।
पञ्चावत्तञ्चपञ्चावत्तिनाम् ।
प्रत्यभिघारणं च हविषः लाजावदानवत् ।
उपस्तीर्य द्विरवदाय द्विरभिघारयतीति वक्तव्ये सकृद्वचनमुपस्तरणाभिघारणयोश्चतुरवत्तसंपादनार्थतां ज्ञापयितुम् ।
तेन चतुरवत्ताभावे उपस्तरणाभिघारणयोरप्यभावः ।
यथाऽसकृदुपहत्य जुहुयात्ऽ(आप.गृ. ७७)"दध्न एवाञ्जलिने"(आप.गृ.२२१०) ।
त्यादौ ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.४
होमदर्व्या स्रुवेण दर्व्यन्तरेण वा सकृदुपस्तरणं कार्यम् ।
ततश्चरोर्द्विरवदानम् ।
त्रिर्जमदग्नीनाम्, सकृच्चाभिघारणम् ।
ततः स्विष्टकृदर्थ चरोः प्रत्यभिघारणम् ।
अस्यैष्टिकावदानविधिप्रदर्शनार्थत्वादाचाराच्च ॥४॥
देवतामाह
३२ तस्य देवताविधानम् ।
अग्निर्देवता स्वाहाकारप्रदानः ॥ आपस्तम्बगृह्यसूत्र ७.५ ॥
टीकाः
अनुकूलावृत्ति ७.५
प्रधानद्वित्वादुत्तरविवक्षया सिद्धानुवादोऽयम् ।
अग्निरेव देवता पूर्वस्य होमस्य येयमाग्नेयेनेति विहिता ।
उत्तरस्यान्या विधीयत इति ॥६॥
स्वाहाकारेण प्रदानं प्रक्षेपो यस्मिन् स<स्वाहाकारप्रदानः ।
>स्थालीपाकस्य होमः ।
अविशेषात्पूर्वश्चोत्तरश्च ।
तत्र स्वाहाकारसंयोगाद्देवताशब्दश्चतुर्थ्यन्तो भवति अग्नेये स्वाहा, अग्नये स्विष्टकृते स्वाहेति ।
ऽजुहोतिचोदनः स्वाहाकारप्रदानःऽ(आप.प.३४)
इत्येव सिद्धे वचनमिदं कल्पान्तरेषु केषुचित्मन्त्रेण प्रदानञ्चोदित"ममुष्मै स्वाहेति जुहुयात्, ऋचा वा तद्देवतये"तिऽपुरोनुवाक्यामनूच्य याज्यया जुहुयाऽदिति च तत्प्रतिषेधार्थम् ।
एवमपिऽस्थालीपाकाज्जुहोत्यग्नये स्वाहेत्येव वक्तव्यंऽस्विष्टकृति च स्विष्टकृते स्वाहेति ।
इदं तु वचनं पार्वणातिदिष्टेषु यथोपदेशं देवता इत्यत्र मन्त्रप्रतिषेधार्थम् ।
तेनऽपौर्णमास्यां पौर्णमासीऽ(आप.गृ.७२८) इत्येवमादिषु यत्र स्थालीपाकस्य देवतैव चोद्यते तत्र देवताशब्देनैव होमः, न तद्दैवत्येन मन्त्रेणेति सिद्धम् ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.५
अग्निर्देवतेति विहिताग्निविशेषणार्थमयं परिभाषेक्तानुवादः ।
कथं विशेष्यते?इति चेत्, सोऽग्निस्स्वाहाकारप्रदानश्चेद्देवता, स्वाहाकातयोग्यया चतुर्थ्या विभक्त्या युक्तश्चेदित्यर्थः ।
नन्व न्वारब्धायामग्नये जुहोतीऽति वक्तव्ये किमर्थमधिकाक्षरंऽअग्निर्देवता स्वाहाकारप्रदानःऽइत्युपदिश्यतेऊउच्यतेशब्दो देवता, नार्तः अर्थोऽपि यागे चोदितचतुर्थ्यन्तस्ववाचकसब्देनैवोपकरोति, अर्थस्योद्देष्टुमशक्यत्वात्॑ुपाकारान्तरस्य च दुर्निरूपत्वादिति मीमांसकमतमिह नाभिमतम्॑र्त एव देवतेति स्वमतज्ञापनार्थम् ।
कथमिति चेत्?कर्मणि प्रयोगानर्हस्य प्रथमान्तस्याग्निशब्दस्य प्रयोगात् ।
नन्वर्तस्य देवतात्वे सत्यप्युकारश्शब्देनैवेति नानुष्ठाने विशेषः ।
मैवम्॑न केवलं चतुर्थ्यन्तशब्दोच्चारणमेवानुष्ठेयम्, किन्त्वर्थस्य ध्यानमपीति ।
अत्र तु ज्ञातकंऽआग्नेया इति तु स्थितिःऽ(निरु.८३७)
इत्यादि निरुक्तकारवचनम् ॥
केचित्कल्पान्तरेषुऽअमुष्मै स्वाहेति जुहुयातृचा वा तद्दैवत्ययाऽइति विकल्पः चोदितः ।
स माभूदस्माकम् ।
पार्वणेषु तद्विकारेषु चऽअमुष्मै स्वाहाऽइत्येव जुहुयादित्येवमर्थमिति ॥५॥
३३ तत्र सकृदुपघातपक्षः ।
अपि वा सकृदुपहत्य जुहुयात् ॥ आपस्तम्बगृह्यसूत्र ७.६ ॥
टीकाः
अनुकूलावृत्ति ७.६
यया दर्व्या होमस्तयैव<सकृदुपहत्य>जुहुयात् ।
अत्र पक्षे उपस्तरणाभिघारणयोप्यभाव इति सिद्धम् ।
केचित्कुर्वन्ति ।
जुहुयादिति वचनं स्विष्टकृत्यपि प्राप्यत्यर्थम् ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.६
अथवा दर्व्या सकृत्स्थालीपाकाद्गृहीत्वा जुहुयात्, न तु पूर्ववच्चतुरवत्तं पञ्चावत्तं वा अपूर्वत्वाद्दर्विहोमानाम् ॥६॥
अग्निस्स्विष्टकृत्द्वितीयः ॥ आपस्तम्बगृह्यसूत्र ७.७ ।
टीकाः
अनुकूलावृत्ति ७.७
<अग्निः स्विष्टकृद्द्वितीयो> भवति देवतात्वेन ।
द्वितीयवचनं पूर्वेण तुल्यधर्मत्वज्ञापनार्थम् ।
तेनऽयथोपदेशं प्रधानाहुतीरित्यादौ स्विष्टकृतोऽपि ग्रहणं भवति ।
तथाऽसकृदुपहत्य जुहुयात्ऽऽस्वाहाकारप्रदानऽइत्येतयोश्च प्रवृत्तिः ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.७
देवतेति शेषः ।
स्थालीपाकशेषात्द्वितीयो होमः कर्तव्यः ।
तस्मिनग्निस्स्विष्टकृद्देवतेतेयर्थः ।
अर्थसिद्धेऽपि द्वितीयेऽद्वितीयऽ इति ग्रहणे प्रयोजनंऽसदसस्पतिर्द्वितीयःऽ(आप.गृ.८२) इत्यत्र वक्ष्यते ।
केचित्पूर्वहोमेन तुल्यधर्मत्वज्ञापनम् ।
तथा च सतिऽयथोपदेशं प्रधानाहुतीःऽइत्यत्र स्विष्टकृतमपि हुत्वा जयादीत्येवमादि भवेदिति ॥ ७ ॥
अस्य त्ववदानविधिमाह
३४ तत्र उपस्तरणादिविधानम् ।
सकृदुपस्तरणावदाने द्विरभिघारणम् ॥ आपस्तम्बगृह्यसूत्र ७.८ ॥
टीकाः
अनुकूलावृत्ति ७.८
अत्रापि पौगोजाशिकस्विष्टकृतोऽवदानकल्पः प्रदर्शितो विज्ञेयः ।
"तेन द्विः पञ्चावत्तिनः उत्तरमुत्तरं ज्यायांसम्, न हविः प्रत्यभिधारयतीऽ(आप.श्रौ.२२१३,४,५) ति विशेषाः इहापि द्रष्टव्यः ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.८
सकृदुपस्तरणमवदानं च द्विरभिघारणं च कार्यम् ।
जमदग्नीनां तु द्विरवदानम् ।
अवदानं दैवताज्ज्यायः ।
नापि हविः प्रत्यभिघारणम्॑ैष्टिकसौविष्टकृतावदानविधिप्रदर्शनार्थत्वात्, आचाराच्च ॥८॥
मध्यात्पूर्वस्यावदानम् ॥ आपस्तम्बगृह्यसूत्र ७.९ ॥
टीकाः
अनुकूलावृत्ति ७.९
<पूर्वस्य>प्रधानहोमस्येत्यर्थः ।
उपघातपक्षार्थ वचनम् ।
चतुरवत्तपक्षे तु पौरोजाशिकत्वात्सिद्धम्, ननु तत्रापि"पूर्वार्धाद्वितीयं पश्चार्धात्तृतीय"मित्येतयोर्देशविशेषयोः प्रतिषेधार्थ स्यात् ।
यद्येवं उत्तरवत्तरस्योति स्विष्टकृति नारब्धव्यं, विशेषाभावात् ।
तस्मात्चतुरवत्तपक्षे पौरोडाशिक एव विधिः ।
इदं तु वचनमुपघातपक्षार्थम् ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.९
हविषो मध्यात्पूर्वस्य दैवतस्यावदानं कार्यम् ।
उपघातपक्षार्थ एवायमारम्भ ।
चतुरवत्तपक्षे त्वैष्टिकविधिप्रदर्शनबलान्मध्यादङिगुष्ठपर्वमात्रावदानम् ।
ऽतिरछ्टीनमवद्यति पूर्वार्धाद्द्वितीयमनूचीनं चतिरवत्तिनः पश्चार्धात्तृतीयं पञ्चावत्तिनःऽ (आप.श्रौ.२१८९) इत्यवदानस्थानसिद्धेः एतेनोपघातपक्षे चतिरवत्तधर्म उपस्तरणादिर्न प्रवर्तते इति दर्शयति ॥९॥
मध्ये होमः ॥ आपस्तम्बगृह्यसूत्र ७.१० ॥
टीकाः
अनुकूलावृत्ति ७.१०
आघारसम्भेदो <मध्यम् ।
>अत्रापि पौगोडाशिक एव होमदेशो दर्शितो विज्ञेयः ।
तेनाहुतीनामनेकत्वेऽपूर्वा पूर्वा संहितामिऽ(आप.श्रौ.२१९९) त्येवमादयो विशेषा इहापि भवन्ति ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.१०
<होमः> प्रक्षेपः ।
दैवतस्य अग्ने <र्मध्ये>आघारसम्फेदे ।
प्रधानाहुतिबहुत्वेऽपूर्वा पूर्वा सांहिताम्ऽ(आप.श्रौ.२१९९) इति च भवति ।
अयं तूभयपक्षार्थः ॥१०॥
उत्तरार्धादुत्तरस्य ॥ आपस्तम्बगृह्यसूत्र ७.११ ॥
टीकाः
अनुकूलावृत्ति ७.११
अयमप्युपघातपक्षार्थ आरम्भः ॥१३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.११
उत्तरार्धाद्धविष उत्तरस्य स्विष्टकृत अवदानं कार्यम् ।
अयमपि पूर्ववदुपघातपक्षार्थ एव ॥११॥
उत्तरार्धपूर्वार्धे होमः ॥ आपस्तम्बगृह्यसूत्र ७.१२ ॥
टीकाः
अनुकूलावृत्ति ७.१२
अत्रापि पौरोडाशिकस्य स्विष्टकृतो धर्मो विज्ञेयः ।
तेनाःऽसंसक्तामितराभिऽ(आप.श्रौ.२२१६)रिति विशेष इहापि भवति ।
होमग्रहणे आश्रियमाणे उत्तरार्धपूर्वार्ध इत्यस्य लेपयोः प्रस्तरवदित्त्युत्तरेणापि सम्बन्धस्सम्भाव्येत ॥१४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.१२
तस्य स्विष्टकृतो <होमोऽग्नेरुत्तरार्धपूर्वार्धे> ।
अस्यापि प्रदर्शनार्थत्वात्ऽअसंसक्तामितराभिराहुतिभिःऽ(आप.श्रौ.२२१)६) इत्यपि भवति ॥१२॥
होमोपस्तरणाद्यर्थदर्वीद्वपलेपयोः पात्रप्रयोगार्थ संस्तीर्णस्य च वर्हिषः प्रतिपत्तिमाह
लेपयोः प्रस्तरवत्तूष्णीं बर्हि रङ्त्वा (क्त्वा) ग्नौ प्रहरति ॥ आपस्तम्बगृह्यसूत्र ७.१३ ॥
टीकाः
अनुकूलावृत्ति ७.१३
यस्मिन् बर्हिषि प्रतिष्ठितं हविराज्यं च तस्मात्किञ्चिदुपादाय तद्वर्हिरन्नस्य चाज्यस्य च यौ लेपौ तयोः प्रस्तरव त्तूष्णीमङ्त्वा
प्रस्तरवदेव तूष्णामग्नौ प्रहरति ।
अत एव प्रतिपत्तिविधानादपरेणाग्निं बर्हिषः स्तरणं भवति ।
हविषश्च तत्रासादनम् ।
कल्पान्तरे च स्पष्टमेतत् ।
शृतानिहवींष्यभिधार्य उदगुदावास्य बर्हिष्यासाद्येति ।
केचिदग्निपरिस्तरणादञ्जनं मन्यन्ते ।
प्रस्तरवदिति वचनात्त्रिषु स्थानेष्वञ्जनं भवति ।
तत्र चतुरवत्तपक्षे यया होमाः तस्यामग्रस्य, ययोपस्तरणाभिघारणे तस्यां मध्यस्य, आज्यस्थाल्यां मूलस्य चाञ्जनं भवति ।
उपघातपक्षे तूपस्तरणांभिघारणार्थाया दर्व्या अभावादाज्यस्थाल्यां मध्यस्य मूलस्य चरुस्थाल्याम् ।
अक्तस्य तृणमपादायेत्येतदपि भवति ।
तथा यया होमस्तस्यां प्रतिष्ठापनं च आग्नीध्रकर्म च स्वयमेव करोति ॥१५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.१३
<लेपयोः>दर्वीद्वयलग्नयोः पात्रासादनार्थ संस्तीर्ण<बर्हिः>प्रस्तरवत्तूष्णी मङ्क्त्वा तद्वदेवाग्नौ प्रहरति ।
इदमपि प्रदर्शनार्थम् ।
तेनाञ्जनादिसंस्रावान्तं श्रौतवत्तूष्णीं करोति ।
ननुप्रस्तरवदितीहानुपपन्नम् ।
बर्हिषोऽग्रमध्यमूलानां द्वयोर्दर्व्योः प्रस्तरवदञ्जनासम्भवात् ।
उच्यतेहोमदर्व्यामग्रमनक्तिः, इतरस्यां मध्यमूलेःऽअन्याल्लोपौ विवृद्धिर्वाऽ(आप.प.४.१३) इति वचनाम् ।
एव त्रिर्द्विवी ।
ऽअशापरम्ऽइति पक्षे सकृदेवोपस्तरणाद्यर्थायां मूलं, होमार्थायां मध्याग्रे ।
अन्ये तु आज्यस्थालीं ध्रुवास्थाने पक्षत्रयेऽपि कुर्वन्ति, अञ्जनस्योपयुक्तपात्रलेपप्रतिपत्त्यर्थत्वात्ऽइडान्तं वाऽहवनीये शंय्वन्तं गार्हपत्येऽ (आप.श्रौ.३१४६) इति पक्षेऽआज्यस्थाल्यां मूलम्ऽ(आप.श्रौ.३१४७) इति दर्शनाच्च ।
इह तु पक्षे लेपयोरिति द्विवचनमाज्यौषधलेपाभिप्रायम्, न तु पूर्ववदाघारद्वित्वाभिप्रायम् ॥
केचित्कल्पान्तरादपरेणाग्निं यस्मिन् बर्हिषि हविराज्यं च प्रतिष्ठितं तस्माद्वा, परिस्तरणाद्वा किञ्चिदुपादायाञ्जनमिति ।
तन्न॑ कल्पान्तरोक्तबर्हिः प्रतिष्ठापनोपसंहारस्य पाक्षिकत्वेन नित्यद्वद्धक्रममपि परिषेचनं न निवर्तते, अग्नयङ्गत्वादित्याह
सिद्धमुत्तरं परिषेचनम् ॥ आपस्तम्बगृह्यसूत्र ७.१४ ॥
(आना)<उत्तरं>तन्त्रं जयादि यथासिद्धमत्रापि कर्तव्यमित्यर्थः ।
कथं च सिद्धम्?उपजुहोतीतिवचनात् ।
प्रधानहोमानन्तरं तेनोपहोमानामुपरिष्टाद्वर्हिषोऽनुप्रहरणं भवति ।
अन्यथा प्रधानहोमानन्तरमुपदेशादुपहोमानां पुरस्तादनुप्रहरणं स्यात् ॥१६॥
अत्र कृत्वेत्यध्याहर्तव्यम् ।
<परिषेचनं कृत्वा>परिषेचनान्तं कृत्वेत्यर्थः ।
किमर्थमिदम् ?परिषेचनान्ते ब्राह्मणभोजनाद्येव कर्म प्रतिपाद्येत नान्यदित्येवमर्थम् ।
अन्ये तु सिद्धमुत्तरं परिषेचनमित्ये कमेव योगं पठन्तो व्याचक्षते ।
तेनेह स्थालीपाके प्रधानहोमानन्तरं तन्त्रशेषस्य प्राप्तस्य पर्षेचनमेव सिद्धमन्यदसिद्धमिति ।
तेनोपहोमानमिह लोपश्चोद्यत इति ।
तेषामुत्तरमिति व्यर्थम् ॥१७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.१४
स्पष्टेमेतत् ।
ततः प्रणीताविमोकोऽपि ।
केचित्सिद्धमुत्तरमिति पदद्वयमेकं वाक्यम् ।
सिद्धमाविकृतम् ।
उत्तरंतन्त्रशेषं जयादि ।
एताच्चेहोत्कृष्य पधितमपिऽयथोपदेशं प्रधानादुतीर्हुत्वा जयाभ्यातानान्ऽ(आप.गृ.२७) इति श्रौतक्रमस्य बलीयस्त्वात्प्रधानतुल्यधर्मकस्विष्टकृतोऽनन्तरमेव ।
तथाऽपरिषेचनम्ऽइत्यप्यानन्तर्यविध्यर्थम् ।
परिषेचनान्तं कृत्वा ब्राह्मणभोजनमेवेति ।
तन्न॑ सिद्धमुत्तरं परिषेचनमिति प्रतीताभ्यर्हितसामानाधिकरण्यान्वयबाधेन महादोषवाक्यभेदकल्पनापेक्षत्वात् ।
तथा वचनाभावादिह जयाद्येव नास्ति, दूरे क्रमबलाबलकथा ।
तथाऽपरिषेचनम्ऽइत्यस्यापि सिद्धमुत्तरमित्येतदन्वयनिराकाङ्क्षत्वात्कृत्वेत्यध्याहारो निर्बीजः ।
आनन्तर्य तु पाठप्राप्तं न विधेयमेव ।
तस्माद्वरं यथोक्तशङ्कानिवृत्यर्थमेवेदं सूत्रमिति ॥१४॥
३५ स्थालीपाकशेषात्ब्राह्मणभोजनम् ।
तेन सर्पिष्मता ब्राह्मणं भोजयेत् ॥ आपस्तम्बगृह्यसूत्र ७.१५ ॥
टीकाः
अनुकूलावृत्ति ७.१५
<सर्पिष्मतेति>वचनमतिशयार्थमभिघारणेन प्रागपि सर्पिष्मत्वात् ।
लौकिकेन सर्पिषा प्रभूतेनोपसिच्येत्यर्थः ।
यो दक्षिणत आस्ते स इह ब्राह्मणः तं भोजयेत्वधूर्वरो वा ॥१८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.१५
<तेन>हविश्शेषेण ।
<सर्पिष्मता>प्रभूतसौकिकाज्योपसिक्तेन ।
<ब्राह्मणं>दक्षिणतो दर्भेषु निषादितं<भोजयेत्>तस्येह प्रकृतत्वात् ।
इह तु सर्पिष्मतेति मतुवतिशयार्तः ।
भोजयेदिति बलाच्च(वचनात्) होमब्राह्मणभोजनायालं च रु कार्यः ॥१५॥
३६ स्थालीपाकदक्षिणादानम् ।
योऽस्यापचितस्तस्मा ऋषभं ददाति ॥ आपस्तम्बगृह्यसूत्र ७.१६ ॥
टीकाः
अनुकूलावृत्ति ७.१६
<अस्य>वरस्य<योऽपचितः>पूज्यः आचार्यः,<तस्मै ऋषभं> स्थालीपाकस्य दक्षिणां<ददति>वधूः ।
स्वकुलादानीयर्त्विजे वराय दातव्या सती दक्षिणा जायापत्योः अन्योन्यदानप्रतिग्रहाभावात्तदाचार्याय चोद्यते ।
तेनासौ परिक्तीतो भवति ।
दृश्यते चायं न्यायो धर्मशास्त्रे"न पिता याजयेत्पुत्रं न पुत्रः पितृयाजनम्"इत्याद्युक्त्वाऽऽचार्याय दक्षिणां दद्युरुतु ॥१९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.१६
नन्विदं सूत्रमयुक्तमिव प्रतिभाति ।
ऽयोऽस्यापचितस्तमितरयाऽ(आप.गृ.३९) इति वद्वरादन्यस्य दानकर्तृत्वप्रतीतेः, इह चान्यस्याभावात् ।
यद्यपि पत्नी विद्यते, तथापि तस्या भर्तुरपि प्रवासे सहाधिकारेषु कर्मसु मध्यग धनत्यागेऽनुमतिद्वारेणाव कर्तृत्वाभ्युपगमात् ।
अथ अत्रऽएनां याजयतिऽइति वचनाद्वधूर्यजमाना ।
सा स्त्रीधनाद्वरस्यापचिताय ददाति ।
तेन च ऋत्विग्भूतो वर आनतो भवति ।
न च वरायैव दानम्, जायापकत्योरन्योन्यदानाद्यभावादित्युच्यते, नैव तत्॑वध्वेकाधिकारे ह्यस्योभयतो विवाहाङ्गसन्दष्टत्वेन प्रतिपन्नविवाहाङ्गत्वबाधः ।
अधिकारसाध्यभेदेन शास्त्रतदर्थयोर्भेदात् ।
अथ उभयाधिकारविवाहसिध्यर्थमेव वधूरनेन प्रधानकर्मणापि यागेन संस्क्रियते, तर्हि वध्वेकाधिकारमित्युक्तिमात्रमिति वृथा स्त्रीधनव्ययः ।
तस्मात्शूत्रं यथोपपन्नं स्यात्तथा व्याख्येयम् ।
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.१६
अत्रोच्यतेएवं तर्ह्यध्याहारेण वा विपरिणामेन वा व्याख्यायते ।
योऽस्यात्मनेऽपचितः पूज्यः तस्मा ऋषभं ददाति ।
यद्वा येऽस्य श्थालीपाकयागस्य कर्तुरपचितस्तस्मा एतद्यागकर्ता ऋषभं ददाति, न तु स्थालीपाकयागान्तराणां कर्ता॑तेषामपूर्वत्वात् ।
अथवाअस्येति षष्ठ्या अयमिति विपरिणामः ।
योऽयं लोके विद्याभिजनादिसम्पत्त्या अपचितः तस्मा अयमेतत्स्थालीपाककर्ता ऋषभं ददाति ।
सर्वथा त्वेतद्विकृतिष्वपि स्थालीपाकान्तरेषु ऋषभदानं नास्त्येव ॥१६॥
३७ पार्वणस्थालीपाकः ।
एवमत ऊर्ध्व दक्षिणावर्जमुपोषिताभ्यां पर्वसु कार्यः ॥ आपस्तम्बगृह्यसूत्र ७.१७ ॥
टीकाः
अनुकूलावृत्ति ७.१७
<अतः>स्थालीपाका<दूर्ध्व>दक्षिणां वर्जयित्वा<उपोषिताभ्यां>ऽपर्वसु चोभयोरुपवास,(आप.ध.२१४) इत्यनेन प्रकारेण कृतोपवासाभ्यां गृहमेधिभ्यां<पर्वसु> पौर्णमासीषु चामावास्यासु च एवमेवाग्नेयस्थालीपाककल्पेन स्थालीपाकः कार्यः ।
कल्पातिदेशोऽयम्पर्वसु स्थालीपाकः कार्यः, तस्य च"आग्नेयेन स्थालीपाकेन याजयती"त्येवमादिः तस्मा ऋषभं ददातीऽत्येवमनातः कल्प इत्यर्थः ।
अत्रोपोषिताभ्याऽमिति द्विवचननिर्देशादुभावप्यधिकारिणौ तत्र तु पत्न्येव ।
दक्षिणा चेह नास्तीत्येतावान् विशेषः ।
तत्र पार्वणे विवाहनिमित्ता विशेषाः सकृत्पात्राणि शम्या इत्यादयो न कर्तव्याः ।
अन्वारम्भोऽपि न कर्तव्यः, यजमानकर्मत्वात् ।
अत्र चोभयोर्यजमानत्वात् ।
अस्तु तर्ह्यन्यो याजयिता, अन्वारम्भश्चोभयोः ।
तदपि न, ज्ञापकात् ।
यदयं हृदयसंसर्गान्वारम्भं विदधाति तत्
ज्ञापयति न पार्वणादिष्वन्वारम्भो भवतीति ।
अन्यथा पार्वणातिदेशादेवान्वारम्भः सिद्धस्स्यात् ।
पाणिग्रहणादधि गृहमेधिनोर्व्रतम्ऽइत्यादौ साङ्गं विवादृकर्म विवक्षितम् ।
तेन संवेशनान्ते विवाहिकर्मणि निष्ठिते पञ्चमहायज्ञादीनां गृहस्थधर्माणां प्रवृत्तिः ।
पार्वणस्थत्वस्य प्रागपि संवेशनात्स्यात् ।
पाकादूर्ध्व पर्वप्राप्तौ प्रवृतेतिर्भवति ।
तदर्थमाह अत ऊर्ध्वमिति ।
तस्य च पौर्णमास्यामुपक्रमो नामावास्यायाम् ।
श्रौतयोस्तथा दर्शनात् ।
तत्स्थानापन्नत्वाच्चानयोः ।
छन्दोगाश्चामनन्ति अमावास्या चेत्पूर्वमापद्यते पौर्णमासेनेष्ट्वाथ तत्कुर्यात् ।
अकृत्वा पौर्णमासीमाकाङ्क्षोदित्येकेऽ(खा.ग.२१२) इति ।
ऽपर्वसु चोभयोरुपवासऽइत्येव सिद्धे उपोषिताभ्यामिति वचनमस्मिन् कर्मणि
उभयोरव्याधिकारप्रदर्शनार्थम् ।
एवमप्युभाभ्यामित्येव वक्तव्यं नोपोषिताभ्यामिति ।
तस्मात्पर्वसु चोभयोरुपवास इति प्राप्तमुपवासं प्रकृत्यंशेनानूद्य द्विवचनेन द्वयोरधिकारः प्रदर्श्यते उपोषिताभ्यामिति ।
तेन यजनीयेऽहन्येव स्थालीपाकस्सिद्धो भवति ।
पञ्चदश्यां पूर्वेद्युः कर्म ।
तथा चाश्वलायनः"अथ पार्वणस्थालीपाकः ।
तस्य दर्शपूर्णमासाभ्यामुपवासः ।
इध्माबर्हिषोश्च सन्नहन"(आश्व.गृ ११०१,२,३)
मिति ।
उभाभ्यां पर्वसु कार्य इत्युच्यमाने पर्वस्वेव स्थालीपाकस्स्यात्, उपवासश्च, निर्देशतुल्यत्वात् ॥२०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.१७
<अतः>स्थालीपाका<दूर्ध्व> <उपोषिताभ्यां>ऽपर्वसु चोभयोरुपवासःऽ(आप.ध.२१४) इत्यादिविधिना कृतोपवासाभ्यां जायापतिभ्यां <पर्वसु> पौर्णमासीष्वमावास्यासु च द्वितीयासु<दक्षिणावर्ज> ऋषभदानवर्ज<एवमे>वंप्रकार एतत्स्थालीपाकसदृशो होमः कर्तव्य इति विधिः ।
धर्मशास्त्रे तुऽश्वोभूते स्थालीपाकऽ(आप.ध.२११०) इत्युपवासादिधर्मसम्बन्धार्थोऽनुवादः ।
सादृश्यं चात्र द्रव्यदेवतादिसमस्तधर्मनिबन्धनम् ।
यथाऽएतस्यैव रेवतीषुऽ(ताण्ड्य.ब्रा.१७८१) इति, यथा वाऽमासमग्निहोत्रं जुहोतिऽइति ।
तत्र तुऽएतस्यऽऽअग्निहोत्रम्ऽइति पदाभ्यां, इह तु एवंपदेनेति भेदः ।
ननुदर्वीहोमेष्वतिदेशो नास्ति, अपूर्वत्वात्तेषाम् ।
सत्यम्, नास्ति चोदनालिङ्गात्, वचनात्त्वतिदेशः केन वार्यते ?
केचित्नायं धर्मातिदेशः, सौर्यादिष्विव हविर्दऐवतस्यानुपदेशात् ।
अतः कल्पातिदेश एव॑ऽश्वोभूतेऽन्वष्टकां, तस्या मासिश्राद्धेन कल्पो व्याख्यातःऽइतिवदिति ।
नैतत् ।
हविर्दऐवतस्यानुपदेशेऽपि मासमग्निहोत्रं जुहोतिऽइत्यादिषु धर्मातिदेशस्य दृष्टत्वात् ॥
अपरे तुएकस्य तूभयत्वे संयोगपृथक्त्वम् (जै.सू.४३५) इति न्यायेन प्रकृतस्यैव स्थालीपाकस्यऽएवं पर्वसु कार्यःऽ इत्याधिकारान्तसम्बन्धविधिरिति ।
एतदपि न॑ेवं सतिऽएष कार्यऽइति सूत्रं स्यात्,ऽनत्वेवं कार्य इति ।
किञ्चि पर्वस्वन्वारम्भोऽपि स्यात्॑ यतस्समस्तधर्मकस्यैव प्रकृतकर्मणोऽधिकारान्तरविध्युपगमः ।
धर्मातिदेशे तु यथा नान्वारम्भस्तथोक्तमेवऽअथैनामाग्नेयेमऽइति सूत्रमतिदेशविशेषार्थमिति वदता भाष्यकारेण ।
अत्र चऽअत ऊर्ध्वम्ऽइति वचनं विवाहमध्येऽपि पर्वारम्भार्थम् ।
यद्यष्यत ऊर्ध्वमित्यविशेषवचनं, तथापि पौर्णमास्यामेवारम्भः ।
कालैक्येन प्रयोजनैक्यात्, स्थानापत्त्या च स्यामेवारम्भदर्शनात् ।
व्यक्तं चैतच्छन्दोगानाम् ।
ऽअमावास्या चेत्पूर्वमापद्येत पौर्णमासेनेष्ट्वाथ तत्कुर्यात्, अकुर्वन् पौर्णमासीमाकाङ्क्षेदित्येकऽइति ।
तस्मात्साथालीपाकानन्तरं पौर्णमासी चेत्पूर्वमागच्छेत्,तदा विवाहमध्येऽपि पर्वारम्भः ।
मासिश्राद्धस्य त्वारम्भश्चतुर्थाहोमान्ते अपरपक्षे॑सिष्टाचारात्, बोधायनवचनात्, कर्ममध्ये कर्मान्तरारम्भस्यायुक्तत्वाच्च ।
तथा वैश्वदेवस्यापि,ऽतेषां मन्त्राणामुपयोगे द्वादशाहमधश्शय्याऽ(आप.ध.२३१३) इत्यादिव्रतं सपत्नीकश्चारित्वा प्रशस्तेऽहन्यारभ्भः ॥१७॥
पूर्णपात्रस्तु दक्षिणेत्येके ॥ आपस्तम्बगृह्यसूत्र ७.१८ ॥
टीकाः
अनुकूलावृत्ति ७.१८
पात्रशब्द उभयलिङ्गः ।
धान्यमुष्टिशतस्य पूर्ण पात्रं<पूर्णपात्र>मित्याहुः ।
दक्षिणा चेयं ब्रह्मणे देया ॥२१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.१८
धान्यादेः पूर्ण यत्किंचित्पात्रं<पूर्णपात्रम् ।
यद्वा>
ऽअष्टमुष्टि भवेत्किञ्चित्किञ्चिच्चत्वारि पुष्कलम् ।
पुष्कलानि च चत्वारि पूर्णमात्रं प्रचक्षते ॥ऽ
इति वचनात्धान्यमुष्टीनां अष्टाविंशत्याधिकं शतं पूर्णपात्रम् ।
पात्रशब्दश्चोभयलिङ्गः ।
तुशब्दात्पर्वस्वयं विकल्पो, न वृषभदाने ॥ १८ ॥
३८ औपासनहोमः ।
सायं प्रातरत ऊर्ध्व हस्तेनैते आहुती तण्डुलैर्यवैर्वा जुहुयात् ॥ आपस्तम्बगृह्यसूत्र ७.१९ ॥
टीकाः
अनुकूलावृत्ति ७.१९
अस्मात्स्थालीपाकादूर्ध्व याश्च एतो आहुती ब्रीहितण्डुलैर्यवैर्वाजुहुयात् ।
अत ऊर्ध्वमित्यस्य पार्वणवदेव प्रयोजनम् ।
तेन तस्यामेव रात्रावारब्भः ।
तस्मादूर्ध्व दम्पत्योस्सायमशनम् ।
एते आहुती इत्युच्यते ये अग्निहोत्राहुती आहिताग्नेस्ते एते इति प्रतिज्ञापनार्थम् ।
तेन तद्धर्माणामत्रप्रवृत्तिः ।
यथाऽपालाशी समित्द्व्यङ्गुले मूलात्समिधंऽ(आप.श्रौ.६१०४) इत्येवमादीनां प्रादुष्करणहोमकालयोष्च ।
तच्चोक्तमाश्वलायनकेतस्याग्निहोत्रेण प्रादुष्करणहोमकालौ व्याख्यातौ (आश्व.गृ.१९५) इत्यादि ।
हस्तेनेति दर्व्या अपवादः ।
तन्त्रस्य चानुपदोशादपूर्वत्वम् ।
परिस्तरण्तु भवत्येव ।
परिषेचनं त्विहैव विधीयते ॥२२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.१९
सायं प्रातरित्याग्निहोत्रकालानां चतुर्णामुपलक्षणम्॑ग्निहोत्रानुकारित्वादौपासनहोमस्य ।
<अत ऊर्ध्व>स्थालीपाकान्ताद्विवाहा दूर्ध्वम्॑विवाहस्यैवात्र परमप्रकृतत्वात्,न क्वनन्तरप्रकृतत्वात्पर्वण ऊर्ध्वम्, यतो न प्रासङ्गिकप्रकृतपरामर्शस्स्वरसस्सर्वनाम्नाम् ।
स्थालीपाकान्तादिति च स्थालीपाकं विधाय,ऽअत ऊर्ध्वम्ऽइति वचनात् ।
अस्य चारब्भोऽनन्तरं रात्रावेव यदि नव नाड्यो नातीताः ।
अतीताश्चेदपरेद्युस्सायमेवाग्निहोत्रारम्भवेलायाम् ।
अत्र हस्तेनेत्यादिना कृत्नविधानम् ।
हस्तेनेति विधानाद्दर्व्यादिनिवृत्तिः ।
तम्जुलैर्यवार्वेति विधानात्पाकस्य ।
उभयतः परिषेचनमिति परिसङ्ख्यानात्पार्वणधर्माणाम् ।
वेश्वदेवेऽपीत्थमेव व्याख्यानम् ।
ऽएतेऽइति विशेषणादत्रापि द्वितीयाहुतिः स्विष्टकृत्स्थानीत्या अङ्गमित्यर्थः तेनेतां विस्मृत्य कर्मसमाप्तौ नेषा पुनर्होतव्या ।
किन्तु सर्वप्रायाश्चित्तमेव ॥१९॥
३९ तत्र देवताविधानम् ।
स्थालीपाकवद्दैवतम् ॥ आपस्तम्बगृह्यसूत्र ७.२० ॥
टीकाः
अनुकूलावृत्ति ७.२०
देवतैव दैवतम् ।
अग्नये स्वाहेति पूर्वाहुतिः ।
अग्नये स्विष्टकृते स्वाहेत्युत्तरा ॥२३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.२०
अयंऽएते आहुतीऽइति प्रप्तस्यानुवादः पूर्वाहुतेर्विकल्पं वुधातुम् ॑यथापात्नीवतेऽनानुवषट्कारोति ।
अपि वोपांश्वनुवषट्कुर्यात्ऽ(आप.श्रौ.१३१४९,१०) इति ॥२०॥
सौरी पूर्वाहुतिः प्रातरित्येके ॥ आपस्तम्बगृह्यसूत्र ७.२१ ॥
टीकाः
अनुकूलावृत्ति ७.२१
<सौरी>सूर्यदेवत्या ।
सूर्याय स्वाहेति वा पूर्वाहुतिर्भवति ।
अन्यत्समानम् ।
तत्र यथाकामी प्रक्रमेत ।
प्रक्रमात्तु नियम्यते ॥ २४ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.२१
<सौरी>सूर्यदेवत्याऽसूर्याय स्वाहाऽइति पूर्वाहुतिः प्रातर्होमे इत्येके ॥२१॥
उभयतः परिषेचनं यथा पुरस्तात् ॥ आपस्तम्बगृह्यसूत्र ७.२२ ॥
टीकाः
अनुकूलावृत्ति ७.२२
अस्य होमस्य परिषेचनं<अभयतः>पुरस्तादुपरिष्टाच्च कर्तव्यम्, यथा पुरस्ताच्चोदितमग्निं परिषिञ्चति पूर्ववत्परिषेचमिति ॥ २५ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.२२
<उभयतः>एतयोराहुत्योः पुरस्तादुपरिष्टाच्च<परिषेचनं यथा पुरस्ताद्विहितं>ऽअग्निं परिषिञ्चतिऽ(आप.गृ.२३)
ऽपूर्ववत्परिषेचनमन्वमंस्थाःऽ(आप.गृ.२८) इति ।
पाकयज्ञेषु सप्तसु न विद्युद्वृष्टी ।
ऽसैषा मीमांसाग्निहोत्र एव सम्पन्ना ।
अथो आहुः ।
सर्वेषु यज्ञक्रतुष्वितिऽ(तै.का.३१०९) इतेयत्रऽतदिदं सर्वयज्ञेपूपस्पर्शनं भवतिऽ(आप.श्रौ.४१७) इत्यत्र च सर्वशबेदोन प्रकृतपरामर्शिना प्रकृतश्रौतसर्वयज्ञानामेव परामर्शात् ।
अस्मादेव हेतोःऽद्विर्जुहोतिऽ(आप.गृ.२११) इत्यादिना परिसङ्ख्याय कृत्स्नविधानाच्चाग्निहेत्रिकविधावपि नैव विद्युद्वृष्टी ॥२२॥
४० पार्वणबिकृतयः ।
पार्वणेनातोऽन्यानि कर्माणि व्याख्यातान्याचाराद्यानि गृह्यन्ते ॥ आपस्तम्बगृह्यसूत्र ७.२३ ॥
टीकाः
अनुकूलावृत्ति ७.२३
पर्वसु भवः पार्वणः ।
तेन<पार्वणेन>स्थालीपाकेनातेऽस्मात्पार्वणा<दन्यानि कर्माणि व्याख्यातानि यान्याचारादूगृहायन्ते>
ज्ञायन्ते तानि सर्वाणि ।
अयमपि कल्पातिदेशः ।
योऽयं पार्वणस्य कल्पःऽएवमत ऊर्ध्वऽइत्यादिः पूर्णपात्रस्तु दक्षिणेत्येक इत्येवमन्तः स एव सर्वेषां पाकयज्ञानां कल्प इत्यर्थः ।
तत्रोपवासः पार्णादन्यत्र न भवति ।
पर्वसंयोगेन प्रकरणान्तरे विधानातुपोषिताभ्यामित्यस्य चाविधायकत्वात् ।
नन्विस्मिन् वैवाह्के धर्मा आम्नाताः पार्वणस्यापि तत एवातिदिष्टाः ।
ततश्चान्येषामपि तत एवातिदेशः कर्तव्यः ।
ऽदक्षिणावर्जऽऽपूर्णपात्रस्तुदक्षिणेत्येकेऽइत्यस्य विशेषस्य परिग्रह्र्थस्तु पार्वणेनातिदेशः ।
ऽअतोऽन्यानिऽइति वचनं समानजातीयपरिग्रहार्थम् ।
तेन पक्वगुणेष्वेव स्थालीपाकेषु पशुषु चायमतिदेशो नाज्यगुणकेषु ।
केचित्तत्रापीच्छन्ति ।
कर्माणीति वचनात्कर्मणामेव पार्वणव्याख्यातत्वम् ।
न कालरर्तृधर्माणाम् ।
तेन निऋतिं पाकयज्ञेने (आप.ध.१२६) त्यत्रं पत्नीवत्वं पर्वनियमश्च न भवति ।
हृदयसंसर्गादिषूपवासश्च ।
व्याख्यातानीति वचनात्व्याख्यानमेव पार्वणेनान्येषां कर्मणां, न प्रसृतिविकृतिभावः ।
तेनानारब्धपार्वणस्यापि कालगमे सर्पबल्यादौप्रकृत्तिर्भवति ।
आचाराद्यानि गृह्यन्त इति वचनातस्मिन् शास्त्रे अऽनुपदिष्टानामपि शास्त्रान्तरदृष्टानां पक्वगुणकानामयमुपदेशो भवति ।
यथाकाम्यानां स्थाने काम्याश्चरवःऽषडाहुतिश्चरुऽरित्येवमादीनाम् ॥२६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.२३
<पार्वणेम> वैवाहिकेन स्थालीपाकेन ।
<अतोऽन्यानि>अस्मादन्यानि सर्पबल्यादीनि<यान्याचारादूगृह्यन्तेतानिकर्माणि व्याख्यातानि>तेष्वेतद्धर्मातिदेश इत्यर्थः ॥
ननुकथं पार्वणशब्दवाच्यत्वं वैवाहिकस्थालीपाकस्य?इति चेत्नित्यस्तावत्ऽउपोषिताभ्यां वर्वसु कार्यऽ(आप.गृ.७१७) इति पर्वसु भवत्वात्पार्वणः ।
तस्य च पार्वणस्यायं प्रकृतित्वे सम्बन्धीतिऽतस्येदम्ऽ(पा.सू.४३१२०) इति पार्वणशब्दादण्प्रत्यये कृते पार्वम इत्येवं रूपं भवति ।
यद्यपि कर्मान्तराणामप्ययं प्रकृतिः, तथाप्यस्य पार्वणसम्बधितया व्यपदेश्यत्वमेव युक्तम् ॑यथोऽत्र कर्मणि द्रव्यदेवतयोरप्यतिदेशः ।
कर्मान्तरेषु त्वितरधर्माणामेवेति ।
नन्वेवमपि शीघ्रावगतस्य नित्यस्य पार्वणस्य प्रकृतित्ये सम्भवति किमिति विलम्बितावगम्यस्य वैवाहिकस्य प्रकृतित्वमुच्यते ?इति चेत्न, वैवाहिक एव धर्मोपदेशपौष्कल्यात्, इतरत्र तदभावाच्च ।
प्रसिद्धश्चैष न्यायःयस्य पुष्कलो धर्मोपदेशस्सोऽन्येषां प्रकृतिः॑न हि भिक्षुको भिक्षुकान् याचितुमर्हतीति ।
तस्माद्युक्तं वैवाहिकस्यैव प्रकृतित्वम् ।
अस्य च वैवाहिकस्य पार्वणशब्दावाच्यत्वं धर्मसास्त्रे व्यक्तमेव ।
ऽपर्वसु चोभयोरुपवासः ।
औपवस्तमेव कालान्तरे भोजनम् ।
तृप्तिश्चान्नस्य ।
यच्चैनयोः प्रियं स्यात्तदेतस्मिन्नहनि भुञ्जीयाताम् ।
अधश्च शर्यायाताम् ।
मैथुनवर्जनं च ।
श्वोभूते स्थालीपाकः ।
तस्योपचारः पार्वणेन व्याख्यातःऽ(आप.ध.२१४....११) इति नित्यस्य पार्वणेन व्याख्यानाभिधानात्, पर्वसम्बन्धिनः कर्मान्तरस्यात्रासम्भवात्, नित्यस्य च नित्येनैव व्याख्याने आत्माश्रयदोषात् ।
नन्वत्र केचित्ऽयच्चैनयोः प्रियं स्यात्तदेतस्मिन्नहमिऽइत्येतच्छब्देनैकवचनान्तेनऽपर्सु चऽइति बहिवचनान्तनिर्दिष्टपर्वाहः परामर्शानुपपत्तेः,ऽपाणिग्रहणादधि गृहमेधिनोर्व्रतम्ऽ(आप.ध.२११)इति परमप्रकृतं पाणिग्रहणनक्षत्रं परामृश्यते ।
तेन प्रतिसंवत्सरं पाणिग्रहणनक्षत्रे प्रियभोजनादि कार्यम् ।
श्वोभूते च स्थालीपाकः कर्तव्यः ।
तस्य च क४ आन्तरस्योपचारः पार्वणेन नित्येन व्याख्यात इत्याहुः तत्कथं धर्मशास्त्रे व्यकेतं वैवाहिकस्य पार्वणशब्दवाच्यत्वमिति ।
तन्न॑यतोऽत्र व्रतमेव परमप्रकृतम्, पाणिग्रहणस्य तु तदवधितया कीर्तनमात्रम् ।
नक्षत्रं तु गम्यमानमेव ।
गम्यमानं चैतच्छब्देन पराम्रष्टुं प्रियभोजनादिना विशेषयितुं च नार्हम् ।
तदाहुराचार्याः
"गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् ।
शब्दान्तरैर्विभक्त्या वा धूमोऽयं ज्वलतीतिवत् ॥"
(तन्त्र.वा.११७) इति ।
अतश्चात्रऽपर्वसु चऽइत्युद्देश्यगतबहुत्वस्याविवक्षितत्वात्श्रुताव्यवहितस्य प्रकृतस्यपर्वाहस्यैव परामर्शो विशेषणं च युक्तम् ।
अतौपवासादेरिव प्रियभोजनादेरपि पर्वसम्बन्धात्ऽश्वोभूते स्थालीपाकःऽइत्युपवासादिधर्मविधानार्थमेव ।
ऽउपोषिताभ्यां पर्वसु कार्यःऽइति गृह्यविहितस्य स्थालीपाकस्यानुवाद एव, न कर्मान्तरस्य विधिः ।
अनुवादे च तस्योपचार इति दूरस्यस्य परामर्शो घटते ।
विधौ त्वस्योपचार इति स्यात् ।
एवं च यद्यपिऽश्वोभूते स्थालीपाकःऽइत्यापाततोऽनुवादस्वरूपः॑तथापि यस्येमे विधीयमाना उपवासप्रियभोजनादयो धर्मास्सम्बन्धिनस्तस्योपचारः पार्वमेन व्याख्यात इति साध्याहारमेवेदं सूत्रं व्याख्येयम् ।
तस्माद्धर्मशास्त्रेऽपि वैवाहिकस्य पार्वणशब्दव्यपदेश्यस्यैव प्रकृतित्वम्, न नित्यस्येति सिद्धम् ।
नन्वेमपि शीघ्रबोधकत्वात्वैवाहिकेनेति वक्तव्ये, किमर्थमस्य विवाहाङ्गस्यापि सतो विवीहसम्बन्धं तिरस्कृत्यऽपार्वणेनऽइत्याह ?उच्यतेइतराङ्गवदस्य न शम्याः ॑किन्तु शिष्टाचारसिद्धाः परिधयएवेत्येवमर्थम् ।
अत्र च अतोऽन्यानीत्याहएतत्सदृशान्येवौषधप्रधानहवींषि सर्पबल्यादीनि कर्माण्यनेन व्याख्यातानि, न त्वनेन तत्सदृशानि पशुप्रभवप्रधानहवींषि वपाहोमादीनीति वक्तुम् ।
कुत एतत्?
ऽतत्र सामान्याद्विकारो गम्येतऽ(आप.प.३३९) इति परिभाषावचनात् ।
किञ्च अतोऽन्यानीत्यस्य नञ्समासप्रभेदविग्रहवाक्यत्वात्ऽनञिवयुक्तमन्यसदृशाधिकरणे तथाह्यर्थावगतिःऽ(वै.प.७४) इति नञ्समासभेदार्थनिर्णयात्, वाक्यसमासयोर्भिन्नार्थत्वे चासमर्थसमासापत्तेः ।
औषधानि हवीमषि पशुप्रभवानि च कानि कतिधा च ?इति
चेत्पुरोडाशः, ओदनो, यवागूस्तण्डुलाः, पृथुकाः, लाजाः, सक्तवः, पुष्टानि, फलीकरणानि, धानः, करम्भाः, सुरेत्यौषधानि द्वादशाविधानि ।
पयो, दध्या, ज्य, मामिक्षा, वाजिन, भवदानानि, पशुरस,श्शोणितं, त्वक्, वपेति, पशुप्रभवानि धशविधानि ।
ऽअथ कर्माण्याचाराद्यानि गृह्यन्तेऽ(आप.गृ.११).इति प्रकृतेऽप्यत्र पुनर्वचनं गृह्यप्रश्नेऽनुक्तानां महाराजस्थालीपाक गणहोमादीनामेतद्विकृतित्वं वक्तपम् ।
ननुयद्यनेनैव सूत्रेण औषधहविष्केषु कर्मसु पार्वणतन्त्रातिदेशः, किमर्थऽअस्तामिते स्थालीपाकःऽऽपार्वणवदाज्यभागान्तेऽ (आप.गृ.१८.५.६) इति सर्पबलौ पुनर्वचनम् ?उच्यतेयद्यपि श्रौतआप्रयणे वैश्वदेवादीनां भूयस्त्वेन पौर्णमासतन्त्राशङ्कायां ऐन्द्राग्नस्य मुख्यत्वात्ऽमुख्यं वा पूर्वचोदनाल्लोकवत्ऽ(जै.सू.१२२२३) इति सिद्धान्तन्यायेनऽआमावास्यं तन्त्रम्ऽ(आप.श्रौ.६२९५) इति दर्शितम्, तथाप्यत्रान्येषां हविषां बहुत्वेऽप्यौषधस्य मुख्यत्वात्पार्वणतन्त्रतैवेति मुख्यन्यायं मन्दबुद्धिहितार्थ दर्शयितुमेव पुनश्चोक्तंऽपार्वणवदाज्यभागान्तेऽइति ।
तेन मासिश्राद्धे अष्टकाकर्मणि च पार्वणमेव तन्त्रम् ।
यद्यप्यष्टकायां वपाहोमस्य मुख्यस्यापूर्वत्वं, तथाप्यन्येषां कृत्स्नविधानाभावादौषधत्वात्ऽस्विष्टकृत्प्रभृति समानमापिण्डनिधानात्ऽ(आप.गृ.२२८) इति दर्शनाच्च पार्वणमेव तन्त्रम् ।
अपूपहोमे तुऽपार्वणवत्ऽ(आप.गृ.२२१) इति पुनर्वचनमपूपमांसौदनपिष्टान्नहोमानां स्थाने अनुकल्पेन विहितस्यौषधहविष्कस्यापि दधिहोमस्य पार्वणतन्त्रप्राप्तिं ज्ञापयितुम्, न त्वपूपहोमार्तम्॑तस्यौषधहविष्ट्वादेव पार्वणतन्त्रप्राप्तेः ।
तत्स्थानापन्नेषु च तद्धर्मप्राप्तिर्दृष्टा ।
यथाऽयस्य हविषेवत्सा अपाकृता धयेयुस्तत्स्थाने वायव्यां यवागूं निर्वपेत्ऽ(आप.श्रौ.९१२३) इति सान्नाय्यस्थाने विहिताया यवाग्वास्सान्नाय्यधर्माः ॥
केचित्नित्यस्य पार्वणस्य यः कल्पस्स एव सर्वेषां यज्ञानां कल्पः ।
यद्यपि वावाहिकेधर्माम्नानं, तथापि नित्यस्यैव कल्पादिदेसोऽदक्षिणावर्जऽइत्यस्य परिग्रहार्थः ।
अतोऽन्यानीति वचनादेतत्सदृशानां पक्वगुणानामेव स्थालीपाकानां पशूनां चायं विकल्पो, न त्वाज्यगुणकानाम् ।
कर्माणीति वचनात्कर्ममात्रस्यैव व्याख्यानं, न तु कर्तृतद्धर्मकालादीनाम् ।
तेनऽगर्दभेनावकीर्णी निऋतिं पाकयज्ञेन यजेत, (आप.ध.१२६८) इत्यत्र पशौ न पत्नीवत्त्वं नापि हृदयसंसर्गादिषु पर्वणो नियमः, विशेषतश्चोपवासस्य धर्मशास्त्रे पर्वसम्बन्धेन विधानात् ।
व्याख्यातानीति वचनादन्येषां नैतद्विकृतित्वम् ।
तेनानारब्धपार्वणोऽपि तेष्वधिकारी ।
हृदयसंसर्गादिषु पुनस्तन्त्रविधानं आज्यहोमवन्नियमार्थम् ।
एतद्गृह्योपदिष्टेषु यत्र वचनं तत्रैव तन्त्रं, नान्यत्र ।
तेनाग्रयणे तन्त्रलोप इति तन्न॑यत उपदिष्टधर्मकस्य वैवाहिकस्य धर्मातिदेशेऽपि नैव दोषः ।
प्रत्युत नित्यस्य कल्पादिदेशे पर्वादीनामप्यतिदेशाद्दोषः ।
कर्माणीति वचनान्नेति चेत्न॑तस्योद्देश्यसमर्पणोपक्षीणत्वात् ।
अखण्डग्राहिणश्चोदकस्योच्छ्टङ्खलत्वात् ।
दक्षिणाभावस्तु प्रयोजनं तस्यऽयोऽस्यापचितस्तस्मा ऋषभं ददातिऽ(आप.गृ.७१६) इति सिद्धम् ।
तथा सदृशेष्वयमतिदेश इत्युक्तिमात्रम्, असदृशेष्वपि पशुष्वभ्युपगमात् ।
पक्वत्वात्सादृश्ये द्रव्यत्वादाज्येऽपि स्यात् ।
न चैवं व्याख्यातशब्दः प्रकृतिविकृत्त्वाभावार्थः ।
ऽएतेन वैश्वसृजा ज्यो व्याख्यातः (आप.श्रौ.१९१५१) इत्यादौ प्रकृतिविकृतित्वस्य दृष्टत्वात् ।
तथा नैकस्मिन्नाग्रयणे तन्त्रलोपफलार्थ नियमार्थानि बहूनि सूत्राण्यारब्धव्यानि ।
अविकृतमातिथ्यमाग्रयणं चेच्येतावन्मात्रसूत्रादेव स्वाभिमतसिद्धेः ।
अतस्तानि तन्त्रसूत्राणि यथोक्तप्रयोजनार्थानि ।
आग्रयणमपि तन्त्रवदेव ॥२३॥
४१ तत्र होमदेशविधानम् ।
यथोपदेशं देवताः ॥ आपस्तम्बगृह्यसूत्र ७.२४ ॥
अग्निं स्विष्टकृतं चान्तरेण ॥ आपस्तम्बगृह्यसूत्र ७.२५ ॥
टीकाः
अनुकूलावृत्ति ७.२५
पार्वणेनातोन्यानीत्ययं कल्पातिदेशः इत्युक्तम् ।
तेन पार्वणे ये देवते यस्च स्थालीपाकः तेषां सर्वेषु कर्मसु प्रवृत्तिः ।
तत्र तत्रेपदिष्टाभिस्तु देवताभिः पार्वणदेवतयोः बाधे प्राप्ते तन्निवृत्त्यर्थ वचनं तत्र चोदितानां देवतानां देशविधानार्थञ्चयोऽयमग्निः पार्वणोयश्च स्विष्टकृत्, तावन्तरेण तयोर्मध्ये ता देवता यष्टव्या इति ।
तत्र पार्वणस्याग्नेः पार्वणमेव हविः तत्र तत्र विहितानां तत्र तत्र विहितम् ।
स्विष्टकृतस्तु सर्वोहविश्शेषः, अन्यत्र तथा दर्शनात् ।
अन्ये तु तत्र विहितादेव हविषः पार्वणदेवतयोरपीज्यामिच्छन्ति ।
अपर ईह नात्र पार्देवते अनूर्द्यते अग्निश्च स्विष्टकृच्च ।
किं तर्हि ?आगन्तुके एते अनेनैव वचनेन विधीयेते ।
तत्र हविषोऽनुपदिष्टत्वात्
अग्नेराज्यं हविः ।
स्विष्टकृतस्तु सर्वो हविश्शेष इति ।
सर्वथा सर्वेष्वेव पार्वणातिदिष्टेष्वग्निः पूर्व यष्टव्यः ।
तथा च श्रौतेषुऽयेन यज्ञेनेत्र्सेत्कुर्यादेव तत्राग्नेयमिति ।
यथा भाष्यं व्याख्यायते ।
पार्वणव्याख्यातेषु सर्वेष्वेव कर्मसु यथोपदेशं देवता यजति अग्निं स्विष्टकृतं च यजति योयमग्निस्विष्टकृत्पार्वणे द्वितीयो देवताविशेषः तं च यजति तस्मादेव हविषः ।
यत्तत्र तत्रोपदिष्टानां हविरिति ।
तत्र यथोपदेशं देवता इत्यनुवादः स्विष्टकृतस्समुच्चयविधानार्थः ।
असति समुच्चये तेषु तस्य प्रवृत्तिर्न स्यात् ।
तत्र तत्रोपदिष्टभिर्देवताभिर्निवर्तितत्वात् ।
अग्नेरिव स्विष्टकृतोऽपि प्रधानदेवताच्चोदितत्वात्ऽअग्निस्विष्टकृद्वितीय इति ।
अन्तरेण इत्यनेन तु तस्यैव स्विष्टकृतो देशो नियम्यतेप्रधानाहुतीष्टोपहोमांश्चान्तरणोग्निं स्विष्टकृतं यजतीति ।
तेनयत्राप्युत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते,ऽआज्याहुतीरुत्तराः जयादु प्रतिपद्यतऽइति च क्रमपरं वचनं तत्रापि नित्यमग्निस्विष्टकृदस्मिन्नन्तराले यष्टव्यो भवतीति ।
प्रकरणाच्च प्रधानाहुतीरुपहोमाश्चान्तरेणेत्यर्थोऽपि लभ्यते ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.२५
अत्रास्वपदो विग्रहः, अव्ययीभावसमासत्वात् ।
अध्याहारश्च, साकाङ्क्षत्वात् ।
यथोपदेशं सर्पवल्यादिषु याश्च यावत्यश्च येन येन प्रकारेण मन्त्रविधानादिनोपद्ष्टां देवतास्ता एव भवन्ति, न पार्वणदेवताः न तेषु पार्वणं प्रधानं समुच्चेतव्या इत्यर्थः ।
ननु विकृतावुपकारमुखेन तज्जनकानां धर्माणामतिदेश, प्रधानं चोपकार्य, नोपकारजनकम् ।
पार्वणे च स्थालीपाकहोमयोः प्रथमो होमः प्रधानम् ।
अतस्तस्यातिदेश एव नास्ति ।
दूरे तत्समुच्चयाशङ्का, यन्निरासायेदं सूत्रं स्यात् ।
ऽषड्भिर्दीक्षयतिऽ(तै.सं.५१९) इत्यत्र तुप्राकृतीनां दीक्षाहुतीनां अङ्गत्वादतिदेशः, अदृष्टार्थत्वाच्च समुच्चयः, यथोपदिष्टानां प्रकृतिकॢप्तक्रमबाधभयादन्ते निवेशश्च युक्त एव ।
सत्यमेवम्॑किन्तु गार्ह्यकर्मानुष्ठातॄणां मध्ये ये मन्दबुद्धयोऽङ्गप्रधानयोरतिदेश्यानतिदेश्ययोश्च अनभिज्ञास्ते पार्वणेनेत्य विशेषेणातिदेशप्रातिभासात्ऽषडिभिर्दीक्षयति, इत्यादौ दर्शनमात्राच्च प्रधानातिदेशतत्समुच्चयावुपदिष्टप्रधानानामन्ते निवेशं च मन्यन्ते ।
तन्निरासायेदं सूत्रम् ॥२४॥
अथ वैकृतप्रधानहोमानां स्थानमर्थादग्निमुखसौविष्टकृतयोश्च विदधाति
ऽयथोपदेशं देवताःऽ(आप.गृ.७२४) इत्यनुवर्तते ।
यथोपदेशं देवताः ये विकृतावुपदिष्टाः ते <अग्निं स्विष्टकृतं चान्तरेण> आग्नेय सौविष्टकृतयोर्होमयोर्मध्ये भवेयुः ।
अत्र च स्विष्टकृतमितिवदग्निमित्यपि सिद्धानुवादात्, अन्यतश्च प्राप्त्यभावात्, योगविभागे नाग्निमुद्दिश्य जुहुयादित्यन्योऽप्यर्थो विधीयते ।
विभक्तस्य सूत्रस्य चायं विवक्षितोर्ऽथः सर्वेषु तन्त्रवत्स्वौषधहोमेषु दधिहोमेषु चेपकरणसमापनयोश्च शिष्टाचाराऽदग्नये स्वाहेऽत्याज्येन अग्निमुखाख्यमङ्गहोमं सर्वेभ्योऽपि प्रधानहोमेभ्यः पूर्व जुहुयादिति ।
नन्वत्रऽस्विष्टकृतऽमिति व्यर्थम् ॑सर्वत्र स्विष्टकृतश्शेषप्रतिपत्त्यर्थत्वात्स्वत एवासावन्ते एव भवतीति ।
नैवम्विकृतिषु द्विविधाः प्रधानहोमाःपार्वणविकारा अपूर्वाश्च॑तेषामुभयोषामप्यन्त एव स्विष्टकृद्यथा स्यादित्येवमर्थत्वात् ।
अन्यथा यद्धोमाङ्गं स्विष्टकृत्तदन्त एव स्यात् ।
तथाग्निमिति चोभयेभ्यः प्रधानाहुतिभियः पूर्वमेवाग्निमुखमित्येवमर्थ स्विष्टकृद्वन्नियम इति ॥
केचित्ऽयथोपदेशं देवता अग्निं स्विष्टकृतं चऽइत्येवमन्तमेकं सूत्रम् ।
तस्यार्थःऽअग्निस्स्विष्टकृत्द्वितीयःऽ(आप.गृ.७७० इत्यत्र स्विष्टकृतः प्रधानहोमतुल्यधर्मत्वज्ञापनात्विकृतिषु च पार्वणप्रधानलोपे सति तस्यापि लोपस्स्यात्, स मा भूदित्यनेन सूत्रेणऽयथापदेशं देवताःऽइत्यनूद्य, अग्निं स्विष्टकृतं च कुर्यातिति तासु तस्य समुच्चयो विधीयते ।
तथाऽअन्तरेणऽइति पदमेकं सूत्रंऽअन्तरा त्वाष्ट्रेणऽ इत्यादिवत् ।
प्रकरणाद्वैकृतप्रधानहोमानां जयादीनां च मध्ये सर्वास्वपि विकृतिषु स्विष्टकृन्नित्य एवेत्यर्थः ।
इतरथा क्वचित्तस्य लेपः स्यात्,ऽस्थालीपाकादुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यतेऽ(आप.गृ.९४) इत्यादि परिसङ्ख्येति कृत्वेति ।
तन्न,विभागे साकाङ्क्षयोर्द्वितीयान्तयोःऽअग्निं स्विष्टकृतं, इत्येतयोः अन्तरेणेत्यनेन सम्बन्धाकाङ्क्षेण एकवाक्यत्वे सम्भवति वाक्यभेदस्यायुक्तत्वात्,ऽअग्निस्स्विष्टकृद्द्वितीयःऽइत्यस्य प्रयोजनान्तरपरत्वाच्च ।
तथापि यदि स्विष्टकृतः प्रधानतुल्यधर्मकत्वं, तदा तल्लोपेऽपि प्रधानलोपप्रायश्चित्तमेवापद्यते ।
तथाऽअन्तरेणऽइत्यस्य यथोक्तश्रुतसम्बन्धन्यन्वयसम्भवे अप्रकृतगम्यमानान्वयो न युक्तः ।
व्यर्थ चैतत्॑स्वमते स्विष्टकृतस्समुच्चयविधानादेव त्रिदोषायाः परिसङ्ख्याया अपि निरस्तत्वात्, तस्य सर्वत्र नित्यत्वेनालोपसिद्धेः ॥२५॥
अविकृतमातिथ्यम् ॥ आपस्तम्बगृह्यसूत्र ७.२६ ॥
टीकाः
अनुकूलावृत्ति ७.२६
या गौरतिथय आलभ्यतेऽगौरिति गां प्राहेतिऽतदातिथ्यं नामकर्म<तदविकृत>मपूर्व पार्वणधर्मास्तद्वपाहोमे न कर्तव्या इत्यर्थः ।
इदमेव ज्ञापकं न स्थालीपाकेष्वेव सोऽतिदेशः ।
किं तर्हि ?सर्वेषु पक्वगुणेषु पशुष्वपीति ।
तेनाष्टकायां काम्यपशुषु च शास्त्रान्तरदृष्टेषु पार्वणाधर्मसिद्धिः ॥२८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.२६
अतिथिर्यस्य कर्मणो निमित्तं त<दातिथ्यम्>, गवालम्भ इत्यर्थः ।
त<दविकृतं>यथोपदिष्टमेव स्यात् ।
नात्रऽअग्निमिद्ध्वाऽ (आप.गृ.११२)इत्यादि सामान्यमपि तन्त्रम्, पार्वणं तु दूरे॑ऽकृत्स्नविधानात्यजतेरपूर्वत्वम्ऽ(जै.सू.८१५) इति न्यायात् ।
ऽकृत्स्नविधानं च तस्यै वपां श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेकोन्नातमेन वा पलाशपर्णेनोत्तरया जुहोतिऽ(आप.गृ.२२४) इति ।
एतच्च प्रदर्शनार्थम् ।
तेन वपाहोमानन्तरं कुंशुकहोमसर्षपहोमफलीकरणहोमादयोऽप्यपूर्वा एव॑कृत्स्नविधानस्य तुल्यत्वात् ।
ननुऽनानग्नौ प्रधानम्ऽइति याज्ञिकवचनात्वैश्वदेवबलिहरणानि तावदङ्गानि ।
अग्नौ होमेषु च आग्नेयसौविष्टकृतावन्तरेण ये होमास्त एव प्रधानाः ।
तौ तु सर्पबल्यादिसामान्यादङ्गमित्याशङ्क्याह
४२ वैश्वदेवः ।
वैश्वदेवे विश्वे देवाः ॥ आपस्तम्बगृह्यसूत्र ७.२७ ॥
टीकाः
अनुकूलावृत्ति ७.२७
ऽआर्याः प्रयता वैश्वदेवऽइति चोदिते वैश्वदेवाख्ये कर्मणि देवतोपदेशोऽयं निर्वापकाले सङ्कल्पार्थम् ।
यास्तु तत्र देवताः षड्भिराद्यैः प्रतिमन्त्रं (अपा.ध२३१६) इत्येवमाद्याः ताः प्रदानकाले देवताः, तेन विश्वेभ्यो देवेभ्यः इति सङ्कल्प्य गृहस्थेन स्वगृहे पाकः कार्यः ।
तथा पक्वादेवान्नाथोमा बलयश्च तस्यै तस्यै देवतायै ।
ऽअहरहर्भूतबीलऽरित्येवमाद्याः पञ्चमहायज्ञानामुत्पत्तिविधयः ।
ऽआर्याः प्रयताऽइत्यादिकस्तु तेषामेव प्रयोगविधिः ।
तस्मात्न पृथक्पञ्चमहायज्ञाः कर्तव्याः तत्रैव वैश्वदेवं यदग्नौ क्रियते स देवयज्ञः ।
यत्बलिहरणं स भूतयज्ञः ।
यद्दक्षिणतः पितृलिङ्गेनेति स पितृयज्ञः ।
यदग्रं च देयमित्यादि स मनुष्ययज्ञः ।
तत्र वैश्वदेवे सोमाय स्वाहेति द्वितीयाहुतिरिति मन्त्रव्याख्याकारेणोक्तम् ।
न च षडेभिराद्यैरिति विरोधः ।
तस्य प्रधानदेवताविषयत्वात्, स्विष्टकृतश्च तान्त्रिकत्वात् ।
अथ कस्मादिहैव वैश्वदेवस्य कृत्स्नकल्पो नोपदिश्यते?उच्यतेइहोपदेशे तस्य कल्पस्य सर्वचरणार्थता न स्यात्, इष्यते च ।
तस्मात्सर्वचरणसाधारणेषु सामयाचारिकेषूपदेशः ।
अथ तंहि देवतोपदेशः तत्रैव कस्मान्न कृतः ?इहोपदेशप्रयोजनमस्मिन् गृह्ये तदपि वैश्वदेवं कर्मोपदिष्टं यथा स्यादिति ।
तेनास्मदीयानां स एव वैश्वदेवकल्पो नान्येषु धर्मशास्त्रेषु चोदितः ।
यज्ञोपवीतिना प्रदक्षिणमित्यादि परिभाषाप्रवृत्तिश्च भवति ॥२९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.२७
वैश्वदेवमिति कर्मनामधेयम् ।
प्रवृत्तिनिमित्तं च, विश्वे सर्वे देवा अत्रेज्यन्त इति ।
इह च मन्त्रवर्णसिद्धानां देवतात्वस्याविधेयत्वात्, आग्नेयादयष्षडपि होमाः बलिहरणानि चानग्निदेश्यान्यपि सर्वाण्येव प्रधानानि॑न तु किञ्चिदपि शेषापरनामाङ्गम्, इत्येवं सूत्रार्थः ।
अयं भावःयादिनानग्नौ प्रधानम्, किन्तु शेष एवेति तर्ह्ये तच्छेषलक्षणे तृतीयाध्याये दृश्येत ।
न तु दृष्टम्, नापि सूत्रकारेक्तं दृश्यते ।
किन्तु पुण्डपितृयज्ञे तावदापस्तम्बेन हेमः पिण्डदानं चोभयं प्रधानमुक्तम्, पिण्डदानं प्रकृत्यर्यदि जीवपिता, न दद्यात्, आहोमात्कृत्वा विरमेत्ऽ(आप.श्रौ.१९८) इति ।
यदि हि पिण्डदानस्याङ्गता, तदा प्रधानभूतहोमानुष्ठाने सति, तस्याप्यनुष्ठानं स्यात्, न विरामः ।
तस्मादत्र प्रधानस्यैव पिण्डदानस्यऽनासोमयाजी सम्मयेत्ऽ(तै.सं.२५५) इत्यादिवदनारभ्भलक्षण एव विरामः ।
कात्यायनस्तुप्रत्युत पक्षे पिण्डदानमेव प्रधानं, होमस्तदङ्गमित्याहऽजीवपितृकस्य होमान्तम्, अनारम्भो वाऽ(का.श्रौ.४१२४,२५) इति ॥
तथा सर्पेशानबल्योरपि होमा बलयश्च प्रधानम् ।
अवभृथे त्वनग्नावेव प्रधानम् ।
सोमाङ्गत्वेऽप्यस्य प्रधान्यं स्वाङ्गापेक्षया ।
तथैव राक्षसे गर्दभपशौ अनग्नावेव प्रधानम् ॑ऽअप्यस्ववदानैश्चरेयुःऽ(आप.श्रौ.९१५३) इति वचनात् ।
वपायास्तूपदेशमतादग्नौ होमः ।
ऽयदि वपा हविरवदानं वा स्कन्देत्ऽ(आप.श्रौ.९१८१५) इति वपायाः पृथग्ग्रहणात् ।
एवमनग्नावप्यन्यानि बहूनि प्रधानम्॑ऽऔपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तेन जुहुयात्ऽ(आप.ध.२३१७) इति परिसङ्ख्यया चास्य वैश्वदेवस्यापार्वणा विकारत्वात् ।
सर्पबल्यादिषु तु पार्वणविकारत्वात्तावदङ्गम् ।
किञ्च वैश्वदेवमन्त्रेष्वपिऽअग्नये स्वाहा, अग्नये स्विष्टकृते स्वाहाऽइत्येतयोरप्याम्नानात्प्राधान्यम् ।
ननुवैश्वदेवमन्त्राणामपि न प्रत्यक्षस्समाम्नायः, स कथमवगम्यते?इच्यतेऽषड्भिराद्यैः प्रतिमन्त्रम्ऽऽअपरेणाग्निं सप्तमाष्टमाभ्याम्ऽ (आप.ध.२३१६,२०) इत्यादिसूत्रैः क्रमेण विनियोगात्क्वचिदाम्नानमस्तीत्यवगम्यते ।
तच्चाम्नानं प्राग्विवाहमन्त्रेभ्यः, भाष्यकार वचनात् ।
ततश्च ब्रह्मयज्ञपारायणयोरप्येतेषामेवंक्रमेणाध्ययनं वेदितव्यम् ।
सर्वप्राधान्ये च प्रयोजनमेषामेकतरमप्यकृत्वा प्रयोगे समापितेऽपि तत्प्राग्भोजनात्सप्रायश्चित्तं साङ्गमनुष्ठेयम्॑कृते तु भोजने पाकयज्ञलोपप्रायश्चित्तमेवेति ।
केचित्वैश्वदेवे विश्वे देवा देवता विधीयन्ते निर्वापकाले सङ्कल्पार्थम्, ईशानयज्ञवत् ।
यास्तु धर्मशास्त्रे मन्त्रविनियोगात्कल्पितास्ताः प्रदानकाले देवताः ।
इह च देवतोपदेशो वैश्वदेवस्य गार्ह्यपरिभाषाप्राप्त्यर्थः ।
तत्र तस्योपदेशस्तु सर्वचरणार्थः ।
इदं च वैश्वदेवं न पञ्चमहायज्ञेभ्यः पृथग्भूतम् ।
ऽअहरहर्भूतबलिःऽ(आप.ध.११२१५) इत्यादयश्च पञ्चमहायज्ञानामुत्पत्तिविधयः ।
ऽआर्याः प्रयता वैश्वदेवेऽ (आप.ध.२३१) इत्यादिस्तु प्रयोगविधिः ।
तत्र यदग्नौ क्रियते स देवयज्ञः, यत्बलिहरणं स भूतयज्ञः, यद्दाक्षिणतः पितृलिङ्गेनेति स पितृयज्ञः, यच्चाग्रदानं स मनुष्ययज्ञः, इति ।
तन्न, स्वमते श्रुत्या चोदितान् विश्वान् देवान् वचनं विनापनीय, तेभ्यस्सङ्कल्पितस्य हविषो देवतान्तरेभ्यो मन्त्रवर्णात्कल्पितेभ्यो दातुमयुक्तत्वात् ।
ईशानबलौ तु भवशर्वादिशब्दानामीशानाभिधानत्वात्, अर्थस्य देवतात्वमिति सूत्रकारमताच्च, युक्तं भवायेत्यादिभिर्मन्त्रैर्दानम् ।
यत्तु मीढुष्यै जयन्ताय चास्मात्स्थालीपाकाद्दानं तदप्यभ्युदयेष्ट्यादिवत्सवनीयपुरोडाशवच्चऽत्रीनोदनान् कल्पयित्वोत्तरैरुपस्पर्शयित्वोत्तरैर्यथास्वमोदनेभ्यो हुत्वाऽ(आप.गृ.२०४) इति वचनैः स्थालीपाकांशद्वये पूर्वदेवतापनयेन देवतान्तर विधानाद्युक्तम् ।
पञ्चमहायज्ञेभ्यो न पृथग्वैश्वदेवमित्यपि न॑प्रकरणान्तरात्संज्ञाभेदाच्च कर्मभेदावगतेः ।
नच कर्मभेदे तेषां प्रयोगो दुरुपपाद इति प्रमितभेदापह्नवो युक्तः, यतो भाष्ये वैश्वदेवस्य तेषां च प्रयोगः पृथगेवोपपादितः ॥
अथ प्रयोगभाष्यमीषद्भेदं सिख्यतेवैश्वदेवस्य कर्मोच्यतेऽप्रसङ्गात्पञ्चमहायज्ञानां च ।
समावेशनजपान्ते विवाहे समाप्ते
वैश्वदेवमन्त्रणामुपयोगे यद्व्रतंऽद्वादशाहमधश्शय्याऽ(आप.ध.२३१३) इत्यादि तत्स्वामित्वाविशेषात्सपत्नीकश्चरित्वा प्रशस्तेऽ हन्यारभ्यऽआर्याः प्रयता वैश्वदेवेऽन्नसंस्कर्तारस्स्युःऽइत्यादिविधिना सिद्धेऽन्ने तिष्ठन्नन्नसंस्कर्ता भार्यादिःऽभूतम्ऽइति स्वामिने प्रब्रूयात् ।
तत्ऽसुभूतं साविराडन्नं तन्माक्षायिऽइति स्वामी प्रतिब्रूयात् ।
ततो यदि प्रयाणे गृहेवा वैश्वदेवस्य होमस्य स्थानेऽग्निरुपसमाधातव्यः, तत्र धर्मसास्त्रोक्तविधिना उपसमादधाति ।
एवमन्यत्राप्यौपासनहोमादिषु ।
अथ गृहमेधिनो यदशनीयमन्नं ततो होमार्थ हविष्यमन्नं पात्रे कल्पयति ।
अहविष्यं श्रारलवणावरान्नसंसृष्टं द्वितीये ।
हविष्यमन्नं देवयज्ञार्थ तृतीये ।
सर्वतस्समवदाय अग्रार्थ चतुर्थे ।
सर्वत एव समवदाय मनुष्ययज्ञार्य पञ्चमे यदि ब्राह्मणतर्पणं नावकल्पते ।
ऽमनुष्येभ्यो यथाशक्ति दानम्ऽ (आप.ध.११२१५) इति वचनात् ।
ततः परिषेचनं कृत्वा प्रथमकल्पितादन्नाद्यथाहुतिमात्रं अङ्गुष्ठपर्वमात्रंऽअग्नये स्वाहेऽत्यादिभिः षडैहुतीर्हुत्वा उत्तरं परिषेचनम् ।
अथ उदीचीनमुष्णं भस्मापोह्य तस्मिनहविष्यं स्वाहाकारेण जुहोति॑ऽयस्याग्नौ न क्रियते यस्यचाग्रं न दायते न तद्भोक्तव्यम् (आप.ध.२१५१३) इति वचनात् ।
अथ षडाहुतिहोमशेषमहविष्यहोमशेषेण संसृज्यान्नेन सूप संसृष्टेन धर्मशास्त्रोक्तेन विधिना रौद्रान्तं बलिं हृत्वाग्रं ब्राह्मणाय दत्वा, ब्राह्मणोक्तत्वा दपार्वण व्याख्यातं सन्निपातीतिकर्तव्यताकं देवयज्ञं कुर्वीत ।
देवयज्ञेन यक्ष्य इत्यागूर्य, विद्युदसि ।
औपासने पचने वा कल्पितादन्नात्, तदभावे हविष्यमन्नं व्रीहियवादि, आकाष्ठात्, देवेभ्यस्स्वाहेति हस्तेन जुहुयाते॑सन्निपातीतिकर्तव्यतयोरौपासनहोमवैश्वदेवयोर्हस्तेन होमस्य दृष्टत्वात् ।
मन्त्रवच्चोभयतः परिषेचनम्, तयोर्दृष्टत्वादेव ।
वृष्टिरसि ।
वषट्कारहोमेषु विद्युद्वृष्टी इत्युपदेशः ।
अथ प्राचीनावीती पितृयज्ञेन यक्ष्ये इत्युक्त्वा विद्युदासि ।
शुचौभूमौ कल्पितादोदनाथस्तेन अङ्गुष्ठप्रदेशिन्यावन्तरेण पितृभ्यः स्वधास्तु, इति दद्याताहुतिमात्रम् ।
वृष्टिरसि ।
पित्र्यं बलिहरणविधिनेत्युपदेशः ।
अथ बलिहरणस्य होमतुल्यत्वात्यज्ञोपवीती भूतयज्ञेन यक्ष्य इत्युक्त्वा, वुद्युत् ।
शुचौ भूमावेव हस्तेनऽइदं भूतेभ्योऽस्तुऽइति दद्यात् ।
वृष्टिः
बलिहरणविधिनेत्युपदेशः ।
अथ दानस्य होमतुल्यत्वात्यज्ञोपवीती मनुष्ययज्ञेन यक्ष्य इत्युक्त्वा, विध्युत ।
ब्राह्मणतर्पणं, सङ्कल्पितस्य वा दानम् ।
वृष्टिः
दानमाज्ञमित्युपदेशः ।
ब्रह्मयज्ञं तु पूर्वमेव कुर्वीत अग्निहोत्रमौपासनं वा हुत्वा॑ऽउतित आदित्येऽ(तै.आ.२११) इति वचननात् ।
तस्य कर्मोच्यतेऽब्रह्मयज्ञेन यक्ष्यमाणःऽ(तै.आ.२११) इत्यादि ब्राह्मणोक्तदेशे यथाविध्याचामेत् ।
अस्मिंस्त्वाचमने विशेषःऽदक्षिणत उपवीयऽइत्यारभ्यऽसकृदुपस्पृश्यऽ(तै.आ.२११) इत्येवमन्ते विगुणे कृतेऽयदि यजुष्टऽइतिऽभुवस्वाहाऽइति होमः प्रायश्चित्त्म् ।
ऽदाक्षिणेन पाणिना सव्यं प्रोक्ष्यऽइत्यारभ्य शेषे विगुणे कृतेऽयद्यविज्ञाताऽइति प्रायश्चित्तम् ।
अथ क्रम उच्यते ब्रह्मयज्ञेन यक्ष्ये इत्युक्त्वा, विद्युत ।
आचमनम् ।
आसनकल्पनादि सावित्रीजपान्तं कृत्वा वेदस्यादित आरभ्य यथाध्यायमध्ययनमध्यायः कृत्स्नस्य वेदस्यासमाप्तेः॑ऽश्रावण्यां पौर्णमास्यामध्यायमुपाकृत्यऽ(आप.ध.१९१) इति वचनात्येन प्रकारेणाध्यायो येन च क्रमेणा धीर्यतेऽविना चाम्नानैः आदिप्रदिश्टानुषङ्गप्रख्यादिभिः, उत्सृजनुत्सृज्योत्सृज्य, वाचा मनसा च यावत्तरसं यावच्छक्यमधीयीत ।
परिधानीयां कृत्वा, वृष्टिरसि ।
एवमहरहः कृतान्तादारभ्य यावत्समाप्तो वेदः सहैकाग्नि विधिकाण्डेन ।
समस्तमधीत्य वैश्वदेव मन्त्रानधीत्य ततः प्रसुग्मन्तेति प्रश्नद्वयधीयीत ।
एवं विनियोगदर्शनात्,ऽऐकाग्निको विधिः काण्डं वैश्वदेवमिति स्थितिः, ॥
इति वचनाच्च ।
यद्यनेकशाखाध्यायी ततोऽनेनैव विधिना द्वितीयं पुनरधीयीत ऋग्यजुस्साम्नां क्रमेण अध्ययने यद्यनध्यायस्स्यात्, तदैकां वर्चमेकं वा यजुरेकं वा साम कृतांतादेवारभ्याभिव्याहरेत् ।
यदा ब्राह्मणस्य क्रमेण तदाऽभूर्भुवस्सुवस्सत्यं तपश्श्रद्धायां जुहोमीऽत्यभिव्याहरेत् ।
एवं यावज्जीवं ब्रह्मयज्ञं कुर्वीत ।
मनुष्ययज्ञान्तेऽसर्वान् वैश्वदेवेभागिनः कुर्वीत, (आप.ध.२९५) इत्यादिविधानेन सर्वेषु पत्न्यन्तेषु भुक्त्वत्सु, पाकपरिवेषणपात्रेभ्यो लेपान् सङ्कृष्योत्तरतः शुचौ देशे रुद्राय सम्पदानभूताय निनयेत्,ऽरुद्रायस्वाहाऽइति ।
नित्यवच्चनिनयनम्॑प्रतिपत्तिकर्मत्वात् ।
ऽएवं वास्तु शिवं भवतिऽ(आप.ध.२४२३) इत्यर्थवादः ।
ऽद्रव्यसंस्कारकर्मसु परार्थत्वात्ऽ (पू.मी.४३१) इति न्यायात् ।
फलं वा, सूत्रकारेणोपदिष्टत्वात्ऽयएतानव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश्चऽ(आप.ध.२४९)
इति ।
एवमृते महायत्रेभ्यः सायं रौद्रान्तं कृत्वा वैहायसमाकाशे भूतबलिं कुर्वीत ॥
अन्य आहुःऽनक्तमेवोत्तमेनऽ(आप.२४८) इत्येवकारस्य व्यवहितान्वयाद्वैहायसमेव सायमिति ॥
इदानीं प्रसङ्गात्सर्पवलेस्तदुत्सर्गस्य च देवतामुपदिशति
पौर्णमास्यां पौर्णमासी यस्यां क्रियते ॥ आपस्तम्बगृह्यसूत्र ७.२८ ॥
टीकाः
अनुकूलावृत्ति ७.२८
"श्रावण्यांऽपौर्णमास्यामस्तमिते स्थालीपाक"इत्यादि पौर्णमास्यां यत्कर्म चोदितं तत्र पौर्णमासीदेवता ।
का सा ?यस्यां तत्कर्म क्रियते श्रावण्यै पौर्णमास्यै स्वाहेति ।
एवं स्थालीपाकाद्धोमः ।
ततो यथोपदेशं किंशुकानि समिध आज्याहुतयश्च, ततः स्थालीपाकात्स्विष्टकृत् ।
ततो जयादि ।
ऽयस्यां क्रियतऽइत्यनुच्यमाने पौर्णमास्यै स्वाहेत्येव होमः स्यात् ॥३०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ७.२८
यस्यां पौर्णमास्यां श्रावण्यां मार्गशीर्ष्या च निमित्तभूतायां स्थालीपाकः क्रियते, तस्य सैव पौर्णमासी देवता ।
अयमर्थः सर्पबलौऽश्रावण्यै पौर्मास्यै स्वाहाऽइति स्थालीपाकस्य होमः ।
उत्ससर्जने तुऽमार्गशीर्ष्यै पौर्णमास्यै स्वाहाऽइति ॥२८॥
इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने सप्तमः खण्डः ॥
अष्टमः खण्डः
४३ उपाकरणम् ।
उपाकरणे समापने च ऋषिर्यः प्रज्ञायते ॥ आपस्तम्बगृह्यसूत्र ८.१ ॥
सदसस्पतिर्द्वितीयः ॥ आपस्तम्बगृह्यसूत्र ८.२ ॥
टीकाः
अनुकूलावृत्ति ८.२
द्विविधमुपाकरणम्काण्डोपकरणमध्यायोपाकरणञ्चेति ।
तथा समापनम् ।
तथा चान्यपरे वाक्ये दर्शनं"काण्डोपाकरणे चामातृकस्य काण्डसमापने चापितृकस्ये"ति (आप.ध.११११२) अध्यायोपाकरणं तु प्रसिद्धंश्रावण्यां पौर्णमास्यामध्यायमुपाकृत्येति ।
(आप.ध.१९१०) ।
तथा समापनं तैष्यां पौर्णमास्यां रोहिण्यां वा विरमेत्,इति ।
(आप.ध. १९२०) तत्र द्विविधेऽ<प्युपाकरणे समापने> <चार्षियेः प्रज्ञायते> काण्डानुक्रमण्यां काण्यऋषित्वेन स तत्र देवता ।
तत्र सदसस्पतिर्द्वितीयः ।
काण्डऋषये हुत्वा सदसस्पतये होतव्यमित्यर्थः ।
तत्र प्राजापत्यं सौम्यं आग्नेयं वैश्वदेवमिति काण्डानि ।
प्रजापतिः सोमोऽग्निर्विश्वेदेवा इति काण्डर्षयः ।
सारस्वतं नाम सङ्कीर्णानि काण्डानि ।
यताह बौधायनःपौरोडाशिकं याजमानं होतारो हौत्रं पितृमेध इति सब्राह्णणानि सानुब्राह्मणानि प्राजापत्यानि ।
आर्ध्वयवं ग्रहाः दाक्षिणानि समिष्टयजूंष्यवभृथयजूंषि वाजपेयश्शुक्रियाणि सवा इति सब्राह्मणानि सानुब्राह्मणानि सौम्यानि ।
अग्न्याधेयं पुनराधेयं अग्निहोत्रमग्नुपस्थानमग्निचयनं सावित्र नाचिकेतचातुर्होत्रियवैश्वसृजारुणा इति सब्राह्मणानि सानुब्राह्ममान्याग्येयानि ।
राजसूयः पशुबन्धः इष्टयो नक्षत्रेष्टयो दिवश्येनयोऽपाघाः सत्रायणमुपहेमाः सूक्तान्युपानुवाक्यं याज्या अश्वमेधः पुरुषमेधस्सौत्रामण्यच्छिद्राणि पशुहौत्रमुपनिषद इति सब्राह्मणानि सानुब्राह्मणानि वैश्वदेवानीति (बौ.गृ.३१२१२४) अस्माकञ्च गृह्यमन्त्रप्रश्नद्वयमप्येकाग्निकाण्डं नाम वैश्वदेवकाण्डे द्रष्टव्यम् ।
तत्र काण्डोपाकरणे तस्य काण्डस्य ऋषिर्यः तस्मै होमः प्रजापतये काण्डऋषये स्वाहेति ।
ततस्सदसस्पतिमद्भुतमिति मन्त्रेण क्रमप्राप्तेन सहितमन्त्रस्वाध्यामार्थ विवाहप्रकरणे पठित ।
तस्यैव विनियोगप्रदर्शनार्थ इदं सूत्रमस्मिन् प्रदेशे पछितम् ।
अन्यथोपनयनानन्तरमेव वक्तव्यं स्यात् ।
एवं तस्य तस्य समापने तस्मै तस्मै काण्डर्षये होमः ।
सदसस्पतये द्वितीयः ।
न जयादयः, प्रापकाभावात् ।
सूत्रान्तराश्रयणेन केचिज्जुह्वति ।
तानीमानि चत्वारि वेदव्रतानि यानि प्रतिकाण्डमुपाकरणानि ।
यानि समापनानि तानि व्रतविसर्जनानि ।
अध्यायोपकारणे तु सर्वेषां काण्डर्षीणां होमः ततस्सदसस्पतेः ।
जयादयश्च भवन्ति वा, न वा ।
तत्र काण्डोपाकरणसमापनयोरु दगयनादिप्राप्तेरुपनयनानन्तरं तदानीमेव प्राजापत्यं काण्डमुपाकृत्य श्रावण्यां पौर्णमास्यामुपाकृत्य प्राजापत्यस्य काण्डस्याध्ययनम् ।
तैष्यामुत्सर्गः ।
तत्रैतावता कालेन प्राजाप्तयकाण्डस्य समाप्तौ तेनोत्सर्गः ।
अथ सौम्यस्योपाकारणम् ।
अथ यावदध्यायोपाकणं तावत्प्राजापत्यस्य काण्डस्य धारणाध्ययनं शुक्लपक्षेषु ।
कृष्णपक्षेष्वङ्गाध्ययनम् ।
श्रावण्यामुपाकर्म ।
अथ सौम्यकाण्डस्याध्ययनम् ।
तैष्यामुत्सर्गः ।
काण्डसमापनम् ।
एवमितरयोः ।
सर्वत्र उत्सर्जनादूर्ध्व पूर्वगृहीतस्यांशस्य दारणाध्ययन मङ्गाध्ययनञ्च होमः प्रथमःकल्पः ।
अथ ये सारस्वतं पाठमधीयते तेषामुपनयनानन्तरं तदानीमेव चत्वारि वेदब्रतानि क्रमेण कृत्वा कालेऽध्यायमुपाकृत्य यथापाठमध्ययनं तैष्यामुत्सर्गः ।
पूर्ववद्धारणाध्ययनमङ्गाध्ययनं च पुनरुपाकरणमित्यादि ।
आद्यकल्पे तु केचिदुत्सर्जनं न कुर्वते ।
ओपाकरणादधीत्य पुनरुपाकुर्वते ।
अन्ये तूत्सृज्य पुनरधीयते ।
वेदव्रतानि च यदा कदाचित्कुर्वते ।
तेषां मूलं मृग्यम् ।
सर्वेष्वपि पक्षेषु शुक्रियाणां पृथगुपाकरणमुत्सर्जनञ्च ।
तत्र प्रयोगःपर्वण्युदयगयन इत्यारभ्याज्यभागन्ते सोमाय काण्डर्षये स्वाहेति सदसस्पतिमिति च हुत्वा जयादिपरिष्चनान्ते मदन्तीरुपस्पृश्येत्येवमादि प्रतिपद्यते ।
एवमेव पूर्ववत्विसृज्येत्यत्रापि प्रयेगः ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ८.२
अत्र विषयशुध्यर्थमध्यायस्य च प्राजापत्यसौम्याग्नेयवैश्वदेवाख्यानां काण्डानां च तत्तत्काण्डाख्यव्रतानां चोपाकरण समाप नयोश्च स्वरूपमुच्यतेतत्राध्यायस्योपाकरणं, श्रावण्यां पौर्णमास्यां विहितहोमपूर्वक मध्यायानामारम्भः ।
समापनं च, तस्य तैष्यां पौर्णमास्यामित्यादिषु होमपूर्वकमेवाध्ययनोत्सर्गः ।
काण्डानामुपाकरणं तुक्रमप्राप्ते काले होमपूर्वकमेव तत्तत्काण्डानामध्ययनोपक्रमः ।
समापनं चैषां तत्तत्काण्डाध्ययने समाप्ते होमपूर्वकमेवोत्सर्गः ।
ये एते काण्डानामुपाकरणसमापने ते एव व्रतानामिति, न भेदोम, अध्ययनाङ्गत्वात्सर्वेषां ब्रह्मचारिव्रतानाम् ।
सारस्वतपाठाध्ययने तु काण्डानां सङ्कीर्णत्वेन यथाकाण्डमध्ययनासम्भवात्, व्रतान्येवोदगयने काण्डवदेकैकशः उपाकृत्य संवत्सरं चरित्वा विधिवदुत्सृजेत् ।
चत्वार्येव च वेदव्रतानि, न तु गृह्यान्तरोक्ते सावित्रसम्मिताख्ये वेदव्रते, सवित्रसम्मिताख्यकाण्डयोरभावात् ।
ऽचौलोपनयनं, चत्वारि वेदव्रतानि, (गौ.ध.८१५) इति गौतम वचनाच्च ॥
तथा विषयशुध्यर्थमेव प्रयोगभाष्यमल्पभेदमेव लिख्यते ।
आपस्तम्बदर्शनानुगतेपदेशेनाध्यायोपाकरणादीनां कर्मोच्यते ।
तत्र तावदध्यायोपाकरणस्य श्रावण्यां पौर्णमास्यां आचार्यश्शिष्यैस्सह कृतप्राणायामोऽध्यायमुपाकरिष्यऽइति सङ्कल्प्य महानद्यां विधिवत्स्नात्वा पवित्रपाणिः नव ऋषीन् तर्पयेत्ऽप्रजापतिं काण्डऋषिं तर्पयामि ।
सोमं काण्डऋषिं तर्पयामि ।
अग्निं काण्डऋषिं तर्पयामि ।
विश्वान्देवान् काण्डऋषिं तर्पयामि ।
सांहितीर्देवता उपनिषदस्तर्पयामि ।
याज्ञिकीर्देवता उपनिषदस्तर्पयामि ।
वारुणीर्देवता उपनिषदस्तर्पयामि ।
ब्रह्माणं स्वयंभुवं तर्पयामि ।
सदसस्पतिं तर्पयामिइति ।
ततोऽग्नेरुपसमादानाद्यग्निमुखान्ते अन्वारब्धेष्वन्तेवासिषु नवाज्याहुतीर्जुहोतिऽप्रजापतये काण्डऋषये स्वाहा ।
सोमाय काण्डऋषये स्वाहा ।
अग्नये काण्डऋषये स्वाहा ।
विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यः स्वाहा ।
सांहितीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा ।
याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा ।
वारुणीभ्यो देवताभ्य उपनिषद्भ्यस्स्वाहा ।
ब्रह्मणे स्वयंभुवे स्वाहाऽ ।
सदसस्पतिमित्येतयर्चा नवमीमादुतिं जुहोति ।
तत आचार्यप्रमुखाः दर्भेवासीना दर्भान् धारयमाणा वेदस्यादितश्चतुरोऽवरार्ध्याननुवाकानधीयीरन् ।
अथ जयादि परिषेचनान्ते ब्राह्मणतर्पणम् ।
एवमेवोत्सर्गे, न ततोऽधिकंस्मृत्यन्तरोपसंहारेणापि,किन्तु यथापस्तम्बीयं सूत्रम् ।
तथा नादितो वेदस्यानुवाकानामध्ययनम् ।
जयादयस्तु भवन्ति ।
सौम्यादृते काण्डोपाकरणसमापनयोश्च न सूक्तोपहोमदेवतोपस्थानजयादयः ।
सौम्यस्यैव सूक्तजयादयः ।
एवमापस्तम्बमत एवावस्थिताः केचित्कुर्वते यथोक्तम् ॥
अथ प्राजापत्ये व्रते पूर्ववत्स्नात्वा सोमाग्निविश्वेदेववर्ज्यानां तर्पणम् ।
अग्निमुखान्ते चान्वारब्धे व्रतिनि जुहोतिप्रजापतये काण्डऋषये स्वाहा ।
ऽप्रजापते न त्वदेतान्यन्यःऽ(तै.ब्रा.२८१२) इति सूक्तेन प्रत्यृचं षडाहुतीः, चतस्र उपहोमाहुतीः सांहितीभ्य इत्यादिभिरेव, सदसस्पतिमित्येतयैव सदसस्पतिं च ।
ऽअग्ने व्रतपते काण्डऋषिभ्यः प्राजापत्यं व्रतं चरिष्यामि, तच्छकेयं तन्मे राध्यताम् ।
चायो व्रतपते, आदित्य व्रतपते, व्रतानां व्रतपते काण्डऋषिभ्यः, प्राजापत्यं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् ,ऽ ।
(तै.आ.७४१३) इत्येतैश्चतुर्भिः यथादेवतम् ।
ततो जयादि, ब्राह्मणतर्पणं च ।
एवमेव समापने प्रयोगः संवत्सरे संवत्सरे पर्यवेते ।
तत्रोपस्थानमन्त्रेषु अचारिषमशकमराधीति विशेषः ।
केचित्सौम्ये केशश्मश्रुवापनस्य दृष्टत्वात्प्राजापत्यादिष्वपीच्छन्ति ॥
एवमेवाग्नेये वाश्वदेवे च ।
अग्नये काण्डऋषये स्वाहा॑ऽअग्ने नयेऽ(तै.ब्रा.२८२)तिषडृचं सूक्तम्,॑ऽअग्ने व्रतपते काण्डऋषिब्यः आग्नेयं व्रतं चरिष्यामीऽत्याग्नेये विशेषः ।
विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यः स्वाहा॑ऽआ नो विश्वे अस्क्रागमन्तुऽ(तै.ब्रा.२८६३) इति षडृचं सूक्तम् ।
वैशवदेवं व्रतं चरिष्यामीऽति वैश्वदेवव्रते विश्षः ॥
सोमस्य काण्डोपाकरणसमापने शुक्रियकल्पोक्ते ।
अत्राप्युक्तं यत्तदुच्यते पूर्ववदुपाकृत्याग्नेरुपसमाधानाद्यग्निमुखान्ते, सोमाय काणेडऋषये स्वाहा ।
ऽसोमो धेनुऽ(तै.ब्रा.२८३१) मिति षडृचं सूक्तम् ।
उपहोमान् सदसस्पतिं च हुत्वा, एवं पुर्ववदुपाकृत्य, मदन्तीमुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वा चतस्न औदुम्बरीस्समिधो घृतान्वक्ता अभ्यादधातिऽपृथिवी समित्ऽ(तै.आ.७४२१) इत्यादिभिः ।
अथ देवतोपस्थानम्ऽअग्ने व्रतपते काण्डऋषिभ्यः सौब्यं व्रतं चरिष्यामिऽइत्यादिभिः ।
ततः प्रभृति शुक्रियमन्त्रब्राह्मणानुवाकानां प्रथमपदानि युञ्जतेऽ(तै.आ.७२)ऽसविताऽ(तै.आ.८१२) इति वाभिव्याहार्य वाचयित्वा जयादि प्रति पद्यते ।
परिषेचनान्तं कृत्वा मदन्तीमुपस्पृस्य, उत्तमेनानुवाकेन शान्तिं कृत्वा ततस्सम्मीलनादि यथाशूत्रम् ।
श्वोभूतेऽवयः सुपर्णाः (तै.आ.७४२३) इत्यादित्योपस्थानान्ते ब्राह्मणभोजनम् ।
अथास्य स्वाध्यायविधिः शुक्रियकल्प एवोक्तः ।
एवं समापने ।
विशेषस्तुऽद्यौस्समिदादित्य व्रतपतेऽइत्याद्यावृत्ताः समिदाधानोपस्थानमन्त्राः ।
उत्तमेनानुवाकेन शान्तिं कृत्वा गुरवे वरं दत्वा केशश्मश्रु वापयित्वा ब्राह्मणभोजनम् ।
(नत्र प्रभृतिव्याहरणं)
अथ सूत्रमाक्षिप्यते ननुऽउपाकरणे समापने च ऋषिर्यः प्रज्ञायतेऽइति यः प्रजापत्यादीनामन्यतमः काण्डानुक्रमण्यां काण्डऋषित्वेन समाम्नायते स ऋषिः देवतेति व्यर्थमेवेदं सूत्रम् ।
काण्डोपकरणेष्वेतान् पुरस्तात्सदसस्पतेः ।
जुहुयात्काण्डसमाप्तौ च श्रुतिरेषा सनातनी ॥
(काण्डा.२११)
इति काण्डानुक्रमण्यां काण्डर्षिदेवतात्वस्य सिद्धत्वात् ।
सत्यम्, अत एव प्रजापत्यादयश्चत्वारः प्रधानहोमदेवताः॑ सांहित्यादयस्स्वयम्भुपर्यन्ताश्चत्वार उपहोमदेवताः ।
तेनैते चत्वारस्सर्वकाण्डानामुपाकरणसमापनयोरनुवर्तन्ते प्रधानानुवर्तित्वादङ्गानामित्येवं परं सूत्रम्, न देवतात्वविधिपरम् ॥१॥
ननुसदसस्पतिरध्यायोपाकरणसमापनयेर्नवमः ।
काण्डेपकारणसमापनयेष्षष्ठः ।
एवमयमद्वितीयोऽपि किमर्थ द्वितीय इत्युच्यते? ।
द्वतीयस्य स्विष्टकृतः स्थानेऽयं सदसस्पतिर्भवेदित्येवमर्थम् ।
इदमर्थमेव च पूर्वत्रऽअग्निस्तिष्टकृद्द्वितीयःऽ(आप.गृ.७७) इत्युक्तम् ।
उपाकरणसमापनयोराज्यहविष्कयोः स्विष्टकृदेव नास्ति, कथं तत्स्थाने सदसस्पतिविधिः?इतिचेतनेनैव वचनेनास्य प्रसङ्गो विधीयते, यथा अग्निहोत्रे द्वितीयस्या आहुतेश्शातपथेन ब्राह्मणेन ।
तेनाग्नेरुत्तरार्धपूर्वार्धेऽस्मै होमः ।
एतद्विस्मरणे स्विष्टकृल्लोपप्रायश्चित्तं च ।
होमो लिङ्गक्रमाभ्यांऽसदसस्पतिमद्भुतम्ऽइत्येतया होतव्य इति स्पष्टत्वात्सूत्रकारस्यानादरः केचित्ऽउपाकरणे समापने च यः काण्डऋषिः प्रज्ञायते तस्य द्वितीयस्सदसस्पतिः ।
काण्डऋषेरुपरुष्टादयं मन्त्रस्सदसस्पतिर्विनियुज्यते, न तु विवाहे, उद्दीप्यस्वेति ऋग्द्वयमिव ।
विवाहमध्ये पाठस्त्वध्ययनविध्यर्थःऽइत्येवं सदसस्पतिमन्त्रस्य विषयज्ञापन व्याजेन एतयोः कर्मणोः प्रयोगकल्पस्यान्यत्र प्रसिद्धस्यात्राप्रसिद्धत्वातवश्याश्रयणीयस्य इह शास्त्रेऽभ्यन्तरीभावोऽस्य सूत्रस्य प्रयोजनम्, ततश्च क्रियाप्रवृत्तिरिति ।
तन्न॑सूत्रस्थस्य सदसस्पतिशब्दस्य मुख्यार्थदेवतापरत्वसम्भवेऽपि मन्त्रप्रतीकं लक्षयित्वा तेन लक्षितेन मन्त्रलक्षणाया अयुक्तत्वात्, उक्तविधयानयोरिहैव प्रयोगस्य प्रसिद्धत्वात्, अन्यत्रप्रसिद्धस्याभ्यन्तरीभाववैमर्थ्याच्च ॥२॥
ऽयस्याग्नौ न क्रियते न तद्भोक्तव्यम्ऽ(आप.ध.२१५१३) इति धर्मशास्त्रवचनात्शरीरस्थित्यर्थमपि भोजनं द्विजस्य वैश्वदेवशेषेणैव भवितव्यम् ।
चतूरात्रमहूयमानोऽग्निर्लौकिकस्सम्पद्यतेऽइति वचनादहुतेऽग्निहोत्रे सर्वक्रत्वर्थोऽग्निर्लौकिकस्स्यात् ।
ततश्च ज्वरादिभिरुपद्रवे सत्यपि वैश्वदेवाग्निहोत्रादेः तत्प्रायश्चित्तानां वा होमानामवश्यकार्यत्वादृत्विगन्तरालाभे सत्यपि द्वयोरपि स्त्र्यनुपेतयोः येन केनचित्प्रकारेण मन्त्र अङ्गलोपेनापि तत्र प्रसक्तिः ।
तथा वैश्वदेवस्य श्राद्धादिषुऽअथ गृहमेधिनोयदशनीयस्य होमा बलयश्चऽ (आप.ध.२३१२) इति वचनात्, सुवर्चका यवक्षाराभ्यां लवणेन चावरान्नेन च कोशधान्यापरनाम्ना माषादिना तिलव्यतिरिक्तेन संसृष्टस्यापि भवति हविषो होमे प्रसक्तिः ।
तदुभयनिषेधार्थमाह
४४ वैश्वदेवे निषिद्धः कर्ता निषिद्धानि च द्रव्याणि ।
स्त्रियानुपेतेन क्षारलवणावरान्नसंसृष्टस्य च होमं परिचक्षते ॥ आपस्तम्बगृह्यसूत्र ८.३ ॥
टीकाः
अनुकूलावृत्ति ८.३
पाकयज्ञाधिकारे सर्वत्रायं प्रतिषेधः श्रद्धादिष्वप्यवरान्नानि कोशीधान्यानि माषादीनि कृष्णधान्यानि चणककोद्रवादीनि ।
<परिचक्षते> वर्जयन्ति सिष्टाः ।
"न स्त्री जुहुयात् ।
नानुपेतः ।
न क्षारलवणहोमो विद्यते"इति प्रतिषेधेनैव सिद्धे उत्तरार्थोऽयं प्रतिषेधः ।
किञ्च "पाणिग्रहणादि गृह्यं परिचरेत्स्वयं पन्त्यपि वा पुत्रः कुमार्यन्तेवासीवे"(आश्व.गृ.१९१)ति आश्वलायनवचनेन पन्त्यादीनामौपासनहोमप्राप्त्याशङ्कायां प्रतिषेधः ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ८.३
सेत्रिया<अनुपेतेन> अनुपनीतेन च<होम> होममात्रं श्रौतं स्मार्त च शिष्टाः<परिचक्षते>वर्जयन्ति यस्मात्तस्मादेव ताभ्यां न होतव्यमिति वाक्यशेषः ।
होममिति च सामान्याभिधानेन श्रौतहोमेऽपि स्त्र्यनुपनीतौ शिष्टाः वर्जयन्तीति ज्ञापनात्गार्ह्यअधिकारापवादः ।
क्षारेत्यादि वायाख्यातप्रायमेव ।
यत्तु धर्मशास्त्रेऽन क्षारलवणहोमो विद्यते ।
तथावरान्नसंसृष्टस्य चऽ(आप.ध.२१५१४,१५) इति तत्
ऽउदीचीनमुष्णं भस्मापोह्य तस्मिन् जुहुयात्ऽ(आप.ध.२१५१६) इति विधानार्थोऽनुवादः ।
यदपि तत्रेवऽन स्त्री जुहुयात्नानुपेतःऽ (आप.ध.२१५१७,१८)इति तत्क्षारादि यथोष्णभस्मनि हूयते, तथा तस्मिन्नापि स्त्र्यनुपनीताभ्यां न होतव्यमिति निषेद्धुम् ॥३॥
अस्य प्रतिषेधस्य प्रतिप्रसवमाह
यथोपदेशं काम्यानि बलयश्च ॥ आपस्तम्बगृह्यसूत्र ८.४ ॥
टीकाः
अनुकूलावृत्ति ८.४
योऽयं स्त्र्यादीनां प्रतिषेधः स काम्येषु कर्मसु नादरणीयः<यथेपदेशमेव>तानि कर्तव्यानि ।
तथा<बलयश्च>यथोपदेशमेव कर्तव्याः ।
सिध्यर्थे यदस्य गृहे पण्यं स्यादिति काम्योदाहरणम् ।
एवमतऊर्ध्व यदशनीयस्येत्यादि बलीनां होमे चोदितस्य स्त्र्यादिप्रतिषेधस्य बलिषु प्रसङ्गाभावात्ज्ञापकमिदंहोमधर्मो बलिषु प्रवर्तत इति ।
तेन अपरेणाग्निं दक्षिणं जान्वाच्येत्येवमादि बलिष्वपि भवति ।
ऽन काम्येषु बलिषु चऽइत्योव सिद्धे यथोपदेशमिति वचनमुपदेशादेवैषां प्रवृत्तिः स्वशास्त्रेण शास्त्रान्तरेण वा न प्रतिनिधित्वेन ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ८.४
यानि<काम्यानि>येन प्रकारेणोपदिष्टानि तानि तथैव भवन्ति, नैव तत्र क्षारादिवर्जनम्,ऽयदस्य गृहे पण्यं स्यात्ऽ(आप.गृ. २३५) इत्युपदेशस्य गृहशब्देन विशेषितत्वात् ।
यदि तत्र क्षारादिवर्जनमिष्टं स्यात्, तदाऽयदस्य पण्यं स्याऽदित्योतावदेव ब्रूयात् ।
तथा बलयश्च यथोपदेशमेव ।
न तु क्षारादिनिषेधः,ऽसति सूपसंसृष्टेन कार्याःऽ(आप.द.२३१९) इत्यारम्भसामर्थ्यात् ।
अन्यथाऽगृहमेधिनो यदशनीयस्य होमा बलयश्चऽइति वचनादेव क्षारादिव्यतिरिक्तशाकमांसादिसूपसंसृष्टेनान्नेन कार्यास्स्युः ।
अत्र चऽयदशनी यस्य होमा बलश्चऽइति होमसाहचर्यात्बलिष्वपि या क्षारादिनिषेधशङ्का सावार्यते ।
केचित्यथोपदेशं काम्यानि बलयश्चेत्यस्मादेवज्ञापनाद्धोमधर्माणां बलिष्वपि प्रसक्तिरिति ।
तेषां सर्पबलौ सक्तुनिर्वापे स्वाहाकारो दुर्वारः ॥ ४ ॥
४५ होनार्थमुपात्तस्याग्नेः स्वयं प्रज्वलने प्रयाश्चित्तम् ।
सर्वत्र स्वयं प्रज्वलितेऽग्नावुत्तराभ्यां समिधावादध्यात् ॥ आपस्तम्बगृह्यसूत्र ८.५ ॥
टीकाः
अनुकूलावृत्ति ८.५
<सर्वत्र>सर्वेषु पाकयज्ञेषु अग्नौ स्वयं प्रज्वलिते धमनादि पुरुषप्रयत्नमन्तरेणेत्यर्थः ।
एतस्मिन्निमित्ते संप्राप्ते उत्तराभ्या मृग्भ्यां द्वे समिधावग्नावादध्यात्ऽउद्दीप्यस्वऽऽमा नो हिंसीरिति ।
आदधातिचोदितत्वात्स्वाहाकारो नास्ति ।
सर्वत्र गृहणात्सर्व पाकयज्ञेष्वयं विधिर्भवति ।
अन्यथा प्रकरणाद्विवाह एव स्यात् ।
सर्वत्र लौकिके वैदिकेगार्ह्ये वाग्नाविति ।
एककर्मकालेष्वित्यन्ये ।
________________________
गृह्यतात्पर्यदर्शनव्याख्या ८.५
<सर्वत्र> सर्वाचारलक्षणेषु कर्मसु ।
अन्येसर्वदा अकर्मकालेष्वपीति ।
स्वयंप्रज्वलितेऽग्नौ प्रयत्नमन्तरेणौपासने प्रज्वलिते ।
उत्तराभ्यां ऋग्भ्यांऽउद्दीप्यस्व जातवेदःऽइत्येताभ्यां समिदावादध्यात् ।
प्रत्यृचमेकैकां समिधमादद्यात्, स्वतस्सधनभेदे क्रियाभेदात् ।
आदधातिप्रहरतीत्याद्यजुहोतिचोदितेषु न स्वाहाकारो विहितः ।
प्रस्तरप्रहरणेऽपिऽन स्वाहाकरोतिऽ(आप.श्रौ.३६७) इत्येतत्, आदधातीत्यादिष्वपि प्रतिषेधदर्शनार्थम् ।
अन्ये तुऽन स्वाहाकरोतिऽइत्तेष प्रतिषेधः अजुहोतिचोदितेष्वप्याददातीत्यादिषु स्वाहाकागं ज्ञापयतीति ॥५॥
आपन्माश्रीः श्रीर्मागादिति वा ॥ आपस्तम्बगृह्यसूत्र ८.६ ॥
टीकाः
अनुकूलावृत्ति ८.६
एताभ्यां यजुर्भ्या एते समिदावादध्यादिति मन्त्रविकल्पः ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ८.६
ऽउद्दीप्यस्वेऽति ऋग्द्वयेन आपन्मेत्येतद्यजुर्द्वयं विकल्प्यते ॥६॥
४६ विवाहदिनाविस्मरणम् ।
एतदहर्विजानीयाद्यदहर्भार्यामावहते ॥ आपस्तम्बगृह्यसूत्र ८.७ ॥
टीकाः
अनुकूलावृत्ति ८.७
<एतदहः>एतन्नक्षत्रम् ।
<विजानीयात्>न विस्मरेत् ।
<यदहः>यस्मिन्नक्षत्रे भार्या<आवहते>तत्कुलादानयति ।
यस्मिन्नक्षत्रे पाणिग्रहणं कृतं तत्न विस्मर्तव्यमित्यर्थः ।
आवहत इत्यनेनादिपाणिग्रहणं विवक्षितम् ।
अविस्मरणोपदेशे प्रयोजनं संवत्सरे संवत्सरे तस्मिन्नक्षत्रे कर्मविशेषः ।
कः पुनरसौ ?ऽयच्चैनयोः प्रियं स्याऽदि (आप.ध.२१७) त्यादि सामयाचारिकेषूपदिष्टः ।
न चासौ विधिः ।
पार्वणविशेषो यदि स्यात्तस्योपचारः पार्वणेन व्याख्यात इत्येतदसम्जसं स्यात् ।
अथ स विधिरेवेह कस्मान्नोपदिश्यते?उच्यते इहोपदेशे प्रकरणाद्विवाहाङ्गत्वं विज्ञायेत ।
ततश्च शम्यादयोऽपि विवाहधर्माः स्युः किञ्चि सर्वचरणार्थः तत्रोपदेशः ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ८.७
यस्मिन्नहनि गृहप्रवेशनादि स्थालीपाकान्तं कर्म करोति त<देतदहरवधित्वेन>विजानीयात्तत आरभ्य त्रिरात्रमुभयोरधश्शय्योत्यादिकर्तुम् ।
केचित्यस्मिन्नक्षत्रे व्वाहेऽभूत्तस्य न विस्मरेत् ।
धर्मशास्त्रेऽश्वोभूते स्थालीपाकःऽ(आप.ध.२११०) इप्युपदिष्टकर्म प्रतिसंवत्सरं कर्तुम् ।
तस्यचेहोपदिष्टस्य तत्रोपदेशः कथं विवाहाङ्गत्वं शम्याश्च मा भूवन्, सर्वचरणार्थता च कथं स्यादिति ।
प्रकृतत्वादेव च स्थालीपाकादारभ्य त्रिरात्रमुभयोरधश्शय्येत्यादि भविष्यतीति ।
तन्न॑यथोक्तकर्मान्तरे विधेरेव निरस्तत्वात्ऽपार्वणेनऽ(आप.गृ.७२३) इत्यत्र ॥७॥
४७ विवाहे दम्पत्योर्ब्रह्मचर्यविधिः ।
त्रिरात्रमुभयोरधश्शय्या ब्रह्मचर्य क्षारलवणवर्जनं च ॥ आपस्तम्बगृह्यसूत्र ८.८ ॥
टीकाः
अनुकूलावृत्ति ८.८
स्थालीपाकादारभ्य<त्रिरात्रमुभयोः>दम्पत्योः<अधश्शय्या>नोपरि खट्वादौ ।
<ब्रह्मचर्य> मैथुनवर्जनं,<क्षारलवणयोश्च वर्जनं>भोजने ।
तत्र क्षारलवणवर्जनं स्थालीपाकात्प्रागध्वनि न भवति ।
ब्रह्मचर्य तु तत्रापि भवति ।
चतुर्थ्या समावेशनविधानातिदं तु ब्रह्मचर्य वचनं दार्ढ्यरथम् ।
यद्यपि सहशयनमुभयोः, तथापि मैथुनवर्जने यत्नः कार्य इति ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ८.८
<उभयो>र्दम्पत्योः स्थालीपाकादारभ्य त्रिरात्रम<धश्शय्या>स्यात्, न तु ख्ट्वादौ ।
नापि पृथक्शय्या, उभयोरिति ग्रहणात् ।
तथाष्टाङ्गमैथुनवर्जनलक्षणं<ब्रह्मचर्य>स्यात् ।
मैथुनस्याष्टाङ्गत्वमपि बृहस्पतिनोक्तम्
ऽस्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् ।
सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृतिरेव च ॥
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणःऽ ॥
इति ।
एतच्च स्थालीपाकात्प्रागप्यध्वनि,ऽशेषं समावेशने जपेत्ऽ(आप.गृ.८१०) इत्युत्तरत्र क्रमविधानात् ।
अत एवात्र सूत्रे शय्यैक्यात्
दुर्वारमपि मैथुनमतिप्रयत्नेन वर्जनीयमित्येवमर्थस्तान्निषेधः ।
तथैव<क्षारलवणवर्जनं च>स्यात् ।
चकारान्मधुमांसदन्तधावनाञ्जनाभ्यञ्जनानुलेपनस्नग्धारणानां वर्जनमपि ।
यद्वा ब्रह्मचर्यपदेनैव मध्वादि सप्तकमपि निषिद्धम् ।
चकारस्तूक्तसमुच्चयार्थ एव ।
सर्वत्र त्रिरात्रमित्येव ॥८॥
४८ स्वपतोः तयोर्मध्ये दण्दनिधानम् ।
तयोश्शय्यामन्तेरण दण्डो गन्धलिप्तो वाससा सूत्रेण वा परिवीतस्तिष्ठति ॥ आपस्तम्बगृह्यसूत्र ८.९ ॥
टीकाः
अनुकूलावृत्ति ८.९
<तयोः> दम्पत्योः<शय्यामनतरेण>शयनस्य मध्ये <दण्डः>क्षीरिवृक्षोद्भवः<गन्धेन>सुरभिणा<लिप्तः>पुष्पैश्चालङ्कृतः<वाससा सूत्रेण वा> <परिवीतः तिष्ठति>स्थापयितव्यः ।
अन्योन्यसंस्पर्शो मा भूदिति ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ८.९
<तयोः>व्रतस्थयोर्दम्पत्योर्यावत्त्रिरात्रमभिन्ना शय्या ता<मेवान्तरेण>तस्या एव मध्ये, न तु त्रिरात्रादूर्ध्व नानाशय्या मेकाशय्यां चान्तरेणापीति॑तयोरिरि प्रकृतपरामशात् ।
दण्डो गन्धलिप्तः चन्दनानुलिप्तः ।
गन्धस्य प्रदर्शनार्थत्वात्पुष्पैरप्यलङ्कृतः ।
<वाससा सूत्रेण वा परिवीतस्तिष्ठति>स्थापयितव्यः ।
अस्मिंश्च दण्डे गन्धर्वो विश्वावसुर्भावयितव्यः,ऽउदीर्ष्वातो विश्वावसोऽइति मन्त्रलिङ्गात् ।
अत एवायं दण्डो नैयग्रोध औदुम्बर आश्वत्थः प्लाक्षो वा,ऽएते वै गन्धर्वाप्सरसां गृहाःऽ(तै.सं.३४८)
इत्यर्थवादात् ॥९॥
४९ विवाहशेषहोमः, समावेशनं च ।
तं चतुर्थ्यापररात्र उत्तराभ्यामुत्थाप्य प्रक्षाल्य निधायाग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वापरेणाग्निं प्राचीमुपवेश्य तस्याश्शिरस्याज्यशेषाद्व्याहृतिभिरोङ्कारचतुर्थाभिरानीयोत्तराभ्यां यथालिङ्गं मिथस्समीक्ष्योत्तरयाऽज्यशेषेण हृदयदेशै संमृज्योत्तरास्तिस्रो जपित्वा शेषं समावेशने जपेत् ॥ आपस्तम्बगृह्यसूत्र ८.१० ॥
टीकाः
अनुकूलावृत्ति ८.१०
<अपररात्रो>रात्रेस्तृतीयो भागः<उत्तराभ्या>मुदीर्ष्वात इत्येताभ्याम् ।
अत्र प्राप्तस्य निधानस्य विधानं पुनस्तस्मिन् शयने दण्डस्य निधानं मा भूदिति ॥९॥
<उत्तराः>सप्त प्रधानाहुतीर्जुहोतिऽअग्ने प्रायश्चित्तेऽइत्येवमाद्याः ।
तत्रादितश्चतुर्षु मन्त्रेषुऽत्वं देवानां प्रायश्चित्तिऽरित्ययमनुषङ्गः ।
उत्तरे मन्त्रास्त्रयः ।
आज्यभाग इत्यन्वारम्भकालोपदेशः ।
जयादि प्रतिपद्यत इति च तन्निवृत्तिः ॥१०॥
तन्त्रशेषं समाप्य ततः<तामपरेणाग्निं>अग्नेः पश्चात्<प्राचीं>प्राङ्मुखीं<उपवेश्य> यो हुयस्याज्यस्य शेषः तस्मादवदाय दर्व्या<तस्या> वध्वा<श्शिरसि व्याहृतिभिरोङ्कारचतुर्थाभिः> स्वाहाकारान्ताभिः प्रतिमन्त्रमानयति ।
ततः<उत्तराम्यामृग्भ्यां>ऽअपश्यं त्वेऽत्येताभ्यां<यथालिङ्गं मिथः>अन्योऽन्यं युगपत्<समीक्षेत्,> पूर्वया वधूः उत्तरया वरः ।
ततो वर <उत्तरयर्चा>ऽसमञ्जन्त्विऽत्येतया वधूवरयोरुभयोर्हृदयदेशौ समनक्ति तेनैवाज्यशेषेण सकृत्गृहीतेनाज्येन सकृदेव मन्त्रे चोक्त्वा ।
ततः
<उत्तरास्तिस्त्रो जपति>ऽप्रजापते तन्वऽमित्याद्याः ।
ततः<शेष>मनुवाकशेषंऽआरोहोरुऽमित्यादि<समावेशने>समागमनकाले <जपेत्> ।
समावेशनं च तस्मिन्नेवापररात्रे नियमेन भवति ।
इदमेव समावेशनं मन्त्रवत्नान्यानि ।
परिषेचनान्तवचनमानन्तर्यार्थम् ।
परिषेचनान्ते एतदोव कर्म यथा स्यात् ।
तेन भोजनं प्रागेव भवति ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ८.१०
चतुर्थ्या अपररात्रे इति विवृत्यार्थपाठः ।
चतुर्थ्या रात्रेःचतुर्थस्याहोरात्रस्यापररात्रे रात्रेरपरत्र तृतीयभागे तं दण्डं<उत्तराभ्यां>ऽउदीर्ष्वातऽइत्येताभ्यां<उत्थाप्याद्भिः प्रक्षाल्य> शयनादन्यत्र<निदायाग्नेरुपसमाधानादि>तन्त्रं प्रतिपद्यते ।
<आज्यभागान्ते> कृते <वध्वमन्वारब्धायां उत्तराः>ऽअग्ने प्रायश्चित्तेऽइत्याद्यास्सप्ताहुतीर्जुहोति ।
तत्र द्वितीयतृतीययोरपिऽत्वं देवानांऽइत्याद्यनुषङ्गः ।
ततोऽन्वारम्भवर्ज जयादौ प्रणीता मोचनान्ते कृते <अपरेणाग्निं> वधूं<प्राचीं>प्राङ्मुखीमुपवेश्य हुतशेषादाज्यमादाय<तस्याश्शिरसि> <व्याहृतिभि>रोङ्कारचतुर्थाभिस्वाहाकारान्ताभिस्सर्वेषामन्ते सकृदानयति ।
केचित्प्रतिमन्त्रमिति ।
अथोत्तराभ्यांऽअपश्यं त्वा मनसाऽइत्येताभ्यां<यथालिङ्गं>, पूर्वया वधू रुत्तरया वरः,<मिथः>अन्ययोन्यं युगपत्<समीक्ष्य उत्तरयाऽसमञ्जन्तुऽ>इत्येतया<आज्यशेषेण हृदयदेशौ>युगपदङ्गुष्ठविसंरसिनीभ्यां समनक्ति,ऽसमापो हृदयानि नौऽइति द्विवचनलिङ्गात् ।
अथ <उत्तरास्तिस्रःऽ>प्रजापते तन्वं मेऽइत्याद्या जपित्वा शेषमनुवाकशेषंऽआरोहोरुम्ऽइत्यादिकं<समावेशने> समावेशनकाले जपेत् ।
समावेशनं च वध्वा सह मैथुनार्थ शयनम्,ऽऋतुसमावेशनेऽ(आप.गृ.८१३) इत्युतुलिङ्गात् ।
एतच्च रागप्राप्तसमावेशनाश्रितं विवाहकर्मार्थ क्रमजपयोर्विदानम्, यथा भोजनपर्यायव्रताश्रितं पयआदिविधानम् ।
केचितसत्यपि रागे कर्मार्थमस्मिन् क्रमे समविशनं नियतमेवेति ।
समावेशनान्तरेषु तु अकर्मार्थत्वादेव नायं जपः ।
बौधायनेन तु विकल्पोऽभिहितः (बौ.गृ.२७१२) इति ।
अस्मिन्नेव क्रमे यदि दैवादृतुगमनमपि कर्तव्यं स्यात्तदा पूर्वऽआरोहोरुम्ऽइत्यादिजपः ।
ततोऽविष्णुर्योनिम्ऽइत्यादिभिरभिमन्त्रणम् ॥१०॥
अन्यो वैनामभिमन्त्रयेत ॥ आपस्तम्बगृह्यसूत्र ८.११ ॥
टीकाः
अनुकूलावृत्ति ८.११
<अन्यो वा ब्रह्मणः कश्चितेनौ जायापती समागमिष्यन्तौ अनुवाकशेषेणा>भिमन्त्रयेत ।
न स्वयं वरो जपेत् ।
तत्र यत्
वधूवासः प्रागनेन परिधापितं तत्व्रतान्ते विमुच्यान्यत्वासः परिधाय संस्पृशति वधूः ।
तेन हस्तस्पर्शने दोषदर्शनात्परादेहि शाबल्यमित्येतासु ।
व्रतचर्यायां तु दण्डेनान्तर्हितत्वादसेस्पर्शः ।
तद्वासः श्वोभूते परादेहि शावल्यमित्येताभिश्चतसृभिः ऋग्भिस्सूर्याविदे ब्राह्मणाय वरो दद्यात् ।
यथा वक्ष्यतिऽवधूवास उत्तराभिरेतद्विदे दद्यात्ऽ(आप.गृ.९११) इति आश्वलायनेनाप्युक्तंऽसूर्याविदे वधूवस्त्रं दद्यात् ।
अन्नं ब्राह्मणेभ्यःऽ(आश्व.गृ.१८१३,१४) इति ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ८.११
व्यक्तार्थम् ।
इदं चऽअहं गर्भमदधाम्ऽइत्यादि लिङ्गविरोधेऽपि श्रुतेर्बलीयस्त्वात् ॥११॥
५० रजस्वलायाः स्त्रियाः प्रथमर्तावुपदेशः ।
यदा मलवद्वासाः स्यादथैनां ब्राह्मणप्रतिषिद्धानि कर्माणि संशास्तिऽयां मलवद्वाससऽ(तै.सं. २.५.१) मित्येतानि ॥ आपस्तम्बगृह्यसूत्र ८.१२ ॥
टीकाः
अनुकूलावृत्ति ८.१२
<मलवद्वासा>इति रजस्वलाया अभिधानम् ।
यदेतिवचनं विवाहादूर्ध्वमपिप्राप्यर्थम् ।
अन्यथा विवाहमध्य एव स्यात्॑प्रकरणात् ।
संशासनं च प्रथमर्तौ सकृत्भवति ।
तदेव सर्वार्थ भवति ।
यथा ब्रह्मतारिण उपनयने ।
एनामित्यनुच्यमाने अन्य एनौ संशास्तीत्येवं विज्ञायेत ।
ऽअन्यो वैनाऽविति प्रकृतत्वात् ।
ब्राह्मणप्रतिषिद्धानीत्युच्यते लोकपरतिषिद्धान्युपरिशय्यासनादीनि लोकत एव प्रत्येतव्यानीति ज्ञापनार्थम् ।
कर्माणीति वचनात्कर्मणामेव शब्दान्तरैरवबोधनम्, न ब्राह्मणवाक्येन संप्रैषः ।
ऽएतानीऽतिवचनंऽयां मलवद्वासऽसमित्यादीनां प्रतिषिद्धानां विहितानां च संशासनं यथा स्यात् ।
तेनऽतिस्त्रो रात्रीर्व्रतं चरेदञ्जलिना वा पिबेत्"(तै.सं.२५१) इति विहितयोरपि संशासनं भवति ।
एवञ्चऽब्राह्मणप्रतिषिद्धानीऽति प्रतिषिद्धग्रहणमुपलक्षणम् ।
तत्रऽयां मलवद्वाससऽमिति वाक्ये स्नानात्प्राक्समागमप्रतिषेधः ।
ऽयामरण्यऽइति देशप्रतिषेधः ।
स्नातायामपिऽयां पराचीऽमिति पराङ्मुख्या गमनप्रतिषेधः ।
ऽया स्नातीऽति त्रिरात्रमध्ये स्नानस्य प्रतिषेधः ।
ऽयाभ्यङ्तेऽइत्यभ्यञ्जनस्य ।
ऽया प्रलिखतऽइति शिरसि प्रलेखनस्य कङ्कतादि ना ।
ऽयाऽङ्तेऽइति चक्षुषोरञ्जनस्य ।
ऽया दतःऽइति दन्तधावनस्य ।
ऽया नखानीऽति नखनिकृन्तनस्य ।
ऽया कृणत्तीऽति कार्पासादेस्तन्तुकर्मणः ।
ऽया रज्जुऽमिति रज्जुक्रियायाः ।
ऽया पर्णेनेऽति पर्णेनाशनस्य ।
ऽया खर्वेणेऽति खर्वेण पात्रेण ।
एकदेशविलुप्तं कर्वम् ।
ऽतिस्रोरात्रीऽरित्येतेषां प्रतिषेधानां कालनियमः ।
ऽअञ्जलिना वा पिबेऽदित्यादिर्भोजने पात्राविधिः
________________________
गृह्यतात्पर्यदर्शनव्याख्या ८.१२
<मलवद्वासाः>कालनिर्गतेन शोणितेन मलिनं वासो वसनं यस्यास्सा॑रजस्वलेत्यर्थः ।
रूढशब्दत्वाद्यदृच्छया निर्मलवासा अपि यदेयं रजस्वला स्यात्, तदा पतिरेवैनां<ब्राह्मणप्रतिषिद्धानि कर्माणि संशास्ति>लौकिकभाषया श्क्षयति ।
कानि तानि ब्राह्मणप्रतिषिद्धानीत्यत आहऽ<यां मलवद्वाससऽ> <मित्येतानि ।>
ऽयां मलवद्वाससं संभवन्तिऽ(तै. सं.२५१६) इत्येतद्ब्राह्मणचोदितानि, तान्येतान्यपि सर्वाणीत्यर्थः ।
अथ तानि सुग्रहार्थ क्रमेणोच्यनतेन स्नानात्पूर्व मैथुनम् ।
तदेव न स्नानादूर्ध्वमप्यरण्ये ।
तदेव न स्नातयापि पराङ्मुख्या अनिच्छन्त्या वा ।
अपूर्णे त्रिरात्रे न स्नानम् ।
न तैलाभ्यञ्जनम् ।
न कङ्कतादिना शिरसि लेखनम् ।
न चक्षुषोरञ्जनम् ।
न दन्तधावनम् ।
न नखनिकृन्तनम् ।
न कार्पासादिना तन्तुकरणम् ।
न रज्जुक्रिया ।
इत्येतान्येकादश ।
अथाशनपात्रमञ्जलिरखर्वो वा ।
खर्वः अल्पः, खण्डो वा दग्धोऽपि वा ।
ततोऽन्योऽखर्वः ।
अत्र चामी मैथुनादिनिषेधा अमैथुनादिसङ्कलप विधयो वेति भाष्ये न विविक्तम् ।
न्यायतस्तुऽतिस्त्रो रात्रीर्व्रतं चरेत्ऽ(तै.सं.२५१) इति वचनात्ऽनेक्षेतोद्यन्तमस्तंयन्तमादित्यम्ऽइत्यादि प्राजापत्यविधिवत्सङ्कल्पविधय एव ॥१२॥
५ ऋतुसमावेशनम् ।
रजसः प्रादुर्भावात्स्त्रातामृतुसमावेशन उत्तराभिरभिमन्त्रयते ॥ आपस्तम्बगृह्यसूत्र ८.१३ ॥
टीकाः
अनुकूलावृत्ति ८.१३
<रजसः>लोहिकस्य ।
<ऋतौ> यत्<समावेशनं>तत्र कर्तव्ये,<उत्तराभिरऋग्भिः>ऽविष्णुर्योनिऽमित्यादिभिः त्रयोदशभिर<भिमन्त्रयेत ।
ऽ>रजसः प्रादुर्भावेऽभिमन्त्रणं बवति ।
न संशासनवत्प्रथम एवर्तौ ।
ऽस्नाताऽमित्येतत्ब्राह्मणप्रतिषिद्धानां सर्वेषां प्रतिप्रसवार्थम् ।
<स्नातां>कृतमङ्गलामित्यर्तः ।
तेनाञ्जनाभ्यञ्जनान्यपि भवति ॥१४॥
इति श्रीहरहरदत्तविरचितायां गृह्यसूत्रवृत्तावनाकुलायामष्टमः खण्डः ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ८.१३
रजसः शोणितस्य ।
<प्रादिर्भावात्>काले निर्गमात्कारणात्, न मालिन्यादेः ।
<स्नातां> पूर्णे त्रिरात्रे स्नातां भार्याम् ।
<ऋतुसमावेशने>ऋतुकालीनसमावेशनकाले ।
ऽऋतुश्च स्त्रीणां रात्रयष्षोडश स्मृताःऽ(म.स्मृ.३४६) इति मनुवचनात् ।
उत्तराभिःऽविष्णुर्योनिं कल्पयतुऽइत्यादिभिस्त्रयोदशभिर<भिमन्त्रयते> ।
अत्र रजसः प्रादुर्भावात्स्नातामितिवचनाच्चतुर्थऽहनि प्रायत्यार्थमनया स्नातव्यमेव ॥१३॥
नवमः खण्डः
२. ऋतुगमनकालः ।
चतुर्थिप्रभृत्याषोडशीमुत्तरामुत्तरां युग्मां प्रजानिःश्रेयसमृतुगमन इत्युपदिशन्ति ॥ आपस्तम्बगृह्यसूत्र ९.१ ॥
टीकाः
अनुकूलावृत्ति ९.१
<षोडशीमिति>पञ्चम्यर्थे द्वितीया ।
आषोडश्या इत्यर्थः ।
आङ्चाभिविधौ ।
रजसः प्रादुर्बावादारभ्य चतुर्थीषोड श्यौ गृह्येते, प्रकरणात् ।
चतुर्थीप्रभृत्याषोडश्याः सर्वा रात्रय ऋतुगमनकालाः ।
तत्रापि<उत्तरामुत्तरां युग्मां> रात्रिं<प्रजानिश्श्रेयसं>विद्यादिति ।
ऋतुगमन इति वचनात्वैवाहिके प्रथमगमने सत्यपि ऋतुनिमित्तेनायमुपदेशः प्रवर्तते ।
चतुर्थ्या अपाररात्रे नियमेन गमनं भवति ।
तत्र च शेषं समावेशने जपेत् ।
उत्तराभिरभिमन्त्रयत इति च गमनमन्त्राणां समुच्चयो भवति ।
तत्र पूर्वमृतुगमनमन्त्राः ।
पश्चात्समावेशनमन्त्राः ।
विपरीतमन्ये ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ९.१
चतुर्थीप्रभृतीति दीर्घेमार्थपाठः ।
<चतुर्थी>रात्रिमारभ्याषेडशी॑ङबिविधौ, द्वितीया च पञ्चम्यर्थे॑ाषोडश्या इति यावत् ।
<उत्तरामुत्तरां युग्मां>रात्रिं प्रति ऋतुगमने ऋतौ मैथुने कृते,<प्रजानिःश्रेयसं,>प्रजाः पुत्राः तेषां निश्श्रेयसं आयुरादीप्सितगुणसम्पत्तिर्भवती<त्युपदिशन्ति>मन्वादयः ।
एतदुक्तं भवतित्रयोदशसु रात्रिषु ऋतुगमने शुक्लाधिक्ये सति पुत्रा जायन्ते ।
उत्तरोत्तरासु च युग्मासु यथाक्रमं तरतमभावेन ते सद्गुणाधिका भवन्ति ॥१॥
संस्कारकाण्डे कर्मान्तरव्याख्यानमसङ्गतमपि मन्त्राम्नानक्रमेणैव कार्यमित्युत्तरसूत्रजातं यावत्पटलान्तरमारभ्यते
१. धनादिप्राप्त्यर्थ प्रस्थितस्य मध्ये परिक्षवादौ दुर्निमित्ते जाते कर्तव्यो जपः ।
अर्थप्राध्वस्य परिक्षवे परिकासने चाप उपस्पृश्योत्तरे यथालिङ्गं जपेत् ॥ आपस्तम्बगृह्यसूत्र ९.२ ॥
टीकाः
अनुकूलावृत्ति ९.२
अध्वानं प्रस्थितः प्राध्वः ।
अर्थः प्रयोजनम् ।
यत्किञ्चित्प्रयोजनमुद्दिश्य योऽध्वानं प्रस्थितः, तस्य<अर्थप्राध्वस्य ।
परिक्षवे>
<परिकासने>वा दुर्निमित्ते प्राप्ते प्रायश्चित्तं अप उपस्पृस्योत्तरे ऋचौ <जपेत्>ऽअनुहवं परिहवंऽ इत्येते ।
परितः क्षवः<परिक्षवः>सर्वतः स्थितैर्जनैःकृतक्षवथुः ।
तथा परिकासनम् ।
उपस्पर्शनं पाणिना संस्पर्शः, स्नानमाचमनं वा ।
तत्र यस्मिन् कृते प्रयतो मन्यते तत्र तत्कुर्यात् ।
यथालिङ्गमित्यनुपपन्नम् ।
परिक्षवपरिकासलिङ्गभावात् ।
अथ पूर्वस्यामृचि परिक्षवशब्द एकतोश विकृतो लिङ्गमित्युच्यते तथाप्युत्तरस्यां परिकासनलिङ्गं नास्त्येव ।
तस्मादेवं व्याख्येयमेतयोर्निमित्तयेरेकस्मिन्नपि सति मन्त्रयोरेतयोर्जपः कार्यः ।
अन्येषु च मन्त्रलिङ्गप्रतीतेष्वनुहवादिषु दुर्निमित्तेष्विति ।
तत्र पृष्ठत आह्वान<मनुहवः> ।
सर्वत आह्वानं<परिहवः> ।
परिवादोऽभिशंसनम् ।
<परिक्षव>उक्तः ।
<दुःस्वप्नः>प्रसिद्धः ।
दुरुदितम्<अल्पायुरित्यादि ।>
<अनुहूतं परिहूतमिति> शकुनेरशोभना वागुच्यते ।
<अशाकुनं>अनिमित्तभूतम् ।
<मृगस्य> सृगालादेः ।
<अक्ष्णया सृतम्>तिर्य्यग्गमनमपसव्यादि ।
एतेषामेकस्मिन्नपि निमित्ते द्वयोरपि मन्त्रयोर्जपः कार्यः ।
परिक्षवपरिकासनयोश्च लिङ्गाभावेऽपि ।
परिक्षवशब्दस्तु क्षवधुलिङ्गं न भवति, रूपभेदात् ।
एकदोशविकारस्तु परिक्षवस्यापि संभवति ।
तन्निमित्ते तु अन्यस्मिन् प्रकरणे एतद्वक्तव्यम् ।
इह च वचनप्रयोजनं विवाहार्थ गच्छ तोऽपि एतेषु निम्त्तेषु प्रायश्चित्तमेतत्यथा स्यादिति ।
प्रकरणान्तरे तु श्रुतानां विवाहादूर्ध्वमेव प्रवृत्तिः ।
इदं तु अर्थप्राध्वस्येति वचनात्सर्वार्थ च भवति ।
प्रकरणात्विवाहेऽपि स्वाध्यायस्थाननियमार्थ च मन्त्रयोरेतयोरिह पाठः ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ९.२
<अर्थः>प्रयोजनं, धर्मार्थ तदुपकारकाणि ।
अर्थमुद्दिश्य यः प्रसिद्धमध्वानं प्रस्थितः सोर्ऽथप्राध्वः, न तु स्नान, ब्रह्मयज्ञोदक यग्यघासादि कमुद्दिश्य समीपदोशं प्रति निर्गतः ।
तस्य<परिक्षवे>क्षवधौ <परिकासने>कासे च दुर्निमित्ते जाते <अप उपस्पृश्य> उपस्पर्शनमाचमनं स्पर्शनमात्रं वा यथातुष्टि कृत्वोत्तरेऽअनुहवं परिहवम्ऽइत्येते <यथालिङ्गे>परिक्षवे पूर्वा, परिकासने चोत्तरां<जपेत्> ।
जपत्वाच्चानयोश्चातुस्स्वर्यमेव ।
अत्र च यथालिङ्गमित्यनेनैतत्ज्ञापयतिपूर्वया वर्णव्यत्ययोन परिक्षव एव प्रकाश्यः, उत्तरया त्वध्याहृतं परिकासनमेव ।
यथा चैते ऋचौ क्षवधुकासावेव तात्पर्येण प्रकाशयतः, तथा व्याख्याते भाष्यकारेण ।
केचित्यथालिङ्गमिति न केवलं परिक्षवे परिकासने चानयोर्जपः अन्येषु च मन्त्रलिङ्गप्रतीतेष्वनुहवादिषु दुर्निमित्तेष्वपीति ॥२॥
२ तत्रैव चित्रियवृक्षादिदर्शने जपः ।
एवमुत्तरैर्यथालिङ्गं चित्रियं वनस्पतिं शकृद्रीति सिग्वातं शकुनिमिति ॥ आपस्तम्बगृह्यसूत्र ९.३ ॥
टीकाः
अनुकूलावृत्ति ९.३
एवमित्यनेनऽअर्थप्राध्वेऽति च, अप उपस्पृश्येति च,ऽजपेदिऽतिचापेक्ष्यते ।
एवञ्च यथालिङ्गवचनं विस्पष्टार्थम् ।
<चित्रियः>प्रसिद्धः तत्रार्तप्राध्वः चित्रियं वृक्षमासाद्याप उपस्पृश्यऽअग्निरस्त्विऽति एतयर्चानुमन्त्रयते ।
ऽनयश्सकृत्सदेऽइति<शकृद्रीति>मुपतिष्ठेत ।
ऽसिगसीऽति<सिग्वातम्>अन्यकृतम् ।
आत्मसंस्पृष्टो वाससा कृतो वातः सिग्वातः ।
सिगसि नासीति दीर्घान्ते प्राप्ते छान्दसो ह्रस्वः ।
<शकुनिं> शुभां वाच मनुमन्त्रयेत उद्गातेव शकुनेऽऽकत्येतयर्चा अशुभवचने तु प्रागुक्तो जपः ।
केचिदिदमपि तत्रैवेच्छन्ति ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ९.३
एवमित्यनेन अर्थप्राध्वोऽप उपस्पृश्येत्याकृष्यते ।
इहोत्तरैरिति करमविभक्तिदर्शनाद्वनस्पत्यादीनि यथालिङ्गमभिमन्त्रयते ।
न तु पूर्ववज्जपेत् ।
<चित्रियं>लोकप्रसिद्धम्,चयनमूलं वा ।
<वनल्पतिं> पुष्पैर्विना फलवन्तम् ।
अस्य प्रदर्शनार्थत्वात्
वृक्षमप्येवाविधंऽआरात्ते अग्निःऽइत्येतयाभिमन्त्रयते ।
ऽनमश्शकृत्सदेऽइति<सकृद्रीतिं>सकृत्सन्ततिम् ।
ऽसिगसिनसिऽ<इति सिग्वातम्> ।
सिचो वस्त्रस्य वातस्सिग्वातः ।
स चान्यकृतः स्वदेहसंस्पृष्टश्चोदमङ्गलः ।
ऽउद्गातेव शकुनेऽइत्येतया<शकुनि>मशोभन वाचम्,ऽप्रति नस्सुमना भवऽइति मन्त्रलिङ्गात् ॥
केचित्शुभवाचं, अशुभदर्शने तु पूर्वसूत्रेणोक्तो जप इति ॥३॥
३ दम्पत्योः परस्परं प्रीतिजनकं कर्म ।
उभयोर्हृदयसंसर्गेऽप्सुस्त्रिरात्रावरं ब्रह्मचर्य चरित्वा स्थालीपाकं श्रपयित्वाग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायां स्थालीपाकादुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वा तेन सर्पिष्मता युग्मान् द्व्यवरान् ब्राह्मणान् भोजयित्वा सिद्विं वाचयीत ॥ आपस्तम्बगृह्यसूत्र ९.४ ॥
टीकाः
अनुकूलावृत्ति ९.४
यदि वरस्य मनो वर्ध्वा न तुष्येतथ तस्सिद्धिकामेन वध्वाः पित्रादिना तपोयुक्तेनेदं कर्म कर्तव्यमज्ञातं वरस्य ।
वशीकरणार्थत्वात् ।
औपासने च कर्तव्यम् ।
तदुक्तं पुरस्तात्ब्रह्मचर्यविधानस्य दृष्टार्थत्वात्यावता तपसार्थसिद्धिं मन्यते तावत्कर्तव्यम् ।
पुनर्वस्वोश्चेदं कर्म भवति ।
ऽश्वस्तित्येणऽ(आप.गृ.९५) इति वचनात् ।
किं पुनस्तत्कर्म?स्थालीपाकः,पाठार्चनं च ।
सर्व कर्म पार्वणवत् ।
विवाहप्रकरणे तूपदेशात्सकृत्पात्रप्रयोगः शम्याश्च ।
कालस्य चानियमः ।
विवाहप्रकरणे चास्यास्समाप्तिः तच्छेषभूतस्य वासोदानस्योपरिष्टादुपदेशादवगन्तव्या ।
एवमर्थमेव च तस्योपरिष्टादुपदेशः ॥४॥
सप्त प्रधानाहुतयः प्रातरग्निमित्येवमाद्याः ।
ततः स्विष्टकृत्, ततो जयादि ॥५॥
पार्वणातिदेशातेकस्यैव ब्राह्मणस्य भोजने प्राप्ते बहुत्वं विधीयते ।
तेन स्थालीपाको महान् कर्तव्यः ।
सर्पिष्मद्वचनं नियमार्थ परिषेचनादूर्ध्व पार्वणधर्माणां सर्पिष्मत्वमेव भवतीति ।
तेनऽपूर्णपात्रस्तु दक्षिणेत्येकंऽइत्येतन्न भवतति ।
<सिद्धिं> <वाचयीत>तैर्भुक्तवद्भिः सङ्कल्पसिद्धिरस्तित्वति वाचनम् ।
परिषेचनान्तवचनं कर्तृनियमार्थम् ।
कथम्?यो होमस्य कर्ता स एव व्राह्मणभोजनं सिद्धिवाचनं च कुर्यादिति तेन यदुत्तरं कर्म परिकिरणादि तस्य वधूः कर्त्रीति ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ९.४
<उभयो>र्जायापत्योःऽत्रिरात्रमुभयोरधश्शय्याऽइत्यधिकारात्, इह अन्वारब्धायामिति स्त्रीलिङ्गनिर्देशाच्च ।
<हृदयसंसर्ग> मनसोस्सम्प्रीतिमीप्सुः वध्वा हितैषी पितृभ्रात्रादिरपापोऽपि त्रिरात्रादनूनं यावन्मनस्तोषं<ब्रह्मचर्य चरित्वा>तस्यौपासन एव स्थालीपाकश्रपणाद्यग्निमुखान्तं कृत्वा तस्यामन्<वारब्धायां स्थालीपाकादवदाय>ऽप्रातरग्निम्ऽइत्यादिभिस्सप्तभिर्मन्त्रैः प्रत्यृचं प्रधानाहुतीर्हुत्वा जयादि प्रतिपद्यते ।
तदनन्तरं स्विष्टकृदादि तन्त्रशेषं पार्वणवत्समाप्य,<तेन>हुतशेषेण<सर्पिष्मता युग्मान्> <द्व्यवरान्>द्वाववरौ संख्यातो येषां तान्<ब्राह्मणान्>यथालाभं<भोजयित्वा>तैरेव भुक्तवद्भिः कर्मफलसिद्धिरस्त्विति<सिद्धिं वाचयीत> ।
तेन सर्पिष्मतेति च पार्वणसिद्धानुवादो युगिमानिति विधातुम् ॥४॥
४ पतिवश्यकरं कर्म (पाठाख्यायाः ओषध्याः यवैः प्रकिरणम्, तां स्वहस्तयोराबध्य ताभ्यां पत्युस्समालिङ्गनं च)
श्वस्तिष्येणेति त्रिस्सप्तैर्यवैः पाठां परिकिरति"यदि वारुण्यसि वरुणात्त्वा निष्क्रीणामि यदि सौम्यसि सोमात्त्वा निष्क्रीणामि"इति ॥ आपस्तम्बगृह्यसूत्र ९.५ ॥
टीकाः
अनुकूलावृत्ति ९.५
<श्वो>यत्करणीयं कर्म<तत्तिष्येण> नक्षत्रेणसम्पाद्यत इति कृत्वा पूर्वेद्युस्सिद्धिवाचनान्ते कर्मणि कृते पित्रादिना ऋत्विजा यजमानभूता वधूः यत्र प्रदेशे पाठा तिष्ठति तत्र गत्वा तां<पाठां त्रिस्सप्तैः>एकविंशत्या<यवैः परिकिरति>ऽवारुण्यसीऽत्येताभ्याम् ।
त्रिस्सप्तैरिति छान्दसो निर्देशः पाठा ओषधिविशेषः ।
आथर्विणिकास्तु पाशेत्यधीयते ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ९.५
पाठोत्थापनादि भर्तृपरिग्रहणान्तं कर्म श्वोभूते परिद्युस्तिष्यो भवतीति कृत्वा पूर्वेद्युः<श्वस्तिष्यः>पुनर्वसू इत्यर्थः ।
तस्मिन्नक्षत्रे पित्रादिना सिद्धिवाचनान्ते कर्मणि कृते, अनन्तरं वधूर्यत्र भूमौ पाठास्ति तत्र गत्वा तां<पाठां त्रिस्सप्तैः>एकविंशत्या यवैःऽयदि वारुण्यसिऽ इत्येताभ्यां<परिकिरति>परितो वपति ।
त्रिस्सप्तैरिति छान्दसं रूपम् ॥५॥
श्वोभूते उत्तरयोत्थाप्योत्तराभिस्तिसृभिरभिमन्त्र्योत्तरया प्रतिच्छन्नां हस्तयोराबध्य शय्याकाले बाहुभ्यां भर्तारं परिगृह्णीयादुपधानलिङ्गया ॥ आपस्तम्बगृह्यसूत्र ९.६ ॥
टीकाः
अनुकूलावृत्ति ९.६
कृत्वा परिकिरणमुपोष्य ततः<श्वोबूते>तां पाठां इत्थापयति खनित्रेण खात्वोत्खिदति<उत्तरयर्चा> "इमां खनीमी"त्येतयी ।
ततस्तामुत्तराभिः स्तिसृभिः ऋग्भिः अभिम्नत्रयेतऽउत्तानपर्णेऽइत्येताभिः ।
तस्या मूलं द्वेधा प्रच्छिद्य हस्तयोरावध्नाति उत्तरयर्चाऽअहमस्मीऽत्येतया ।
प्रतिच्छन्नां यथा भर्ता न पश्यति तथेत्यर्थः ।
उभयत्र मन्त्रस्यावृत्तिः आबध्य ततो रात्रौ शय्याकाले भर्तारं परिगृह्णीयात् ।
<उपधानलिङ्गया>ऋचाऽउपतेऽधाऽमित्येतया उत्तरयेति वक्तव्ये उपधानलिङ्गयेति वचनं परिग्रहे विशेषविधानार्थम् ।
यथा मूलयोः
अन्यतरदधस्तादुपधानं भवति इतरच्चोपरिष्टादपिधानं तथा परिग्रहः कर्तव्यः ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ९.६
परेद्युर्वधूरेव तां पाठांऽइमां खनामिऽइत्येतया खमित्रेणोत्खायऽउत्तानपर्णेऽइत्यादिभि<स्तिसृभिरभिमन्त्र्य>तस्याः मूलं द्विधा छित्वा
उपायेन भर्तुरदृश्ये कृत्वाऽअहमस्मि सहमानाऽइत्येतयाभ्यस्तया स्व<हस्तयोराबध्य> रात्रौ <शय्याकाले>ऽउपतेऽधाम्ऽ<इत्युपधानलिङ्गया> <बाहुभ्यां भर्तारं परिगृह्णीयात्> ।
उपधानलिङ्गयेति ज्ञापनं च कर्माङ्गम् ॥
केचिताबध्य पाठामूलयोर्हस्तयोरुपधानमेकोऽन्यश्चापिधानं यथा स्यात्तथा परिगृह्णीयादिति ॥६॥
वश्यो भवति ॥ आपस्तम्बगृह्यसूत्र ९.७ ॥
टीकाः
अनुकूलावृत्ति ९.७
यदि भार्या भर्तरि न रमते तदा नैवैतत्कर्म भवतीति प्रदर्शनार्थमिदं<वश्य>ः पतिर्भवति भार्यायाः न भार्या भर्तुरिति ॥९॥
इदं स्पष्टम् (तासर्थदर्शनम् ) वश्य इति पुल्लिङ्गनिर्देशात्वधूरिह यजमाना ॥७॥
अस्य अधिकारान्तरसंयोगमाह
५ सपत्नीबाधनं कर्म ।
सपत्नीबाधनं च ॥ आपस्तम्बगृह्यसूत्र ९.८ ॥
टीकाः
अनुकूलावृत्ति ९.८
न केवलमुभयोर्हृदयसंसर्गसाधनमेवैतत्कर्म, किं तर्हि?<सपत्नीबाधनच्च>सपत्न्यप्यनेन बाधितुं शक्येत्यर्थः ।
अस्मिन्नपि पक्षे
औपासन एवाग्निः योऽस्या विवाहेन सम्पादितः या सप्तनीं बाधते ।
विवाहभेदाध्द्यग्निस्संसृज्यते ।
तथा च राजसूय इत्युक्तं"तस्या औपासने प्रतिनिहितम्"(आप.श्रौ.१८१६१४) इति ।
तथाअग्निसंसर्गो बौधायनीयेऽभिहितः संसर्गादूर्ध्वमपि तस्मिन्नेव भवति ।
यथा बाध्यमाना सपत्नी न जानाति ।
केचित्पूर्वस्मिन्नेवाग्नौ द्वितीयं विवाहमिच्छन्ति ।
तेषामपि तस्मिन्नेव कर्म ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ९.८
सपत्नी बाध्यते येन तत्<सपत्नीबाधनम् ।
>एतत्कर्म सपत्नीबाधनमपि भवति ।
अधिकारान्तरं च युक्तम्॑य एकया संसृष्टहृदयोऽप्यन्यां तत्सपत्नीं भार्या तदधीनधर्मादावपि लोभान्न बाधते सोऽपि कथं नु नाम तदधीनधर्मा द्युपेक्षयापि तां बाधेतैवेत्येवमर्थत्वादस्य कर्मणः ॥८॥
अथान्यदपि सपत्नीबाधनमाह
६ क्षयरोगग्रस्तायां भार्यादौ तन्निवृत्तिकरं कर्म ।
एतेनैव कामेनोत्तरेणानुवाकेन सदाऽदित्यमुपतिष्ठते ॥ आपस्तम्बगृह्यसूत्र ९.९ ॥
टीकाः
अनुकूलावृत्ति ९.९
<एतेनैव>सपत्नीबाधनेन<कामेन उत्तरेणानुवाकेन>"उदसौ सूर्यो अगात्"इत्यनेन<सदा>अहरहः<आदित्यमुपतिष्ठते ।>
सदार्थकएवकारः पौनर्वाचनिकः ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ९.९
एतास्मिन्नेव कामे वधूःऽउदसौ सूर्यो अगात्ऽइत्यनुवाकेन प्राग्भोजनादहरहरादित्यमुपतिष्ठते ।
सदेति वचनं च सिद्धेऽपि सपत्नीबाधनकामे कर्मान्तरं वेति ॥९॥
यक्ष्मगृहीतामन्यां वा ब्रह्मचर्ययुक्तः पुष्करसंवर्तमूलैरुत्तरैर्यथालिङ्गमङ्गानि संमृश्य प्रतीचीनं निरस्येत् ॥ आपस्तम्बगृह्यसूत्र ९.१० ॥
टीकाः
अनुकूलावृत्ति ९.१०
<यक्ष्मा>राजयक्ष्माक्षयरोगः ।
तेन गृहीतां<भार्या अन्यां वा> स्वां स्त्रियं मातृप्रभृतिं ज्ञात्वा भैषज्यमिदं कर्तव्यम् ।
किं तत्?
उत्यतेब्रह्मचर्येण युक्तः<पुष्करस्य संवर्तमूलैः>परिमण्डलाकारैः मूलैः ।
संवर्तमूलैश्चेत्यन्ये ।
संवर्तिका नवदलमिति नैघण्टुकाः ।
<उत्तरैर्मन्त्रैः>"अक्षीभ्यां ते नासिकाभ्यां"इत्यादिभिः ।
<यथालिङ्गं>तस्या अक्ष्यादीन्यङ्गानि समृश्य<प्रतीचीनं>यथा तथा<निरस्येत् ।>
यथालिङ्गवचनात्प्रतिमन्त्रं सम्मर्शनं निरसनं च ।
एकैकेन मूलेन सम्मर्खनम्,बहुवचनस्य सर्वापेक्षत्वात् ।
आन्त्रादीनामन्तर्गतत्वात्
बहिस्तत्प्रदेशे सम्मार्जनम् ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ९.१०
<राज्यक्ष्मणा गृहीतां, अन्यां वा> राजयक्ष्मणोऽन्यैः कुष्ठादिभिर्गृहीतां वा वधूं तद्धितैषी उक्तलक्षणब्रह्मचर्ययुक्तः<पुष्करस्य>पद्मस्य <संवर्तिकाभि>र्दलैर्मूलैश्चऽअक्षीब्यां तेऽइत्याद्यृग्रूपैष्षड्भिर्मन्त्रैः<यथालिङ्गं>मन्त्रलिङ्गप्रतिपन्नानि भाष्ये व्याख्यातान्यक्ष्यादीन्यङ्गानि<संमृश्य> प्रतिमन्त्रं तानि<प्रतीचीनं निरस्येत्> ।
एतेन भैषज्येनागदा स्यादिति तात्पर्यम् ॥
केचित्यक्ष्मगृहीतां भार्या अन्यां वा मात्रादिं पुष्करस्य संवर्तैः परिमण्डलाकारैः मूलैरिति ॥१०॥
७ वधूवाससो दानम् ।
वधूवास उत्तराभिरेतद्विदे दद्यात् ॥ आपस्तम्बगृह्यसूत्र ९.११ ॥
टीकाः
अनुकूलावृत्ति ९.११
विवाहकाले यत्<वासः>परिधापितं, तत्<एतद्विदे>ब्राह्मणाय दद्यात्, योऽस्मिन् प्रश्ने पठितान्मन्त्रान् सार्थान् वेद तस्मै ।
केचित्भैषज्यशेषमिदं मन्यन्ते ।
आनन्तर्यात् ।
तेषां वधूवास इति विशेषणमन्यस्याः स्त्रियाः यक्ष्मगृहीतायाः वाससो दाननिवृत्त्यर्थम् ।
एतद्विद इति च भैषज्यकर्मकृत इत्यर्थः मन्त्रेषु तु परादेहि इत्यादिषु विवाहकाले परिहितस्य वधूवाससः स्पर्शनिन्दा ।
सूर्याविदे ब्राह्मणाय तद्दानं च दृश्यते ।
कल्पान्तरे च तद्व्यक्तम् "चरितव्रतः सूर्याविदे वधूवस्त्रं दद्यात्"(आश्व.गृ. १.८.१३) इति ।
तस्मात्भैषज्यशेषत्वमनुपपन्नम् ।
यत्पुनरुक्तं आनन्तर्यादिति, तत्र कारणमुक्तमेव ।
कथम्?एवमन्तं विवाहप्रकरणं स्यादिति ॥१३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ९.११
यस्या<वध्वा>इदं भैषज्यं क्रियते तस्या<वासः> ।
<एतद्विदे>एतत्कर्म समन्त्रार्थ यो वेत्ति तस्मैऽपरा देहिऽइत्यादिभिश्चत भ्र्द तसृभिर्दद्यात् ।
केचित्विवाहकाले वध्वा यदाच्छादितं वासस्तद्रिमुच्यासंस्पृशन्नेव पञ्चम्यांऽपरा देहिऽइत्यादिभिश्चरितव्रताय<एतद्विदे>सूर्याविदे, य एतान्मन्त्रान् सार्थान् वेद तस्मै दद्यात् ।
असंस्पर्शस्चऽक्रूरमेतत्कटुकमेतत्ऽइति लिह्घात् ।
अस्य च समावेशनानन्तरमुपदेष्ट व्यस्य इहोपदेशो हृदयसंसर्गार्थे कर्मणि शम्याज्ञापनार्थमिति ।
नेदं युक्तम्, सन्निहितकर्मपरित्यागेन वासोदानस्य अतिव्यवहितविवाह अर्थज्ञानानुदयात्, अस्मदीयानामाचाराभावाच्च ॥११॥
इन्थं सुदर्शनार्येण साहसैकप्लवाश्रयात् ।
कृच्छ्रात्तीर्णोऽतिगूढार्थस्तृतीयपटलोदधिः ॥१॥
अत्रानुक्तं दुरुक्तं वा मतेर्मान्द्याच्छ्रुतस्य वा ।
सन्मार्ग प्रवणत्वेन तत्क्षमध्वं विपश्चितः ॥२॥
इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने नवमः खण्डः ॥
तृतीयश्च पटलः समाप्तः ॥
====================================================================================
अथ चतुर्थः पटलः
अथ दशमः खण्डः ।
६ उपनयनप्रकरणम्
१ उपनयनस्य कालः ।
उपनयनं व्याख्यास्यामः ॥ आपस्तम्बगृह्यसूत्र १०.१ ॥
टीकाः
अनुकूलावृत्ति १०.१
येन आचार्यकुसमुपनीयते कुमारः<तदुपनयनं> नाम कर्म श्रौतः पुरुषसंस्कारः ।
ऽगर्भाषटमेषु ब्राह्मणमुपनयीतऽइति वक्ष्यमाणेनैवोपनयनाधिकारे सिद्धे प्रतिज्ञाकरणं प्राधान्यख्यापनार्थम् ।
यथा"अग्न्याधेयं व्याख्यास्याम"(आप.श्रौ.५.१.१) इत्यादौ ।
कथं पुनरुपनयनस्य प्राधान्यम्?यस्मादनुपनीतस्य श्रौतस्मार्तेषु सर्वेषु कर्मस्वनधिकारः ।
उपनयने तु गर्भाधानदिभिरसंस्कृतस्यानंधिकारः ।
यत्र ब्रह्मचारिधर्माः सामयाचारिकेषु तत्रैवोपनयनेऽप्युच्यमाने सर्वचरणार्थता स्यात् ।
इष्यते चास्मदीयानामेवायं कल्पः ।
तस्मादत्रोपदेशः ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १०.१
उपनयनमिति कर्मनामधेयम् ।
कुमारस्याचार्यसमीपनयनमस्मिन् कर्मणीति, पङ्कजादिवत् ।
विर्विस्तरार्थः ।
आङ्ब लव दर्थः ।
चक्षिङोऽत्र व्यक्तवागर्थस्य ख्याञादेशात्<व्याख्यास्याम>इति रूपम् ।
तथा चायमर्थः उपनयनाख्यं कर्म वैकल्पिककल्पोक्त्या विस्तृतं बलवत्प्रमाणोपपन्नं असाधारणैश्शब्दैर्वक्ष्याम इति ।
इयं च प्रतिज्ञा श्रोतृजनमनोऽवधारणार्था ।
केचित्दैवादेर्विघ्नात्पूर्वैर्निषेकादिभिरसंस्कृतस्याप्युपनयनं भवत्येव ।
न तूपनयनासंस्कृतस्य उत्तराणि श्रौतस्मार्तानीत्येवमुपनयनप्राधान्यज्ञापनार्था प्रतिज्ञा ।
किञ्चि गृह्योपदिष्टकर्मसु गृहस्थस्यैवाधिकारो न ब्रह्मतारिण इत्येवंरूपं विशेषं ज्ञापयितुमप्रतिज्ञं विवाहमुपदिश्य उपनयनकल्पोपदेशः सप्रतिज्ञः क्रियते ।
अस्य च कल्पस्य धर्मशास्त्रेऽउपनयनं विद्यार्तस्यऽ(आप.ध.११९) इत्य त्रानुपदेशः सर्वचरणार्थतां निवर्तयितुमिति ॥१॥
गर्भाष्टमेषु ब्राह्मणमुपनयीत ॥ आपस्तम्बगृह्यसूत्र १०.२ ॥
टीकाः
अनुकूलावृत्ति १०.२
यस्मिन् वर्षे गर्भो भूत्वा शेते तद्वर्ष गर्भशब्देनोच्यते तदष्टमं येषां तानीमानि<गर्भाष्टमानि>वर्षाणि ।
बहुवचनं सौरादिभेदेन वर्षाणं भिन्नत्वात् ।
अपर आहजन्मप्रभृति सप्तानां वर्षाणां गर्भमष्टमं भवति ।
तेन सप्तस्वपि वर्षेषूपनयनं चोद्यते ।
तत्र चतुर्षु वर्षेष्वयोग्यत्वात्
चौलादिसंस्कारान्तरविरोधाच्च पञ्चमादिषु त्रिषुपनयनमिति ।
अत्र षष्ठसप्तमयोः काम्यमुपनयनष्टमे नित्यमित्ययं विसेषो न स्यात् ।
सर्वत्र नित्यमेव स्यात् ।
किंच पञ्चमे षष्ठे वा वर्षे वर्तमाने कथं गर्भवर्षमष्टमं भवति ।
नह्यसत्यपूरणीयेषु पूरणत्वमुपपद्यते ।
तस्मात्सप्तमे वर्तमान एव गर्भवर्षमष्टमं भवति ।
तस्मादविवक्षितं बहुवचनम् ।
पूर्वोक्तो वा निर्वाहः ।
काम्यं तूपनयनं विध्यन्तरलभ्यम् ।
उपनयीतेति पाठः श्रुत्यनुसारेण शब्विकरणस्तु धातुः ।
राजन्यवैश्ययोः विशेषोपदेशा देव गर्भाष्टमविधेः ब्राह्मणविषयत्वे सिद्धे ब्राह्मणविधिः श्रुत्यनुवाद एव ।
पुनरुपनयीतेत्यनुच्यमाने पूर्वमुपनयनग्रहणमधिकारार्थमेव स्यात्, तमर्थ न साझयेत्यस्तत्र साध्यः ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १०.२
<गर्भाष्टमेषु>वर्षेष्विति शेषः ।
ऽगर्भादिस्सङ्ख्या वर्षाणाम्ऽ(गौ.ध.२७) इति गौतमवचनात् ।
गर्भशब्देन यस्मिन् गर्भो वर्धेते, तल्लक्ष्यते ।
तदष्टमं येषां जन्मादीनां सप्तानां तानि गर्भाष्टमानि वर्षाणि ।
तेषु<ब्राह्मणमुपनयीत> ।
एवं यद्यति जन्मादिसप्तस्वप्युपनयनं प्राप्तं,तथापि जन्मादिषु त्रिषु चौलान्तैः गर्भसंस्कारैरवरुद्धत्वान्न क्रियते ।
चतुर्थेऽपि नैव॑कुमारस्य व्रतीचरणा सामर्थ्यात्
अतोऽत्रोपादेयगता बहुत्वसङ्ख्या कपिञ्जलन्यायेन गर्भादारभ्य षष्ठसप्तमाष्टमेषु त्रिष्वेवावतिष्ठते, सामर्थ्यात्प्रयोगभेदेन ।
ननूत्तरत्रऽराजन्यंऽऽवैश्यऽमिति विशेषोपादानादेव गर्भाष्टमविधिर्ब्रअह्मण स्यैवेत्यर्थसिद्धत्वात्ब्राह्मणमिति न वक्तव्यम् ।
तथोपनयनं व्याख्यास्याम इति मकृतत्वादुपनयीतेत्यपि ।
मैवम्॑ुपनयनं श्रौतमिति ज्ञापयितुम् ।
ऽअष्टवर्ष ब्राह्मणमुपनयीतऽइत्येत च्छ्रुत्यनुकारित्वात् ।
केचित्गर्भाष्टम एव वर्षे, न तु षष्ठसप्तमयोः तयोर्र्गभाष्टमत्वाभावादिति ।
तन्न॑बहुवचनानर्थक्यात् ॥२॥
गर्भैकादशेषु राजन्यं गर्भद्वादशेषु वैश्यम् ॥ आपस्तम्बगृह्यसूत्र १०.३ ॥
वसन्तो ग्रीष्मश्शरदित्यृतवो वर्णानुपूर्व्येण ॥ आपस्तम्बगृह्यसूत्र १०.४ ॥
टीकाः
अनुकूलावृत्ति १०.४
उदगयने वसन्तनियमः ब्राह्मणस्य ।
क्षत्रियस्यापवादो नियमो वा ।
वैश्यापवादः पूर्वपक्षादयस्तु स्थिता एव ।
वर्षाण्यृतनश्च विधीयन्ते इह सामयाचारिकेषु च ।
तत्र सामयाचारिकेषु विधानं सर्वचरणार्थम् ।
इह विधानं वर्णनियमार्थम् ।
शास्त्रान्तरदृष्टानां कालान्तराणामिहप्रवृत्तिर्मा भूदित्येवं ब्रुवन्नेतत्ज्ञापयतिचौलादिषु शास्त्रान्तरदृष्टोऽपि कालः पक्षे भवतीति ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १०.४
उभयत्रापि कपिञ्जलन्यायेन बहुवचनस्य त्रित्वमेवार्थः ॥३॥
ऋतवो वसन्तादयस्त्रयो ब्राह्मणादिवर्णक्रमेणोपनयनस्य काला भवन्ति ।
अयं चर्तुविधिस्सामानायाविधिप्राप्तोदगयनस्य यथार्ह नियमापवादार्थः ।
पूर्वपक्षादिस्तु भवत्येव ।
धर्मशास्त्रे तुऽवसन्ते ब्राह्मणम्ऽ(आप.घ.१११९) इत्यादिःऽशिशिरे च वा सर्वान्ऽइति भरद्वाजगृह्योक्तशिशिरप्रतिषेधार्थः ।
ऽगर्भाष्टमेषु ब्राह्मणम्ऽइत्यादिस्तुऽअथ काम्यानिऽ(आप.ध.११२०) इत्यादि विधातुमनुवादः ॥४॥
२ उपनयने दिग्वपनम् ।
ब्राह्मणान्भोजयित्वाऽशिषो वाचयित्वा कुमारं भोजयित्वानुवाकस्य प्रथमेन यजुषापः संसृज्योष्णाश्शीतास्वानीयोत्तरया शिर उनत्ति ॥ आपस्तम्बगृह्यसूत्र १०.५ ॥
टीकाः
अनुकूलावृत्ति १०.५
अथोपनयनविधिःपूर्वेद्युर्नान्दीश्राद्धम् ।
ततः श्वोभूते ब्राह्मणान् भोजयित्वा तैराशिषो वाचयतिपिण्याहं स्वस्यृद्धं इति ।
ततः कुमारं भोजयेत् ।
एवमन्तं पित्रादेः कर्म ।
अथाचार्यः उष्णाश्शीताश्चापः संसृजति ।
<अनुवाकस्यो>त्तरस्य<प्रथमेन यजुषा>ऽउष्णेनवायऽ वित्येतेन ।
संसृजंश्चोष्णाश्शीतास्वानयति, न शीता उष्णासु ।
ततस्ताभिरद्भिः कुमारस्य<शिर उनत्ति>क्लेदयति<उत्तरयर्चा>ऽआप उन्दन्त्विऽत्येतया ।
उत्तरेण यजुषेत्येव सिद्धे अनुवाकस्य प्रथमेन यजुषेत्युक्तं संज्ञाकरणार्थम् ।
तेन उष्णेन वायवुदकेनेत्येष इत्यत्रानुवाकस्य ग्रहणं भवति ।
अन्यथा संशयः स्यातनुवाको मन्त्रा वेति ।
उष्णाश्शीतास्वानीयेत्येव सिद्धे संसृज्येतिवचनं सर्वार्थत्वप्रदर्शनार्थम् ।
अत्मनश्च नापितस्य च या उन्दनार्थास्ताः संसृजति तच्चान्येषां व्यक्तम्नापितं शिष्यात्शीतो ष्णाभिरह्भिरबर्थ कुर्वाणोऽक्षण्वन् कुशलीकुर्विति ॥
(आश्व.गृ.११७१६) ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १०.५
ब्राह्मणान् भोजयित्वेत्यनेन यच्छ्राद्धं धर्मशास्त्रेऽशुचीन्मन्त्रवतस्सर्वकृत्येषु भोजयेत्ऽ(आप.ध.२१५११) इति विहितं, यदेव नान्दीश्राद्धमभ्युदयश्राद्धमिति प्रसिद्धं, तदेवोच्यते ।
तच्च स्मृत्यन्तरप्रसिद्धविधिना कर्तव्यम् ।
तस्य त्विह पुनः पाठः पाठक्रमेणानुष्ठानार्थः ।
अन्यथा पदार्थानां बद्धक्रमत्वाद्विवाहादिष्विवान्त एव स्यात् ।
अशीर्वचनेऽपि धर्मशास्त्रविहितेऽयमेव न्यायः
आशीर्वचनविधिश्च भाष्योक्तः ।
केचित्पूर्वेद्युर्नान्दीश्राद्धम्, आचारात्स्मृत्यन्तराच्च ।
श्वोभूते च ब्राह्मणानां भोजनं, भुक्तवद्भिरेवाशिषां वाचनार्थम् ।
सर्वकर्मणां चान्तेऽशुचीत्मन्त्रवतस्सर्वकृत्येषु भोजयेत्ऽइति वचनादिति ।
अत्र च कुमारस्य स्नवभोजनात्प्राक्ऽयज्ञोपवीतं परमं पवित्रम्ऽइत्यादिमन्त्रेण यज्ञोपवीतधारणम् ।
ऽभोजन आचमने स्वाध्याये च यज्ञोपवीती स्यात्ऽइति धर्मशास्त्रवचनात् ॥
ऽकेचित्समिदाधानात्प्रागेवेतिऽ ॥
कुमारभोजनं च विना क्षारलवणादिभिः ।
आद्यन्तयोश्च द्विराचमनम् ।
केचितेवमन्तं मातापितरौ कुरुतः, अत ऊर्ध्वमाचार्य इति ॥
<अनुवाकस्य प्रथमेन यजुषा>ऽउष्णेन वायोऽइत्यनेन<अपः>उष्णाश्शीताश्च<संसृजति> ।
संसृजंश्चो <ष्णाश्शीतास्वानयति,>न तद त्विनियमेन ।
अत्र चानुवाकग्रहणं गृह्यमन्त्रास्समाम्नाता एव न कल्पसूत्रस्था इति ज्ञापनार्थम् ।
तत्प्रयोजनं चैते ब्रह्मयज्ञादिष्वध्येतव्या इत्युक्तम् ।
ततस्ताभिरद्भिःऽआप उन्दन्तुऽइत्येतया कुमारस्य<शिर उनत्ति> ।
प्रागरभ्य प्रदक्षिण<मुपनत्ति>क्लेदयति ॥
त्रींस्त्रीन् दर्भानन्तर्धायोत्तराभिश्चतसृभिः प्रतिमन्त्रं प्रतिदिशं प्रवपति ॥ आपस्तम्बगृह्यसूत्र १०.६ ॥
टीकाः
अनुकूलावृत्ति १०.६
<प्रवपति>प्रथमं वपति वपनं प्रारभत इत्यर्थः ।
तेन पूर्व मन्त्रवद्वपनं करोत्याचार्यः पश्चान्नापित इत्युक्तं भवति ।
तत्रायं प्रयोगः कुमारस्य शिरसि प्राच्यां दिशि त्रीन् दर्भानन्तर्धायऽयेनावपऽदित्येतया प्रच्छिनत्ति क्षुरेण ।
असावित्यब्य स्थाने तस्य नाम प्थमया विभक्त्या गृह्णाति ।
यथा असावयं यज्ञदत्तशर्मा ।
एवं सर्वत्रादसः प्रयोगे नाम निर्देष्टव्यम् ।
प्रच्छिद्या<नडुहे शकृत्पिण्डे> यवमति केशान् प्रक्षिपति ।
अथाप उपस्पृश्य तथैव दक्षिण्यां दिशिऽयेन पूषेऽति ।
प्रतीच्यांऽयेन भूयःऽइति ।
उदीच्यांऽयेन पूषेऽति ।
अत्र संबुध्या नामग्रहणंतेन ते वपामि यज्ञदत्तशर्म्मन्नायुषेति ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १०.६
ततोऽयेनावपत्ऽइत्यादिभिश्चतसृभिः प्रतिमन्त्रं प्रतिदिशं त्रींस्त्रीन् दर्भानन्तर्धाय केशान् प्रवपति ।
प्रशब्दात्कुशलीकरणमप्याचार्यस्यैव ।
तत्र प्रथमे मन्त्रे असावित्यस्य स्थाने विष्णुशर्मेति कुमारस्य नामग्रहणम् ।
चतुर्थे तु सम्बुध्द्या ॥६॥
वपन्तमुत्तरयानुमन्त्रयते दक्षिणतो माता ब्रह्मचारी वा ॥ आपस्तम्बगृह्यसूत्र १०.७ ।
टीकाः
अनुकूलावृत्ति १०.७
एवमार्येण प्रतिदिशं प्रवपने कृते नापितस्तस्य केशान् वपति संसृष्टाभिरेवाद्भिरबर्थ कुर्वाणः ।
तं नापितं<वपन्तमुत्तरयर्चा>ऽयत्क्षुरेणेत्येतया<नुमन्त्रयत>आचार्यः ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १०.७
दक्षिणत उपविश्य कुमारस्य<माता ब्रह्मचरी वा> कश्चित्ऽयत्क्षुरेणऽइत्येतया<वपन्त>माचार्यमनुमन्त्रयते ।
कस्मादेवं सूत्रच्छेदः? उच्यते ।
अस्य कुमारस्यायुर्मा प्रमोषीरिति मध्यमपुरुषलिङ्गकेऽनुमन्त्रणे वपनव्यातृताचार्यकर्तृकत्वविरोधात् ।
मातृब्रह्म चारिव्यतिरिक्तस्य प्रकृतस्याभावात् ॥७॥
३ उप्तानां केशानामुदुम्बरमूले निधानम् ।
आनडुहे शकृत्पिण्डे यवान्निधाय तस्मिन् केशानुपयम्योत्तरयोदुम्बरमूले दर्भस्तम्बे वा निदधाति ॥ आपस्तम्बगृह्यसूत्र १०.८ ॥
टीकाः
अनुकूलावृत्ति १०.८
अथ कुमारस्य<माता ब्रह्मचारी वा> कश्चित्तस्य दक्षिणत उपविश्य कस्मिश्चित्पात्रे आनडुहं शकृत्पिण्डं कृत्वा यवाश्च तस्मिन् पिण्डं निधाय तस्मिन् केशानुपयच्छति उपगृह्णाति यथा भूमौ न पतन्ति तथा सर्वानुपयम्य ततस्तान् केशानुदुम्बरस्य वृक्षस्य मूले दर्भस्तम्बे वा निदधाति ।
<उत्तरयर्चा>ऽउप्त्वाय केशाऽनित्येतया ।
यदि माता तामन्तो मन्त्रं वाचयति ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १०.८
उपनयनस्य प्रकृतत्वान्माता ब्रह्मचारी वाऽउप्त्वाय केशान्ऽइत्येतया<आनडुहे शकृत्पिण्डे>इत्यादि यथोपदेशं करोति ।
केचिताचार्यः पूर्व वपनमारभते ।
ततो नापितस्संसृष्टाभिरेवाद्भिरवर्थ कुर्वन् केशान् प्रवपति ।
तं च वपन्तमुत्तरया आचार्योऽनुमन्त्रयते ।
दक्षिणतो मातेत्युक्तार्थमेवेति ।
तन्नैतद्वपनं नापितस्समापयतीत्यत्र वचनाभावात्, तत्कल्पनायां चानुपत्त्यभावात् ।
प्रशब्दस्य विपातस्य प्माणान्तरावगतार्तद्योतकत्वात्, उक्तसूत्रभेदेन स्ववाक्योक्तस्यैव मात्रादेरनुमन्त्रणकर्तृत्वोपपत्तेश्च ॥८॥
४ स्नातस्य कुमारस्याश्मन्यास्थापनम् ।
स्नातमग्नेरुपसमाधानाद्याज्यभागान्ते पालाशीं समिधमुत्तरयाऽधाप्योत्तरेणाग्निं दक्षिणेन पदाश्मनमास्थापयत्यातिष्ठेति ॥ आपस्तम्बगृह्यसूत्र १०.९ ॥
टीकाः
अनुकूलावृत्ति १०.९
"स्नातं कुमारं शुचिवाससंबद्धशिखं यज्ञोपवीतमासञ्जतियज्ञोपवीतं परमं पवित्रमिति ।
ततस्तं यज्ञोपवीतिनं देवयजनमुदानयती" (बौगृ.२५)ति बौधायनः ।
तस्य सर्वस्योपलक्षणं स्नातवचनम् ।
ततोऽवग्नेरुपसमाधानादि<तन्त्रं> प्रतिपद्यत आचार्यः ।
विवाहवदग्न्युत्पत्तिः ।
शम्याः परिध्यर्थे ।
सकृत्पात्रप्रयोगः ।
वासोमेखलादीनामपि सह सादनम् ।
तत<आज्यभागान्ते>कुमारं<पालाशीं>समिधमादापयति <उत्तरयर्चा>ऽआयुर्दा देवऽइत्येतया ।
कुमारो मन्त्रेण समिधमादधाति ।
तमाचार्यः प्रयुङ्क्ते मन्त्रं च वाचयति, यमिधं चाधापयति ।
देवताया अभिधेयत्वान्न मन्त्रलिङ्गविरोधः ।
अन्ये त्वाचार्यस्यैव मन्त्रप्रयोगमिच्छन्ति ।
आधाप्य समिध<मुत्तरेणाग्निं अश्मानं>प्रतिष्ठितमनेना<स्थापयति दक्षिणेन पदाऽ>आतिष्ठेमऽमिति मन्त्रेण ।
अयं मन्त्र आटार्यस्यैव, कुमारस्याभिधेयत्वात् ।
तेनाचार्यो मन्त्रमुक्तत्वा धत्रिणं पादं हस्ताभ्यां गृहीत्वाश्मनि निधापयति ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १०.९
अथाग्<नेरुपसमाधानादि>तन्त्रं प्रतिपद्यते ।
पात्रसादनकाले अश्मवासोमेखलाजिनदण्डकुशकूर्चाश्च सहैव सादयति ।
केचित्दर्व्यादीन्यपि सहैवेति ।
<आज्यभागान्ते कृते स्नातं>कुमारंऽआयुर्दा देवऽइत्येतया<पालाशींव समिधं>हस्ते गृहीत्वाऽदा पयति ।
मन्त्रान्ते चाधेहीति ब्रूयात् ।
आधापनमन्त्रश्चायम् ।
केचिताधानमनत्रं वाचयीताचार्य इति ।
तेषांऽजरसे नयेमम्ऽइति मन्त्रालिङ्गविरोधः ।
अथाधापनार्थे मन्त्रे अश्मास्थापनमन्त्रवत्कुमाराभिधानार्थमुच्चारणं स्यात्, न देवताभिधानार्यम्॑सकृदुच्चरितस्योभयाभिधानाशक्तिरिति चेत्, न॑ऽघृतपृष्टो अग्नेऽइतीह देवताया एवाभिधेयत्वात् ।
अत एवोक्तंऽमन्त्रमुक्त्वाऽधेहि जुहुधीति ब्रूयात्ऽइति ।
शेषं व्यक्तम् ॥९॥
५ कुमारस्य वासः परिधापनम् ।
वासःसद्यःकृत्तोतमुत्तराभ्यामभिमन्त्र्योत्तराभिस्तिसृभिः परिधाप्य परिहितमुत्तरयानुमन्त्रयते ॥ आपस्तम्बगृह्यसूत्र १०.१० ॥
टीकाः
अनुकूलावृत्ति १०.१०
एकस्मिन्नेवाहनि तन्तुक्रिया वयनाक्रिया च यस्य तत्<सद्यःकृत्तोतं> ।
एवं भूतं<वास उत्तराभ्यां> ऋग्भ्यांऽरेवतीस्त्वेऽत्येताभ्यां अभिमन्त्रयेत ।
ततस्त<दुत्तराभिस्तिसृभिः>ऽया अकृन्तऽन्नित्येताभिः परिधापयति ।
आचार्यस्यैव मन्त्राः ।
वचनादेकमिति तिसृणामन्ते परिधापनम् ।
ततः तं परिहितवन्तं कुमारं आचार्यः<उत्तरयाऽ> <परीदं> वासऽइत्येतयाअनुमन्त्रयते ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १०.१०
<वासः> यच्छाण्यादि धर्मशास्त्रे विहितं<तत्सद्यःकृत्तोतं>सद्य एव छिन्नोतं, नान्यस्मिन्नहनि प्रसस्तेऽपि ।
केचितेकस्मिन्ने वाहनि तन्तुक्रिया वयनक्रिया च यस्य, तत्सद्यःकृत्तोतमिति ।
एवंभूतंऽरेवतीस्त्वाऽइति द्वाभ्यामभिमन्त्र्यऽया अकृन्तन्ऽइत्येताभिस्तिसृभिः प्<अरिधाप्य परिहितं>कुमारंऽपरीदं वासःऽइत्यनया<नुमन्त्रयते> ॥१०॥
६ मौञ्ज्यजिनधारणम् ।
मौञ्जीं मेखलां त्रिवृतां त्रिः प्रदक्षिणमुत्तराभ्यां परिवीयाजिनमुत्तरमुत्तरया ॥ आपस्तम्बगृह्यसूत्र १०.११ ॥
टीकाः
अनुकूलावृत्ति १०.११
अथ<मेखला>मुत्तराभ्यामृग्भ्यांऽइयं दुरुक्ताऽदित्येताभ्यां त्रिः प्रदक्षिणं परिव्ययति कुमारम् ।
स्वयमेव मन्त्रमुक्त्वा तं वाचयत्याचार्यः ।
मन्त्रलिङ्गात्त्रिवृत्मेखला<मौञ्जी>मुञ्जतृणैः कल्पिता ।
<त्रिवृत्>त्रिगुणा ।
त्रिवृतामिति छान्दसो दीर्घपाठः ।
ततोऽ<जिनमुत्तरं>वास करोति<उत्तरयर्चा ।>
मित्रस्य चक्षुरित्येतया स्वयमेव मन्त्रमुक्त्वा ।
सामयाचारिकेषु वर्णविशिष्टा मेखलाविशेषा श्चोदिताः ।
इदं तु सर्ववर्णानां मौञ्जीप्राप्त्यर्थ वचनम् ।
अजिनविशेषास्तु सामयाचीरिका इहापि प्रत्येतव्याःऽकृष्णं ब्राह्मणस्येऽत्यादयः
________________________
गृह्यतात्पर्यदर्शनव्याख्या १०.११
<मौञ्जीं>मुञ्जैः कल्पिताम् ।
त्रिवृतां त्रिवृतम् ।
दीर्घश्छान्दसः ।
<मेखलांऽ> <इयं दुरुक्तात्ऽ> <इत्ये>ताभ्यां<त्रिः प्रदक्षिणं परिव्ययति ।>
त्रिवृतामिति चऽशक्तिविषये दक्षिणावृत्तानाम् ।
ज्या राजन्यस्यऽ(आप.ध.१२३३,३४) इत्यादीनां प्रदर्शनार्थम् ।
<अजिनं>ऽकृष्णं ब्राह्मणस्यऽ(आप.ध.१३३) इत्यादि धर्मशास्त्रे विहितमुत्तरं वासः करोतिऽमित्रस्य चक्षुःऽइत्येतया ॥११॥
७ कुमारस्य देवताभ्यः परिदानम्, उपनयनञ्च ।
उत्तरेणाग्निं दर्भान् संस्तीर्य तेष्वेनमुत्तरयावस्थाप्योदकाञ्जलिमस्मा अञ्जलावानीयोत्तरया त्रिः प्रोक्ष्योत्तरैर्दक्षिणे हस्ते गृहीत्वोत्तरैर्देवताभ्यः परीदायोत्तरेण यजुषोपनीयऽसुप्रजाऽइति दक्षिणे कर्णे जपति ॥ आपस्तम्बगृह्यसूत्र १०.१२ ॥
टीकाः
अनुकूलावृत्ति १०.१२
अथाचार्यः<उत्तरेणाग्निं दर्भार्न्त्सस्तीर्य तेष्वेनं>कुमारं<उत्तरया>ऽआगन्त्रा समगन्महीऽत्येतयावस्थापयति ।
कुमारस्य मन्त्रः आचार्यो वाचयति ।
<अवस्थाप्य>स्वयं पश्चात्भूमाववस्थाय स्वमञ्जलिमुदकेन पूरयित्वा तम्जलिमस्मै कुमाराय प्रतिमुखं दर्भेष्ववस्थिताय प्रोक्षणार्थमानयति तस्याञ्जलौ ।
अस्मा इति चतुर्थीनिर्देशात्कुमारार्थोऽयमुदकाञ्जलिः ।
तेन प्रोक्षणस्य कुमारः कर्ता भवति ।
आनीय ततः प्रोक्षणं प्रयोजयत्या चार्यः ।
उ<त्तरयर्चा>ऽसमुद्रादूर्मिऽरित्येतया ।
कुमारस्य मन्त्रः ।
आचार्यो वाचयति ।
ऽ(त्रिः प्रोक्षयति ।
सकृत्मन्त्रेण द्विस्तूष्णीम् ।
सव्येन धारणमुदकस्य, दक्षिणेन प्रोक्ष्णम् ।
प्रोक्ष्येत्यत्र णिचो लोपो द्रष्टव्यंः) अथ कुमारस्य हस्तं गृह्णाति <उत्तरौर्दशभिर्मन्त्रौःऽ>अग्निष्टे हस्तमग्रमीऽदित्यादिभिः ।
प्रतिमन्त्रं ग्रहणावृत्तिः ।
तत<उत्तरै> रेकादशभिःऽअग्नये त्वा परिददामीऽत्यादिभिः तं देवताभ्यः<परिददाति> ।
सर्वेष्वसौशब्देषु नामग्रहणं संबुध्या ।
परिदाय<तमुत्तरेण यजुषा>ऽदेवस्य त्वा सवितुःऽ<इ>त्येतेनौपनयते विद्यानुष्ठानार्थ आचार्यः स्वकुलं प्रापयतीत्यर्थः ।
यजुरुच्चारणमेव तत्र व्यापारः, नान्यः कश्चित् ।
नामग्रहणं च संबुध्या ।
केचितसावित्यन्तोदातस्य पाठाताचार्यस्य नाम प्रथमया निर्देश्यं मन्यन्ते ।
एतत्सम्बन्धात्समस्तमेव कर्मोपनयनं, यथा पशुबन्ध इति ।
उपनीय<सुप्रजा इति दक्षिणे कर्णे जपति>ऽसुपोषः पोषैऽरित्येवमन्तो जपः ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १०.१२
<उत्तरया>ऽआगन्त्रा समगन्महिऽइत्येतया ।
अस्मा इति चतुर्थी षष्षठ्यर्थे ।
<उत्तरया>ऽसमुद्रादूर्मिःऽइत्येतया त्रिः<प्रोक्षति> ।
सकृन्मन्त्रेण, द्विस्तूष्णीम् ।
<उत्तरैः>ऽअग्निष्टे हस्तमग्रभीत्ऽइत्यादिभिर्दशभिर्मन्त्रैः ।
सर्वेषां चान्ते सकृद्धस्तग्रहणम् ।
<उत्तराःऽ> <अग्नयेत्वा> परिददामिऽइत्येकादशभिः प्रतिमन्त्रं<देवताभ्यो>मन्६ इङ्गप्रतीताभ्यः<परिददाति>रक्षणार्थम् ।
ततश्च यदि सकृत्परिदानं स्यात्तदा विध्यपराधात्सर्वप्रायश्चित्तं होतव्यम् ।
असौशब्देषु च सर्वेषु सम्बुद्ध्या नामग्रहणम् ।
<उत्तरेण यजुषा>ऽदेवस्य त्वा सवितुःऽइत्यनेन <उपनयते>आत्मनस्समीपं नयति ।
नामग्रहणं च सम्बुद्ध्यैव ।
केचित्कुमारस्स्वाञ्जलावाचार्येणानीतमुदकं सव्ये हस्ते धारयन्, दक्षिणेन हस्तेनात्मानं त्रिः प्रोक्षति ।
आचार्यस्तु प्रोक्षयति ।
णिचश्च लोपो द्रष्टव्यः ।
हस्तग्रहणं च प्रतिमन्६ इत्यनेककल्पनासापेक्षं व्याचक्षते ॥१२॥
इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने दशमः खण्डः ॥
एकादशः खण्डः ।
८ आचार्यकुमारयोः प्रश्नप्रतिवचने ।
ऽब्रह्मचर्यमागाऽमिति कुमार आह ॥ आपस्तम्बगृह्यसूत्र ११.१ ॥
टीकाः
अनुकूलावृत्ति ११.१
सवित्रा प्रसूत इत्येवमन्तो मन्त्रः आहेति वचनं उच्चैः प्रयोगार्थम् ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.१
व्यक्तम् ॥१॥
प्रष्टं परस्य प्रतिवचनं कुमारस्य ॥ आपस्तम्बगृह्यसूत्र ११.२ ॥
टीकाः
अनुकूलावृत्ति ११.२
ऽको नामासीऽत्येवमादयः चत्वारो मन्त्राः पृष्टप्रतिवचनार्थाः ।
तत्र यत्र पृष्टं तत आरभ्य कर्म्चार्स्येत्यर्थः ।
प्रष्टमिति संप्रसा रणाभावश्छान्दसः, अपपाठो वा ।
यत्प्रतिवचनं तत्कुमारस्य ।
असौशब्देषु नाम निर्दिशति कुमारः प्रथमया ।
आचार्यः संबुध्या कुमारस्य नाम ।
तत्र को नामासीत्याचार्यः ।
यज्ञशर्मनामास्मीति कुमारः ।
कस्य ब्रह्मचार्यसि श्रीयज्ञशर्मनित्याचार्यः, प्राणस्य ब्रह्मचार्यस्मि यज्ञशर्मेति कुमारः ।
आहेत्यनुवृत्तेरुच्चैः प्रयोगः ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.२
<प्रष्टं> प्रश्न इत्यर्थः ।
रूपं तु छान्दसम् ।
ऽको नामासीऽत्यादिषु प्रश्नप्रतिवचनार्थेषु चतुर्षु मन्त्रेषु प्रष्टं परस्याचार्यस्य, प्रतिवचनं तु कुमारस्य ।
ततश्चैवं प्रयोगःऽको नामासि?इत्याचार्यः पृच्छति ।
विष्णुशर्मा नामासिऽइति कुमारः प्रतिब्रूयात् ।
तथा
ऽकस्य ब्रह्मचार्यसि विष्णुशर्मन्?ऽइत्याचार्यः ।
ऽप्राणस्य ब्रह्मचार्यस्मिऽइति कुमारः ॥२॥
शेषं परो जपति ॥ आपस्तम्बगृह्यसूत्र ११.३ ॥
टीकाः
अनुकूलावृत्ति ११.३
पृष्टप्रतिवचनादूर्ध्व अनुवाकस्य<यश्शेषः>तंऽएष ते द्व सूर्येऽत्यादिकं पर आचार्यो जपति ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.३
शेषमनुवाकशेषैकदेशंऽविष्णुशर्मैष ते देवऽइत्यादिऽअनुसञ्चर विष्णुशर्मन्ऽइत्येवमन्तमाचार्यो जपति ।
ऽअध्वनामध्व पतेऽइत्यस्य प्रत्यगाशिषो वाचनविधानात् ॥३॥
९ प्रत्यगाशिषां मन्त्राणां कुमारेण वाचनम् ।
प्रत्यगाशिषं चैनं वाचयति ॥ आपस्तम्बगृह्यसूत्र ११.४ ॥
टीकाः
अनुकूलावृत्ति ११.४
तत्रैव शेषे या<प्रत्यगाशीः>ऽअध्वनामध्वपतऽऽइत्येवमाद्याऽतामेनं कुमारंवाचयति ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.४
आत्मगाम्याशीःफलं यस्मिन्मन्त्रे स<प्रत्यगाशीः> ।
जात्यभिप्रायमेकवचनम् ।
अध्वनामित्यारभ्य आ उपनयनसमाप्तेर्ये प्रत्यगाशिषो मन्त्राःऽयोगेऽइत्यादयः, तान् सर्वान् कुमारं<वाचयति> ॥४॥
१० उपनयनप्रधानहोमाः जयादयश्च ।
उक्तमाज्यभागान्तम् ॥ आपस्तम्बगृह्यसूत्र ११.५ ॥
अत्रैनमुत्तरा आहुतीर्हअवयित्वा जयादि प्रतिपद्यते ॥ आपस्तम्बगृह्यसूत्र ११.६ ॥
टीकाः
अनुकूलावृत्ति ११.६
<आज्यभागान्तं>तन्त्रं प्रागेवोक्तम् ।
अत्रेदानीमेनं कुमारं<उत्तरा>एकादश प्रधानाहुती<र्हअवयति>ऽयोगे योगेऽइत्येवमाद्याः ।
उत्तरैर्मन्त्रैः कुमारो जुहोति ।
तमाचार्यः प्रयुङ्के मन्त्रवाचनेन ।
द्वितीयचतुर्थयोरपि मन्त्रयोः कुमार एव वक्ता, देवताभिधानार्तत्वात् ।
अपर आहलिङ्गविरोधादाचार्यो वक्ता कुमारस्तु होतेति ।
प्रधानहोमेषु हावयित्वेति वचनातुपहोमेष्वाचार्य एव कर्ता ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.६
इदमनुवादमात्रं मा भूदिति साध्याहारं व्याख्यायते ।
न केवलमध्वनामित्यारभ्य प्रत्यगाशिषो मन्त्रान् वाचयति ।
आज्यभा गान्तमुक्त्वा ये पश्चात्प्रत्यगाशिषो मन्त्राः मेखलापरिव्ययणादिषूक्ताःऽइयं दुरुक्तात्ऽइत्याद्यास्तानपि स्वयमुक्तवा वाचयति ।
उक्तमिति जात्यभिप्रायम् ।
इदं त्विह वक्तव्यं यासु मेखलापरिव्ययणादिषु कुमारप्रधानासु संस्कारक्रियासु ये प्रत्यगाशिषो मन्त्राः, तच्चोदकैराख्यातैः करणत्वेन चोदिताः क्रियाः तैर्मन्त्रैः कृत्वा पश्चाद्वाचयति ।
स्वतः करणमन्त्राणां क्रियागुणभूतैः कर्तभिरेवोच्चर्यत्वात् ।
कुमारस्य चात्र संस्कार्यत्वेन प्राधान्यात् ।
यत्र पुनर्होमादिषु गुणभाव एव, न संस्कार्यत्वं, तत्र तान् प्रत्यगाशिषो वाचयत्येव ।
केचित्परिव्ययणादिष्वपि कुमारस्यैव मन्त्रः, परस्तु वाचयत्येवेति ॥५॥
अत्र अस्मिन् क्रमे, न तुऽयथोपदेशं प्रधानाहुतीःऽइति सामान्यवचनादाज्यभागानन्तरमेव ।
<एनं>कुमारम् ।
<उत्तराः>ऽयोगे योगेऽ इत्येकादर्शचः प्रत्यगाशिषो वाचयन् हस्ते गृहीत्वा प्रतिमन्त्रं<हावयति> ।
तत्र द्वितीयचतुर्थौऽइममग्न आयुषेऽऽअग्निष्ट आयुः प्रतराम्ऽइति लिङ्गविरोधात्ऽआयुर्दा देव जरसम्ऽइतिवत्स्वयमेव ब्रूयात्, नैनं वाचयति ।
केचितेतयोरपि द्वताभिधानार्थत्वात्कुमारस्यैवोच्चारणमिति ।
ततोऽजयाभ्यातानान् राष्ट्रभृतऽइति सामान्यविधिप्रसिद्धमेवाचार्यो <जयदि प्रतिपद्यते> ।
ततश्च अग्निर्भूतानामधिपरिस्समावतुऽइत्यादीनां प्रत्यगाशिषामपि वाचनं न भवति ।
नैव च हावनम् ॥६॥
११ उपनेतुः कूर्च उपवेशः ।
परिषेचनान्तं कृत्वापरेणाग्निमुदगग्रं कूर्च निधाय तस्मिन्नुत्तरेण यजुषोपनेतोपविशति ॥ आपस्तम्बगृह्यसूत्र ११.७ ॥
टीकाः
अनुकूलावृत्ति ११.७
<उत्तरेण यजुषा>राष्ट्रभृदसीत्येन ।
परिषेचनान्तवचनमानन्तर्यार्थम् ।
केचित्सावित्रं नाम व्रतमस्मिन् काल उपाकुर्वन्ति केचित्त्रिरात्रान्ते सावित्रीमनुब्रुवते ।
तदुभयमप्यनिष्टमाचार्यस्य ।
निधायेति वचनादाचार्य एव निधाने कर्ता, न माणवकः ।
अधिकारादेव सिद्धे उपनेतेति वचनमुत्तरार्थम् ।
पुरस्तात्प्रत्यङ्ङासीन इत्यत्र उपनेतुः पुरस्तात्यथा स्यातग्नेः पिरस्तात्मा भूतिति ।
तथा दक्षिणेन पाणिना दक्षिणं पादमित्यत्रोपनेतुः पादो न माणवकस्य ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.७
<कूर्च>दर्भमयामासनम् ।
उत्तरेण यजुषाऽराष्ट्रभृदसिऽइत्यनेन ।
<उपनेता>आचार्यः ।
शेषं व्यक्तम् ॥७॥
१२ गायत्र्युपदेशार्थ कुमारेणाचार्यप्रार्थनम् ।
पुरस्तात्प्रत्यङ्ङासीनः कुमारो दक्षिणेन पाणिना दक्षिणं पादमन्वारभ्याहऽसावित्रीं भो अनुब्रूहिऽइति ॥ आपस्तम्बगृह्यसूत्र ११.८ ॥
टीकाः
अनुकूलावृत्ति ११.८
दर्भेष्वासीन इति गृह्मान्तरे ।
दक्षिणेनेति वचनमुभाभ्यामेवोभावित्ययं पक्षोऽत्र मा भूदिति ।
तेन सकुष्ठिकमुपसंगृह्णीया दित्ययं विशेषः प्रवर्तते ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.८
उपनेतुः<पुरस्तात्प्रयङ्मुखः> <आसीनः कुमारो दक्षिणेन पाणिना>उपनेतुर्दक्षिणं<पादं अन्वारभ्य>उपसंगृह्यऽ<सावित्रीं भो ।>
<अनुब्रूहिऽ>इति प्रार्थयते ॥८॥
१३ गायत्र्युपदेशः
तस्मा अन्वाहऽतत्सवितुऽरिति ॥ आपस्तम्बगृह्यसूत्र ११.९ ॥
पच्छोर्र्ऽधचशस्ततस्सर्वाम् ॥ आपस्तम्बगृह्यसूत्र ११.१० ॥
टीकाः
अनुकूलावृत्ति ११.१०
<तस्मा>इति वचनात्कुमारस्य ग्रहणार्थमनुवचनम् ।
तेन त्रिष्वपि वचनेषु कुमारस्यानुग्रहणं भवति ।
अनुशब्दोऽनुग्रह द्योतनार्थः ।
अनुग्रहेणाह<अन्वाहेति> ।
तेन यद्यसमर्थः कुमारः तावत्वक्तुं ततो यथाशक्ति वाचयति ।
स्वयं विधिवत्पूर्वमुक्त्वा प्रथमं पच्छः पादेपादेऽवसानम् ।
द्वितीयमर्र्धचशः, ततस्सर्वामन्वाहेति ।
उत्तरमिति वक्तव्यं तत्सवितुरिति निर्देशः सावित्रीप्रदेशोषु सावित्र्या समित्सहस्रमादध्या(आप.ध.१२७१)दित्यादिषु अस्या एव ग्रहणं यथा स्यात् ।
यस्याः कस्याश्चित्सवितृदेवत्याया मा भूदित्येवमर्थम् ।
तत इति वचनादेतावदेवास्मिन्नहन्यनुवचनम् ।
एतैर्वचनैरग्रहणे कालान्तरेऽध्यापनम् ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.१०
<तस्मै>कुमाराय ग्रहणार्थऽतत्सवितुर्वरेण्यम्ऽइत्येतामृचमाचार्योऽन्वाह ।
तत्रच सवितृदेवत्यामृचमनुब्रूहीत्यविशेषेण प्रार्थना यां कृतायामपि योयंऽतत्सवितुरित्यन्वाहऽइति नियमः स ज्ञापयतिधेनुपङ्कजादिशब्दवत्सावित्रीशब्दस्य यौगिकस्यापिऽतत्सवितुर्वरेण्यम्ऽ इत्यस्यामेव प्रयोगो नियतः, न तुऽआसत्येन रजसाऽइत्यादिष्वपीति ।
ततश्च धर्मशास्त्रेऽसावित्रीं प्राणायामशःऽ(आप.घ.१२६१५) सावित्र्या समित्सहस्रमादध्यात्ऽ(आप.ध.१२७१) इत्यादिष्वस्या एवर्चस्सम्प्रत्ययो नान्यस्या अपीति ॥९॥
खथमन्वाह? इत्यत्राह
<पच्छः>पादे पादे अवसाय ।
<अर्र्धचशः>अर्र्धचे अवसाय ।
ततः सर्वा समस्तां अनवसानामित्यर्थः ।
अत्र च सर्वानुवचनस्यादृष्टार्थत्वात्, ग्रहीतुमसमर्थस्यामि कुमारस्य सर्वा निगद्यते ॥१०॥
अथ तस्मिन्नेवानुवचने विशेषमाह
व्याहृतीर्विहृताः पादादिष्वन्तेषु वा तथार्र्धचयोरुत्तमां कृत्स्नायाम् ॥ आपस्तम्बगृह्यसूत्र ११.११ ॥
टीकाः
अनुकूलावृत्ति ११.११
तत्रावानुवचने विशेषः प्रथमे वचने पादानां त्रयाणां आदिष्वन्तेषु वा तिस्त्रो व्याहृतयः क्रमेण वक्तव्याः ॥९॥
द्वितीय वचने अर्र्धचयोरादितः अन्ततो वा द्वे व्याहृती क्रमेण वक्तव्ये ।
तत उत्तमा शिष्यते सुवरिति ।
ता<मुत्तमां कृत्सनायां> वचनेऽनुब्रूयादिति ।
तत्र प्रयोगः प्रणवोऽग्रे वक्तव्यः ।
"ओंकारः स्वगीद्वारम्, तस्मात्ब्रह्माध्येष्यमाणःऽ(आपध११३६) इति वचनात् ।
ओंभूः तत्सवितुर्वरेण्यम् ।
ओंभुवः भर्गो देवस्य धीमहि ।
ओंसुवः धियो यो नः प्रचोदयात् ।
ओंभूः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
ओंभुवः धियो यो नः प्रचोदयात् ।
ओंसिवः तत्सवितुर्वेण्यं भर्गो देवस्य धामहि धियो यो नः प्रचोदयात् ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.११
<विहृताः व्याहृतीः>त्रिष्वपि पादादिष्वेकैकामन्वाह ।
अथवा पादानामन्तेषु ।
तथार्र्धचेऽवसाय प्रयोगेऽपि प्रत्यर्र्धचमादावन्ते वैवैकामन्वाह ।
अविशिष्टां<तूत्तमां>व्याहृतिं कृत्स्नाया मादावन्तेवा ।
<कृत्स्नायामिति>षष्ठ्यार्थपाठः ।
प्रयोगस्तुप्रथमं प्रणवमन्वाह॑ोमिति ब्राह्मणः प्रवक्ष्यन्नाह (तै.उ१८) इति श्रुतेः,ऽओंकारस्स्वर्गद्वारं तस्माद्ब्रह्माध्येष्यमाण एतदादि प्रतिपद्येतऽ(१.१३६) इति धर्मशास्त्रवचनाच्च ।
ओं भूः तत्सवितुर्वरेण्यम् ।
ओं भूः भर्गो देवस्य धीमहि ।
ओंसुवः धियो यो नः प्रचोदयात् ॥
ओंभुवः तत्सविदुर्वरेण्यं भर्गो देवस्य धीमहि ।
ओंभुवः धियो यो नः प्रचोदयात् ॥
ओंसुवः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धियो यो नः प्रचोदयात्ऽ ।
अन्तेषु वेति पक्षे प्रयोगःऽओं तत्सवितुर्वरेण्यं भूः ।
ओं भर्गो देवस्य धीमहि भुवः ।
ओं धियो यो नः प्रचोदयात्सुवः ॥
ओं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि भूः ।
ओंधियो यो नः प्रचोदयात्भुवः ॥
ओंतत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्सुवःऽइति ॥११॥
कुमार उत्तरेण मन्त्रेणोत्तरमोष्ठमुपस्पृशते ॥ आपस्तम्बगृह्यसूत्र ११.१२ ॥
टीकाः
अनुकूलावृत्ति ११.१२
अथ तत्रैवासीनः<कुमारः>उत्तरेण मन्त्रेणऽवृधमसौ सोभ्येऽत्यनेन स्वय<मुत्तरमोष्ठमुपस्पृशते ।
>अप उपस्पृशति ।
ओष्ठयो र्द्वित्वातुत्तरमिति विशेषणम् ।
मन्त्रग्रहणमुत्तरशब्दस्य दिग्वाचिताशङ्का मा भूदित्येवमर्थम् ।
मन्त्रे असावित्यनेन प्राणोऽभिधीयते नाचार्यो नापि माणवकः ।
तेन नामनिर्देशो न कर्त्तव्यः ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.१२
आचार्यवाचितेनऽअवृधमसौ सौम्यऽइत्यनेन<मन्त्रेण कुमारः स्वीयत्तमोष्ठ>मुपस्पृशति ।
छान्दसमात्मनेपदम् ।
असावि त्यत्र च नास्ति नामग्रहणम्, प्राणाभिधानत्वात् ।
ऽश्यावान्तपर्यन्तावोष्ठावुपस्पृश्याचामेत्ऽ(आप.ध.११६१०.) इति वचनात्
आचमनं तु कर्तव्यम् ॥१२॥
कर्णावुत्तरेण ॥ आपस्तम्बगृह्यसूत्र ११.१३ ॥
टीकाः
अनुकूलावृत्ति ११.१३
<उत्तरेण>मन्त्रेण"ब्रह्मण आणी स्थ"इत्यनेन ।
सकृन्मन्त्रः ।
कर्णाविति द्विवचनयोगात्क्रमेणोपस्पर्शनम् ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.१३
स एव युगपद्धस्तद्वयेन स्वीयौ <कर्णौ>स्पृशति ।
<उत्तरेण>ऽब्रह्मण आणी स्थःऽइति द्विवचनलिङ्गेन ॥१३॥
१४ दण्डग्रहणम् ।
दण्डमुत्तरेणाऽदत्ते ॥ आपस्तम्बगृह्यसूत्र ११.१४ ॥
टीकाः
अनुकूलावृत्ति ११.१४
<उत्तरेण> मन्त्रेणऽसुश्रवस्सुश्रवसऽमित्यनेन ॥१३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.१४
<उत्तरेण>ऽसुश्रवःऽइत्यनेन ॥१४॥
अथ वर्णक्रमेण त्रिभिस्सूत्रैर्दण्डानां गुणविधिमाह
१५ वर्णविशेषपुरस्कारेण दण्डविशेषविधानम् ।
पालाशो दण्डो ब्राह्मणस्य नैय्यग्रोधस्स्कन्धजोऽवाङ्ग्रो राजन्यस्य बादर औदुम्बरो वा वैश्यस्य ॥ आपस्तम्बगृह्यसूत्र ११.१५ ॥
टीकाः
अनुकूलावृत्ति ११.१५
राजन्यवैश्ययोः विशेषविधानादेव सिद्धे ब्राह्मणग्रहणं अयमपि विधिर्र्वणसंयुक्तौ यथा स्यादिति ।
तेनऽवार्क्षो दण्डऽइत्ययं विकल्पो ब्राह्मणस्यापि भवति ।
इतरथा राजन्यवैश्ययोरेव स्यात्तयोरेव वर्णसंयुक्तं विधानमिति कृत्वा ॥१४॥
न्यग्रोधस्य विकारो <नैय्यग्रोधः ।
>स्कन्धे जातः<स्कन्धजः> ।
अवाचीनाग्रः<अवाङग्रः> ।
ङ्कारपाठश्छान्दसः ॥१५॥
बदर्या विकारो <बादरः>वृक्षप्रकरमातुदुम्बरो वृक्षः, न ताम्रम् ॥१६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.१५
<पालाशः>पलाशवृक्षस्य विकारः ।
एवमुत्तरेष्वपि विग्रहः ।
स्कन्धे जातः<स्कन्धजः ।
अवाङ्ग्रः>अवाचीनमग्रं यस्य दण्डस्य ॥१५॥
वार्क्षो दण्ड इत्यवर्णसंयोगेनैक उपदिशन्ति ॥ आपस्तम्बगृह्यसूत्र ११.१६ ॥
टीकाः
अनुकूलावृत्ति ११.१६
वृक्षस्य विकारो <वार्क्षः ।>
यज्ञियस्य वृक्षस्य इति कल्पान्तरे ।
पूर्वो विधिर्र्वणसंयुक्तः, अयं तु सर्वसाधारणो न केनचित्
वर्णविशेषेण संयुज्यते ।
अत्र च सामयाचारिक एव दण्डविधिस्सर्वचरणार्थः सन्निहानूद्यते नैय्यग्रोधादिषु मन्त्रप्रापणार्थम् ।
अन्यथा पालाशस्यैव मन्त्रेणादानं स्यात्तूष्णीमन्येषाम् ।
ऽसुश्रवःऽइत्यस्य पालाशाभिधानत्वात् ।
"देवा वै ब्रह्मन्नवदन्त तत्पर्ण उपाशृणोत्सुश्रवा वै नामेति"(तै.सं.३५७) वार्क्षो दण्ड इत्वेतावतैव सिद्धे अवर्णसंयोगेनेति वचने कल्पान्तरयोरसंभेददर्शनार्थम्यदि वर्णसंयुक्तः कल्पः प्रक्रान्तः स एवासमावर्तनात्कर्तव्य इति ॥१७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.१६
<वार्क्षः>वृक्षस्य माज्ञियस्य विकारः, न तु वेणुवेत्रादेः ।
<अवर्णसंयोगेन>सर्ववर्णानामविशेषेणेत्योक<उपदिशन्ति> ।
अत्र यद्यपिऽतत्पर्ण उपाश्रृणोत्सुश्रवा वै नामऽ(तै.सं.३५७) इत्यर्थवादेन मन्त्रस्थसुश्रवश्शब्दस्य पालाशाभिधानलिङ्गत्वातनेन मन्त्रेण नैय्यग्रोधादिदण्डानामप्युपादने लिङ्गविरोधः तथापिऽदण्डमुत्तरेणादत्तेऽइति श्रुतिप्राबल्यात्लिङ्गं बाधित्वानेनैव सर्वदण्डानामुपादानम् ।
धर्मशास्त्रेऽपालासो दण्डो ब्राह्मणस्यऽ(आप.ध.१.२.३८)इत्यादि पुनर्विधानं चऽत्रैविद्यकं ब्रह्मचर्य चरेत्ऽ (आप.ध.१.१.२८) इत्युपनयनकालातिपत्तिप्रायश्चित्तानुष्ठानेऽपि तत्तद्वर्णेन तत्तद्दण्डधारणार्थम् ।
केचित्तत्रैव सर्वचरणार्थ विहितानां दण्डानां गृह्येऽनुवादः सर्वेषामुपादानेऽपि श्रुत्यैतन्मन्त्रविधानार्थ इति ॥१६॥
१६ स्मृतवाचनादि, आदित्योपस्थानं च ।
स्मृतं च म इत्येतद्वाचयित्वा गुरवे वरं दत्वोदायुषेत्युत्थाप्योत्तरैरादित्यमुपतिष्ठते ॥ आपस्तम्बगृह्यसूत्र ११.१७ ॥
टीकाः
अनुकूलावृत्ति ११.१७
अथ दण्डमादाय तत्रैवासीनः कुमारः<स्मृतञ्च म इत्येतत्>व्रतसंकीर्तनमाह ।
ततो <गुरवे वरं> ददाति ।
तत<उदायुषेति> मन्त्रेणोत्तिष्ठेत्<उत्तरैर्मन्त्रैरादित्यमुपतिष्ठतेऽ>तच्छक्षुऽरित्यादिभिःऽसूर्य दृशेऽइत्यवमन्तैः ।
व्रतसंकीर्तनादि पदार्थचतुष्टयस्य कुमार एव कर्ता ।
हेत्वभिधानं तूभयत्राविवक्षितंवाचयित्वोत्थाप्येति च ।
विवक्षिते तु तस्मिन् वरदाने उपस्थाने चाऽचार्य एव कर्ता स्यात् ।
तस्मादर्थप्राप्तस्य हेतुव्यापारस्यानुवादः ॥१८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.१७
अथाचार्यःऽस्मतं च मेऽइत्येतन्मन्त्रजातं कुमारं वाचयति ।
तत्राष्टौ मन्त्रास्समानोदर्कअश्शेषो नवमः ।
तेषां प्रत्यगाशिष्ट्वादेव वाचने प्राप्ते वाचयित्वेति पुनर्वचनं वाचनवरदानयोः नैरन्तर्यार्थम् ।
अथ<गुरवे> आचार्याय कुमारो वरं गांऽगुरो!वरं ते ददामिऽइति ददाति ।
अग्न्याधानेऽगौर्वै वरःऽ(आप.श्रौ.४११४) इत्युक्तत्वात् ।
आचार्यस्तु सप्तदशकृत्वोऽपान्य होतॄणां दशमानुवाकस्यऽदेवस्य वाऽ इत्यादित आरभ्यऽदेवि दक्षिणेऽइत्येवमन्तमुक्त्वाऽरुद्राय गां तेनामृतत्वमश्याम्ऽइत्यादि सन्धायऽउत्तानस्त्वाङ्गीरसः प्रतिगृह्णातुऽ(तै.आ.३१०) इत्येवमन्तेन श्रौतवत्प्रतिगृह्णाति॑ुपनयनं विद्यार्थस्य श्रुतितस्संस्कारःऽ(आप.ध.११ ९)
इति धर्मशास्त्रवचनात् ।
ततः कुमारंऽउदायुषाऽइत्युत्थाप्य इदं च वाचयति ।
अथ कुमारःऽतच्चक्षुर्देव हितम्ऽइत्यादिभिराचार्यवाचितैर्दशभिर्मन्त्रैरादित्यमुपतिष्ठते ।
अत्र वाचयित्वेत्यादेः क्त्वाप्रत्ययस्य, क्रियाविधानमात्रे तात्पर्य, न तु समानकर्तृकत्वेऽपि ।
ज्ञापितं चैत्ऽयोक्त्रं विमुच्य तां ततः प्र वा वाहयेत्ऽ(आप.गृ.५१३) इत्यत्र अथवा व्यवधानेन सम्बन्धः॑ाचार्यस्स्मृतादि वाचयित्वाऽउदायुषाऽइत्युत्थाप्यऽयं कामयेतऽइत्यादि कुर्यात् ।
कुमारस्तु गुरवे वरं दत्वोत्तरैरादित्यमुपतिष्ठते ।
केचित्स्मृतसङ्कीर्तनादि पदार्थचतुष्टयमपि कुमारकर्तृकम् ।
वाचयित्वोत्थाप्येति तु णिजर्थो हे तुरविवक्षितःऽअन्यथा त्वसमानकर्तृकत्वात्वरदानमुपस्थानं चाचार्यकर्तृकं स्यात्तथा गुरुग्रहणं चौलादौ ब्रह्मणे वरदानार्थमिति ॥१७॥
अथ काम्यमाह
१७ उपनयने काम्यविधिः ।
यं कामयेत नायम (यं म) च्छिद्येतेति तमुत्तरया दक्षिणे हस्ते गृह्णीयात् ॥ आपस्तम्बगृह्यसूत्र ११.१८ ॥
टीकाः
अनुकूलावृत्ति ११.१८
<यं>किमारं उपनेती<कामयेत>गुरुः, किमिति?अयं मत्तो <न छिद्येत> न वियुज्येत मदधीन एव सायादासमावर्थनादिति तमेतस्मिन् काले दक्षिणे हस्ते गृह्णीयात्<उत्तरयर्चा>ऽयस्मिन् भूतमिऽत्येतया ।
नामनिर्देशः सबुध्या ।
काम्योऽयं विधिः न नित्यः ।
एतदेव ज्ञापकमासमावर्तनात्नोपनेतुरेव समीपे वर्तितव्यमिति ॥१९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.१८
<यं> कुमारं अयमासमावर्तनान्मत्तो न च्छिद्येन न वियुच्येतेति<कामयेत, तमुत्तरया>ऽयस्मिं भूतम्ऽइत्यनयर्चा सम्बुध्द्या च नाम गृहीत्वा<दक्षिणे हस्ते गृह्णीयात्>यद्यमाचार्यश्चतुर्वेदी सर्वशास्त्रवितध्यापयितुं व्याख्यातुं च शक्नोति ॥१८॥
त्र्यहमेतमग्निं धारयन्ति ॥ आपस्तम्बगृह्यसूत्र ११.१९ ॥
टीकाः
अनुकूलावृत्ति ११.१९
एतमुपनयनाग्निं व्यहं धारयन्ति अविनाशिनं कुर्वन्ति पित्रादयः ॥२०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.१९
स्पष्टमेतत् ॥१९॥
१८ ब्रह्मचर्यनियमविधिः ।
क्षारलवणवर्जनं च ॥ आपस्तम्बगृह्यसूत्र ११.२० ॥
टीकाः
अनुकूलावृत्ति ११.२०
क्षारलवणयोर्र्वजनं भवति भोजने त्र्यहम् ।
अस्य ब्रह्मचारिणः सामयाचारिकः प्रतिषेधः सार्वकालिकः ।
अयं तु त्र्यहसम्बन्धः ।
तयोर्विकल्पः ।
मध्वादिप्रतिषेधस्तु सामयाचारिको नित्यमेव भवति ॥२१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.२०
त्र्यहं क्षारलवणयोर्र्वजनं च भवति ।
अत्र च त्र्यहमिति नियमाद्धर्मशास्त्रेऽयथा क्षारलवणमधुमांसानिऽ(आप.१४६)ऽइत्यनेन क्षारलवणयोर्द्वयोर्निषेधः ।
त्र्यहादूर्ध्व पाक्षिकः मध्वादेस्तु नित्यएव ॥२०॥
१९ समिदाधानम् ।
परि त्वे ति परिमृज्य तस्मिन्नुत्तरैर्मन्त्रैस्समिध आदध्यात् ॥ आपस्तम्बगृह्यसूत्र ११.२१ ॥
टीकाः
अनुकूलावृत्ति ११.२१
तमुपनयनाग्निंऽपरि त्वेऽत्यनेन मन्त्रेण<परिमृज्य> सर्वतो मार्जमुदकेन कृत्वा<उत्तरैर्मन्त्रैः>ऽअग्नये समिधऽमित्यादिभिः द्वादशभिः प्रतिमन्त्रं समिधो नित्यमादध्यात्ब्रह्मचारी ।
ऽसायं प्रातऽ(आप.ध.१४१६) रिति विशेषः सामयाचारिकः प्रत्येतव्यः ।
ऽसायमेवाग्निपूजेत्येकेऽ(आप.ध.१४१७) इति च ।
अयं तूपदेशोऽस्मिन् काले प्रारम्भार्थः ।
तेन प्रातरुपक्रमं समिदाधानं सायमपवर्गम्
पक्षान्तरे सायमेवोपक्रमः, नान्यस्मिन् काले ।
तत्र यथाकामी प्रक्रमेत ।
अधिकारादेव सिद्धे तस्मिन्निति वचनं त्र्यहादूर्द्वमपि तस्मिनुपनयनाग्नावेव समिदाधानं यथा स्यादिति ।
तेन नित्यधारणमप्यस्य विकल्पेन साधितं भवति ।
व्याहृतिभिरप्यन्ते चतस्रस्समिध आदधाति ।
तत्त्प्रायश्चित्तत्वेन द्रष्टव्यम्, कल्पान्तरदर्शनाच्च ।
ऽयत्ते अग्ने तेजःऽइत्यादिभिरुपस्थानं समाचाराद्भसित दारणम् ॥२२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.२१
ऽपरित्वाग्नेऽइत्यग्निं <परिमृज्य>परिसमूह्य, तस्मिनुपनयनाग्नौ यावद्धारण<मुत्तरैर्मन्त्रै>र्द्वअदशभिःलऽअग्नये समिधमाहार्षऽइत्यादिभिः प्रतिमन्त्रमेकैकां समिधमादध्यात् ।
पुनश्चान्ते तूष्णीं परिसमूहनम् ।
अनन्तरमुभयस्तूर्ष्णीं समन्तं परिषेचनं, स्मृत्यन्तरात्
आचाराच्च ।
एतच्च समिदाधानं पूर्व काष्ठैरग्निमिद्ध्वा कार्यम्॑धर्मशास्त्रेऽअग्निमिद्ध्वा परिसमूह्य समिध आदध्यात्ऽ(आप.ध.१४ १६)
इति वचनात् ।
परिसमबहनस्यऽपरित्वेति परिमृज्यऽइति विधिः ।
तथा धर्मशास्त्रे तुऽसमिद्धमग्निं पाणिना परिसमूहेन्न समूहन्याऽ (आप.ध.१४१८) इति गुणार्थोऽनुवादः ॥२१॥
एवमग्निपूजापरशब्दं समिदाधानं सविधिकमभिधाय, इदानीं तसेयैवाधिकारसम्बन्धं गुणान्तरं चाह
एवमन्यस्मिन्नपि सदाऽरण्यादेधानाहृत्य ॥ आपस्तम्बगृह्यसूत्र ११.२२ ॥
टीकाः
अनुकूलावृत्ति ११.२२
यथास्योपनयनाग्नेः नित्यधारणपक्षे समिधादानं नित्यत्वेन चेदितं, एवं त्र्यहं धारणपक्षे त्र्यहादूर्ध्व<अन्यस्मिन्नप्य>ग्नाविदं कर्म कर्तव्यमित्यर्थः ॥२३॥
अरण्यग्रहणात्ग्राम्याणां फलवतां वृक्षाणां प्रतिष्धः ।
आहृत्येति वचनातिन्यैराहृतानां प्रतिषेधः ।
<एधाः>काष्ठानि ।
एधग्रहणमग्नेराहरणशङ्कानिवृत्यर्थम् ।
सामयाचारिकेषु विधिः गुर्र्वथ ब्रह्मचारिणस्समिदाहररणं विधत्ते ।
इदं त्वात्मार्थम् ॥२४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.२२
एवमुक्तेन विधिना सदा उपनयनप्रभृत्यासमावर्तनातहरहस्सायं प्रातः, सायमेव वा समिदाधानं कर्तव्यम् ।
एतच्च त्र्यहा दूर्ध्वमन्यस्मिन्नपि लौकिकेऽग्नौ भवति ।
न तूपनयनाग्निर्नष्ट इति नित्यस्य समिदाधानस्य लोपः ।
समिधश्चारण्यादेवाहृत्याधायाः ।
यच्च धर्मशास्त्रेऽसायं प्रातर्यथोपदेशम्ऽइतिऽसायमेवाग्निपूजेत्येकेऽ(आप.ध.१४१६,१७) इति स विकल्पविध्यर्थोऽनुवादः ।
केचित्नित्यस्य समस्समिदाधानस्य अत्रोपदेशोऽस्मिन् काले प्रारम्भार्थः ।
ततश्चेदं प्रातरुपक्रमं सायमपवर्गम् ।
सायमेवेति पक्षे तु सायमेवोपक्रमो नान्यत्र ।
तत्र यथाकामी प्रक्रमेत ।
तथा तस्मिन्नन्यस्मिन्नपीत्यारम्भातुपनयनाग्नेस्त्र्यहादूर्ध्वमपि विकल्पेन धारणं, तत्रैव समिदाधानं चेति ॥२२॥
उत्तरया संशास्ति ॥ आपस्तम्बगृह्यसूत्र ११.२३ ॥
टीकाः
अनुकूलावृत्ति ११.२३
अथं तं<उत्तरयर्चा>ऽब्रह्मचार्यसीऽत्येतया<संशास्ति>गुरुः संश्क्षयतीत्यर्थः यथापाठामृचा संशासनं अर्त च कथयति ।
<ब्रह्मचार्यसि> ब्रह्मचर्याश्रमं प्राप्तोऽसि ।
तस्मात्कामचारवादभक्षो मा भूः ।
बाढमिति प्रतिवचनम् ।
<अपोऽशान,>मयाननुज्ञातः
अप एवाशान, नान्यते ।
पूर्ववत्प्रतिवचनं सर्वत्रा कर्म कुरु गुरुशुश्रूषणादि ।
<मा सुषुप्थाः>दिवा स्वापप्रतिषेधः ।
"दिवा मा स्वाप्सी (आश्व.गृ.१२२२) तिर्येवाश्वलायनः ।
अपर आहअथ यः पूर्वोत्थायी जघन्यसंवेशी तमाहुर्न स्वपितीति ।
एवं विधोऽत्र स्वापाभाव इति ।
<भ्क्षाचर्य>चरेति नियमेन भैक्षविधिः ।
<आचार्याधीनो> <भव>मातापित्रोरपि वशं त्यक्त्वा आचार्यवशे वर्तस्वेत्यर्थः ।
संशासनानन्तरं भिक्षाचरणम् ।
अत्र बोधायनः"अथास्मा अरिक्तं पात्रं प्रयच्छात्राह मातरमेवाग्रे भिक्षस्वेति" ।
(भौ.गृ.२७)
आश्वलायनस्तु"अप्रत्याख्यायिनमग्रे भिक्षेताप्रत्याख्यायिनीं वा"(आश्व.गृ.१२२७) इति ॥२५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.२३
ऽब्रह्मचार्यसिऽइत्यनया कुमारं<संशास्ति>शिक्षयति ।
अथ सशासनार्थज्ञापनाय मन्त्रार्थ उत्यते ।
<ब्रह्मचार्यसि>कामचारवा दभक्षो माभूः ।
<अपोऽशान>मयानुज्ञातोऽप एव पिब, वभुक्षां तु धारय ।
<कर्मकुरु,>अस्मदर्थ कर्म मयानुक्तोऽपि कुरु, मा सुषुप्थाः पूर्वोत्थायी जघन्यसंवेशी भूयाः,ऽतामाहुर्न स्वपितिऽ(आप.१४२८) इत्युक्तत्वात्, मा दिवा स्वाष्सीरिति वा ।
<भिक्षाचर्य चर,>निमन्त्रणादिना भुञ्जानोऽप्यस्मदर्थ भैक्षमाचर ।
<आचार्याधीनो भव,>मयाननुज्ञातो याजनादिकर्म मा कार्षीरिति ।
अत्र चासीतिछान्दसो लकारः, सुषुप्था इति रूप च ।
संशासनेषु च सर्वेषु कुमारो <बाढम्ऽ>ऽएवं करोमिऽइति प्रतिवचनं दाप्यः ।
संशासनान्ते च भिक्षाचरणम् ।
अथास्मा अरिक्तं पात्रं प्रयच्छन्नाहमातरमेवाग्रे भिक्षस्वेति (बौ.गृ.२५४०) इति बौधायनगृह्यात् ।
२० पालाशकर्म ।
वासश्चतुर्थीमुत्तरयाऽदत्तेऽन्यत्परिधाप्य ॥ आपस्तम्बगृह्यसूत्र ११.२४ ॥
टीकाः
अनुकूलावृत्ति ११.२४
अथ त्रिरात्रे निवृत्ते <चतुर्था>रात्रिं सप्तम्यर्थेद्वितीया ।
चतुर्थ्यामित्यर्थः ।
तत्र किम्?<यद्वासः>कुमारस्य धार्य सद्यःकृत्तोतं परिधापितं तदाचार्य आदत्ते <उत्तरयर्चा>"यस्य ते प्रथमवास्य"मित्येतया ।
<अन्यद्वासः>परिधाय ।
त्र्यहे तु तस्मिन्नियमेन सद्यःकृत्तोतमेव ।
चतुर्थीमित्यत्र न रात्रिर्विवक्षिता ।
किं तर्हि?अहोरात्रसमुदायः ।
तत्राहन्यवादानं वाससःऽउदगयनपूर्वपक्षाहःऽइति नियमात् ।
मेखलामजिनं दण्डमुपवीतं कमण्डलुम् ।
अप्सु प्रास्य विनष्टानि धार्याण्यन्यानि मन्त्रवत् ॥२६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.२४
छतुर्थीमिति सप्तम्यर्थे द्वितीया ।
चतुर्थ्या रात्रौ चतुर्थाहोरात्रे अहन्येवऽउदगयनपूर्वपक्षाहःऽ(आप.गृ.१२) इति नियमात् ।
<वासः>
उपनयनकाले यत्परिधापितं तदाचार्यः सप्तशकृत्वोऽपान्यऽयस्य ते प्रथमवास्यम्ऽइत्यनयैव स्वीकरोति, न तु सावित्रेण॑त्र विशेषविधेर्बलीयस्त्वात् ।
उपदेशमतं तुऽदेवा वै वरुणमयाजयन्, (तै.ब्रा.२२५) इति लिङ्गादयज्ञेषु न प्रतिग्रहविधिरिति ।
एतच्चान्यद्वासः कुमारं<परिधाप्यैव>कर्तव्यम् ।
स तुऽगुरो वासस्ते ददामि, इति दद्यात् ।
एतच्चत्र्यहं मन्त्रवत्परिहितमेव वासः परिधेयम् ।
आपस्तम्बमत्या एतदन्तमुपनयनम् ॥२५॥
अथ पालाशकर्मभाष्यं लिख्यते
केचित्स्मृत्यन्तरोपसंहारेण पलाशवृक्षसमीपे पालाशं कर्म कुर्वते समानम् ।
अन्येषां च श्रद्धधानानां हितार्थ पालाशकर्मणो विधिरुच्यतेत्रीण्यहानि प्रत्यहमाममैक्षमाचरेत् ।
चतुर्थऽहन्यन्नसंस्कारेण संस्कृत्याचार्येण सह प्राचीमूदीचीं वा दिशमुपनिष्क्रम्य पूर्वेणोत्तरेण वा पलाशवृक्षं त्रीण्युदगपवर्गाणि स्थण्डिलानि कल्पयित्वा तेषु यथाक्रमं प्रत्यङ्मुखः प्रणवश्रद्धामेधाभ्योर्ऽघ्यपाद्याचमनस्नानवस्त्रगन्धमाल्यधूपदीपबलींश्च दत्वाथोपतिष्ठते ।
ऽयश्छन्ददसाम्ऽइत्यनेनऽश्रुतं मे गोपायऽ(तै.उ.१४) इत्यन्तेन प्रणवम् ।
ऽश्रद्धयाग्निः समिध्यतेऽ(तै.ब्रा.२८८) इति सूक्तेन श्रद्धाम् ।
ऽमेधा देवीऽ(तै.उ.४४१) इत्यनुवाकेन मेधाम् ।
ततः पलाशमूले दण्डं विसृज्य अन्यदण्डमादाय सहाचार्यो गृहमागच्छतीति ॥
चतुर्थे पटलेपीत्थं यथाभाष्यं यथामति ।
कृतं सुदर्शनार्येण गृह्यतातपर्यदर्शनम् ॥
सुबद्धं दुर्लभं भाष्यं भाष्यार्थश्च सुदुर्ग्रहः ।
अतोऽनुकम्ब्या विद्वद्भिः मन्दबुद्धिश्रुता वयम् ॥
इति श्रूसुदर्शनाचार्यकृतौ गृह्यसूत्रतात्पर्यदर्शने एकादशः खण्डः ॥
समाप्तश्चतुर्थः पटलः ॥
====================================================================================
अथोपाकर्मोत्सर्जनपटलः
७ उपाकर्मोत्सर्जनप्रकरणम्
१ उपाकर्मकालविधानम् ।
अथात उपाकरणोत्सर्जने व्याख्यास्यामः ॥१॥
अथ शब्दः आदौ मङ्गलार्थः प्रकरणान्तरत्वात् ।
अतश्शब्दौ हेतौ ।
यस्मादेतयोर्व्याख्यानमन्तरेण प्रयोगो न शक्यते कर्तु अत एतो व्याख्यास्यामः इति ॥१॥
श्रवणापक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वाध्यायोपाकर्म ॥२॥
<श्रवणापक्षे>श्रवणस्य मासस्य पूर्वपक्ष इत्यर्थः ।
<ओषधीषु जातासु>प्रवर्षणाद्रूढासु<हस्तेन नक्षत्रेण पौर्णमास्यां> वा श्रावणस्य कर्तव्यमित्यर्थः ।
अध्यायस्योपाकरणं<अध्यायोपाकर्मप्रारम्भ>इत्यर्थः ।
ओषधीषु जातास्विति वचनादाजातास्वोषधीषु प्रोष्ठपद्यां भवति ।
तथा च कल्पान्तरंश्रावण्यां पौर्णमास्यां प्रोष्ठपद्यामाषाढ्यां वेति ॥२॥
२ काण्डऋष्यादिभ्यो होमः ।
अग्नेरुपसमाधानाद्याज्यभागान्तेऽवारब्धेषु काण्डऋषिभ्यो जुहोति सदसस्पतये सावित्र्या ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा
उपहोमे वेदाहुतीनामुपरिष्टात्सदसस्पतिमित्येके ॥३॥
टीकाः
अनुकूलावृत्ति ११.२४
एवमुपाकरणस्य काल उक्तः ।
अथ प्रयोगःग्नेरुपसमाधानादि तन्त्रं प्रतिपद्यते ।
अग्निश्च श्रोत्रियागाराद्वाहार्यः, मन्थ्यो वा, न त्वौपासनो बहूनामत्र सहत्वाभावात् ।
भार्यायाश्च सहत्वाभावात्वचनमत्रप्रयोग? ।
विद्यासंस्कारा४ हमिदं कर्म वेदसंयुक्तम् ।
तत्राज्यभागान्तेऽन्वारब्धेषु शिष्येषु प्रधानाहुतीर्जुहोति ।
काण्डऋषिभ्यः प्रजापतिस्सोमोऽग्निर्विश्वदेवा ब्रह्मा स्वयंभू इति पञ्च काण्डऋषयः ।
तत्र प्रजापतये स्वाहेति होमः ।
प्रजापतये काण्डऋषये स्वाहेत्यन्ये ।
ऽसदसस्पतिमद्भुतऽमित्यनेन सदसस्पतये जुहोति ।
ऽतत्सवितुऽरित्येतया सावित्र्ये, कल्पान्तरे तथा दर्शनात् ।
ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति चतस्रो वेदाहुतयः
तत उपहोमाः ।
जयादि प्रतिपद्यते इत्यर्थः ।
एक आचार्या वेदाहुतीनामुपरिष्टात्सदसस्पतिं होतव्यं मन्यन्ते ॥३॥
३ आदितस्त्रयाणामनुवाकानां प्रथमोत्तमयोर्वाध्ययनम् ।
परिषेचनान्तं कृत्वा त्रीननुवकानादितोऽधीयीरन् ॥४॥
तन्त्रशेषं समाप्य वेदस्या<दितः त्रीननुवाकानधीयीरन्>ऽइषे त्वोर्जेत्वाऽऽआप उन्दन्तुऽऽउद्धन्यानंऽऽअनुमत्यै पुरोडाशमष्टाकपालं निर्वपति धेनुर्दक्षिणाऽ ।
एते प्राजापत्यसौम्याग्नेयवैश्वदेवानामादितश्चत्वारोऽनुवाकाः ।
ऽसह वै देवानां चासुराणां चेऽति स्वयंभुवः ।
एतेषां वा पञ्चानां अनुवाकानां अध्ययनम् ॥४॥
प्रथमोत्तमावनुवाकौ वा ॥५॥
यदि वा वेदस्य प्रथमोत्तमौ अनुवाकावधीयीरन्ऽइषे त्वाऽऽभृगुर्वैवारुणिऽरिति ॥५॥
त्र्यहमेकाहं वा क्षम्याधीयीरन् ॥६॥
यस्मिन्नहन्न्युपाकरणं कृतं तत आरण्य<त्र्यहमेकाहं वा क्षम्य>विरम्याधीर्यीरन् ।
उपाकृते त्र्यहमेकाहं वानध्याय इत्यर्थः ।
तत्र काण्डोपकरणे एकाह पारायणोपाकरणे त्र्यहः ।
अधीयीरन्निति वचनं उपाकृत्यत्र्यहादूर्ध्व नियमेनाध्ययनं यथा स्यादिति ॥६॥
यथोपाकरणमध्यायः ॥७॥
येन प्रकेरेणोपाकरणं कृतं तथाध्ययनं कर्तव्यम् ।
यदि सर्वेभ्यः काण्डऋषिभ्यो हुत्वा वेदादौ त्रयाणामनुवाकानामारम्भः कृतः प्रथमोत्तमयोर्वा तथा सति यथाध्यायमध्ययनं कर्तव्यम् ।
यदि तु काण्डादीनां सर्वेषामारम्भः तथा सति यथाकाण्डमध्येतव्यम् ।
यस्तु कृत्स्नं वेदमरण्येऽनुवाक्यानि परिहाप्य प्रागुत्सर्जनादध्येतुं न शक्नोति तस्य पृथक्वाम्डोपाकरणम् ।
तत्र तस्यैव काण्डस्यैक ऋषिः सदसस्पतिः सावित्री वेदाहुतय उपहोमाः परिष्चनान्ते तस्यैव काण्डस्यानुवाकं एकाहमनध्यायः तस्यैव काण्डस्याध्ययनम् ॥
४ उत्सर्गकालः ।
तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः ॥८॥
एवमुपाकृत्यानध्यायवर्ज वेदं काण्डं वारण्येऽनुवाक्यानि परिहाप्याधीयानस्य<रोहिण्यामुत्सर्गः>कर्तव्यः ।
पौर्णमास्यां वा तैषीपक्षस्यैव ।
तत्रास्मिन्कर्मणि होमोऽपि भवति ।
कथं भवति ?उपाकरणवत्समानविधानादुपाकरणवद्गृहे हुत्वैव क्षम्यमाणं कर्म प्रतिपद्यते ।
हिरण्यकेशिनां तु तर्पणादूर्ध्व उदकान्ते होमः ॥८॥
५ तत्र तर्पणीयेभ्य ऋषिभ्य आसनपरिकल्पनम् ।
प्राचीमुदीचीं वा सगणो दिशमुपनिष्क्रम्य यत्रापः पुरस्तात्सुखाः सुखावगाहा अवकिन्यः शङ्खिन्यः तासामन्तं गत्वाभिषेकान् कृत्वा सुरभिमत्याब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिरिति मार्जयित्वान्तर्जलगतोऽघमर्षणेन त्रीन् प्राणायामान् धारायित्वोत्तीर्याऽचम्योपोत्थाय दर्भानन्योन्यस्मै सम्प्रदाय शुचौ देशे प्राक्कूलैर्दर्भैरासनानि कल्पयन्ति ॥९॥
<सगण>सशिष्यः<यत्रापः पुरस्तदिति यत्र देशे> पूर्वस्यां दिशि अपःपश्यतीत्यर्थः ।
<सुखाः>सुखस्पर्शाः ।
<सुखावगाहाः>सुतीर्थाः
यास्ववका भवन्ति ताः<अवकिन्यः> तथा शंखिन्यः तासामन्तं<समीपं> गत्वा<बिषेकान् कुंभैः कृत्वा ततः> सुरभिमत्या<दधिक्रावम्ण> <इत्ये>तयाब्लिङ्गाभिःऽआपोहि ष्ठा मयो भुवऽइति तिसृभिः<वारुणीभिः> अवते हेड उदुत्तममिमं मे वरुण तत्वायीमीत्येताभिः
<हिरण्यवर्णीयाभिःऽ> <हिरण्यवर्णाश्शुचयः पावकाऽ> <इति> चतसृभिः पावमानीभिः पवमानः सुवर्जन, इत्येतेनानुवाकेन<मार्जयित्वा>
अभ्युक्ष्य प्रतिम्त्रं क्रियाभ्यावृत्तिः प्रतिपादमित्यन्ये ।
ततोऽन्तर्जलगतः जलस्यान्तर्निमग्नोऽघमर्षणेन तृचेनऽऋतं च सत्यं चेऽत्यघमर्षणदृष्टेन<त्रीन् प्राणायामान् धारयति ।
सर्वत्र सगण इत्येव ।>
अप्सु निमड्यैतमनुवाकं सकृज्जपति स एकः प्राणायामः ।
एवं त्रिर्धारयित्वोत्तीर्य गृह्यान्तरदर्शनात्प्रक्षालितोपदातान्याक्लिष्टानि वासांसि परिधायाचम्योत्थाय द्वौ संभूय<दर्भानन्योन्यस्मै संप्रदाय>ततः शुचौ देशे उदकान्त एव स्थण्डिलानि पृथक्कृत्वा दर्भैः प्रागग्रैः<आसनानि कल्पयन्ति> ॥९॥
केभ्यः?देवेभ्यः पितृभ्यः ऋषिभ्यश्च ।
ब्रह्मणे प्रजापतये बृहस्पतयेऽग्नये वायवे सूर्याय चन्द्रमसे नक्षत्रेभ्यः ऋतुभ्यस्संवत्सराय इन्द्राय राज्ञे सोमाय राज्ञे यमाय राज्ञे वैश्रवणाय राज्ञे वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यस्साध्येभ्यो मरुद्भ्य ऋभुभ्यो भृगुभ्योऽङ्गिरोभ्य इति देवगणानाम् ॥१०॥
<देवगण इति> देवानां च तद्गणानां चेत्यर्थः ।
अत्र ब्रह्मादि दश देवताः ।
इन्द्रादयः पञ्च राजानः ।
वस्वादयः दश देवगणाः ।
सर्वान्ते कल्पयन्तीति वचनात्सर्वत्र कल्पयामीत्यस्य सम्बन्धः ।
ब्रह्मणे कल्पयामि प्रजापतये कल्पयामीति ।
एतानि पञ्चविंशतिरासनान्युदगपवर्गाणि ।
तर्पणं चैषां देवेन तीर्थेन भवति ॥१०॥
६ तर्पयितव्याः देवगणाः ऋषिगणाश्च ।
अथर्षयः विश्वामित्रो जमदग्निर्भरद्वाजो गौतमोऽत्रिर्वसिष्ठः कश्यप इत्येते सप्तर्षयः, सप्तर्षिभ्यः कल्पयित्वा दक्षिणतोऽगस्त्याय कल्पयन्ति ॥११॥
देवानामुत्तरतः सप्तर्षीणामासनानि, दक्षिणतोऽगस्त्याय, कश्यपादूर्ध्वमरुन्धत्याः, गृह्यान्तरदर्शनात् ॥११॥
ततो यावदेकवैद्यन्तैः कल्पयन्ति ॥१२॥
<ततः>अनन्तरं यावन्तः एकवेद्यन्ता समानवेद्यन्ताः?सप्तर्षिभिः, तेभ्यः कल्पयन्ति ।
के पुनस्ते?कृष्णद्वैपायनादय ऋषयः ।
एतदुक्तं भवतिकृष्णद्वैपायनाय जीतूकर्ण्याय तरुक्षाय तृणीबिन्दवे सोमशुष्मिणे सोमशुष्काय वर्मिणे सनद्वाजाय बृहदुक्थाय वामदेवाय वाचरत्नाय हरितयज्वनः उदमयाय गौतमाय ऋणञ्जयाय कृत्जयाय बभ्रवे त्र्यरुणाय त्रिधातवे त्रिवर्षाय शिबिन्ताय पराशराय वसिष्टायेन्द्राय मृत्यवे कर्त्रे त्वष्ट्रे धात्रे सवित्रे भृतश्रवसे सावित्र्यै वेदेभ्यश्चेति पृथक् ।
एते कृष्णद्वैपायनादयंश्चतुस्त्रिंशदृषयः ।
वेदाश्चत्वार इत्यष्टात्रिंशदेकवेद्यन्ताः सप्तर्षिभिः ।
केचिदथर्वाङ्गिरस इतिहासपुराणानि स४ अदेवजनान् सर्वभूतानीत्येतेषामपि वेदग्रहणेन ग्रहणमिच्छन्ति॑ कल्पान्तरे तथा दर्शनात् ॥१२॥
प्राचीनावीतानि कृत्वा दक्षिणतो वैशम्पायनाय पैङ्गये तित्तिरये उखायात्रेयाय पदाकाराय,कौण्डिन्याय वृत्तिकाराय,बौधायनाय प्रवचनकाराय, आपस्तम्बाय सूत्रकाराय, भरद्वाजाय सूत्रकाराय, सत्याषाढाय हिरण्यकेशाय, आचार्येभ्य ऊर्ध्वरेतोभ्य, एकपत्नीभ्यो वानप्रस्थेभ्यः कल्पयामीति ॥१३॥
ततः सर्वे <प्राचीनावीतानि कृत्वा>वैशम्पायनादिभ्यो द्वादशभ्य आसानानि कल्पयन्त दक्षिणतो देवानामगस्त्यस्य त ।
तत्र दक्षिणाप्रवणदेशे दक्षिणाग्रैः प्रत्यगपवर्ग(सगृ.२१९७) मिति कल्पान्तरम् ॥१३॥
७ अर्पणीयानां पितॄणामासनपरिकल्पनम् ।
अथ यथास्वं पितृभ्यः कल्पयन्ति मातामहेभ्यश्च पृथक् ॥१४॥
<यथास्वं>यस्य ये पितरः पितामाहाः प्रपितामहा मातामहाश्च मातुर्ये पितृपितामहप्रपितामहाः सर्वेभ्य उभयेभ्यःकल्पयन्तीत्यर्थः ।
प्राचीनावीतानि कृत्वा दक्षिणत इति चानुवर्तते ।
तत्र यथास्वं पित्रादीनां नामभिः कल्पनंरुद्रशर्मणे विष्णुशर्मण इति ।
अन्ये पितृभ्य इत्येव कल्पयन्ति ।
किमर्थ तर्हि यथास्वमिति?जीवपितृकाणामिहापि पिण्डदानवदुपायविशेषप्रतीत्यर्थः ॥१४॥
यज्ञोपवीतानि कृत्वा तेष्वेव देशेषु तयैवानुपूर्व्या तैरेव नामाभिर्देवानृषींश्च तर्पयन्ति वैशम्पायनप्रभृतींस्तु मातुः प्रपितामहपर्यन्तान् प्राचीनावीतिनस्तर्पयन्ति अमुं तर्पयाम्यमुं तर्पयाम्यमुं तर्पयामीति ॥१५॥
अथ कल्पान्तरे दृष्टो विशेषःमुष्मै नमोऽमुष्मै नम इति गन्धपुष्पधूपदीपैः, अमुष्मै स्वाहामुष्मै स्वाहेत्यन्नेन, अमुं तर्पयाण्यमुं तर्पयामीति फलोदकेनेति(भा.गृ.३११) (स.गृ.२१०५,६,७) ॥१५॥
अभिप्यन्ते वान्योन्यम् ॥१६॥
आप्नोतेरेतद्रूपम् ।
अभिप्या प्रार्थना ।
इहोत्सर्जने कर्मणि शिष्याणामुपाध्यायस्य च स्नानादिषु कर्मसु सह प्रवृत्तिश्चोदिता ।
सर्वत्र वहुवचननिर्देशातभिषेकान् कृत्वाऽसनानि कल्पयन्तीति ।
तत्रायं विशेषो वैकल्पिक उपदिश्यते अन्योन्यमभिप्यन्ते वा द्वौ द्वौ सम्भूयान्योऽन्यं प्रार्थयन्ते वासः प्रवृत्यर्थ न सर्वे सहेति ।
अधीत्सन्त इति पाठे ऋध्यतेरेतद्रीपम् ।
उपसर्गवशाच्च स एवार्थः ।
ये त्वधिशब्दात्परं तकारमेवाधीयते न ररेफमपि तेषां धातुर्मग्यार्थ एव ॥१६॥
८ तेषां क्रमशस्तर्पणम् । ९ पूर्ववद्ध्ययनम् ।
यज्ञोपर्वातानि कृत्वा त्रीनादितोऽनुवाकानधीयीरन् ॥१७॥
अध्ययनप्रकार उपाकरणेन व्याख्यातः ॥१७॥
काण्डादीन् प्रथमोत्तमौ वा ॥१८॥
अयमपि विकल्प उपाकरणे व्याख्यातः ॥१८॥
१० जलसमीपे दूर्वारोपणम् ।
ऽकाण्डात्काण्डात्प्ररोहन्तीऽति द्वाभ्यामुपोदके दूर्वा रोपयन्ति ॥१९॥
अथ समूलं दूर्वास्तम्बमाहृत्य तमुदकस्य समीपे <रोपयत् ।
>यथा दूर्वा प्ररोहति तथा निखनन्तिऽकाण्डात्काण्डात्प्ररोहन्तीऽति द्वाभ्यामृग्भ्यामा ।
तत्र दूर्वा इत्येकवचनश्रवणातेक एव मुख्यो निखनति तमितरेऽन्वारभेरन् ।
अन्ये प्रतिपूरुषमुच्छन्ति ॥ १९ ॥
११ जलस्य क्षोभणम्, जलादुत्तीर्याऽजिधावनम् ।
अपः प्रगाह्योदधिं कुर्वन्ति ॥२०॥
<अथापः>प्रविश्य<तत्रोदधिं कुर्वन्ति ।
>उदधिः समुद्रः तमिव क्षोभयन्तीत्यर्थः ॥२०॥
कथं तदित्याह
सर्वतः परिवार्योर्मिमन्तः कुर्वन्ति ॥२१॥
बहुभिः<परिवार्य सर्वत>स्सन्निरुध्य यथोर्मयस्तत्रोत्पद्यन्ते तथा कूर्वन्तीत्यर्तः ।
एवं त्रिः कुर्वन्ति ॥२१॥
उद्गाह्याऽतमितोराजिं धावन्ति ॥२२॥
<उद्गाह्य>उत्तीर्य<आतमितो>आश्रमजननात्<आजिं>धावन्ति ।
प्राचीमुदीचीं वा दिशमभिधावन्ति ।
तथापवर्गः ॥२२॥
१२ ब्राह्मणभोजनम् ।
प्रत्येत्याभिदानादि सक्तुभिरोदनेनेति ब्राह्मणान् भोजयित्वा वाचयति ॥२३॥
<प्रत्येत्य>गृहान् प्रविश्येत्यर्थः ।
<ईशिषः>पुण्याहाद्याः पुण्याहं स्वस्त्यृध्यतामिति वाचयित्वेति ॥२३॥
एवं पारायणसमाप्तौ च काण्डादि दूर्वारोपणोदधिधावनवर्जम् ॥२४॥
यथास्मिन् वार्षिकेऽप्यध्याये समाप्ते उत्सर्गश्चोदितः एवमेव पारायणसमाप्तावपि कर्तव्यम् ।
तत्र वर्ज्याणिकाण्डादनिमध्ययनं, दूर्वारोपणमुधिकरणमाजिझावनं चेति ॥२४॥
प्रत्येत्य ब्राह्मणभोजनादि कर्म प्रतिपद्यते ॥२५॥
काण्डादिग्रहणात्पारायणाध्ययने यथाकाण्डमेवाध्ययनम्, न तु सम्भिन्नस्य पाठस्येति केचित् ।
अन्ये तु काण्डादिग्रहणस्योपलक्षणत्वात्सर्वप्रकारस्यानुवाकाध्ययनस्य प्रतिषेधः ।
पारायणे च यथारुच्यध्ययनामित्याहुः ॥२५॥
एवमेवाद्भिरहरहर्देवानृषीन् पितॄंश्च तर्पयेत् ॥२६॥
अद्भिरिति वचनातहरहस्तर्पणमाद्भिरेव ।
तेनोत्सर्गकर्मणि पूर्वोक्तानां गन्धादीनामपि प्रवृत्तिः ।
अहरहस्तर्पणं ब्रह्मज्ञानन्तरम्, कल्पान्तरे दर्शनात् ॥२६॥
इति गृह्यसूत्रावृत्तावनाकुलायां उपाकर्मोत्सर्जनपटलः ॥
====================================================================================
अथ पञ्चमः पटलः
द्वादशः खण्डः ।
८ समावर्तनम्
पूर्वत्रोपनयनं व्याख्यातम् ।
उपनीतस्य च धर्मशास्त्रेऽअथ ब्रह्मचर्यविधिःऽ(आप.ध.१२१८) इत्यारभ्य धर्मा उपदिष्टाः ।
अध्यायकाण्डव्रतानामुपाकरणसमापनर्योर्विध्श्चऽउपाकरणे समापने च ऋषिर्यः प्रज्ञायतेऽ(आप.गृ.८१) इत्यत्र सम्पूर्णमेव व्याख्यातः
अथोजानीं वेदं व्रतानि वा पारं नीत्वा हयुभयमेव वा ॥
(याज्ञ.स्मृ.१५१) इत्यादिवचनार्थानुष्ठानेन कृतकृत्यस्य गुरुकुलात्समावृत्तस्यानुष्ठेयं समावर्तनापरपर्यायं स्नानाख्यं कर्म व्याख्यायते ।
केचित्ऽउपाकरणे समापने चऽ(आप.गृ.८१) इत्यत्रैतयोः कल्पस्याप्रसिध्धत्वात्, अवश्यमन्यत्र प्रसिद्ध आश्रयितव्य इति वदन्तः
ऽअथात उपाकरणोत्सर्जने व्याख्यास्यामः, इत्यादिकं व्रतपटलं नाम उपनयनानन्तरं व्याचक्षते ।
नैतत्॑ऽउपाकरणे समापने चऽ (आप.गृ.८१) इत्यत्रैवानयोर्विध्योर्भाष्यकारेण सम्पूर्णमेव व्याख्यातत्वात्, व्रतपटलाध्ययनस्य च विप्रतिपन्नत्वात्, भाष्ये प्रसङ्गभावाच्च ॥
१ उदयात्पूर्व गोष्ठप्रवेशविधानम् ।
वेदमधीत्य स्नास्यन् प्रगुदयाद्व्रजं प्रविश्यान्तर्लोम्ना चर्मणा द्वारमपरिधायाऽस्ते ॥ आपस्तम्बगृह्यसूत्र १२.१ ॥
टीकाः
अनुकूलावृत्ति १२.१
एवमुपनीतश्चर्तब्रह्मचर्योऽधीतवेदषडङ्गो यद्याचार्यकुलादन्यमाश्रमं प्रेप्सुर्भवति तस्य स्नानं विधिवत्भवति तदेतत्स्नानमित्युच्यते ।
स्नानं समावर्तनं तत्करिष्यान्नित्यर्थः ।
<प्रागुदयादित्या>दित्योदयो गृह्यते ।
<नैनमेतदहरादित्य>इति दर्शनात् ।
<व्रजं गोष्ठम् ।
>अन्तः
अभ्यन्तरं<लोमानि> यस्य तेन<चर्मणा>यस्य कस्यचित्मृगस्य ।
आसनवचनं निष्क्रमणप्रतिषेधार्थम् ।
वेदमित्यविवक्षितमेकवचनम् ।
वेदं वेदौ वेदान् वा<अधीत्य>पाठतश्चार्थतश्चाधिगम्येत्यर्थः ।
स्नास्यन्निति वचनं नैष्ठिकस्य उत्तरं कर्म मा भूदिति ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १२.१
वेदं मन्त्रब्राह्मणलक्षणम् ।
एकवचनं जात्यभिप्रायम्॑ऽवेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम्ऽ ॥
(म.स्मृ.३२)
इति मनुवचनात् ।
अधीत्य पाठतश्चार्थतश्चाधिगम्य, सषडङ्गं समीमांसं वेद मधीत्येत्यर्थः ।
अधीत्येति च विधिः ।
ऽवेदं व्रतानि वा पारं नीत्वा ह्यभयमेव वा ।
इत्यस्य प्रदर्शनार्थः ।
स्नास्यन् स्नानाख्यं कर्म करिष्यमाणः<प्रागुदयात्>प्रागादित्योदयात् ।
<व्रजं>गोशालां परिश्रितां<प्रविश्ये>त्त्यादि व्यक्तार्थम् ॥१॥
नैनमेतदहरादित्योऽभितपेत् ॥ आपस्तम्बगृह्यसूत्र १२.२ ॥
टीकाः
अनुकूलावृत्ति १२.२
<एनं>एतत्कर्म कुर्वाणम् ।
<एतदहः>एतस्मिन्नहनि कदाचिदपि<नाभितपेदादित्यः> ।
तेन मूत्रपुरीषादिकमपि तत्रैव व्रजे छायायामपि कर्तव्यम् ।
आदित्यग्रहणादग्नितापस्य न प्रतिषेधः ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १२.२
अस्मिन्नहनि यावदस्तमयं मूत्रपुरीषोत्सर्जनार्थमप्यसौ मण्डपाद्बहिर्न निर्गच्छेतित्यर्थः ॥२॥
२ वपनमुपनयनवत् ।
मध्यन्दिनेऽग्नेरुपसमाधानाद्याज्यभागान्ते पालाशीं समिधमुत्तरयाऽधायापरेणाग्निं कट एरकायां वोपविश्योत्तरया क्षुरमभिमन्त्र्योत्तरेण यजुषा वप्त्रे प्रदायापां संसर्जनाद्याकेशनिधानात्समानम् ॥ आपस्तम्बगृह्यसूत्र १२.३ ॥
टीकाः
अनुकूलावृत्ति १२.३
अथ तस्मिन्नहनि मध्यन्दिने कर्म प्रतिपद्यते ।
अग्नेरुपसमाधानादि ।
शम्याः ।
सकृत्पाभाणि क्षुरादिभिस्सह ।
स्वयमेव कर्ता नाचार्यः ।
आज्यभागान्तवचनं समिदाधानादेरुत्तरस्य कर्मणः कालोपदेशार्थम् ।
अनेनैव तन्त्रप्राप्तावपि सिद्धायां अघ्नेरुपसमाधानादिवचनं तन्त्रारम्भसेयैव मध्यन्दिननियमः, न कृत्स्नस्य कर्मणः ।
<उत्तरयर्चा>ऽइमं स्तोमऽमित्येतया ।
न स्वाहाकारः, जुहोतिचोदनाभावात् ।
<कटः> प्रसिद्धः<एरका>तत्प्रकृतिभूतं तृणम् ।
कशिप्वित्यन्ये ।
<उत्तरयर्चाऽ>त्र्यायुषऽमित्येतया ।
<क्षुरमभिमन्त्र्य ।
उत्तरेण यजुषाऽ>शिवो नामासीऽत्यनेन ।
<वप्ता> नापितः नाचार्यः ।
तस्मै क्षुरं प्रदाय ततःऽउष्णाः शीतास्वानीयेऽत्यादि <यदपां संसर्जनादि>कर्म<केशनिधानान्तं तदुपनयनेन> समानम् ।
<किं?> <कार>यतीत्यधायाहारः ।
केन कारयति?आचार्येण यद्यप्याचार्यकुलादयं निवृत्तः, तथापि स्नान काले विवाहकाले च समवैत्याचार्यः ।
समानवचनसामर्थ्यात् ।
योऽस्यापचितस्तमितरया (आप.गृ.३९) इति च दर्शनात् ।
स्पष्टं चाश्वलायनकेअथैतान्युपकल्पयति समावर्तमानर्ः (त्यमाने) (आश्व.गृ.३७१) इत्यादि ।
अन्ये त्वाचार्यकुल एव समावर्तमिच्छन्ति ।
तत्राचार्यस्संसर्जनोन्दने कृत्वा क्षुरं नापितादपादाय प्रतिदिशं प्रवाप्य पुनस्तस्मै प्रदाय तं च वपन्तमुत्तरयानुमन्त्रयते ।
एवमन्तमाचार्यकर्म ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १२.३
यथा मध्यन्दिने प्रधानहेमा भवन्ति तथा कर्म कुर्यात् ।
अत्र तु तन्त्रोपदेशोऽस्याज्यप्रधान हविष्ट्वात् ।
ऽआज्यभागान्तेऽइति च क्रमार्थम् ।
आज्यभागान्ते कृते समिदाधानमेव, न पुनरर्थकृत्यमपीति ।
अत्र च पात्रप्रयेगे दर्व्यादीनि द्वन्द्वम्, क्षुरकटादीनि सकृदेव, शम्याश्च परिध्यर्थे ।
केचित्दर्व्यादीन्यपि सकृदेवेति ।
<पालाशी पला>शवृक्षावयवभूताम्<उत्तरया>ऽइमं स्तोमम्ऽइत्येतया ।
<कटः>प्रसिद्धस्तृणमयः ।
<एरका> कटप्रकृतिभूतं पङ्क्तिकटाख्यं तृणम् ।
केचित्कशिप्विति ।
<उत्तरयार्त्र्कयायुषम्>इत्येतया<उत्तरेण>यजुषाऽशिवो नामासिऽइत्यनेन ।
वप्त्रे वपनकर्त्रे कस्मैचिन्मन्त्रविदे ब्राह्मणाय तत्क्षुरं प्रयच्छति ।
केचितिहाप्याचार्यो वपनं प्रारभते, नापितस्तु वप्ता अस्मै प्रयच्छतीति ।
तदयुक्तम्॑िहाचार्यस्यैवाभावात्, नापितस्यामन्त्रज्ञत्वाच्च ।
अथानुवाकस्य प्रथमेन यजुषाऽइत्यारभ्यऽतस्मिन् केशानुपयम्योत्तरयोदुम्बरमूले दर्भस्तम्बे वा निदधातिऽ(आप.गृ.१०८)
इत्येवमन्तमुपनयनेन समानं, भवतीति शेषः ॥३॥
३ मेखलाया ब्रह्मचारिणे दानम् ।
जघनार्धे व्रजस्योपविश्य विस्त्रस्य मेखलां ब्रह्मचारिणे प्रयच्छति ॥ आपस्तम्बगृह्यसूत्र १२.४ ॥
टीकाः
अनुकूलावृत्ति १२.४
अथोप्तकेशश्मश्रुनखो व्रजस्य जघनार्धे पश्चार्धे उपविश्य मेखला विस्रस्य विमुच्य, कस्मैचित्ब्रह्मचारिणे प्रयच्छति ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १२.४
अथोप्तकेशादिको <व्रजस्य जघनार्धे>पश्चार्धे <उपविश्येत्यादि>करोति ॥४॥
४ तेन तस्याः दर्भस्तम्बे निधानम् ।
तां स उत्तरेण यजुषोदुम्बरमूले दर्भस्तम्बे वोपगूहति ॥ आपस्तम्बगृह्यसूत्र १२.५ ॥
टीकाः
अनुकूलावृत्ति १२.५
<प्रच्छादयति ।
उत्तरेण यजुषा>ऽइदमहममुष्यामुष्येऽत्यादिना तत्रादश्सब्देषु नामग्रहणमिदमहं यज्ञशर्मणो गार्ग्यस्य पाप्मानमपगूहाम्युत्तरो यज्ञशर्मा द्विषद्भ्य इति ।
अथ यदि वा स्यात्यज्ञशर्मणो गार्ग्यायणेति ।
दण्डाजिनयोरप्यस्मिन् काले त्यागः ।
________________________
गृह्यतात्पर्यदर्शनव्याख्या १२.५
स तु ब्रह्मचारी तां मेखलां सूत्रोक्तदेशे उपगूहति अप्रकाशां करोतिऽइदमहं विष्णुशर्मणो गौतमस्य पाप्मानमुपगूहाम्युत्तरो विष्णुशर्मा द्विषद्भ्यःऽइत्यनेन यजुषा ।
अत्र च स्नातुर्नामगोत्रे ग्राह्ये ॥५॥
५ स्नानं उदुम्बरकाष्ठेन दन्तधावनं च ।
एवं विहिताभिरेवाद्भिरुत्तराभिष्षङ्भिस्स्नात्वोत्तरयोदुम्बरेण दतो धावते ॥ आपस्तम्बगृह्यसूत्र १२.६ ॥
टीकाः
अनुकूलावृत्ति १२.६
<एवंविहिताभिः>पूर्ववत्संसृष्टाभिः शीतोष्णाभिरित्यर्थः ।
तत्र संसर्जने मन्त्रस्य लोपः ऋग्भिः आपोहिष्ठीयाभिः हिरण्यवर्णी याभिश्च ।
तत्रऽयासु जातऽइत्यासां ग्रहणम् ।
प्रतिमन्त्रं चाभिषेकः ।
<दतो धावते>दन्तेभ्यो मलमपनयति ।
<उत्तरयर्चा>ऽअन्नाद्याय व्यूहध्वऽमित्येतया ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १२.६
<एवंविहिताभिस्तूष्णीं मिश्रिताभिश्शी>तोष्णाभिरद्भिः ।
ऽकेशान् वपतुऽइति मन्त्रलिङ्गविरोधातेवकाराच्च न मिश्रणमन्त्रः ।
<उत्तराभिष्षङ्भिः>ऽआपो हि ष्ठा इति तिसृभिश्च ।
स्नाति अभिषिञ्चति ।
एतच्च षण्णामन्ते सकृदेव ।
केचित्प्रत्यृचमिति ।
तन्न ॑गुणार्थ प्रधानाभ्यासकल्पनमयुक्तमित्युक्त्वात् ।
अथोदिम्बरेण काष्ठेन दन्तेभ्यो मलंऽअन्नाद्याय व्यूहध्वम्ऽइत्यनया अपनयति ॥६॥
६ स्नानीयद्रव्यैराच्छाद्य पुनः स्नानं, अहतस्यान्तरस्य वाससः परिधानं, चन्दनानुलेपनं, ग्रीवासु मणेराबन्धनं, बादरमणेस्सव्यपाणावाबन्धनं, उत्तरस्य वाससः परिधानञ्च ।
स्नानीयोच्छादितस्स्नातः ॥ आपस्तम्बगृह्यसूत्र १२.७ ॥
उत्तरेण यजुषाहतमन्तरं वासः परिधाय सार्वसुरभिणा चन्दनेनोत्तरैर्देवताभ्यः प्रदायोत्तरयानुलिप्य मणिं सौवर्णं सोपधानं सूत्रोतमुत्तरयोदपात्रे त्रिः प्रदक्षिणं परिप्लाव्योत्तरया ग्रीवस्वाबध्यैवमेव बादरं मणिं मन्त्रवर्ज सव्ये पाणावाबध्याहतमुत्तरं वासोऽरेवतीस्त्वेतिऽसमानम् ॥ आपस्तम्बगृह्यसूत्र १२.८ ॥
टीकाः
अनुकूलावृत्ति १२.८
ततः<स्नानीयैः>स्नानार्हऐः क्लीतकादिभिः<उच्छादितः>उद्वर्तितः अपकृष्टमलः पुनरपि तभिरेवाद्भिः<स्नातः उत्तरेण यजुषा>ऽसोमस्य तनूरसिऽइत्यनेन<अहतमन्तरं वासः>येन कटिः प्रच्छद्यते तदन्तरमित्युच्यते ।
येन बहिर्नीवि प्रच्छादनं उपवीतं वा क्रियते तदित्तरमिति ।
तयोरन्तरं वासः परिधाय चतुर्थ्यानुलेपनं करोति ।
केन?चन्दनेन ।
कीदृशेन ? ।
<सर्वसुरभिणा>सर्वाणि सुरभि द्रव्याणि यत्र भवन्ति तत्सर्वसुरभि ।
<सार्वसुरभिणेति>पाठे रूपसिद्धिर्मृग्या ।
तत्र पूर्वमुत्तरैर्मन्त्रैस्त्रिभिर्देवताभ्यः प्रयच्छतिऽनमो ग्रहायऽचेत्येवमादिभिः ।
तत उत्तरयाऽअप्सरस्सुयो गन्धःऽइत्येतया आत्मनोऽनुलेपनम् ।
ऽमुखमग्रे ब्राह्मणोऽनुलिम्पेत्बाहू राजन्य, उदरंवैश्यः, (आश्व.गृ.३७१०१२) इत्याश्वलायनः ।
अथ मणिमाबध्नाति<ग्रीवासु>प्रतिमुञ्चति ।
स च मणिः सौवर्णो भवति ।
उपदानेन च वैडूर्यादिनोपहितः ।
<सूत्रोतः>सूत्रेणोतः ।
सपाश इत्यर्थः ।
तं मणिं उत्तरयर्चाऽइयमोषधेऽऽत्येतया उदपात्रे त्रिः परिप्लावयति ।
सकृदेव मन्त्रः ।
अथ तं उत्तरयर्चाऽअपाशोऽस्युरऽइत्येतया ग्रीवास्वाबध्नाति ।
ग्रीवाशब्दोऽयं धमनिवचनः बहुवचान्तः तध्योगात्कण्ठे प्रयुज्यते ।
अस्यामृचि पृथिवी स्तूयते ।
तस्मादियमोषधिस्त्रायमाणेति भवितव्यम् ।
सकारलोपच्छान्दसः ।
अथ<बादरं>बदुरीबीजेन कल्पितमेवमेव सूत्रोतमुदपात्रे त्रिः प्रदक्षिणं परिप्लाव्य सव्ये पाणावाबध्नाति ।
तूष्णामेव परिप्लावने च बन्धने च मन्त्रप्रतिषेधः ।
पुनर्मणिग्रहणादुपधानमस्य न भवति ।
सूत्रोतस्तु भवति ।
आबध्य मणिं तत उत्तरं वासः करोति आहतमेव ।
तत्र रेवतीस्त्वेत्येवमादि कर्म समानमुपनयनेनैव प्रत्येतव्यम् ।
रेवतीस्त्वेत्येताभिरिति वा उत्तराभिरित्येव वा सिद्धे समानवचनमुपनयनवते प्रयोगार्थम् ।
तेन उत्तराभ्यामभिमन्त्रेयोत्यादि परिहितानुमन्त्रणान्तं गुरोः कर्म ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १२.८
स्नानोपकरणैः क्लीतकमधूकचूर्णादिभिः उद्वर्तितदेहः आमल कपिष्टादिभिः स्नानीयैस्स्नातश्च भवति ॥७॥
ऽसोमस्य तनूरसिऽइत्यनेन<यजुषा अहतमन्तरं वासः>अन्तर्वासोऽन्तरीयमित्यर्थः ।
तत्परिदधाति ।
अनेन सूत्रेणात ऊर्ध्व स्नातकस्य नित्यमन्तर्वासो विधीयते ।
यजुः पुनः कर्मार्थमेव, मकारणाम्नानात् ।
ततस्सार्वसुरभिणा सर्वैः कस्तूरिकादिभिर्गम्धद्रव्यैर्वासितेन<चन्दनेन> अनुलिम्पतीति व्यवहितेन सम्बन्धः ।
कथमनुलिम्पति ?इत्यत्राहौत्तरैरित्यादि ।
ऽनमो ग्रहाय चऽ इत्यादिभिस्त्रिभिर्मन्त्रैः देवताभ्यश्चन्दनं पूर्व<प्रदाय,> पश्चात्ऽअप्सरस्सु यो गन्धःऽइत्यनया आत्मान मनुलिम्पति ।
मुखस्य चाग्रेऽनुलेपः,ऽमुखमग्रे ब्राह्मणो लिम्पेत्ऽ(आश्व.गृ.३७१०) इत्याश्वलायनगृह्यात्. देवताभ्यः प्रदानं च नमश्सब्देन, न तु मन्त्रान्तेन॑नमस्कारस्यापि प्रदानार्थत्वात् ।
<मणिं>कीदृशं?<सौवर्ण>सुवर्णविकारम् ।
<सोपधानं>वज्रवैडूर्यादिना उभयतः परिगृहीतम् ।
<सीत्रोतं> सूत्रप्रोतम्ऽइयमोषधे त्रायमाणाऽइत्येतया सकृदुच्चरितया<उदपात्रे प्रदक्षिण>मविरतं त्रिः<परिप्लाव्य, उत्तरया>ऽअपाशोऽस्युरो मेऽइत्यादिकयाऽपुण्यायऽइत्यन्तया त्र्यवसानया तं मणिं<ग्रीवसु कण्ठे आबध्य,> बदरीबीजमयं<बादरं> सूत्रोतमेव मणिमेवमेवोदपात्रे <त्रिः> प्रदक्षिणं तूष्णीं परिप्लाव्य, तूष्णीमेव<सव्ये पाणावाबध्नाति ।>
<अहतमुत्तरं वासः> परिधानीयमेव, न तु उत्तरीयम् ।
तदुपनयनेन समानम् ।
स्वयं परिदधाति, इहाचार्याभावात् ।
ततश्चऽरेवतीस्त्वाऽ इति द्वाभ्यां परिधानीयं वासोऽभिमन्त्र्यऽया अकृन्तन्ऽइति तिसृभिः परिधायऽपरीदं वासःऽइत्यनुमन्त्रयते ।
ऽरेवतीस्त्वे ति समानम्ऽइति वचनबलाच्च मन्त्रस्थयुष्मदर्थलिङ्गबाध एव ।
यद्वा अन्यो विद्वान् ब्राह्मणः रेवतीस्त्वेति समानं करोति ।
कुतः पुनःऽअहतमुत्तरं वासःऽइत्यनेनापि परिधानमेवोच्यते नोत्तरीयम्?उच्यतेरोवतीस्त्वेति समानमुपनयनेनेति वचनातुपनयने चऽतिसृभिः परिधाप्य परिह्तमुत्तरया, (आप.गृ.१०१०)इति परिधानार्थवासोऽवगमात् ।
पूर्वस्यऽअहतमन्तरं वासःऽइति चोदितत्वाच्च ।
उत्तरीयं तुऽनित्यमुत्तरं कार्यम् (आप.ध.२४२१) इत्यादिधर्मशास्त्रवचनादत्रापि सिद्धमेव वासः ।
केचितिहोत्तरीयं विधीयते नैव परिधानीयम्॑ुत्तरमिति वचनात् ।
तथा आचार्य एवऽरेवतास्त्वा इत्याद्युपनयनेन समानं करोतीति ।
तन्न॑परिधाप्य,परिहितम्ऽइत्यनुपपत्तेरेव ।
तथा आचार्यकुलान्निवृत्तेनेदं स्नानं क्रियते ।
तत्राचार्यकर्तृकत्वा प्रसक्तिरेव ॥८॥
७ वाससोऽन्ते कुण्डले बध्वा तद्विशिष्टया दर्व्या प्रधानहोमाः, जयादयश्च ।
तस्य दशायां प्रवृर्तौ प्रबध्य दर्व्यामाधायाज्येनाभ्यानायन्नुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते ॥ आपस्तम्बगृह्यसूत्र १२.९ ॥
टीकाः
अनुकूलावृत्ति १२.९
<तस्यो>त्तरस्य वाससो <दशायां प्रवर्तौ> कर्णालङ्कारौ सौवर्णौ <प्रबध्य दर्व्यामाधायाज्येन>उत्तरा अष्टौ प्रधानाहुतिः जुहोति ।
<अभ्यानायन्>प्रवर्तयोरुपर्याज्येनानयनं कारयन्नित्यर्थः ।
अभ्यानयनिति वा पाठः ।
अस्मिन् पक्षे सव्येन पाणिनाभ्या नयनम् ।
अभ्यानायमिति णमुलन्तस्य युक्तः ।
अब्यानीयाभ्यानीयेत्यर्थः ।
सर्वथा प्रवर्तयोरुपर्यासिक्तेनाज्येन प्रधानहोमः ।
जयादिनचनं प्रवर्तावपनीय यतासिद्धं प्रतिपद्येतेत्येवमर्थम् ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १२.९
<तस्य अनन्तरप्रकृतस्य वाससो दशायां प्रवृर्तौ>कुण्डले सौवर्णे <प्रबध्य>तावुपायेन दर्व्या अग्रे स्थापयित्वा ।
<आज्येने ति> परिभाषाप्राप्तानुवादोभ्यानयनाविधानार्थः ।
अभ्यानायमिति णमुलन्तोर्ऽथपाठः ।
ततश्च स्वयमेव सव्येन हस्तेन स्थापितयोः प्रवर्तयोरुपरि
आज्यमानीय तेनैवाज्येन उत्तराःऽआयुष्यं वर्चस्यम्ऽइत्याद्या अष्टौ प्राधानाहुतीर्हुत्वा, ततो दर्व्या अग्रात्तावपनीय यथाप्रसिद्धं<जयादि> <प्रतिपद्यते> ।
सूचनात्सूत्रमिति निर्वचनाच्च सूत्रे सर्वत्रानेकार्थविधिनिबन्धनो ।
वाक्यभेदोऽपि नैव दोष इत्युक्तम्ऽअग्निमिध्वाऽ(आप.गृ.११२) इत्यत्र ।
केचित्सव्येन हस्तेन अभ्यानायन्नन्येन वाभ्यानायन्निति पाठेन भवितव्यमित्याचक्षते ॥९॥
८ तयोः कर्णयोराबन्धनम् ।
परिषेचनान्तं कृत्वैताभिरेव दक्षिणे कर्ण आबध्नीतैताभिस्सव्ये ॥ आपस्तम्बगृह्यसूत्र १२.१० ॥
टीकाः
अनुकूलावृत्ति १२.१०
परिषेचनान्तवचनमानन्तर्यार्थम् ।
तेनास्याहनि भोजनं न भवति ।
एताभिरेवाहुतिभिः आहुत्यर्थैर्मन्त्रैरित्यर्थः ।
वचनादेकं कर्म बहुमन्त्रं स्वाहाकारवांश्च मन्त्रः प्रयोज्यः ।
सव्ये चेत्युच्माने म्नत्राणां विभज्य विनियोगः स्यात् ।
तस्मात्पुनरेताभिरित्त्युक्तम् ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १२.१०
परिषेचनान्तरमेव<एताभिरेव>ऽआयुष्यं वर्चस्यम्ऽइत्यष्टाभिरेव<दक्षिणे कर्णे> प्रवर्तयोरेकं<आबध्रीत>प्रतिमुञ्चेत् ।
तथान्य
<मेताभिरेव सव्ये>कर्णे ।
अत्र च होममन्त्राणामेव आबन्धनकरणत्वेन सूत्रवाक्यसादृश्यानुमितया श्रुत्यैव चोदितत्वात्तैराबन्धनमपि गौण्या वृत्त्या प्रकाश्य मैन्द्रीवत् ।
तथैताभिरिति स्त्रीलिङ्गनिर्देशो बहुत्वादृचां ब्राह्मणग्रामवत् ।
न चात्र होमार्थानामेव आबन्धनार्थत्वेनापि विनियोगे देवदत्तीयेयं गौर्यज्ञदत्तीयेतिवद्विरोध ।
ऽपुरोडाशकपालेन तुषानुपवपतिऽइत्यादिवदधिष्ठानलक्षणया विनियुक्ताकारमतिरोधायापि विनियोगोपपत्तेः, ऋङ्मन्त्रविषये त्वनेकार्थत्वमपि नायुक्तमित्याग्नेय्यधिकरणे उक्तत्वाच्च ।
केचितेताभिरित्यनेन प्रकृताहुतिपरामर्शादाहुत्यर्था मन्त्रा लक्ष्यन्तेऽपितॄणां याज्यानुवाक्याभिरुपतिष्ठतेऽइतिवदिति ।
मैवम्॑यतः पूर्वत्रोत्तराहुतीरिति लक्षणया प्रकृतानां मन्त्राणामपि परामर्शो वरम्॑नत्विहापि वाक्ये लक्षणा ॥१०॥
९ शिरसि स्रजो धारणं, अक्ष्णोरञ्जनं, आदर्शावेक्षणं, उपानहोरुपमुञ्चनं, छत्रदण्योर्धारणं च ।
एवमुत्तरैर्यथालिङ्गं स्रजश्शिरस्याञ्जनमादर्शवेक्षणमुपानहौ छत्रं दण्डमिति ॥ आपस्तम्बगृह्यसूत्र १२.११ ॥
टीकाः
अनुकूलावृत्ति १२.११
एवमुत्तरैरपि मन्त्रैर्यथालिङ्गं स्नागादीनि षट्द्रव्याण्युपयुञ्जीत यथार्हम् ।
तत्रऽशुभिके शिरऽइति द्वाभ्यां स्रजश्शिरसि बन्धनम् ।
यथालिङ्गवचनात्द्वाभ्यामिमां तामपिनह्येऽइति)स्रज इति षष्ठ्येकवचनम्, न प्रथमाया द्वितीयाया वा बहुवचनम् ।
इमां तामित्यकेवचनात् ।
शिरसीति वचनातसयोर्न भवति ।
"न मालोक्ताम् ।
माले चेत्ब्रूयुः, स्रगित्यभिधापयीत"(आश्व.गृ.३.८१२) इत्याश्वलायनः ।
अथऽयदाञ्जनं त्रैककुदऽमिति द्वाभ्यामञ्जनं अक्ष्णोरुपयुञ्जीत ।
तत्र द्वाभ्यामपि मन्त्राभ्यां पूर्व दक्षिणस्याञ्जनम् ।
अथ ताभ्यामेव सव्यस्य ।
यद्यपिऽतेन वामाञ्जेऽइति मन्त्रे द्विवचनं भवति ।
तथापि एवमित्यतिदेशसामर्थ्यात्प्रवर्तयोराबन्धनवत्क्रियाभ्यावृत्तिः
मन्त्राभ्यावृत्तिश्च भवति ।
तत्र सान्नाय्यकुमभीवत्द्विवचनं, यथा"अप्रस्नसंसाययज्ञस्योखे उपदधाम्यह"मिति ।
अथादर्शस्यावेक्षणंऽयन्मे वर्चऽइत्येतया ।
अवेक्षणमित्यनुच्यमाने आदानमेव स्यादस्मिन् काले॑ऽइदं तत्पुनराददऽ इतिलिङ्गात्तस्मादवेक्षणग्रहणम् ।
ततः उपानहावुपमुञ्चतेऽप्रतिष्टे स्थऽइति यजुषा ।
आञ्जनवत्क्रियावृत्तिर्मन्त्रस्यावृत्तिश्च भवति ।
ततश्छत्रमादायात्मानमाच्छादयतिऽप्रजापतेश्शरणमसीऽति<यजुषा> ।
देवस्य त्वेति यजुषा दण्डमादत्ते ।
वैणवमित्याश्वलायनः ॥
(आश्व.गृ.३७१५) ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १२.११
यथा कर्ममध्ये समन्त्रकं प्रवर्तौ हि बद्धौ,<एवमुत्तरैर्मन्त्रैर्यथालिङ्गं>मन्त्रलिङ्गानुसारेण स्रगादिषट्कं आबध्नीत कर्तव्यमित्यादि यथार्ह वाक्यशेषः ।
तत्रऽशुभिके शिरःऽइत्यनयैकयैव शिरसि स्रजमाबध्नीत ।
ऽयामाहरत्ऽइत्येषा विकल्पार्था॑ऽएकमन्त्रणि कर्माणिऽ ।
ऽअवशिष्टा विकल्पार्थाःऽ(आप.प.१४१॑४१२) इति परिभाषावचनात् ।
स्रज इति द्वितीयैकवचनार्थे॑ऽशुभिके शिर आरोहऽऽयामाहरत्ऽ इत्याद्येकवचनलिङ्गात् ।
षष्ठ्येकवचनं वा ।
तथा सति, स्रज आबन्धनं कर्तव्यमिति शेषः ।
तथाऽयदाञ्जनं त्रैककुदम्ऽइत्येकयैव सकृदुच्चरितया त्रिककुत्पवर्तजाताञ्जनेन युगपदक्ष्णोरञ्जनं कर्तव्यम् ।
अत्रापिऽमयि पर्वतऽइत्यादीनि चत्वारि यजूषि विकल्पार्थान्येव ।
न चाक्ष्णोः पर्यायेणाञ्जनम्॑ऽतेन वाम्ऽइति द्विवचनलिङ्गविरोधात् ।
तथैवऽयन्मे वर्चः परागतम्ऽइत्येतया आदर्शावेक्षणं कर्तव्यम् ।
तथैवऽप्रतिष्ठे स्थःऽइत्यनेन यजुषोपानहौ युगपदुपमुञ्चते॑ऽप्रतिष्ठे स्थःऽइति द्विवचनलिङ्गात् ।
तथैव तूष्णीं छत्रमादायऽप्रजापतेः शरणमसिऽइति यजुषा आत्मानमभिच्छादयति ।
तथैव दण्डं वैणवंऽदेवस्य त्वाऽइत्यादियजुषा आदत्ते ।
इति एतानि षट्द्रव्याणीत्यर्थः ।
केचित्ऽशुभिके शिर आरोहऽऽयामाहरत्ऽइति द्वाभ्यामपि स्रज आबन्धनम् ।
तथाऽयदाञ्जनंऽऽमयि पर्वत पूरुषम्ऽइति द्वाभ्यामप्यावृत्ताभ्यां दक्षिणसव्ययोरक्षणोः क्रमेणाञ्जनम्॑ऽएवमुत्तरैर्यथालिङ्गम्ऽइति वचनबलात् ।
ततश्चऽतेन वाम्ऽइति लिङ्गमपि विधिबलाद्वाध्यमेव ।
यथैकस्यां सान्नाय्यकुम्भ्यांऽउखे उपधाम्यहम्ऽइति द्विवचनलिङ्गम् ।
उपानहोरुपमोचनेऽप्यञ्जनवदेव व्याख्येति ।
तदसत्,ऽएकमन्त्राणिऽ(आप.प.१४१) इत्यादिपरिभाषाविरुद्धत्वात् ।
ऽएवमुत्तरैर्यथालिङ्गम्ऽइत्यस्य च पूर्वव्याख्यानेऽप्युपपत्तेः ।
ऽमयि पर्वत पूरुषम्ऽइत्यत्र पाठे प्रश्लिष्टेऽपि विभागे निराकाङ्क्षत्वात्, वाक्यभेदावगतेश्च ॥११॥
१० वाग्यमः, दिगुपस्थानं, नक्षत्राणां चन्द्रमसश्चोपस्थानम् ।
वाचं यच्छत्यानक्षत्रेभ्यः ॥ आपस्तम्बगृह्यसूत्र १२.१२ ॥
उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्योत्तरेणार्र्धचेन दिश उपस्थायोत्तरेण नक्षत्राणि चन्द्रमसमिति ॥ आपस्तम्बगृह्यसूत्र १२.१३ ॥
टीकाः
अनुकूलावृत्ति १२.१३
ततः उत्तरेणार्दर्चेनऽदेवीष्षडुर्वीऽरित्यनेन प्राङ्मुख प्राञ्जलिः सर्वा दिशो मनसि कृत्वा मन्त्रान्तेन प्रदक्षिणमावृत्य समनुवीक्षते ।
षडेव दिशः ,डुर्वीरिति लिङ्गात् ।
प्राच्याद्याश्चतस्रः ऊर्ध्वा अधरा चेति ।
तत<डत्तरेणार्र्धचेन>ऽमा हास्महीऽत्यनेन<नक्षत्राणि चन्द्रमसं>च सहोपतिष्ठते ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १२.१३
इदं च व्याख्यातम् ॥१२॥
उ<त्तरेणार्र्धचेन>ऽदेवाष्षडुर्वीः इत्यनेन<दिशः>अवाचीषष्ठा उपस्थाय, उत्तरेणऽमा हास्महिऽइत्यर्र्धचेन<नक्षत्राणि चन्द्रमसं>चोपतिष्ठते ।
श्रुतिबलाच्चऽमा हास्महिऽइत्यत्र नक्षत्राणीत्यध्याहृत्य तानि प्रकाश्यान्येव ॥१३॥
११ मित्रेण सम्भाषणं, यथेष्टगमनं च ।
रातिना सम्भाष्य यथार्थ गच्छति ॥ आपस्तम्बगृह्यसूत्र १२.१४ ॥
टीकाः
अनुकूलावृत्ति १२.१४
<रातिना>बन्धुना<संभाष्य>किं मया कर्तव्यम्?क आश्रमः प्रतिपत्तव्यः?इति संभाषणं कृत्वा तेन रातिना सह<गच्छति> अनधृतमाश्रमं प्रतिनद्यत इत्यर्थ ।
ऽबुध्वा कर्माणि यत्कामयेत तदारभेतेऽ(आप.ध.२२१५) त्यनेनैव सिद्धे पुनर्वचनं प्रव्रजतेऽपि संभाषणान्तं स्नानकर्म यथा स्यादिति ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १२.१४
<रातिः>मित्रं रमयतीति व्युत्पत्या ।
तेन सह विस्रब्धस्सम्भाष्य आत्मशक्त्याद्यनुरूपं धर्मादिकं विचार्य निश्चित्य ।
यथार्थ गच्छति तेन रातिना सह योर्ऽथो धर्मो मोक्षो वा साध्यत्वेनावधृत, तदनुरूपमाश्रमं गार्हस्थयं मौनं वा प्रतिपद्यते ।
एवं च ब्रह्मचर्यादेव प्रव्रजतोऽपि सम्भाषणान्तं स्नानं कृत्वैव प्रव्रज्यात् ॥१४॥
इति श्रीसुदर्शनाचार्याविरचिते गृह्यतात्पर्यदर्शने द्वादशः खण्डः समाप्तः ॥
त्रयोदशः खण्डः ।
९ मधुपर्कः
१ पूज्येन कूर्चे उपवेशः ।
अथैतदपरं तूष्णीमेव तीर्थे स्नात्वा तूष्णी समिधमादधाति ॥ आपस्तम्बगृह्यसूत्र १३.१ ॥
टीकाः
अनुकूलावृत्ति १३.१
व्याख्यातं स्नानकर्म गरीयश्च मुख्यं च ।
अथेदानीमेतदपरं स्नानविधानं लघीयश्च गौणं च व्याख्यायते ।
किं तत्?तूष्णामेव तीर्थे भूमिष्ठे जले स्नाति ।
नोद्धृताभिश्शीताभिः ।
तूष्णींच समिधमादधाति ।
न म्नत्रेण ।
पालाशी समित् ।
एतावदेव अस्मिन् विधौ कार्यम् ।
नान्यत्किञ्चित्ऽप्रागुदयात्व्रज मित्यादिकम् ।
वपनादि तु लौकिक मधर्मकं भवति ।
तत्र प्रयोगःकेशश्मश्रुनखलोमानि वापयित्वा मे खलादण्डमजिनमित्यपनीय तूष्णीमेव तीर्थे स्नात्वा दन्तझावनमौदुम्बरेण काष्ठेन कृत्वा स्नानीयोच्छादितः पुनः स्नात्वा अहते वाससी परिधायाचम्याग्निमुपसमाधाय संपरिस्तीर्य पालाशीं समिधमग्निं मनसा ध्यायन्नाधाय मणिप्रभृतीन्यलङ्करणानि यथोपपादमुपादत्ते तूष्णीमेव सर्वम् ॥ १ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.१
अथापरमेतद्विधानम् ।
उच्यते इति शेषः ।
तीर्थे पुण्यनद्यादौ ।
समिधं पालाशीं, अविरोधात् ।
एवकाराच्चास्मिन् विधौ नान्यत्किञ्चिदनुष्ठेयम् ।
ननुपूर्वस्मिन्नेव विधौ स्नानसमिदाधानयोरन्य प्रकारो वै कल्पिक इति किमिति नास्थीयते ?उच्यतेएवकारवैयर्थ्यप्रसङ्गात्,स्नान समिदाधानयोरिह व्युत्क्रमेणाभिधानात्, अस्य सूत्रस्य बह्वक्षरत्वाच्च ।
यदि ह्ययं पूर्वस्मिन्नेव विधौ वैकल्पिकोऽभिप्रेतोऽभविष्यत्, तदा तत्रैवऽपालाशींऽसमिधमुत्तरयाधाय तूष्णीं वाऽऽएवंविहिताभिरेवाद्भिरुत्तराभिः षड्भिः स्नात्वा तीर्थे वा तूष्णीम्ऽइत्यल्पैरेवाक्षरै रसूत्रयिष्यत् ।
किञ्च सूत्रकाराणां नैवेयं सैली दृष्टचरीयदुत साङ्गं प्रधानमुक्त्वा पश्चादथादिना सूत्रेण वैकल्पिकानां प्रकारभेदानाम भिधानमिति ।
एव मेवऽअथैतदपरं दघ्न एवाञ्जलिना जुहोति (आप.गृ.२२१०) इत्यस्यापि व्याख्यानम् ।
प्रयोगस्तुब्रह्मचारिलिङ्गानि मेखलादीनि त्यक्त्वा तीर्थे तूष्णीं स्नात्वा, वासोऽन्तरपरिधानादि कृत्वा, श्रोत्रियागारादग्निमाहृत्यऽयत्र क्व चाग्निम्ऽइति विधिनोपसमाधाय, तत्र प्रजापतिं मनसा ध्यायन् तूष्णीमेव समिधमादधाति ।
केचित्केशश्मश्रु वपनादिकमन्यदप्यविरोधि तूष्णीमेव करोतीति ॥१॥
यत्रास्मा अपचितिं कुर्वन्ति तत्कूर्च उपविशति यथापुरस्तात् ॥ आपस्तम्बगृह्यसूत्र १३.२ ॥
टीकाः
अनुकूलावृत्ति १३.२
उक्तयोरन्यतरेण स्नातको भवति ।
तस्यास्मिन् काले बन्धुभिरपचितिः कार्या॑गोमधुपर्करहो वेदाध्याय इति वचनात् ।
आवेद्यार्घ्य दद्या(बौ.गृ.१२१)दिति कल्पान्तरम् ।
साधु व्रतस्नात मर्घयिष्यामो भवन्तमिति निगदेनावेदनं कौषीतकिनस्समामनन्ति ।
"विष्टरं पाद्यमर्घ्यमाचमनीयं मधुपर्को गौरित्येतेषां त्रिस्त्रिरेकैकं वेदयन्ते"(आश्व.गृ.१२१६) इत्याश्वलायनः ।
तत्र यत्र देशेऽस्मै <अपचितिं> <कुर्वन्ति> बान्धवाः, तत्र तैर्दत्ते <कूर्चे उपविशति यथापुरस्तादुपनयने>आचार्यः ।
कूर्च प्रत्तमुपादायोदगग्रं निधाय तस्मिन्ऽराष्ट्रभृदसीऽत्यनेनोपविशतीत्यर्थः ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.२
यत्र यस्मिन् स्वधर्मयुक्तस्य कुटुम्बिनो गृहे आतिथ्यार्थमागतायास्मै स्नातकायापचितिं पूजां मधुपर्कअख्यां कुर्वते कुटुम्बिनः ।
बहुवचनं चानुपादेयगतत्वादविवक्षितम् ।
अत एवोत्तरत्र प्राहैत्येकवचनम् ।
तत्तत्र गृहे तैर्दत्ते कूर्च उपविशति ।
<यथापुरस्तात्> उपनयने आचार्यःऽराष्ट्रभृदसिऽइति यजुषा उपविशति तथा उपविशेदित्यर्थः ॥२॥
२ राजस्थपत्योरुपवेशनमन्त्रः ।
एवमुत्तराभ्यां यथालिङ्गं राजा स्थपतिश्च ॥ आपस्तम्बगृह्यसूत्र १३.३ ॥
टीकाः
अनुकूलावृत्ति १३.३
<एवंराजा स्थपतिश्च> यथा ब्राह्मणः स्नातकः कूर्चे उपविशति ।
यथालिङ्गमाचार्यासन्दीति ।
एवं राजा स्थपतिश्च पूज्य मानौ <उत्तराभ्यां>यजुर्भ्या यथालिङ्गमुपविशतः ।
तत्र क्षत्रियो राष्ठ्राधिपतिरभिष्क्तो राज्याय साम्राज्यं तस्य लिङ्गम् ।
स एव जनाधिपतिः ।
स्थापत्त्यायाभिषिक्तः<स्थपतिः ।>
आधिपत्यं तस्य लिङ्गम् ।
उत्तराभ्यां राजा स्थपतिश्चेत्येव सिद्धेऽएवंऽऽयथालिङ्गऽ मित्युच्यतेयथा प्रथमस्य मन्त्रस्य लिङ्गात्विनियोगः एवमुत्तरयोरपि प्रज्ञापनार्थम् ।
तेन प्रथमो मन्त्रो ब्राह्मणस्यैव भवति ।
आचार्या सन्दीति लिङ्गात् ।
ब्राह्मण आचार्यः स्मर्यत इतिचोक्तत्वात् ।
तेन क्षत्रियवैश्ययोः तूष्णीमुपवेशनम् ।
तत्रा"चार्यायर्त्विजे श्वशुराय राज्ञ"इति रज्ञोऽपचितिः ।
अधिपतेस्तु श्वशुरत्वेनापचितिः ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.३
यथा ब्राह्मणः पूज्यो मन्त्रेणोपविष्टः,<एवं राजा स्थपतिश्चोत्तराभ्यां>यथालिङ्गंऽराष्ट्रभृदसि सम्राडासन्दीऽइति राजा,ऽ राष्ट्रभृदस्याधिपत्न्यासन्दीऽइति स्थपतिश्चोपविशेदित्यर्थः ।
राजा च क्षत्रिय एव, न तु प्रजापालनकर्तान्यवर्णोऽपि ।
ननु क्षत्रिये राजशब्दप्रयोग आन्ध्राणां, भार्याणां तु प्रजापालनादिकर्र्तयेव, तत्कथं बलवदार्यप्रयोगबाधेन राजा क्षत्रिय एवेति?मैवम् ।
आर्यवरस्य भगवतः पाणिनेः गणपाठेऽराजासेऽइति विशेषस्मरणस्यान्ध्रप्रयोगमूलत्वमेव युक्तमिति अवेष्ट्यधिकरणे साधितत्वात् ।
स्थपतिश्च महदाधिपत्यं प्राप्तोऽन्यवर्णोऽपि ।
अन्येवैश्यः स्थपतिरिति ।
केचित्तुक्षत्रिय एव राज्याभिषिक्त इति ॥३॥
३ पद्यनिवेदनम् ।
आपः पाद्याऽइति प्राह ॥ आपस्तम्बगृह्यसूत्र १३.४ ॥
टीकाः
अनुकूलावृत्ति १३.४
अथ मधुपर्कप्रदाता पादप्रक्षालनार्थ अप उपसंगृह्यऽ<आपः पाद्याऽ>इति प्राह ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.४
अथ अपचेता पादप्रक्षालनार्था अप उपसङ्गृह्यऽआपः पाद्याःऽइति प्राह ।
एतच्च सम्वादवचनं अनन्तरं यत्कर्तव्यं तत्कुर्वित्येवमर्थम् ।
एवमेव प्रयोजनंऽअर्हणीया आपःऽइत्यादिष्वपि ॥४॥
४ प्रक्षालयित्रे पादप्रसारणम् ।
उत्तरयाभिमन्त्र्य दक्षिणं पादं ब्राह्मणाय प्रयच्छेत्सव्यं शूद्राय ॥ आपस्तम्बगृह्यसूत्र १३.५ ॥
टीकाः
अनुकूलावृत्ति १३.५
अथ पूज्यमानस्ता अपः उत्तरयर्चा"आपः पादावनेजनी"रित्ये तयाभिमन्त्र्य प्रक्षालयित्रेऽ<ब्राह्मणाय> दक्ष्णं पादं <पूर्व प्रयच्छेत्> प्रसारयेत् ।
<सव्यं शूद्राय>क्षत्रियवैश्याभ्यामनियमः ।
पुंलिङ्गस्याविवक्षितत्वात् ।
स्त्रीष्वप्येवम् ।
ऽस्त्री प्रक्षालयति पुमानभिषिञ्चति ।
विपरीतमेकेऽ(बौ.गृ१२)इति कल्पान्तरम् ।
पत्नीयजमानौ जङ्घे धावत इति यज्ञे विशेषः ।
आपः पाद्या इति प्रकरणादेव सिद्धे पादग्रहणमुत्तरत्र पादप्रत्ययो माभूदित्येवमर्थम् ।
तेन प्रक्षालयित्रुपस्पर्शन पादे न भवति ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.५
अथ पूज्यस्ता अपःऽआपः पादावनेजनीःऽइत्येतयाभिमन्त्र्य प्रथमं<दक्षिणं पादं ब्राह्मणाय>प्रक्षालयित्रे <प्रयच्छेत्> ।
शूद्राय तु पूर्व सव्यम् ।
अत्र ब्राह्मणशूद्रावेव प्रक्षालयितारौ, न तु राजन्यवैश्यौ॑तयोरनभिधानात् ।
अन्ये तुक्षत्रियवैश्याभ्यां अनियमेन पूर्व पादं प्रयच्छेदिति ॥५॥
५ प्रक्षालयितुरुपस्पर्श आत्माभिमर्शश्च ।
प्रक्षालयितारमुपस्पृश्योत्तरेण यजुषाऽत्मानं प्रत्यभिमृशेत् ॥ आपस्तम्बगृह्यसूत्र १३.६ ॥
टीकाः
अनुकूलावृत्ति १३.६
तथा स्वेन हस्तेनावनेक्तुः पाणी संस्पृशे (बौ.गृ१२)दिति कल्पान्तरम् ।
<उत्तरेण यजुषा>ऽमयि महःऽइत्यनेन प्रतीचीन मभिमर्शनम् ।
तच्च हृदयदेशे भवति ।
आत्मनः स्थानं हि तत् ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.६
ततः प्रक्षालितपादस्तं प्रक्षालयितारं पाणावुपस्पृश्यऽमयि महःऽइति यजुषा आत्मानं हृदयदेशे प्रत्यभिमृशेत्प्रतिलोमेन पाणिना स्पृशेत् ।
ततोऽपामुपस्पर्शनम् ॥६॥
६ अर्ध्यनिवेदनम् ।
कूर्चाभ्यां परिगृह्य मृन्मयेनार्ऽहणीया आपऽइति प्राह ॥ आपस्तम्बगृह्यसूत्र १३.७ ॥
टीकाः
अनुकूलावृत्ति १३.७
ततः प्रदाता मृण्मये पात्रे उपनीता अपः<कूर्चाभ्या>मधस्तादुपरिष्टाच्च परिगृह्यऽअर्हणीया आपऽइति प्राह निवेदयति ।
पुष्पाक्षतैस्संयुक्ता इति कल्पान्तरम् ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.७
अथार्हयिता मृन्मये पात्र अर्हणार्थाः पुष्पाक्षतसंयुक्ताः अप आनीय, कूर्चाभ्यामधस्तादुपरिष्टाच्च परिगृह्यऽअर्हणीया आपःऽइति प्राह ॥ ७ ॥
७ तदेकदेशस्य पूज्याञ्जलावानयम् ।
उत्तरयाभिमन्त्र्याञ्जलावेकदेश आनीयमान उत्तरं यजुर्जपेत् ॥ आपस्तम्बगृह्यसूत्र १३.८ ॥
टीकाः
अनुकूलावृत्ति १३.८
अर्हणीया अपः निवेदिता<उत्तरया>ऽआमागऽन्नित्येतया अभिमन्त्रयते ।
पूज्यमानस्ततोऽञ्जलिं कृत्वा हस्तेन ततस्तस्याञ्जलौ
एतासामेकदेशमानयति प्रदाता ।
तस्मिन्ना<नीयमाने उत्तरं यजुः>ऽविराजो दोहोऽसीऽत्येतत्<जपेत्>पूज्यमानः ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.८
अथ पूज्यस्ता अपःऽआमागन्ऽइत्येतयाभिमन्त्र्य तासामेकदेशे स्तोके स्वाञ्जलौ दात्रा<आनीयमाने>ऽविराजो दोहीऽसिऽइति यजुर्जपेत् ॥८॥
शेषं पुरस्तान्निनीयमानमुत्तरयानुमन्त्रयते ॥ आपस्तम्बगृह्यसूत्र १३.९ ॥
टीकाः
अनुकूलावृत्ति १३.९
अथ तासामपां शेषं पृर्वस्यां दिशि नयति प्रदाता ।
तत्नीयमानं<उत्तरयर्चाऽ> समुद्रं वऽइत्येतयाभिमन्त्रयते पूज्यमानः मानः ।
एतस्मिन्काले वस्त्रयुगलं कुण्डलयुगं गां स्रजं यच्चान्यदलङ्करणार्थ तत्सर्व दद्यात् ।
भोजनान्त इत्यन्ये ।
तत्सर्वमपचितिशब्देन चोदितं द्रष्टव्यम् ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.९
अथ तासां शेषं दात्रा पुरस्तात्नीयमानं पूज्यःऽसमुद्रं वःऽइत्येतया अनुमन्त्रयते ।
केचितस्मिन् काले भोजनान्ते वा पूज्याय वस्त्रकुण्डलयुगाद्यालङ्करणं दातव्यम्॑न्यथायं पूजित एव न भवति ।
एतच्चाप चिति शब्देनास्माकमपि चेदितमेवेति ॥९॥
८ मधुपर्कदानम् ।
दधि मध्विति संसृज्य कांस्येन वर्षीयसा पिधाय कूर्चाभ्यां परिगृह्यऽमधुपर्कऽइति प्राह ॥ आपस्तम्बगृह्यसूत्र १३.१० ॥
टीकाः
अनुकूलावृत्ति १३.१०
<वर्षीयसा> बृहता कांस्येन पात्रेण मधुपर्क प्राह ।
कांस्येन वर्षीयसा पिधायेत्येवमपि सम्बन्धः ।
तेनोभयोः पात्रयोः कांम्य नियमः सिद्धो भवति ।
इतिशब्दः प्रकारेदधि मध्विति वा पयो मध्विति वेति ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.१०
दधि मध्वित्येतद्द्वयं नियमविधानात्कस्मिश्चित्पात्रे संसृज्य, ततो वर्षीयसा बृहता कांस्येन पात्रेण पिधाय ।
शेषं व्यक्तम् ।
अन्ये तु अपिधानं कांस्यं प्रदर्शनार्थम्, तेनेतरदपि कांस्यमेवेति ॥१०॥
९ मधुपर्कद्रव्याणि ।
त्रिवृतमेके घृतं च ॥ आपस्तम्बगृह्यसूत्र १३.११ ॥
टीकाः
अनुकूलावृत्ति १३.११
त्रयाणां द्रव्याणां समुदायः<त्रिवृत्> ।
पूर्वोक्ते द्वे दधि मध्विति वा पयो मध्विति वा,घृतञ्च तृतीयम् ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.११
त्रयाणां द्रव्याणां समाहारस्त्रिवृच्छब्देनोच्यते ।
तस्मिन् पक्षे पूर्वोक्ते दधिमधुनी घृतं च संसर्जनीयानि ॥११॥
पाङ्क्तमेके धानास्सक्तूंश्च ॥ आपस्तम्बगृह्यसूत्र १३.१२ ॥
टीकाः
अनुकूलावृत्ति १३.१२
पञ्चानां द्रव्याणां समुदायः<पाङ्क्तम् ।
>दधि मधु घृतं धानास्सक्तवः इति ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.१२
इहापि पञ्चानां समुदायः पाङ्क्तः ।
शेषं पूर्ववत् ॥१२॥
१० मधुपर्कप्राशनम् ।
उत्तराभ्यामभिन्त्र्य यजुर्भ्यामप आचामति पुरस्तादुपरिष्टाच्चोत्तरया त्रिः प्राश्यानुकम्प्याय प्रयच्छेत् ॥ आपस्तम्बगृह्यसूत्र १३.१३ ॥
टीकाः
अनुकूलावृत्ति १३.१३
अथ तं मधुपर्कमुत्तराभ्यामृग्भ्यांऽत्रय्यै विद्यायै,ऽआमागन्निऽत्येताभ्यामभिमन्त्र्य पूज्यमानः प्रतिगृह्णाति ।
पाद्यादीनामभिमन्त्र्य प्रतिग्रहदर्शनात्मधुपर्कस्याभिमन्त्र्य प्रतिग्रहः, न प्रतिगृह्याभिमन्त्रणम् ।
ततस्तंऽयन्मधुनऽइत्येतया त्रिः प्राश्नाति ।
सकृन्मन्त्रेण द्विस्तूष्णीम् ।
ततः प्राशनस्य पुरस्तादुपरिष्टाच्च यजुर्भ्यामनन्तरपठिताभ्या"ममृतोपस्तरणमस्यमृतोपिधानमसीऽत्येताभ्यां यथाक्रमं अप आचामति ।
तत्र प्रयोगः अमृतोपस्तरणसीत्युपस्तरणीया अप आचम्य मधुपर्क मन्त्रेण प्राश्याचम्य एवं द्विस्तूष्णीं प्राश्यापिधानीया अप आचामति ।
पश्चात्शौचार्थमाचमनम् ।
<शेषं> मधुपर्कप्राशनशेषं<अनुकम्प्याय>अनुग्राह्याय पुत्राय भ्रात्रे वा समावृत्तायैव प्रयच्छेत् ।
सोऽपि तं प्राश्नाति ।
सोमभक्षणे मधुपर्कप्राशने भोजने च मध्ये नोच्छिष्टतेति शिष्टाः स्मरन्ति ॥१३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.१३
अथ पूज्यस्तं मधुपर्क प्रतिगृह्यापिधानपात्रमपनीयऽत्रय्यै विद्यायैऽऽआमागन् यशशाऽइति द्वाभ्यामभिम्नत्र्य ।
ऽअमृतोपस्तरणमसिऽ इति यजुषा<पुरस्तात्प्रा>शनादपः पिबति ।
तत आचम्यऽयन्मधुनो मधव्यम्ऽइत्यनया त्रिः प्राश्नाति ।
द्विस्तूष्णीम् ।
ततःऽअमृतापिधानमसिऽ इति यजुषा<उपरिष्टादप्यपः>पिबेत् ।
अताचम्य शेषमनुकम्प्याय अनुग्राह्याय पुत्राशिष्यादये समावृत्तायैव प्राशितुं<प्रयच्छेत्॑> न तु ब्रह्मचारिणे,ऽन चास्मै श्रुतिविप्रतिषिद्धमुच्छिष्टं दद्यात्ऽ(आप.ध.१४५) इति निषेधात् ।
नन्विह मध्ये शुद्ध्यर्थमुपस्तरणानन्तरमाचमनं न कर्तव्यम्॑स्माकं वचनाभावात् ।
न्यायतेऽपि नैव॑भोजनवदपिधानान्तमेक कर्मत्वात् ।
अपरथा भोजमेऽपि प्रतिग्रासमाचमनं प्रसज्येत ।
अथ सर्वदेशकालकर्तृव्याप्ताचारबलात्तत्कर्तव्यमिति चेत्, न॑यमाचार उक्तलक्षणो न वेत्यर्वाचीनानां दुर्निश्चेयत्वात् ।
अत्रोच्यतेनायमाक्षेपः बोधायनादिगृह्येषूपस्तरणानन्तरमाचमनविधिदर्शनेनास्माकमप्याचारः सर्वदेशादिव्यापीति निश्चेतुं सुशकत्वात् ।
उक्तं चैतत्"अथ कर्माण्याचाराद्यानिऽ(अप.गृ.११) इत्यत्र गार्ह्यअणीति स्वशब्दं विहाय, आचारादित्युपलक्षणतो व्याख्येयगार्ह्यकर्मनिर्देशात्, गृह्यान्तराद्युपदिष्टविषयोऽप्यस्मदीयानामाचारो वेदमूल एवेति ।
भोजने तु न प्रतिग्रासमाचमनप्रसक्तिः॑क्वचिदपि वचनाभावात्, आचाराभावाच्च ।
सोमपाने पुनःऽन सोमेनोच्छिष्टा भवन्तिऽइति वचनादन्तेऽपि नैवाचमनम् ।
अपि चैतदाचमनम्
शिकाबन्धनादिवत्कर्तुः संस्कारकम्, सन्निपाति च अनुक्तमप्यपेक्षितमन्यतो ग्राह्यमिति न्यायविदः ।
तस्मादिहोपस्तरणानन्तमाचमनं कार्यमेव ।
केचित्बौधायनादिभिरुपस्तरणापिधानयोस्तदर्थानां चापां निवेदनस्य पृथगुपदेशातुपस्तरणादूर्ध्वमाचमनविधानाच्च उपस्तरणादेः
बहिरङ्गत्वेन कर्मान्तरत्वावगतेर्युक्तं तेषां प्राशनात्त्प्रागप्याचमनम् ।
अस्माकं तु तथाविधोपदेशाभावात्, अन्तरङ्गत्वेन उपस्तरणाद्य पिधानान्तं भोजनवदेकं कर्मेति मध्ये सुद्ध्यर्थमाचमनं न युक्तमिति ।
मैवम्॑यतोऽस्माकमपिऽयजुर्भ्यामप आआचामतिऽइति शब्दान्तरेणाचमनयोः पृथगोवोपदेशः ।
अस्मादेव पृथगुपदेशात्तदर्थानामपामावेदनं चाक्षेप्यम् ।
अतोऽस्माकं तेषां चोपदेशे वैषम्य भावात्तुल्ययोगक्षेममेवाचमनम् ॥ १३ ॥
११ मधुपर्कप्रतिग्रहीता राजा स्थपतिर्वा चेत्तेन तस्य पुरोहिताय दानम् ।
प्रतिगृह्यैव राजा स्थपतिर्वा पुरोहिताय ॥ आपस्तम्बगृह्यसूत्र १३.१४ ॥
टीकाः
अनुकूलावृत्ति १३.१४
एवकारात्प्राशनमकृत्वा पुरोहिताय प्रदानम् ।
स विधिवत्प्राश्नाति ॥१४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.१४
<राजा स्थपतिश्च>मधुपर्क<प्रतिगृह्यैव पुरोहिताय> प्रयच्छेत् ।
एवकारादभिमन्त्रणमकृत्वा ।
अभिमन्त्रणादि तु प्रशनान्तं पुरोहितस्यैव ।
प्राशनान्तं पुरोहितस्यैव ।
पुनश्चोत्तरं कर्म राजादेरेव ॥१४॥
१२ गोनिवेदनम् ।
गौरिति गां प्राह ॥ आपस्तम्बगृह्यसूत्र १३.१५ ॥
टीकाः
अनुकूलावृत्ति १३.१५
अथाचाम्योपविष्टाय गां निवेदयतेगौरिति ।
स्त्री च गौर्भवति, गौर्धनुभव्येति दर्शनात् ।
यद्वा पुमानपि भवति ।
श्रूयतोहि
"तद्यथैवादो मनुष्यराज आगतेऽन्यस्मिन् वार्ऽहति उक्षाणं वेहतं वा क्षदन्ते"इति ।
(ऐ.ब्रा.१३४) एवमर्थमेवात्र गामित्युक्तं गोजातिमात्रस्य न्वेदनं यथा स्यात्. अन्यथा गौरिति प्रहेत्येतावता सिद्धं यथा पाद्यदिषु ॥१५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.१५
प्राशने कृते दाताऽगौःऽ<इति गां प्राह>कथयति ।
गैश्च स्त्री,ऽगौर्धेनुभव्याऽइति स्त्रीलिङ्गनिर्देशात् ।
एतच्च कथनं, किमियं गौस्संज्ञप्यतामुत्सृज्यतां वा?इति पूज्याभिप्रायनिश्चयार्थम् ।
स च स्वाभिप्रायं दीतुर्ब्रूयात् ॥१५॥
१३ गोर्वपां श्रपयित्वा तस्याः पलाशपर्णेन होमः ।
उत्तरयाभिमन्त्र्य तस्यै वपां श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेनोत्तरया जुहोति ॥ आपस्तम्बगृह्यसूत्र १३.१६ ॥
टीकाः
अनुकूलावृत्ति १३.१६
अनुजानीयदित्यध्याहारः ।
कल्पान्तरे तथा दर्शनात् ।
ओंकुरुत्ति कारयिष्यननुजानीयादिति ।
प्रोक्तायां गवि तां<उत्तरया>ऽगौरस्यपहतपाप्मेऽत्येतया पूज्यमानोऽभिमन्त्र्य ।
यद्यस्य आलम्भनमिच्छननुजानीयात् ।
यद्यप्येक एवार्र्धचस्समाम्नायते तथापि स्त्रीलिङ्गनिर्देशादृगेवैषागायत्री ।
तत्रामुष्येत्यस्य स्थाने प्रदातुर्नामनिर्देशः मम च यज्ञशर्मणश्चेति ॥१६॥
ततः प्रदाता तेनासम्भनेऽनुज्ञाते लौकिक्याऽवृता तस्या गोरालम्भं कृत्वा वपामुत्खिद्य वपाश्रपणीभ्यां परिगृह्य औपासने पचने वा
<श्रपयित्वा तामुपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेनोत्तरयर्चाऽ> <ग्निः प्रा>श्नात्विऽत्येतया तस्मिन्नेवाग्नौ <जुहोति ।>
<उपस्तीर्याभिघारितामिति>उपस्तरणाभिघारणे कृत्वेत्यर्थः ।
हुत्वा ततो मांसं संस्कृत्यान्नेन सह तस्मा उपहरन्ति ।
ऽअविकृतमातिथ्यऽमिति वचनातुपस्तरणाभिघारणयोरप्रसङ्गे वचनम् ।
पलाशपर्णेनेत्येव सिद्धे मध्यमेनान्तमेनेतिवचनं द्विपर्णस्य पलाशवृन्तस्य पर्णेन होमो मा भूदिति ।
अभावविकल्पार्थ वा पूर्व मध्यमेन तदभावे अन्तमेनेति ॥१७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.१६
यदि प्रतिहीता संज्ञपनमिच्छेत्, तदाऽगौरस्यपहतपाप्माऽइत्येतयानवसानया गामभिमन्त्रयते ।
अमुष्येत्यस्य स्थाने चार्हयितुर्नाम विष्णुशर्मण इति गृह्णाति ।
ततस्सुकमासीत ।
दातुरेव वपाहोमान्तं कर्म ।
अभिमन्त्र्येति च क्तवाप्रत्ययः क्रियाविधान मात्रार्थ एव, न तु समानकर्तृकत्वार्थः ।
<तसायै>तस्याः संज्ञपनं कृत्वा, वपामुत्थिद्य,<श्रपयित्वा, मध्यमेनान्तमेन वा पलाशपर्णेन> लौकिकेनाज्येनोपस्तीर्य कृत्स्नां वपां सकृदेवावदायाभिघार्यऽअग्निः प्राशनातुऽइत्येतया तेन पर्णेन स्वागेनौ <जुहोति ।>
तत्र च मध्यमेनान्तमेन वेति वचनं द्विपर्णप्रतिषेधार्थमभावविकल्पार्थ वा ।
शिष्टैश्चावदानैस्संस्कृतैस्सहान्नं भोजयेत् ।
अयं च संज्ञपनपक्षः कलियुगानाचारेषु पठितत्वादिदानीं त्याज्य एव ॥१६॥
१४ गोरुत्सर्गपक्षे कर्तव्यः प्रकारः ।
यद्युत्सृजेदुपांशूत्तरां जपित्वोमुत्सृजते त्युच्चैः ॥ आपस्तम्बगृह्यसूत्र १३.१७ ॥
टीकाः
अनुकूलावृत्ति १३.१७
अथ यदि गामुत्सृजत्ययं पूज्यमानः स गौरिति प्रोक्ते मन्त्रानुत्तरांश्चतुरोऽयज्ञे वर्धताऽमित्युपांशु जपति ।
जपित्वाऽओमुत्सृजतेऽ<त्युच्चैः>प्रसौति ।
प्रदाता च तामुत्त्सृज्यान्यत्मांसं कल्पयति,ऽनामांसो मधुपर्को भवतीऽ(आश्व.गृ.१९२८) तु कल्पान्तरात् ।
तत्र पुङ्गवालम्भे गौर्धनुभव्यामातारुद्राणामेतयोर्लोपः लिङ्गविरोदात्, नेत्यन्ये ।
जपत्वादेव सिद्धे उपांशुवचनं नियमार्थमुत्तरे चत्वार एव मन्त्राः
उपांशु वक्ततव्याः ।
न प्रणव इति ।
शास्त्रान्तरदर्शनात्प्रसङ्गः ।
प्रणवद्युच्चैः, ऊर्द्व वा प्रणवातिति ।
तेन ब्रह्मणः एवैष विकल्पः सिद्धो भवति ।
इहप्रसवांविध्रभावेऽपि उत्यैरिति वचनादेव प्रसौतिर्द्रष्टव्यः ॥१८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.१७
यदि पूजेयो गामुत्सृज्यमानामिच्छेत् ।
अयं च कामप्रवेदने लिङ् ।
तदोत्तरान् त्रीन्मन्त्रान्ऽयज्ञो वर्धताम्ऽइत्यादिकानु<पांशु> <जपित्वाऽ> <ओमुत्सृजतऽ> <इत्युच्चैः>प्रब्रूयादिति शेषः ।
केचित्यज्ञ इत्यादिकाश्चत्वारो मन्त्रा इति ।
इयं च गौरुत्सर्जनपक्षेऽपि भोक्तुरेव ॥ १७ ॥
१५ अन्ननिवेदनम् ।
अन्नं प्रोक्तमुपांशूत्तरैरभिमन्त्र्य ओं कल्पयते त्युच्चैः ॥ आपस्तम्बगृह्यसूत्र १३.१८ ॥
टीकाः
अनुकूलावृत्ति १३.१८
अथान्नं सामिषं समाहृत्य तस्मे प्राहभूतमिति ।
सिद्धेऽन्ने भूतमिति प्राह (बौ.गृ१२५५) इति कल्पान्तरम् ।
अस्माकं च वैश्वदेवे ।
तस्मात्भूतमित्येव निवेदनम् ।
तदन्नं पेरोक्तमुत्तरैः पञ्चभिर्मन्त्रैर्भूतमित्यादिभिः भोक्तोपांश्वभिमन्त्र्य ओंकल्पयतेत्युच्चैः प्रसौति ।
प्रसूताः परिवेष्टारः परिवेषन्ति चतुरो नानागोत्रान् ब्राह्मणान् भोजयतेति ब्रूयेत्तोषु भुक्तवात्स्वन्नमस्मा उपाहरन्तीति (बौ.गृ.१२) कल्पान्तरम् ॥१९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.१८
अथ दाता सिद्धमन्नंऽभूतंऽइति मन्त्रेण पूज्याय प्रब्रूयान्निवेदेत् ।
कुत एतत्?ऽसिज्झेऽन्ने तिष्ठन् भूतमिति स्वामिने प्रब्रूयात्ऽ (आप.ध.२३१०) इति वैश्वदेवे दर्शनात् ।
मधुपर्कप्रकरण एवऽसिद्धेन्ने तिष्ठन् भूतमिति प्राहऽइति कल्पान्तराच्च ।
एवं प्रोक्तमन्नं भोक्ता
उत्तरैर्मन्त्रैःऽसुभूतम्ऽइत्यादिभिः पञ्चभिरुपांश्वभिमन्त्र्य,<ओं कल्पयतेत्युच्चैः ।>
अत्राप्यनुजानीयांदिति शेष ।
ततो भोजनं ॑न्ननिवेदनस्य दृष्टार्थत्वात्, आचाराच्च ॥१८॥
१६ मधुपर्करहअः ।
आचार्यायर्त्विजे श्वशुराय राज्ञ इति परिसंवत्सरादुपतिष्ठद्भ्य एतत्कार्यम् ॥ आपस्तम्बगृह्यसूत्र १३.१९ ॥
टीकाः
अनुकूलावृत्ति १३.१९
आचार्यादयः प्रसिद्धाः ।
तेभ्यश्चतुर्भ्यः परिसंवत्सरं विप्रेष्योपतिष्ठद्भ्यः गृहमातिश्येनागतेभ्यः एतदपचित्कर्म कूर्चादि भोजनान्तं कर्तव्यम् ।
केन?गृहस्थेन ।
निवेशे हि वृत्ते नैयमिकानि?श्रूयन्ते अग्निहोत्रमतिथयः इति वचनात् ।
अत्र केचिदाहुः
आचार्यायर्त्विजे श्वशुराय राज्ञ इत्येतत्कार्यम् ।
इत्येको योगः ।
अथ परिसंवत्सरादुपतिष्ठद्भ्यश्चायं कार्यः इति ।
तेन विवाहाद नन्तरं आचार्यश्वशुराभ्यां निमन्त्र्यापचितिः कर्तव्या ।
ऋत्विजे च कर्मणि, राज्ञे चाभिषेकानन्तरम् ।
अथ तेभ्य एव संवत्सरं विप्रो ष्योपगतेभ्यश्च कर्तव्यमिति ॥२०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.१९
यदेतदर्हणं कूर्चादि भोजनान्तं गृहस्थेन स्नातकाय स्नानदिवस एवागताय कर्तव्यमिति विहितं, तदाचार्यादिभ्यःपरि<संवत्सरात्>संवत्सरादूर्ध्व गृहमुपतिष्ठद्भ्यः उपागतेभ्यः पुनः पुनः कार्य॑न तु स्नातकवत्सकृत् ।
न चाप्यर्वाक्संवत्सरात् ।
अत्र चेतिशन्दश्चार्थः ।
ननु धर्मशास्त्रेऽगोमधुपर्करहो वेदाध्यायः ।
आचार्य ऋत्विक्स्नातको राजा वाधर्मयुक्तः ।
आचार्यायर्त्विजे श्वशुराय राज्ञ इति परिसंवत्सरादुपतिष्ठद्भ्यो गौर्मधुप४ अश्च ।
दधिमधुसंसृष्टं मधुपर्कः पयो वा मधुसंसृष्टम् ।
अभाव उदकम्, (आप.ध.२८५...९) इति स्नातकायाचार्यायर्त्विजे उपाध्यायाय श्वशुराय राज्ञे च दक्षिणार्थगवा सह मधुपर्को विहितः ।
किमर्थमिह पुनर्विधीयते?उत्यते इह विकल्पेन विहितस्य त्रिवृतः पाङ्क्तस्य च तस्मिन् गोमधुपर्के अवेदाध्यायाय श्वशुराय च दीयमाने च प्राप्त्यर्थम् ।
यत्तु तत्रैवऽगौर्मधुपर्कश्चऽइति पुनर्वचनं, तदाचार्यर्त्विदाध्यायश्वशुरराजभ्य एव परिसंवत्सरादुपतिष्ठद्भ्यः पुनः पुनः कार्यम्, स्नातकवेदाध्यायतिथिभ्यस्तु सकृदेवेत्येवमर्थम् ॥१९॥
सकृत्प्रवक्त्रे चित्राय ॥ आपस्तम्बगृह्यसूत्र १३.२० ॥
टीकाः
अनुकूलावृत्ति १३.२०
सकृत्न प्रतिवतसरं कलौ गोरालम्भ्स्य न्षेधाद्रौरित्युत्त्का यज्ञो वर्धतामित्यादि जपेत्मध्यमन्त्रलोपः)प्रवक्त्रे वेदस्य वेदार्थस्य च चित्राय प्रसिद्धाय भिन्नसंशयायेत्यर्थः ।
एवं भूतायोपस्थिताय सकृदेतदपचितिकर्म कर्तव्यं, न प्रतिसंवत्सरमिति ॥२१॥________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.२०
प्रवक्ता यः पदवाक्यप्रमाणाभ्यां प्रकर्षेण वक्ति साधुशब्दानामुच्चारयिता, प्रमाणोपंपन्नं व्याख्याता चेत्यर्थः ।
चित्रः प्रकाशः लोके प्रसिद्ध इत्यर्थः . इदं प्रवक्तुरेव विशेषणम् ।
तस्मै सकृदेवैतत्गार्ह्य गेरहितं कार्यम् ।
अयं च प्रवक्ता न वेदाध्यायः ।
स हि गोमधिपर्करहः ।
यस्सषडङ्गं वेदमधीते, अर्थाश्च जानाति स वेदाध्यायः ।
ननुसामयाचारिके गोमधुपर्के धर्मा नोपदिष्टाः, स कथं कर्तव्यः?उच्यतेनामधेयं धर्मग्राहकम्ति मीमांसकाः ।
तेन गृह्ये याज्ञिकप्रसिद्ध्या मधुपर्कसंशिके कर्मणि उपदिष्टा एव धर्माःऽगोमधिपर्करहःऽइत्यत्र मधुपर्कनाम्ना अतिदिश्यन्ते,ऽमासमग्निहेत्रं जुहोतिऽइतिवत् ।
ऽदधिमन्थो मधुमन्थःऽ(मधुपर्कः)(आप. श्रौ.६३२५) इत्यत्र तु दक्षिणाद्रव्यस्य कर्मवद्धमार्कअङ्क्षा भावान्नातिदेशः ।
अत्र च वेदाध्यायातिथिपूजायामयं विशेषः,ऽदधिमधुसंसृष्टं मधुपर्कःऽइति प्रत्यक्षविधानादतिदेशप्राप्तं त्रिवृत्त्वं पाङ्क्तत्वं च बाध्यत(आप.श्रौ.२८८) इति ।
अयमत्र निश्चितोर्ऽथः आचार्यायर्त्विजे वेदाध्यायाय श्वशुराय राज्ञे च दक्षिणार्थाधिकगवा विना गार्ह्यः सामयाचारिको वा मधिपर्कः कार्यः ।
परिसंवत्सरादिपागतेभ्यः पुनः पुनः कार्यः ।
अवेदाध्यायाय श्वशुरायाधिकगवा विना गार्ह्यः
अतिथिवरापचितेभ्यो वेदाध्यायेभ्यः सह गवा धर्मोक्तः ।
अवेदाध्यायाभ्यां तु वरापचिताभ्यां स्नातकाय च स्नानदिन एवागताय गवा विना गृह्योक्तो धर्मोक्तो वा ।
प्रकाशाय च प्रवक्त्रे विना गवा गार्ह्यः ।
आचार्यादिभ्यश्चतुर्भ्योऽन्येषां सकृदेवेति ।
केचितत्र योगविभागमाहुः ।
आचार्यादिभ्य॑चतुर्भ्य एतत्कार्यमित्येको योगः ।
तेन विवाहानन्तरमाचार्यश्वशुराभ्यां निमन्त्र्यापि पूजा कार्या ।
अन्यथा संवत्सरमपि प्रोषिताभ्यां सकृदपि न सिध्येत् ।
ऋत्विजे च कर्मणि कर्मणि पूजा कार्या ।
राज्ञे चाभिषिक्ताय नियमेनैव ।
तथाऽपरिसंवत्सरादुपतिष्ठद्भ्यः पुनः पुनःऽइत्यन्यो योगः ।
स्पष्टश्चायं सामयाचारिकेषु विभागः,ऽगोमधुपर्करहःऽइति पूर्व विधाय, पश्चात्ऽआचार्यायऽइत्यादिना पुनर्विधानात् ।
पूर्वयोगे च श्वशुरशब्दो निपातयितव्यः ।
न चात्रान्य तरविध्यारम्भो व्यर्थः ।
सामयाचारिकेषु सर्वाचरणार्थेन विहितायां पूजायां, गार्ह्यस्यास्मदीयानां धर्मातिदेशार्थत्वात् ।
न च नाम्ना धर्मातिदेशः, गोमधुपर्कशब्दयोःऽमधुमन्थो मधुपर्कःऽ इतिवत्द्रव्याभिधायकत्वात् ।
अतोर्ऽथभेदात्गृह्ये धर्मे च विध्यारम्भोर्थवान् ।
तथा वेदस्य वेदार्थस्य च प्रवक्त्रे च्त्राय एतत्सकृत्कार्यमिति ।
तच्चिन्त्यम् ॥२०॥
इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने त्रयोदशः खण्डः ॥
पञ्चमश्च पटलस्समाप्तः ॥
====================================================================================
अथ षष्ठः पटलः ॥
चतुर्दशः खण्डः ।
मन्त्राम्नानक्रमेण विवाहादयस्संस्कारा व्याख्याताः ।
अनन्तरं तत्क्रमेणैव सीमन्तादयो व्याख्यायन्ते
१० सीमन्तोन्नयनम्
१ सीमन्तोन्नयनकालः ।
सीमन्तोन्नयनं प्रथमे गर्भे चतुर्थे मासि ॥ आपस्तम्बगृह्यसूत्र १४.१ ॥
टीकाः
अनुकूलावृत्ति १४.१
सीमन्तो नाम केशमध्येर्खाविशेषः ।
स उन्नीयते यस्मिन् कर्मणि तत्<सामन्तोन्नयनन्नाय>कर्म गर्भसंस्कारः ।
तच्चतुर्थे मासि कर्तव्यम् ।
प्रथमनियमादाधारसंस्कारोऽयम् ।
आधारे च संस्कृते तत्राहिताः सर्व एव गर्भाः संस्कृता भवन्ति ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.१
<सामन्तोन्नयनमित्>कर्मनामधेयम्, यस्मिन् कर्मणि गर्भिण्यास्सीमन्त उन्नीयते तत्व्याख्यास्याम इति शेष ।
तच्च<प्रथमे गर्भे॑>न तु गर्भे गर्भे ।
गर्भार्थमेवाधारस्त्रूसंस्कारः ।
स्त्रीसंस्कारत्वात्सकृदेव कृतस्सीमन्तस्सर्वानेव गर्बान् संस्करोति ।
<चतिर्थे मासि>चतुर्थे मासे ।
अल्लोपश्छान्दसः,ऽछन्दोवत्सूत्राणि भवन्तिऽइति स्मृतेः ॥१॥
२ तत्र प्रधानहोमा, जयादयश्च ।
ब्राह्मणान्भोजयित्वाऽशिषो वाचयित्वाग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते ॥ आपस्तम्बगृह्यसूत्र १४.२ ॥
टीकाः
अनुकूलावृत्ति १४.२
तत्र पूर्वेद्युर्नान्दीश्राद्धम् ।
अथ तस्मिन्नहनि<ब्राह्मणान् भोजयित्वा>तैर्भुक्तवद्भिः<आशिषो वाचयित्वा>अग्नेरुपसमाधानादि प्रतिपद्यते सकृत्पात्राणि शलल्यादयश्च सह शम्यः ॥२॥
अष्टौ प्रधानाहुतयोऽधाता ददातु नो रयिऽमिति चतस्रोऽयस्त्वाहृदा कीरिणेऽति चतस्रः ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.२
इह ब्राह्मणभोजनाशीर्वचनयोर्विधानं उपनयनवत्क्रमार्थम् ।
पात्रासादनकाले तु यथार्थ शलल्यादीनि सकृदेवासाद्यानि ।
शम्याश्च परिध्यर्थे ।
<उत्तराः>ऽधाता ददातु नो रयिम्ऽइति चतस्रोऽयस्त्वा हृदा कीरिणाऽइति चतस्र इत्यष्टौ ।
शेषं सुगमम् ॥२॥
३ त्रेण्या शलल्या सीमन्तोन्नयनम् ।
परिषेचनान्तं कृत्वापरेणाग्निं प्राचीमुपवेश्य त्रेण्या शलल्या त्रिभिर्दर्भपुञ्जीलैश्शलालुग्लप्सेनेत्यूर्ध्व सीमन्तमुन्नयति व्याहृतीभिरुत्तराभ्यां च ॥ आपस्तम्बगृह्यसूत्र १४.३ ॥
टीकाः
अनुकूलावृत्ति १४.३
<प्राचीं>प्राङ्मुखीं स्वयं प्रत्यङ्मुखः ।
त्रिषु प्रदेशेषु एनी श्वेती<त्रेणी> ।
इकारलोपश्छान्दशः ।
णत्वं च ।
<शलली>शल्यकस्य रोमसूची ।
सविशाखा नाडी<पुञ्जील>मित्युच्यते ।
दर्भस्य पुञ्जीलानि त्रीणि भवन्ति ।
उदुम्बरस्य फलसङ्घातविशेषस्तरुणः <शलालुग्लप्स>इत्युच्यते ।
पिशाचोदुम्बरस्येत्यन्ये ।
एतानि द्रव्याणि युगपद्गृहीत्वा<तैस्सीमन्तमुन्नयति ऊ>र्ध्वमुदूहति भूर्भुवस्सुवरित्ये ताभिः
<उत्तराभ्यां च>ऽराकामहं,ऽयास्तेराकऽइत्येताभ्याम् ।
त्रयाणामन्ते सकृदुन्नयनम् ।
इह मन्त्रसमाम्नाये व्याहृतीनां पाठो न कर्तव्यः ।
व्याहृतिभिरित्येतेनैव सिद्धस्सम्प्रत्ययः ।
यथा व्याहृतीश्च जपित्वा, व्याहृतीर्विहृताः, इत्यादौ ।
एवं सिद्धे व्याहृतीनां पाठः समाम्नायार्थम् ।
किञ्चासति पाठे व्याहृतिभिरुत्तराभ्याञ्चेत्युच्यमाने याजमानसमाम्नायात्ग्रहणं प्राप्नोतिव्याहृतिभिरुत्तराभ्याञ्च मन्त्राभ्यांऽउच्छुष्मो अग्नऽ इत्येताभ्यामिति ।
तत्र पाठस्य प्रसिद्धत्वात् ।
ऽराकामहंऽऽयास्ते राकेऽइत्येतयोश्च प्रधानाहुतित्वं विज्ञायेत, विशेषाभावात् ।
तस्मादस्मादेव समाम्नायद्ग्रहणं यथा स्यादिति व्याहृतीनामिह पाठः ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.३
प्राचीं<प्राङ्मुखीम् ।>
स्वयं तु प्रत्यङ्मुखः ।
<त्रेणी>त्रीण्येतानि शुक्लानि यस्यास्सा ।
यद्वा त्रिषु प्रदेशेषु एनी श्वेता ।
त्रेणीति च रूपं छान्दसम् ।
<शल्ली>सूच्याकारं शल्यलोम ।
त्रेणीति शलल्या विशेषणम् ।
<दर्भपुञ्जीलं>सविशाखा नाडी ।
<शलालुर्गो>ष्ठोदुम्बरः, करपत्रोदुम्बरः, पिशाचोदुम्बरैत्यनर्थान्तरम् ।
<ग्लप्सः>स्तबकः॑पिशाचोदुम्बरस्य तरुणफलसङ्घातविशेष इत्यर्थः ।
इत्येतैर्द्रव्यैर्युगपद्गृहीतैरूर्ध्व<सीमन्तमुन्नयति>शिरसि मध्ये रेखामुदूहति ।
कैर्मन्त्रैः?ऽभूर्भुवस्सुवःऽऽराकामहं सुहवाम्ऽऽयास्ते राके सुमतयःऽ इत्येतैर्मन्त्रैः ।
चकारो बहुमन्त्रज्ञापनार्थः ॥३॥
४ वीणागाथिभ्यां वीणागानार्थ संशासनम् ।
गायतमिति वीणागाथिनौ संशास्ति ॥ आपस्तम्बगृह्यसूत्र १४.४ ॥
टीकाः
अनुकूलावृत्ति १४.४
वीणया यो गाथां गायति स<वीणगाथी> ।
तावुभौ प्रागेवानीतौ भवतः ।
तौ <संशास्ति> संप्रेष्येति<गायतमिति> ।
तौ गायतः ।
तत्रऋङ्नियमः ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.४
वीणया गाथां गायत इति<वीणागाथिनौ> ।
<गायतमिति संशास्ति>संप्रेष्यति ॥४॥
उत्तरयोः पूर्वा साल्वानां ब्राह्मणानामितरा ॥ आपस्तम्बगृह्यसूत्र १४.५ ॥
टीकाः
अनुकूलावृत्ति १४.५
<उत्तरयोः>ऋचोः या<पूर्वा>ऽयौगन्धरिऽत्येषा ।
सा<साल्वानां>सीमन्तकर्मणि गाथा साल्वदेशनिवासिनां अस्यामृचि गानं कर्तव्यमित्यर्थः ।
स देशो यमुनातीरे भवति ।
वैश्याश्च तत्र भूयिष्ठं भवन्ति ।
तेषामेव राजा यौगन्धरिः ॥६॥
इतराऽसोम एव नो राजेऽत्येषा ।
न सर्वेषां ब्राह्मणानामपि तु साल्वानाम् ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.५
<उत्तरयोः>ऋचोः वीणागाथिनौ गायेताम् ।
केषां कतरा गाथा?इत्यत आह<पूर्वेति ।
पूर्वा>ऽयौगन्धरिः"इत्येषा ।
साल्वदेशीयानां त्रयाणां वर्णानामपि गाथा॑ऽसालवीःऽइत्यविशेषलिङ्गात् ।
अन्यदेशवासिनां<ब्राह्मणानामितरा>ऽसोम एव नो राजाऽइत्येषा ।
क्षत्रियवैश्यानां तुऽसोमोमएव नो राजावतु मानुषीः प्रजाः (आश्व.गृ.११२७) इत्याश्वलायनीये दृष्टायां सार्ववर्णीक्या मृचि गानं कर्तव्यम् ।
न तु गानाभावः ।
गायतमित्यविशेषेण संशासनविधानात् ।
केचित्साल्वानामपि ब्राह्मणानामितरेति ॥५॥
५ गाने निकटवर्तिन्या नद्या नामनिर्देशः ।
नदीनिर्देशश्च यस्यां वसन्ति ॥ आपस्तम्बगृह्यसूत्र १४.६ ॥
टीकाः
अनुकूलावृत्ति १४.६
द्वितीये मन्त्रे असौ शब्दस्य स्थाने नद्या नाम संबुध्या निर्देष्टव्यम् ।
यस्यां वसन्ति यामुपजीवन्तीत्य४ हः ।
यथातीरेण कावेरि तवेति ।
क्षत्रियाणां तु सर्वेषां कल्पान्तरदृष्टायां सार्ववर्णिक्यामृचि गानं भवति ।
"सोम एव नो राजेत्याहुर्मानुषीः प्रजाः ।
विवृत्तचक्रा आसीना" इति ।
अत्रापि नदीनिर्देशस्सम्बुध्या ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.६
ऽसोम एव नो राजाऽइत्यस्वां असावित्यस्य स्थानेऽकावेरिऽऽवेगवतिऽइति सम्बुध्या<नदीनिर्देसश्च>भवति ।
कस्या नद्याः?इति चेत्ऽ<यस्यां वसन्तिऽ> समीपसप्तमी चेयम् ।
यस्यास्समीपे वसन्ति तस्या निर्देश इत्यर्थः ॥६॥
६ यवाङ्कराबन्धनम्, ततो वाग्यमश्च ।
यवान् विरूढानाबध्य वाचं यच्छत्यानक्षत्रेभ्यः ॥ आपस्तम्बगृह्यसूत्र १४.७ ॥
टीकाः
अनुकूलावृत्ति १४.७
<विरूढात्>अङ्कुरितान् सूत्रबद्धानाबध्नाति शिरसि वध्वाः ।
सैव वाचं यच्छति ।
एवमुपदेशो भोजनञ्चास्यास्मिन्नहनि नेच्छन्ति ।
यवाश्च प्रागेव वप्तव्याः यथास्मिन् काले विरूढा भवन्ति ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.७
अङ्कुरितान् सूत्रग्रथितान्<यवान्>वध्वाशिशरस्याबध्नाति ।
शिरसीति कुतः?आचारात् ॥७॥
७ नक्षत्रोदयानन्तरं वक्सान्वारम्भणं, वाग्विसर्गश्च ।
उदुतेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य वत्समन्वारभ्य व्याहृतीश्च जपित्वा वाचं विसृजेत् ॥ आपस्तम्बगृह्यसूत्र १४.८ ॥
टीकाः
अनुकूलावृत्ति १४.८
<वत्सः>पुमान् गौश्च भवति ।
व्याहृतयस्समस्ताः याजमानसमाम्नायात्प्रत्येतव्याः ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.८
विस्पष्टार्थम् ।
इह केचिदध्येतारोऽयच्छतोऽऽविसृजतऽइति द्विवचने पठन्ति ।
तस्मिन् पक्षे वाग्यमनादिपदार्थपञ्चकमुभौ जायापती कुरुतः ।
केचित्यवाबन्धनादि सर्व वधूरेव॑न पतिरिति ॥८॥
११ पुंसुवनम्
१ तस्य कालः ।
पुंसुवनं व्यक्ते गर्भे तिष्येण ॥ आपस्तम्बगृह्यसूत्र १४.९ ॥
टीकाः
अनुकूलावृत्ति १४.९
पुमान् येन सूयते <तत्पुंसुवनं>नाम कर्म ।
उवङादेशश्छान्दसः ।
मन्त्रदर्शनात्पुंसुवनमसीति ।
आश्वलायनस्तु गुणमेव प्रायुङ्क्त ।
तत्,<व्यक्ते गर्भे>कर्तव्यम् ।
गर्भव्यक्तिश्च तृतीये चतुर्थे वा मासि ।
यदापि चतुर्थे तदा सीमन्तात्पूर्वमेव पुंसवनम् ।
निमित्तस्य पूर्वत्वात् ।
पश्चादुपदेशस्य तु प्रयोजनं वक्ष्यामः ।
<तिष्येण>तच्च तिष्ये कर्तव्यम् ।
ऽनक्षत्रे च लुपीऽति अधिकरणे तृतीया ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.९
<पुंसुवनमित्यपि>कर्मनामधेयम्, येन कर्मणा निमित्तेन गर्भिणि पुमांसमेव सूते <तत्पुंसवनम्> ।
व्याख्यायत इति शेषः ।
अत्र चोवङादेशश्छान्दसः ।
आश्वलायनस्तुऽपुंसवनम्ऽइति सगुणमेव प्रायुङ्क्त ।
<व्यक्ते गर्भे>अस्ति गर्भ इति निश्चिते ।
व्यक्तिश्च तृतीये चतुर्थे वा मासे॑बहुचादिषु स्मृत्यन्तरेषूभयथा दर्शनात्. यदि पुंसवनं चतुर्थे स्यात्तदा पूर्व सीमन्तं कृत्वैव ।
कुत एतत्? पुंसवने पश्चात्क्रियमाणेऽपि चोदितकालानतिक्रमात्, पश्चान्मन्त्राम्नानसूत्रोपदेशयोरेवंक्रमार्थत्वाच्च ।
केचित्तृतीयवच्चतुर्थेऽपि सीमन्तात्पूर्व निमित्तस्य पूर्वत्वादिति ।
इदमपि सीमन्तवत्प्रथमगर्भ एव, न तु प्रतिगर्भम्॑पिष्टपेषणन्या यदेव ।
एतच्च पुमांसं जनयतीत्यत्र विवेचयिष्यते ।
<तिष्येण तिष्यनक्षत्रे पुंस>वनं कर्तव्ययमिति व्यवाहितेन सम्बन्धः॑ऽप्रकरणात्प्रधानस्यऽइति न्ययात् ।
शुङ्गाहरणे त्वनियमः ॥
२ न्यग्रोधवृक्षात्फलविशिष्टाग्राङ्कुरानयनम्, सीमन्तवत्प्रधानाहुतयो जयादयश्च ।
न्यग्रोधस्य या प्राच्युदीचीं वा शाखा ततस्सवृषणां शुङ्गामाहृत्य सीमन्तवदग्नेरुपसमाधानादि ॥ आपस्तम्बगृह्यसूत्र १४.१० ॥
टीकाः
अनुकूलावृत्ति १४.१०
<न्यग्रोधस्य>वृक्षस्य<या प्राची शाखोदीची वा> तस्याः<शुङ्गामग्राङ्कुरं> <सवृषणां>फलं वृषणमिति व्यपदिश्यते सादृश्यादेव ।
तद्वतीं शुङ्गामाहृत्य सीमन्तवदग्नेरुपसमाधानादि परिषेचनान्तं कर्म प्रतिपद्यते ।
अग्नेरुपसमाधानादिवचनात्ततः पूर्व ब्राह्मणभोजनमाशीर्वचनं च न भवति ।
अन्ते तु भवति"शुचीन्मन्त्रवतस्सर्वकृत्येषु भोजये"दिति ।
तथा यत्परिषेचनादीर्ध्व संशासनादि तदपि न भवति ।
अपरेणाग्निं प्राचीमिति पुनरिहोपदेशात् ।
तत्रप्रयोगःपूर्वद्युर्नान्दीश्राद्धम् ।
अपरेज्युरग्नेरुपसमाधानादि सकृत्पात्रप्रयोगः ।
शुङ्गया सह परिधय एव, न शम्याः ।
आज्यभागान्तेऽन्वारब्धायां धाता ददातु नो रयिऽमिति चतस्रो यस्त्वा हृदा कीरिणेति चतस्रः जयादि प्रतिपद्यते ।
परिषेचनान्ते ततो वक्ष्यमाणं कर्म ॥ १२ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.१०
<सवृषणां>वृषणाकृतिकेन फलद्वर्येन संयुक्तां,<शुङ्गां> अग्रङ्कुरम् ।
व्यक्तमन्यत् ।
अत्र च सीमन्तवदग्नेरुपसमाधानादीत्यतिदेशात्ब्राह्मणभोजनमाशीर्वचनं च तन्त्रात्पुरस्तान्निवर्तते ।
कर्मान्ते तु भवत एव ।
शुचीन्मन्त्रवतर्स्सवकृत्येषु भोजयेन ।
(आप.ध.२१५११) इति सामान्यवचनात्,ऽलोके च भूतिकर्मस्वेतदादीन्येव वाक्यानि स्युर्यथापुण्याहं स्वस्तिऋद्विमिति वाचयित्वा (आप.ध.११३९) इति वचनाच्च ।
पात्रप्रयेगे च शुङ्गादीनां कर्मोपयुक्तानां सकृदेव सादनम् ।
तथात्र परिधय एव, न तु शम्याःऽशम्याः परिध्यर्थेऽइति अत्र चौलगोदानग्रहणात् ।
तथैवऽसीमन्तवदग्नेरुपसमाधानादिऽइत्यादिना परिषेचनान्तकल्पातिदेशस्य विवक्षितत्वादिहापि त एवाष्टौ प्रधानहोमाः ॥१०॥
अथ समाप्ते तन्त्रशेषे कर्तव्यमाह
३ तानङ्कुराननृतुमत्या कुमार्या पेषयित्वोत्तानं शायिताया गर्भिण्या दक्षिणनासायां निषेचनम् ।
अनवस्नातया कुमार्या दृषत्पुत्रे दृषत्पुत्रेण पेषयित्वा परिप्लाव्यापेरणाग्निं प्राचीमुत्तानां निपात्योत्तरेण यजुषाङ्गुष्ठेन दक्षिणे नासिकाच्छिद्रेऽपिनयति ॥ आपस्तम्बगृह्यसूत्र १४.११ ॥
टीकाः
अनुकूलावृत्ति १४.११
यस्याः प्रादुर्भीतं रजः सा अवस्नाता ।
तद्विपरीता<अनवस्नाता> ।
एवंभूता कन्या कर्त्री पेषणस्य ।
प्रयोजकः पतिः ।
उपलोदृषत्पुत्रः ।
दृषदर्थेऽपि दृषत्पुत्र एव ।
तत्र शुङ्गां पेषयित्वा वस्त्रेण परिप्लाव्य अपरेणाग्निं <प्राचीं> प्राङ्मुखीं<उत्तानां ऊर्ध्वमुखीं,> निपात्य शाययित्वा<उत्तरेण यजुषा>ऽपुंसुवनमसीऽत्यनेन तं रसं अङ्गुष्ठेन तस्या नासिकाच्छिद्रे दक्षिणे <अपिनयति>अपिगमयति ।
प्राङ्मुख एव ।
(पिधाय नयनं स्वयं च प्राङ्मुखः) ॥१३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.११
स्नाननिमित्तस्य रजसोऽनुत्पन्नत्वात्या न स्नाता तया<अनवस्नातया>कन्यया दृषदर्थापन्ने <दुषत्पुत्रे>शुङ्गां निधाप्य<दृषत्पुत्रान्तरेण> पेषयित्वा तद्रसंवस्त्रेण प्लावयित्वा ततो जायामपरेणाग्निं <प्राचीं>प्राक्छिरसं<उत्ता>नामूर्ध्वमूखीं,<निपात्य>शाययित्वा ।
ऽपुंसुवनमसिऽइति यजुषा <दक्षिण नासिकाछिद्रे अङ्गुष्ठेन>करणभूतेन तद्रसमपिनयति गर्भ प्रापयति ।
सा रसं न निष्ठीवेदित्यर्थः ॥११॥
४ तत्फलकथनम् ।
पुमांसं जनयति ॥ आपस्तम्बगृह्यसूत्र १४.१२ ॥
टीकाः
अनुकूलावृत्ति १४.१२
एवमनेन कर्मणा संस्कृता स्त्री<पुमासं जनयति ।>
केचिदर्थवादमिदं मन्यन्ते ।
फलविधौ कामसंयोगेन क्रियाया अनित्यत्वप्रसङ्गात् ।
यद्यर्थवादः प्रतिगर्भमावृत्तिप्रसङ्गः ।
एवं तर्हि प्रथमे गर्भे इत्यनुवर्तते ।
एवमर्थमेव चास्य पश्चादुपदेशः ।
व्यक्तं चैतत्
छन्दोगानांप्रथमे गर्भे तृतीय मासि पुंसवनमिति ।
अन्ये फलविधिं मन्यन्ते ।
तत्र च"एषवा अनृणो यः पुत्री"ति (तै.सं६३१०) वचनात्पुत्रस्य सकृदुत्पादनं नित्यमिति यावदेकः पुत्र उत्पद्येत तावदूगर्भेषु भवति ।
ऊर्ध्व तु पुत्रेच्छायां सत्यां भवति दुहितुरीप्सायां न भवति ।
प्रथमग्रहणं च नानुवर्तते, पुनर्र्गभग्रहणात् ।
पुंसुवनस्य तु पश्चादुपदेशो यथा चतुर्थे मासि तत्क्रियते तस्य पश्चात्प्रयोगार्थ इति ॥१४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.१२
कर्मणीनेन संस्कृता अन्तर्वत्नी<पुमांसं जनयतीत्य>र्थवादः नित्यत्वात्पुंसुवनस्य ।
एथवा फलम्॑
सूत्रकारेणोपदिष्टत्वात्॑यथा
ऽसहस्रं तेन कामदुघोऽवरुन्धेऽइति ।
फलमक्षेऽपिऽएष वा अनृणो यः पुत्रीऽइत्यादिव चनैस्सकृदपि पुत्रोत्पादनस्य अवश्यक र्तव्यत्वात्तदङ्गं पुंसुवनं प्रथमे गर्भे कर्तव्यमेव ।
तत ऊर्ध्व तु यत्र यत्र गर्भे पुत्रेप्सा तत्र तत्र कर्तव्यं नान्यत्र ।
यस्त्वतिक्रान्त चोदनः स्त्रीरेव जनयेयमिति कामयते तस्य सकृदपि न भवति ।
अन्ये तुपुमांसं जनयतीत्येतद्वचनं गर्भे गर्भेऽस्य कर्तव्यतापरमिति ॥१२॥
५ क्षिप्रसुवनं कर्म ।
क्षिप्रं सुवनम् ॥ आपस्तम्बगृह्यसूत्र १४.१३ ॥
टीकाः
अनुकूलावृत्ति १४.१३
येन कर्मणा क्षिप्रं सूयते तत्<क्षिप्रंसुवनं>नाम कर्मोच्यते ॥१५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.१३
येन<क्षिप्रं>शीघ्रं सूतेऽन्तर्वत्नी न चिरं कालं पीड्यते तत्<क्षिप्रंसुवनं>नाम इति कर्मोपदिश्यते ॥१३॥
अनाप्रीतेन शरावेणानुस्रोतसमुदकमाहृत्य पत्तस्तूर्यन्तीं निधाय मूर्धञ्छोष्यन्तीमुत्तरेण यजुषाभिमृश्यैताभिरद्भिरुत्तराभिरवोक्षेत् ॥ आपस्तम्बगृह्यसूत्र १४.१४ ॥
टीकाः
अनुकूलावृत्ति १४.१४
<अनाप्रीतेना>स्पृष्टोदकेनानुस्रोतसं उदकस्य प्रस्नवतो न प्रतीपम् ।
<पत्तः>पादयोरधस्तात्यस्याः श्वेतोपमानि पत्राणि पीतोप मानि पुष्पाणि या च मध्याङ्णे पुष्यति सा तीर्यन्ती वनेषु जायते ।
वेणुपत्रोपमानि च यस्याः पत्रीणि रक्तोपमानि च पुष्पाणि यां चाग्निशिखेत्याहुः ।
सा शोष्यन्ती ततोषधिद्वयं समूलपत्रमादाय सुष्लिष्टं निदधाति ।
<मुर्धन्>मुर्धनीत्यर्थः ।
अपरे पिष्टिवा आलिम्पन्ति ।
अथ<तामुत्तरेण यजुषाऽ>आभिष्ट्वाहं दशभिरभिमृशामिऽइत्यनेनाभिमृशति ।
दशभिरिति लिङ्गादुभाभ्यां पाणिभ्यामभिमर्शनमनुलोमं मुखादारभ्य तत एताभिराहृताभिरेवाद्भिस्तामवोक्षेत् ।
उत्तराभिस्तिसृभिः ऋग्भिःऽयथैव सोमः पवतऽइत्येताभिः प्रतिमन्त्र मवोक्षणम् ॥१६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.१४
<अनाप्रीतेन> अनुदकलिप्तेन अस्पृष्टोदकेनेत्यर्थः ।
तथाभूतेन<शरावेण ।>
<अनुस्रोतसं>स्रोतोषनुलोभं न प्रतीपं गृहीतमुदमाहृत्य ।
पत्तस्तस्याः पादयोः<तूर्यन्तीं>अधःपुष्पिताख्यामोषधिं निधाय ।
<शोष्यन्तीं>प्रसवपीडया शुष्यमाणां स्त्रियंऽआभिष्ट्वाहं दशभिरभिभूमृशामिऽइति यजुषोभाभ्यां हस्ताभ्याम् ।
वमूर्धन्<मूर्धन्यभिमृश्य ।
एताभिराहताभिरद्भिः उत्तराभिः>ऽयथैव सोमः पवतेऽ इत्यादिभिस्तिसृभिस्तां<सकृदेवावोक्षेत् ।>
केचित्प्रतिमन्त्रम्॑दृष्टोपकारत्वादिति ।
तत्र प्रथमाया ऋचःऽप्रतितिष्ठतुऽइत्यवसानम् ।
द्वितीयायाःऽता कृतम्ऽइति ।
तृतीयायाःऽसरस्वतीःऽइति ।
अन्ये तुशोष्यन्तीति चौषधिः ।
तां मूर्ध्निं निधाय स्त्रियं यत्र क्वचाभिमृशेदिति ।
तन्न॑शोष्यन्तीसंज्ञाया ओषधेरप्रसिद्धत्वात् ।
केचित्शोष्यन्तीनामौषधिः या वनेषु जायते, वेणुपत्रोपमानि च यस्याः पत्राणि, पुष्पाणि च रक्तोपमानि, यां चाग्निशिखेत्याहुरिति ।
तन्न॑यतो वाच्यवाचकभावो नेपद्शगम्यः, यथादुर्वार्तिककारपादाः
ऽवाच्यवाचकभावो हि नाचार्यैरुपदिश्यते ।
अन्यथानुपपत्त्या तु व्यवहारात्स गम्यते ॥
(तं.वा.१३९) इति ।
इह तु व्यवहाराभावादेव विप्रतिपत्तिः ।
सा भाष्यकारादप्याप्ततमप्रणीताभिधानकोशेषु शोष्यन्तीशब्दस्याग्निशिखापरपर्यायतया पाठाच्छाम्यति ।
न च तथा दृश्यते ।
तस्माद्वरं पूर्वोक्तमेव व्याख्यानमिति ॥१४॥
अथान्यद्भैषज्यमाह
६ जरायुपतनार्थ कर्म ।
यदि जरायु न पतेदेवंविहिताभिरेवाद्भिरुत्तराभ्यामवोक्षेत् ॥ आपस्तम्बगृह्यसूत्र १४.१५ ॥
टीकाः
अनुकूलावृत्ति १४.१५
<जरायु> गर्भावेष्ठनं,<तद्यदि न पतेत्,> तत उत्तरो विधिः कर्तव्यः ।
कः पुनरसौ?क्षिप्रंसुवने यो विधिश्चोदितःऽअनाप्रीतेन शरावेणेऽत्यादि (<एवं विहिताभिरद्भिः उत्तराभ्यां>मन्त्राभ्यां"तिसदेव पद्यस्व, निरै तु पृश्नि शेवलऽमित्येताभ्यां प्रतिमन्त्रमवोक्षेत् ।
एते च कर्मणी स्वभार्याविषयौ)यक्ष्मगृहीतामन्यां वेति कर्मान्तरे यत्नकरणात् ।
अन्ये पुनरविशेषेणेच्छन्ति ॥१७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १४.१५
<यदि> प्रसूतायास्तस्या<जरायु>गर्भप्रावरणं<न पतेत्तदा>ऽअनाप्रीतेन शरावेणऽइत्यादिविधिनाऽहृताभिरद्भिः ऐतु गर्भौ अक्षितःऽ
इत्येताभ्यामृग्भ्यां तामवोक्षेत् ।
केचित्प्रतिमन्त्रम् ।
तथा पूर्वस्मिन्नवोक्षणे षडवसानास्तिस्र ऋचः ।
इह तुऽतिलदेव पद्यदेव पद्यस्वऽइत्येका ऋक्॑ऽनिरैतु पृश्निऽइत्यपरं यजुरिति ॥१५॥
इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने चतुर्दशः खण्डः समाप्तः ॥
पञ्चदशः खण्डः ।
१२ जातकर्म
१ जातस्य कुमारस्य वात्सप्रेणाभिमन्त्रणम्, मूर्धन्यवघ्राणम्, दक्षिणकर्णजपश्च ।
जातं वात्सप्रेणाभिमृश्योत्तरेण यजुषोपस्थ आधायोत्तराभ्यमाभिमन्त्रणं मूर्धन्यवघ्राणं दक्षिणे कर्णे जापः ॥ आपस्तम्बगृह्यसूत्र १५.१ ॥
टीकाः
अनुकूलावृत्ति १५.१
जातमिति पुल्लिङ्गस्य विवक्षितत्वात्पुंस एवायं जातकर्माख्यः संस्कारः ।
न स्त्रियाः ।
वत्सप्रीर्नाम ऋषिः ।
तेन दृष्टं वात्सप्रं दिवस्परीत्येषोऽनुवाकः ।
प्रत्यृचमभिमर्शनम् ।
सर्वान्त इत्यन्ये ।
<उत्तरेण यजुषा>ऽअस्मिन्नहऽमित्यनेन ।
उत्तरत्र मातुरिति विशेषणादिह स्व उपस्थ आदधाति ।
उत्तराभिरिति पाठः उत्तराभिः तिसृभिः ऋग्भिः अभिमन्त्रणादीनि त्रीणि कर्तव्यानि ।
ऽअङ्गादङ्गाऽदित्यभिम्नत्रणम् ।
ऽअश्मा भवेऽतिमूर्धन्यवघ्राणम् ।
ऽमेधां तऽइति दक्षिणे कर्णे जापः ।
जप इत्यर्थः ।
केचित्तु उत्तराभ्यामिति द्विवचनान्तपाठमाश्रित्य द्वयोर्मन्त्रयोः त्रिष्वपि कर्मसु विनियोगं मन्यन्ते ।
तेषामवघ्राणलिङ्गेनाभिमन्त्रणं कर्णयोर्जपश्च प्राप्नोति ।
आश्वलायनश्चाहकर्णयोरुपनिधाय मेधाजननं जपति मेधां ते देवस्सवितेति (आश्व.श्रौ.११३२) ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.१
जातं जातमात्रम्, प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते ॥
(मनु.२२९) इति वचनात् ।
एतच्चोपरिशोध्यते ।
जात कुमारं पिता वात्सप्रेणऽदिवस्परिऽ(तै.सं४२२) इत्यनुवाकेन अन्ते सकृदभिमृश्यऽअस्मिन्नहम्ऽइत्यनेन यजुषा स्वस्योपस्थे तमाधाय, उत्तराभ्यांऽअङ्गादङ्गात्ऽऽअश्मा भवऽइति द्वाभ्यां तस्याभिमन्त्रणं कर्तव्यम्, तथैव ताभ्यामेव मूर्धन्यवघ्राणम्, एतयोरेवर्चोः दक्षिणे कर्णे जापो जप इत्यर्थः ।
वचनबलाच्च जपाभिमन्त्रणयोरवघ्राणलिङ्गबाधः ।
अभिधानं तु जातसंस्कारक्रियासामान्यात् ।
एतच्चऽतर्धिस्थाणुचतुष्पथव्यतिक्रमेऽ (आप.गृ.५१६) इत्यत्रोपपादितम् ।
केचितुत्तराभिरिति पाठो, नोत्तराभ्यामिति ।
तेनऽअङ्गादङ्गात्ऽइत्यभिमन्त्रणम् ।
ऽअश्मा भवऽइत्यवघ्राणम् ।
ऽमेधां ते देवःऽइति जपः ।
अत एवाश्वलायनः "कर्णयोरुपनिधाय मे धाजननं जपतिऽमेधां ते देवस्सविताऽइति" ।
मधुघृतप्राशनं तुऽत्वयि मेधाम्ऽ इति यजुर्भिरेव त्रिभिरिति ।
तन्न॑नधीयमानपाठाङ्गीकारे अतिप्रसङ्गात् ॥१॥
२ नक्षत्रनामनिर्देशः ।
नक्षत्रनाम च निर्दिशति ॥ आपस्तम्बगृह्यसूत्र १५.२ ॥
टीकाः
अनुकूलावृत्ति १५.२
अभिजिघ्राम्यसौ इत्यत्रासौशब्दस्य स्थाने नक्षत्रनामनिर्देशः ।
तत्संबुध्या निर्दिशेत्पशूनां त्वा हिंकारेणाभिझिघ्राम्याश्वयुजेत्यादि ।
तत्र नक्षत्रशब्देषु जातार्थे रूपनिर्णयार्थः श्लोकः
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.२
रोरेममृज्येचिषु वृद्धिरादौष्ठात्पे च वान्त्यश्रवशाश्वयुक्षु ।
शेषेषु नाम्वोः कप्रस्स्वरोषन्त्यः स्वाप्वोरदीर्घस्साविसर्ग इष्टः ॥
अस्यार्थःरोहिणी रेवती मघा मृगशीर्षा ज्येष्ठा तित्राइत्येतेषु आद्यक्षरनिर्दिष्टेषु आदौ वृद्धिर्बवति,ऽनक्षत्रेभ्यो बहुलम्, (पा.सू.४३३७)इति बहुलग्रहणाज्जातार्थप्रत्ययस्य च लुगभावः ।
रूपं च रौहिणः रैवतः माघः मार्गशीर्षः ज्यैष्ठः चैत्रः इति ।
ष्ठात्पे च, प्रोष्ठपदेत्यत्र ष्ठकारात्परे पकारे च वृद्धिः ।
"जे प्रोष्ठपदानाम्ऽ(पा.सु.७३१८)इत्युत्तरपदवृद्धिरित्यर्थः ।
पूर्ववच्च लुगभावः प्रोष्ठपादः ।
वान्त्यश्रवशाश्वयुक्षु ।
अन्त्यमाम्नानतः अपभरणीरित्यर्थः ।
श्रवः श्रवणं शशतभिषकश्वयुकित्येतेषु चतुर्षु वा विकल्पेन वृद्धिः ।
अत्र च श्रवणापभरण्योः बहुलग्रहणादेव लुको विकल्पः ।
अश्वयुक्छतभिषजोस्तुऽवत्सशालाभिजिदश्वयुक्छ तभिषजो वाऽ(पा.सू.४३३६)
इति सूत्रेण ।
अपभरणः आपभरणः ।
श्रवणः श्रावणः ।
शतभिषक्शातभिषजः ।
अश्वयुकाश्वयुजः ।
शेषेषु न उक्तादन्येषु नक्षत्रेषु न वृद्धिः यतोऽत्रऽश्रविष्ठाफल्गुन्यनूराधास्वातितिष्यपुनर्वसुहस्त विशाखाषाढाबहुलाल्लुक्ऽ (पा.सू.४३३४) इत्यनेन, नक्षत्रेभ्यो बहुलम्ऽइत्यनेन च लुग्व भवति ।
ऽलुक्तद्धितलुकिऽ(पा.सू१२४९) इति स्त्रीप्रत्ययनिवृत्तिः कृत्तिकः तिष्यः आश्रेषः फाल्गुनः हस्तः विशाखः अनूराधः आषाढः श्रविष्ठः ।
आम्वोः कपरः स्वरोऽन्त्यः, आर्द्रमूलयोरन्त्यः स्वरः कशब्दपरो भवति ।
पूर्वाङ्णापरोह्णार्द्रअमूलाऽइत्यादिना वुन्प्रत्यय इत्यर्थः ।
आर्द्रकः मूलकः ।
स्वाप्वोरदीर्घस्साविसर्ग इष्टः, स्वाप्वोः स्वातीपुनर्वस्वोरन्त्यस्वरोऽदीर्घस्सविसर्गश्चेष्टः ।
ऽश्रविष्ठाफल्गुनीऽइत्यादिना लुक् ।
सविसर्गत्वं च पूर्वस्य स्त्रीप्रत्ययस्यनिवृत्तौ हल्ङ्यादिलोपाभावात् ।
उत्तरस्यतु तनुवदुकारान्तत्वात् ।
स्वातिः पुनर्वसुः ।
एवं सर्वेषां नक्षत्रनाम्नां प्रथमया निर्देशः सूक्तवाके ।
जातकर्मणि पुनस्सम्बुद्ध्या ॥२॥
तद्रहस्यं भवति ॥ आपस्तम्बगृह्यसूत्र १५.३ ॥
टीकाः
अनुकूलावृत्ति १५.३
नक्षत्रनाम रहस्यं भवति ।
यथा परे न जानन्ति तथा वक्तव्यमित्यर्थः सूक्तवाकादिष्वप्येवमेव ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.३
नक्षत्रनाम च रहस्यं निर्दिशतीति सूत्रे प्रणेतव्ये सूत्रान्तरकरणात्यत्नामनक्षत्रनिबन्धनं, यच्च दशम्यां कृतं तदुभयं जातकर्म सूक्तवाकान्नप्राशनाभिवादनादिषु नित्यं रहस्यमेव निर्देश्यं भवति ॥३॥
३ कुमारस्य मधुघृतप्राशनम्, दधिघृतप्राशनं च ।
मधु, घृतमिति संसृज्य तस्मिन् दर्भेण हिरण्यं निष्टर्क्य बध्वावदायोत्तरैर्मन्त्रैः कुमारं प्राशयित्वोत्तराभिः पञ्चभिस्स्नापयित्वा दधि घृतमिति संसृज्य कांस्येन पृषदाज्यं व्याहृतीभिरोङ्गारचतुर्थाभिः कुमारं प्राशयित्वाद्भिश्शेषं संसृज्य गोष्ठे निनयेत् ॥ आपस्तम्बगृह्यसूत्र १५.४ ॥
टीकाः
अनुकूलावृत्ति १५.४
मधुघृतमित्येतद्वयं विषमपरिमाणं कास्यपात्रे संसृज्य तस्मिन् हिरण्यं दर्भेण, निष्टर्क्य बध्वाऽदधाति ।
निष्टर्क्यमिति बन्धनविशेषो लोकप्रसिद्धः ।
तथा बद्धेन हिरण्येन तद्रसद्वयमादाय तेनैव कुमारं प्राशयेत् ।
<उत्तरैस्त्रिभिः>ऽत्वयि मेधाऽमित्यादिभिः प्रतिमन्त्रं प्राशनम् ।
तत<उत्तराभिः पञ्चभिः>ऋग्भिःऽक्षेत्रियै त्वेऽत्यादिभिः प्रतिमन्त्रं स्ना॰ुयति ।
ततोऽन्यस्मिन् कांस्यपात्रे दधि घृतञ्च संसृड्य तत्पृषदाड्यं तेनैव कांस्येन प्राशयति ।
<व्याहृतीभिरेङ्कारचतुर्थाभिः>भूः स्वाहेत्यादिभिः प्रतिमन्त्रम् ।
ततश्<शेषद्वयमद्भिस्संसृड्य गेष्ठे निनयेत्> ।
कुमारग्रहणं असमर्थस्यापि कुमारस्यैव प्राशनमुपायेन यथा स्यादिति ।
तेन यत्नाभावे"धानाः कुमारान् प्राशयन्ति""क्षैत्रपत्त्यं च प्राशयन्ति"इत्यादौ प्राशनमसमर्थानां न भवति ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.४
<निष्टकर्य> शिखाबन्धनवत्सरन्ध्रेण ग्रन्थिना निष्टर्क्य बध्नाति॑प्रजानां प्रडननायऽइति लिङ्गात् ।
<उत्तरैर्मन्त्रैः>ऽमेधां ते देवस्सविताऽइत्यृचा,ऽत्वयि मेधान्ऽइति त्रभिर्यजुर्भिः ।
प्राशनं चतुर्णामन्ते सकृदेव हिरण्येन गृहात्वा ।
"मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम्ऽ ।
(मनु.२२९)
इति मनुवचनात् ।
<उत्तराभिः> पञ्चभिःऽक्षेत्रियै त्वा निऋत्यै त्वाऽइत्यादिभिः ।
स्नापनमपि पञ्चानामन्ते सकृदेव ।
<दधि धृतमितिव> <समसृष्टं पृषदा>ज्यम् ।
तच्च यस्मिन् कांस्ये संसृज्यते तेनैव प्राशयेन्न हस्तेन ।
व्याहृती<भिरोघ्कारचतुर्थाभिः>ऽभूः स्वाहाऽ इत्यादिभिः ।
अत्राप्यन्ते सकृत्प्राशनम् ।
प्राशित<शेषमद्भिस्संसृज्य गेष्ठे> अधिकरणेऽन्यो <निनयेत् ।>
केचित्मधृघृतसंसर्गोऽपि कास्ये नियतः ।
प्राशनद्वयं स्नापनं च प्रितिमन्त्रमिति ॥४॥
४ दक्षिणस्तनदापनम् ।
उत्तरया मातुरुपस्थ आधायोत्तरया दक्षिणं स्तनं प्रतिधाप्योत्तराभ्यां पृथिवीमभिमृश्योत्तरेण यजुषा संविष्टम् ॥ आपस्तम्बगृह्यसूत्र १५.५ ॥
टीकाः
अनुकूलावृत्ति १५.५
अथ तं कुमारंऽमा ते कुमारऽमित्येतया<मातुरुपस्थ>आदधाति ।
एतावन्तं कालं स्वोपस्थे ।
तस्मात्शेषनिनयनम प्यन्येन कारायितव्यम् ।
तत<उत्तरयर्चा>ऽअयं कुमारऽइत्येतया<दक्षिणं स्तनं प्रतिधाप्य> तत उ<त्तराभ्यां ऋग्भ्यां>ऽयद्भूमेर्हृदयऽमित्येताभ्यां प्रतिमन्त्रं पृथिवीमभिमृशति ।
ततः तं कुमारं अभिमृषाटायां भूमौ संवेशयति माता ।
तं संविष्टमुत्तरेण यजुषाऽनामयति न रुदतीऽत्यनेनाभिमृशति ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.५
<उत्तरया>ऽमा ते कुमारम्ऽइत्येतया कुमारं<मातुरुपस्थ> आदधाति ।
इह च मातृग्रहणादितः पूर्व स्वोपस्थ एव ।
अत एव च शेषनिनयनमन्यकर्तृकम् ।
<उत्तरया>ऽअयं कमारः इत्येतया<धक्षिणं स्तनं प्रतिधापयति>पाययति ।
इदं च मन्त्रस्तन नियमयोर्विधानं प्रथमस्तनपानविषयम्, प्रथमातिक्रमे कारणाभावात् ।
ततश्च जातोष्टिः,ऽवैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते यदष्टकपालो भवति गायत्रियैवैनं ब्रह्मवर्चसेन पुनातिऽ(तै.सं.२२५) इत्यादिना यद्यपि पुत्रजन्माख्यानिमित्तसंयोगेन श्रुता तथापि क्षामवत्यादिवन्न निमित्तादनन्तरं कर्तव्या ।
कुत एतत्?रात्रिसत्रन्यायेन आर्थवादिकपुत्रगतब्रह्मवर्चसादिकामनासंवलितस्यैव जन्मनोऽधिकारहेतुत्वाभ्युपगमात्
जातेष्ठिप्रवृत्तेश्चोत्कटजीवत्पुत्रगतपूततादिफलरागाधीनत्वात्दीर्घकालसमाप्यायां चेष्टौ कृतायां पश्चाद्वैधस्तनमाने सति कुमार एव शेषी शिष्कण्ठतया न जीवेत् ।
ततश्चेष्टेयां रागाधीनायां प्रवृत्तिरेव न स्यात् ।
तस्मात्जननानन्तरमेव संशासनान्तं जातकर्मैव कर्तव्यम् ।
इष्टिस्तूक्तेन न्यायेन निमित्तस्वारस्यभङ्गस्य दुर्निवारत्वात्चोदकानुग्रहाच्चाशौचेऽपगते पर्वण्येव कर्तव्या ।
<उत्तराभ्यां>ऽयद्भूमेर्हृदयंऽइत्येताभ्यां<पृथिवीं>सकृद<भिमृशति,>यत्र कुमारश्शतं<संविष्टं> <ऽ>नामयति न रुदतिऽइति<यजुषा> भिमृशति ॥५॥
५ फलीकरणहोमाः ।
उत्तरेण यजुषा शिरस्त उद्कुम्भं निधाय सर्षपान् फलीकरणमिश्रानञ्जलिनोत्तरैस्त्रिस्त्रिः प्रतिस्वाहाकारं हुत्वा संशास्ति प्रविष्टे प्रविष्ट एव तूष्णीमग्नावावपतेति ॥ आपस्तम्बगृह्यसूत्र १५.६ ॥
टीकाः
अनुकूलावृत्ति १५.६
ततस्तस्य शिरस्समीपे <उत्तरेण यजुषा>ऽआपस्सुप्तेष्विऽत्यनेन उदकुम्भं निदधाति ।
ततस्सर्षपान् फलीकरणमिश्रानञ्जलि ना जुहोति<उत्तरैर्मन्त्रैः>अष्टाभिःऽअयं कलिऽमित्यादिभिः ।
तत्र च प्रतिस्वाहाकारं त्रिर्होमः ।
सकृन्मन्त्रेण द्विस्तूष्णीम् ।
द्रव्यं च पुनः पुनरादेयम् ।
केचित्तु सकृदुपात्तेनैव त्रिर्जुह्वति ।
उत्तरयोश्च होमयोः स्वाहाकारमात्रमावर्तयन्ति ।
होमश्चायमपूर्वः तन्त्रस्याविधा नात्
परिस्तरणं तु भवति ।
परिषेटनं समन्तमुभयतः ।
हुत्वा ततस्संशास्ति ।
कान् !ये सूतिकागारं प्रविशन्ति ।
तत्र संशासने एवकारः
एवमित्यस्यार्थे ।
एतदुक्तं भवतिअस्य सूतिकागारस्य यदा यदा प्रवेशो युष्माभिः क्रियते तदा तदा सर्षपान् फलीकरण
मिश्रनस्मिन्नग्नावेवं तूष्णीमावपत यथा मयोप्ताः अञ्जलिना त्रिल्त्रिश्चेति ।
तत्र तूष्णीमित्यतिदेशप्राप्तस्य मन्त्रस्य प्रतिषेधः ।
यथासंप्रैषं ते
कुर्वन्ति ।
होमश्चायं कुमारस्य रक्षार्थः संस्कारः, न मातुः, प्रकरणात् ।
तेन यद्यपिऽयस्यै विजातायां मनऽइति मातुरपि रक्षा प्रतीयते तथापि
तदर्थो होमो न भवति ।
ततश्च स्त्रीप्रसवे दशाहमध्ये पुत्रमृतौ च न भवति ॥ ६ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.६
<उत्तरेण>ऽआपस्सुप्तेषुऽइत्यनेन<यजुषा> कुमारस्य शिरस्समीपे उदकस्य पूर्णकुम्भं निधाय अथऽयत्र क्व ताग्निम्ऽ (आय.ध.२१२३) इत्यादिविधिना श्रोत्रियागारादग्निमाहृत्य तमुपनिधाय<फलीकरणमिश्रान् सर्षपानुत्तरैः>ऽअयं कलिम्ऽइत्यादिभिरष्टभिर्मन्त्रैः अञ्जलिना प्रतिमन्त्रं<त्रिस्रिर्जुहोति> ।
तत्र तु द्विस्तूष्णीम् ।
तूष्णीकेष्वपि स्वाहाकारो भवति, प्रतिमन्त्रमिति सिद्धे प्रतिस्वाहाकारमित्यधिकाक्षरात् ।
अथ सूतिकागृहपालान्<समशास्तिप्रविष्टे प्रविष्ट एव तूष्णीमग्नावावपतेति> ।
सम्प्रैषस्य चायं विवक्षितोर्ऽथः प्रतिप्रवेशं तदनन्तरमेव सर्षपान् फलीकरणमिश्रानञ्जलिना अस्मिन्नेवाग्नौ तूष्णीं वाग्यता एव आवपतेति ।
एव काराच्च प्रवेशावापयोर्मध्ये त्रुटिमात्रस्यापि कालस्य न क्षेपः ।
सर्षपाणामेवाञ्जलिना आवापः॑प्रकृतत्वात् ।
केचितेवकार एवमित्यर्थे ।
तूष्णीमिति चातिदेशप्राप्तमन्त्रप्रतिषेधार्थमिति ॥६॥
(प.६.,खं.१५७)
एवमहरहरानिर्दशतायाः ॥ आपस्तम्बगृह्यसूत्र १५.७ ॥
टीकाः
अनुकूलावृत्ति १५.७
विजननप्रभृति यावत्दशाहानि न निर्गच्छन्ति तावदेव होमः कर्तव्यः संशानञ्चेत्यर्थः ।
सकृच्चहोमाः, न शायम् ।
यद्यपि संशासनमनन्तरं तथापि तावन्मात्रस्यायमतिदेशो न भवति ।
तस्य होमाशेषत्वात् ।
नापि वात्सप्रादेः ।
कृत्स्नस्य कल्पान्तरेषु सर्वेष्वप्रसिद्धत्वात् ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.७
यथैतदनन्करोक्तं तूष्णीमावपनं एवमहरहः अनिर्दशतायास्सूतिकागृहपालैः कर्तव्यम् ।
आङ्मर्यादायाम् ।
<निर्दशा>निर्गता दशभ्योऽहोरात्रेभ्यो या रात्रिस्सा ।
आदशम्या रात्रेरित्यर्तः ॥७॥
एवं जातकर्मोत्त्क्वा क्रमप्राप्तं नामकरणमाह
१३ नामकरणम्
६ तस्य कालः ।
(प.६.,खं.१५८)
दशम्यामुत्थितायां स्नातायां पुत्रस्य नाम दधाति पिता मातेति ॥ आपस्तम्बगृह्यसूत्र १५.८ ॥
टीकाः
अनुकूलावृत्ति १५.८
उत्थानं नाम सूतिकालिङ्गानामग्न्युदकुम्भादीनामपनयनम् ।
भर्तुश्च नापितकर्म ।
यच्चन्यत्स्त्रियो विदुः तच्च सर्ववर्मानां दशमेऽहनि भवति ।
दशमीशब्देन न रात्रिरुच्यते किं तर्हि ?अहोरात्रसमुदायः यथा"तस्मात्सदृशीनां रात्रीणा"मिति ।
तत्र परिभाषावशादहन्येव कर्म स्नानं च सति सम्भवे तस्मिन्नेवाहनि नियमेन भवति ।
प्रकारणादेव सिद्धे पुत्रस्येति वचनं वक्ष्यमाणोऽनाम्नो लक्षणविशेषःऽतस्यैव यथा स्यात् ।
तेन कुमार्याःऽअयुजाक्षरं कुमार्याःऽ(आप.गृ.१५११) इत्येतावदेव भवति ।
नऽनाम पूर्वमाख्यातोत्तरऽमित्यादि ।
<पिता मातेति> ता च ददतुर्यदग्रे"(तै.सं.१५१०) इति ।
तत्र प्रयोगः शुचीन्मन्त्रवतस्सर्वकृत्येषु भोजये (आप.घ.२१५११) दिति ब्राह्मणान् भोजयित्वा पितामाता च नामाग्रेऽभिव्याहृत्याशीर्वचनं ब्राह्मणैरभिव्याहारयेताम् ।
अमुष्मै स्वस्तीति कल्पान्तरे दर्शनात् ।
केचित्नाम करिष्याव सङ्कल्पमिच्छन्ति ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.८
<दशम्यां>रात्रौ दशमेऽहनि ।
<उत्थितायां>सूतिकागृहान्निष्क्रान्तायां प्रसूतिकायां स्नातायां च सत्याम् ।
एवं वदता दशमेऽहनि निष्क्रम्य स्नातव्यमित्युक्तं भवति ।
<पुत्रस्य पिता नाम दधातिव> व्यावस्थापयति॑न तु करोति॑शब्दार्थयोस्सम्बन्धस्य नित्यत्वात् ।
<माता> <च ।>
इतिशब्दश्चार्थे, मातापितरौ सहितौ नाम धत्त इति ।
इममर्थ मन्त्रवर्णेऽप्याह"मम नाम प्रथमं जातवेदः पिता माता च दधतुर्यदग्रे" (तै.सं.१५१०० इति ॥८॥
७ नामनि पुंसोऽक्षरसंख्या ।
(प.६.,खं.१५९)
द्व्यक्षरं चतुरक्षरं वा नामपूर्वमाख्यातोत्तरं दीर्घाभिनिष्ठानान्तं घोषवदाद्यन्तरन्तस्थम् ॥ आपस्तम्बगृह्यसूत्र १५.९ ॥
टीकाः
अनुकूलावृत्ति १५.९
अथ नाम्नो लक्षणविशेषः ।
सव्यञ्जनो निर्व्यञ्जनो वा स्वरोऽक्षरं<नाम>द्रव्यप्रधानं, तत्पूर्वपदं यत्र तत्<नामपूर्व> क्रियानिमित्तमाख्यातं, तदुत्तरपदं यत्र तत्<आख्यातोत्तरं> दीर्घात्परोऽभिनिष्ठानो विसर्जनीयोऽन्ते यस्य तत्<दीर्घाभिनिष्ठानान्तम्> तथा घोषवद्व्याञ्जनमादिभूतं यस्य तत्<घोषवदादि>अन्तर्मध्ये अन्तस्था यस्य तत्<अन्तरन्तस्थम्>वर्गाणां तृतीयचतुर्थौ इकारश्च घोषवन्तः ।
यरलवा अन्तस्थाः ।
दिवं नयतीति द्युतिः ।
गाः श्रयते इति गोश्रिः ।
गां प्रीणतीति गोप्तीः ।
हिरण्यः ददातीति हिरण्यदाः
भूरिदाः हरदत्त इत्यादीन्युदाहरणानि ।
"ऋष्यणूकं देवाताणूकं वा यथा वैषां पूर्वपुरुषाणां नामानि स्यु"रिति (बौ.गृ.२ २२८,२९) बौधायनः ।
<ऋष्यणूकं> ऋष्यभिधीयि वसिष्ठो जमदग्निरिति ।
<देवताणूकं>देवताभिधायि रुद्रो विष्णुरिति ।
<पूर्वपुरुषाः> पित्रादयः ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.९
अथ व्यवस्थापनीयस्य नाम्नो लक्षणमुच्यते<द्व्यक्षरं चतुरक्षरं>वेति समासेऽभिप्रेतः, न तु रूढिःऽनामपूर्वमाख्यातेत्तरम्ऽइति पूर्वोत्तरखण्डव्यवस्थापनात् ।
नापि वाक्यम्॑तस्य द्रव्यवाचकत्वाभावात् ।
कुतः पुनर्वाक्यसमासयोरर्तवत्समुदायत्वाविशेषेऽपि समास एव द्रव्यवाचको न वाक्यम्?इति चेत्॑ऽकृत्तद्धितमासाश्चऽ(पा,सू.१२४६) इति समासग्रहणस्य नियमार्थत्वात् ।
<नामपूर्व, > द्रव्यवाचकं सुबन्तं पदं नाम, तत्पूर्व यस्य तन्नामपूर्वम् ।
तथा आख्यातमुत्तरं पदं यस्य नाम्नस्तदाख्यातोत्तरम् ।
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.९
ननुऽसुप्सुपाऽइति समासनियमाताख्यातेन तिङन्तेन नैव समासः?सत्यम्॑त एवात्र आख्यातशब्देन आख्यात सदृशं क्विबन्तं सुबन्तमेव विवक्षितम् ।
सादृश्यं च क्रियाप्राधान्याभावेऽपि क्रियावाचित्वमात्रात्,ऽक्विबन्तो धातुत्वं न जहातिऽइति धातुसंज्ञत्वाच्च ।
<दीर्घाभिनिष्ठानान्तं>दीर्घश्चाभिनिष्ठानश्चान्ते यस्य नाम्नस्तत्तथोक्तम् ।
अभिनिष्ठान इति विसर्जनीयस्य पूर्वाचार्याणां संज्ञा ।
घोषवान् वर्ण आदिर्यस्य नाम्नस्तत्<घोषवदादि ।>
घेषवर्णाश्च प्रातिसाख्यसूत्रे प्रसिद्दाः,ऽऊष्मविसर्जनीयप्रथमद्वितीया अघोषाः
न हकारः ।
व्यञ्जनशेषो घोषवान्ऽइति ।
<अन्तरन्तस्थं>अन्तः मध्ये यस्य नाम्नोऽन्तस्थाः यरलवास्तत्तथोक्तम् ।
द्व्यक्षरस्योदा हरणंवार्दाः
वाः उदकं ददातीति वार्दाः, गिरं ददातीति गीर्दाः इत्यादि ।
चतुरक्षरस्य तु भाष्योक्तंऽद्रविणोदाः वरिवोदाःऽइति ।
एतद्द्वयमपि छान्दसम् ।
अन्यदपि हिरण्यदा युवतिदाइत्यादि ॥९॥
८ऽसुऽशब्दघटितस्य नाम्नः प्राशस्त्यम् ।
(प.६.,खं.१५१०)
अपि वा यस्मिन् स्वित्युपसर्गस्स्यात्तद्धि प्रतिष्ठितमिति हि ब्राह्मणम् ॥ आपस्तम्बगृह्यसूत्र १५.१० ॥
टीकाः
अनुकूलावृत्ति १५.१०
अपि वा अयमपि पक्षःयस्मिन्नाम्निऽसुऽइत्ययमुपसर्गः स्यात्देवतत्र लक्षणम् ।
नान्यद्व्यक्षरत्वादि ।
तद्धि प्रतिष्टिताम् ।
हि शब्दोऽतिशये ।
पूर्वस्मादप्यतिशयेन प्रतिष्ठितं, तेन पूर्वमपि द्व्यक्षरादि प्रतिष्ठितम् ।
तथाच पूर्वास्मिन्नेव लक्षणे स्थित्वा भरद्वाज आहद्व्यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्ठानान्तं तद्धि प्रसिद्धमिति विज्ञायते इति ।
<प्रतिष्ठितमिति> ।
ध्रुवमविनाश्या युष्यमित्यर्थः ।
सुभद्रस्सुमुख इत्याद्युदाहरणम् ।
उपसर्ग इति वचनात्सोमसुदित्यादि प्रतिष्ठितं न भवति ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.१०
अपि वा यस्मिन्नाम्निऽसुऽइत्ययुमुपसर्गस्स्यात्तन्नाम<प्रतिष्ठितं>आयुष्मद्यज्ञादिक्रियाच्च भवति॑यथासुजातः सुदर्शन इत्यादि ।
इह ब्राह्मणग्रहणात्द्व्यक्षरादिविशेषणैः स्विति विशेषणं विकल्प्यते ।
हिशब्दोऽनर्थको निपातः, अनर्थको मिताक्षरेषुऽइति वचनात् ।
उपसर्गग्रहणमुसर्गप्रतिरूपकाणां सुपसोमेत्यादीनां व्युदासार्थम् ।
अत्र बोधायनो विकल्पान्तराण्याहऽऋष्यणूकं देवताणूकं वा यथा वैषां पूर्वपुरुषाणां नामानि स्युःऽइति ।
अणूकमभिधायकं, प्रकरणात् ।
ऋष्यणूकं वसिष्ठः नारदः इत्यादि ।
देवताणूकं विष्णुः शिवः इति ।
पूर्वपुरुषाणां पितृपितामहादीनां वा नामानि यज्ञशर्मा, सोमशर्मा इत्यादिमि ॥१०॥
९ कुमार्या नामकरणम् ।
अयुजाक्षरं कुमार्याः ॥ आपस्तम्बगृह्यसूत्र १५.११ ॥
(प.६,खं.१५११)
टीकाः
अनुकूलावृत्ति १५.११
या स्ख्या अर्थविमितुं न शक्यते सा अयुक्संख्या ।
अयुञ्जि अक्षराणि यत्र ततयुजाक्षरमेकाक्षरं त्र्यक्षरमित्यादि ।
एतावदेव कुमार्या नामलणम्गौः, वाक्, पृथिवि, पार्वतीति ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.११
<अयुगक्षरं> विषमाक्षरं<कुमार्या> नाम भवति ।
अयुजाक्षरमिति छान्दसः ।
अयुगक्षरत्वमेकमेवात्र विशेषणम्, द्व्यक्षरादीनामनेन निर्वतितत्वात् ।
तद्व्यथाश्रीः, गौः, भारती, कमला, पतिवल्लभा, कमलेक्षणा, इत्यादि ।
कुमार्या अपि जातकादयश्चौलान्ताः देहंसस्कारार्थाः क्रियास्तूष्णीं कर्तव्या एव ।
"अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः ॥
संस्कारार्थ शरीरस्य यथाकालं यथाक्रमम्" ॥
(म.स्मृ.२६६)
इति मनुवचनात् ।
इह च द्रव्यनिष्ठा भावार्थाः प्राशनवपनादय एव निष्कृष्य कर्तव्याः, न तु होमाः॑ेवमेव शिष्टाचारात्, स्मृत्यर्तसारे दृष्टत्वाच्च ॥११॥
१० प्रवासादेत्य पित्रा पुत्रस्य मूर्धावघ्राणादि ।
प्रवासादेत्य पुत्रस्योत्तराभ्यामभिमन्त्रणं मूर्धन्यवघ्राणं दक्षिणे कर्ण उत्तरान्मन्त्रान् जपेत् ॥ आपस्तम्बगृह्यसूत्र १५.१२ ॥
(प.६.,खं.१५१२)
टीकाः
अनुकूलावृत्ति १५.१२
<प्रवासादागत्य>तु<उत्तराभ्यामभिमन्त्रणमवघ्राणं च> क्रमेण कर्तव्यम् ।
अङ्गादङ्गादित्यभिमन्त्रणं,ऽअश्मा भवेऽत्यवघ्राणम् ।
नामनिर्देशश्चाऽभिजिघ्रामि यज्ञशर्मऽन्निति ।
मन्त्रलिङ्गात्कुमार्या अभिमन्त्रणान्तरोपदेशाच्च सिद्धे पुत्रग्रहणं मूर्धन्यवघ्राणं दक्षिणं कर्णे जापश्च कुमार्या मा भूत् ।
अन्यथा लिङ्गविरोधाभावातुभयं कुमार्या अपि स्यात् ।
तस्या अपि प्रकृतत्वात् ।
कुमारीमुत्तरेणेत्ययं च अभिमन्त्रणस्यैव प्रत्याम्नायः स्यात्, नेतरयोः ।
उत्तरे मन्त्राःऽअग्निरायुष्मानिति पञ्चेऽत्यादिष्टाः तान् पुत्रस्य<दक्षिणे> <कर्णे जपेत्> ।
मन्त्रग्रहणं क्रियतेऽअग्निरायुष्मानिति पञ्चेऽत्यस्य पञ्चशब्दस्य मन्त्रेषु वृत्तिरिति प्रज्ञापनार्थम् ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.१२
<प्रवासादागत्योत्तराभ्यां>ऽअङ्गादङ्गात्ऽअश्मा भवऽइत्येताभ्यां<पुत्रस्याभिमन्त्रणं> कर्तव्यम् ।
तथैताभ्यामेव<मूर्धन्यवघ्राणम्> ।
असावित्यस्य स्थाने दशम्यां कृतं नाम सम्बुद्ध्या गृह्णाति ।
केचित्ऽअङ्गादङ्गादित्यभिमन्त्रणम् ।
ऽऽअश्मा भवेऽत्यवघ्राणमिति ।
तथा सति एवं विभज्यैव विनियुञ्जीत, क्रमेणेति वा ब्रूयात् ।
ततः पुत्रस्य<दक्षिणे कर्णे उत्तरान्>ऽअग्निरायुष्मान् स वनस्पतिभिःऽइत्यादिकान् सानुषङ्गान् पञ्च<मन्त्रान् जपेत्> ।
एतच्च त्रयं प्रतिपुत्रमावर्तते ॥ १२ ॥
११ एवं कुमार्या अपि ।
कुमारीमुत्तरेण यजुषाभिमन्त्रयते ॥ आपस्तम्बगृह्यसूत्र १५.१३ ॥
(प.६.,खं.१५१३)
टीकाः
अनुकूलावृत्ति १५.१३
प्रवासादेत्य<कुमारी>स्त्रीप्रजां<उत्तरेण यजुषा>ऽसर्वस्मादात्मनः सम्भूतासीऽत्यनेन<अभ्मन्त्रयते> ।
दुहितरमिति कर्तव्ये कुमारीमिति वचनं प्रदानादूर्ध्व माभूदिति ।
पुत्रस्य तु यावज्जीवं भवति पुत्रेऽपि प्रोषितागते अभिमन्त्रणादित्रयं भवति न्यायस्य तुल्यस्य तुल्यत्वात् ॥१३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १५.१३
प्रवासादेत्येत्यनुवर्तते ।
<उत्तरेण>ऽसर्वस्मादात्मनःऽइत्यनेन<यजुषा>कुमारीं कन्यामप्रत्ता<मभिमन्त्रयते> ।
कुमार्यस्त्वेतावदेव, न त्ववघ्राणजपौ॑वचनात्, तत्र पुत्रस्येति ग्रहणान्मन्त्रस्थपुल्लिङ्गविरोधाच्च ॥१३॥
इति श्रीसुदर्षनार्यविरचिते गृह्यतात्पर्यपदर्शने पञ्चदशः खण्डः ॥
षोडशः खण्डः ।
१४ अन्नप्राशनम्
१ तत्र कुमारस्य दध्यादिप्राशनम् ।
जन्मनोऽधि षष्ठे मासि ब्राह्मणान् भोजयित्वाऽशिषो वाचयित्वा दधि मधु घृतमोदनमिति संसृज्योत्तरैर्मन्त्रैः कुमारं प्राशयेत् ॥ आपस्तम्बगृह्यसूत्र १६.१ ॥
(प.६.,खं.१६१)
टीकाः
अनुकूलावृत्ति १६.१
अथ कुमारस्यान्नप्राशनम् ।
तत्<जन्मनोऽधि>जननदित्वसादारभ्य षष्ठे मासि कर्तव्यम् ।
मासाश्च सौरचान्दामासादयः ।
तत्करिष्यन् ब्राह्मणान् भोजयित्वा युग्मान् तैराशिषो वाचयतिपुण्याहं स्वस्ति ऋद्धिमिति ।
नात्र पूर्वेद्युरभ्युदयश्राद्धं, देवेज्याभावात् ।
यत्रापगेद्युः देवेज्या तत्र पूर्वेद्युः पितृभ्यः क्रियते ।
ऽतस्मात्पितृभ्यः पूर्वेद्युः क्रियते ।
उत्तरमहर्देवान् यजते, इति वचनात् ।
वाचयित्वाऽशिषः दध्यादि चतुष्टयं संसृज्य तेन कुमारं प्राशयेत् ।
<उत्तरैर्मन्त्रैश्चतुर्भिः>ऽभूरपांत्वेऽत्यादिभिः ।
त्वौषधीनामिति मध्यमयोरनुषजति ।
अपामित्यस्य तु पाठो मन्त्रचतुष्टयप्रज्ञापनार्थः ।
असावित्यत्र मानग्रहणं सम्बुध्याऽओषझयस्सन्तु यज्ञशर्मऽन्निति ।
प्रतिमन्त्रं प्राशनम् ।
सर्वान्त इत्यन्ये ।
कुमारं इति चनात्कुमार्या विधिवदन्नप्राशनं न भवतिआवृतैव कुमार्या (आश्व.गृ.११४७)
इत्याश्वलायनवचनात् ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.१
<जन्मनेऽधि>जन्मन आरभ्य, दिवसगणनया षष्ठे मासि ।
तेन मार्गशीर्ष शुक्ले द्वितीयायां जातस्य न मार्गशीर्षो मासः पूर्णो गण्यते ।
अत एव ज्योतिषे बृहस्पतिः
ऽपञ्चाशद्दिवसात्त्रिघ्नात्पश्चात्त्रिहतषष्टिकात् ॥
अर्वागेवोत्तमा भुक्तिः"...... इति ।
<ब्राह्मणान् भोजयित्वेत्युक्तार्थम् ।>
आशीर्वचनानन्तरं दध्यादिचतुष्टयं संसृज्य<उत्तरैर्मन्त्रैःऽ> <भूरपां>त्वौषधीनांऽइत्यादिभिश्चतुर्भिः कुमारं सकृदेव प्राशयोत् ।
सम्बुद्ध्या च नामग्रहणम् ।
द्वितीयतृताययोरपिऽत्वौषधीनाम्ऽइत्यादेरनुषङ्गः ॥१॥
२ दध्यादिस्थाने तैत्तिरीयमांसविधानम् ।
तैत्तिरेण (रीयेण) मांसेनेत्येके ॥ आपस्तम्बगृह्यसूत्र १६.२ ॥
(प.६.,खं.१६२)
टीकाः
अनुकूलावृत्ति १६.२
तित्तिरेः पक्षिणः<मांसेन>तदन्नप्राशनं कर्तव्यमित्येके आचार्या मन्यन्ते ।
मांसं व्यञ्जनमोदस्य ।
अन्ये तु मांसमेव मन्त्रवत्प्राश्यं मन्यन्ते ।
मांसग्रहणं शोणितादेः प्रतिषेधार्थम् ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.२
व्यक्तार्थमेतत् ॥२॥
१५ चौलम्
१ तस्य कालः ।
जन्मनोऽधि तृतीये वर्षे चौलं पुनर्वस्वोः ॥ आपस्तम्बगृह्यसूत्र १६.३ ॥
(प.६.,खं.१६३)
टीकाः
अनुकूलावृत्ति १६.३
अथ चौसविधिः यस्मिन् कर्मणि केशाः प्रथमं खण्ड्यते तत्चौलम् ।
चूडा प्रयोजनमस्येति ।
डलयोरविशेषः ।
तत्
जन्मनः प्रभृति तृतीये वर्षे पुनर्वसेवोर्नक्षत्रे कर्तव्यम् ।
कुमारं प्राशयेदिति विहितत्वात्पुंस एवेदं विधिवच्चौलम् ।
कुमार्यास्त्वावृतैव ।
एवञ्चेत्कृत्वा अपरेणाग्निं प्राञ्चमिति पुंलिङ्गमुपपद्यते ।
जन्मग्रहणं गर्भादारभ्य तृतीये वर्षे मा भूदिति ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.३
<जन्मनोऽधीति>पूर्ववत् ।
ततश्चऽगर्भादिस्सङ्खया वर्षाणांऽइति गर्भवर्ष न गण्यते ।
<चौलमिति>कर्मनामधेयम् ।
यस्मिन् कर्मणि चूडासन्निधानं तच्चौलं॑<पुनर्वस्वोः॑>कर्तव्यमिति शेषः ॥३॥
२ उपनयनवन्नान्दीश्राद्वम् ।
ब्राह्मणानां भोजनमुपायनवत् ॥ आपस्तम्बगृह्यसूत्र १६.४ ॥
(प.६,खं.१६४)
टीकाः
अनुकूलावृत्ति १६.४
उपनयने ब्राह्मणभोजने विशेषाभावातादिपदलोपोऽत्र द्रष्टव्यः ।
ब्राह्मणभोजनादीति ब्राह्मणान् भोजयित्वाऽशिषो वाचयित्वा कुमारं भोजयित्वेत्येतावदिह द्रष्टव्यम् ।
अनुवाकस्य प्रथमेनेत्यादिपरस्तादतिदेक्ष्यते ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.४
अत्र चऽ<ब्राह्मणानां भोजनम्ऽ>इति ग्रहणमाशीर्वचनकुमारभोजनयोरपि प्रदर्शनार्थम् ।
भोजनादीत्यादिशब्दो वा द्रष्टव्यः॑ उपायनवदिति वचनात् ।
उपनयनमेवोपायनम् ॥४॥
सीमन्तवदग्नेरुपसमाधानादि ॥ आपस्तम्बगृह्यसूत्र १६.५ ॥
(प.६.,खं.१६५)
टीकाः
अनुकूलावृत्ति १६.५
अग्नेरुपसमाधानादिपरिषेचनान्तं सीमन्तवत्कर्तव्यम् ।
पूर्वेद्युर्नान्दीश्राद्धं, सकृत्पात्राणि, शलल्यादिभिस्सह शम्याः ।
अन्वारब्धायां इत्यत्र च कुमारस्यान्वारम्भः ।
परिषेचनान्तस्य चादिदेशः ।
यत्तुऽगायतमिति वीणाथिनौऽइत्यादि न तस्यात्रातिदेशः ।
अपरेणाग्निं प्राञ्चमिति विधानात्पुनरुपवेशस्य ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.५
<अग्नेरुपसमाधानादि>तन्त्रं सप्रधानहोमं परिषेचनान्तमिह<सीमन्तदिति> ।
ततश्चान्वारब्धे कुमारे प्रधानहोमाः ।
पात्रप्रयोग काले शललल्यादीनां सकृदेव सादनम् ॥५॥
३ कुमारस्य केशानां विनयनम्, शिखानिधानं च ।
केशान् विनीय यथर्षि शिखा निदधाति ॥ आपस्तम्बगृह्यसूत्र १६.६ ॥
(प.६.,खं.१६६)
टीकाः
अनुकूलावृत्ति १६.६
<विनयनं>पृथक्करणं वप्तव्यानां शिखार्थानाञ्च ।
<तूष्णीमिति>वाग्यमनार्थ न मन्त्रप्रतिषेधार्थम्, प्राप्त्यभावात् ।
<यथार्षि>यावन्त ऋषयो यस्य प्रवरे तावतीश्शिखाः करोतित्र्यार्षेयस्य तिस्नः पञ्चार्षेयस्य पञ्चेति ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.६
<प्राञ्चं>प्राङ्मुखम् ।
वतूष्णीं वाग्यतः ।
<केसान् विनीय>विविधं नीत्वा॑वप्तव्यान् शिखार्थाश्च पृथक्पृथक्कृत्वेत्यर्थः ॥
यथार्षियावन्त ऋषयस्स्प्रवरे तावती<श्शिखा निदधाति> ।
एकार्षेयस्यैका शिखा द्व्यार्षेयस्य द्वे इत्यादि ॥६॥
यथा वैषां कुलधर्मः स्यात् ॥ आपस्तम्बगृह्यसूत्र १६.७ ॥
(प.६.,खं१६७)
टीकाः
अनुकूलावृत्ति १६.७
अथवा<यथा>येन प्रकारेण<एषां>कुमारस्य कुलजानां<कुलधर्मः>प्रवर्तते तथा शिखां करोति ।
एषां इति वचनं कर्तुः कुलधर्मो मा भूदिति ।
तेनास्मिन् कर्मणि पितैव कर्तेति नियमो नास्ति ।
अन्यत्र तु सति सम्भवे कुमारकर्मसु तस्यैव नियमः ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.७
अथवायथा येन प्रकारेण एषां कुलजानां कुलधर्मः प्रवर्तते, तथा शिखा कर्तव्या ।
केचितेषामिति वचनात्पितुरन्योऽपि चौलकर्तेति ॥७॥
(प.६.,खं.१६८)
टीकाः
अनुकूलावृत्ति १६.७
ऽउष्णाश्शीतास्वानीयेऽत्यादिऽदर्भस्तम्बे वा निदधातीऽत्येवमन्तं उपनयनवत्कर्तव्यमित्यर्थः ॥८॥
४ उपनयनवत्दिग्वपनादि ।
अपां संसर्जनाद्याकेशनिधानात्समानम् ॥ आपस्तम्बगृह्यसूत्र १६.८ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.८
व्याख्यातमेवैतत्समावर्तने ॥८॥
क्षुरं प्रक्षाल्य निदधाति ॥ आपस्तम्बगृह्यसूत्र १६.९ ॥
(प.६.,खं.१६९)
टीकाः
अनुकूलावृत्ति १६.९
क्षुरस्य प्रक्षालनंविधीयते ।
निधानमर्थप्राप्तम् ।
यदा निदधाति तदा प्रक्षाल्येति ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.९
अत्र प्रक्षालनमेव विधीयत्॑निधानं त्वर्थप्राप्तम् ॥९॥
५ वपने उपयुक्तेन क्षुरेण त्रिरात्रपर्यन्तं कर्माकरणम् ।
तेन त्र्यहं कर्मनिवृत्तिः ॥ आपस्तम्बगृह्यसूत्र १६.१० ॥
(प.६,खं.१३१०)
टीकाः
अनुकूलावृत्ति १६.१०
तेन क्षुरेण त्रिष्वहोरात्रेषु नापितकर्म न कर्तव्यम् ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.१०
तेन क्षुरेण त्र्यहं नापितकर्मनिष्टवृत्तिस्स्यात् ॥१०॥
वरं ददाति ॥ आपस्तम्बगृह्यसूत्र १६.११ ॥
(प.६.,खं.१६११)
टीकाः
अनुकूलावृत्ति १६.११
अस्मिन्कर्मणि समाप्ते कुमारस्य पिता ब्रह्मणे वरं ददाति ।
ऽगौर्वै वरऽइत्त्युक्तम् ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.११
वरं गां पिता ददाति दक्षिणत असीनाय ब्राह्मणाय ।
यद्यन्यश्चौलकर्ता तदा तस्मै ॥११॥
१ गोदानव्रतं, तत्कालश्च ।
एवं गोदानमन्यस्मिन्नपि नक्षत्रे षोडशे वर्षे ॥ आपस्तम्बगृह्यसूत्र १६.१२ ॥
(प.६ हं.,१६१२)
टीकाः
अनुकूलावृत्ति १६.१२
यथा चौलं एवमस्य गोदानाख्यमपि कर्म कर्तव्यम् ।
तत्र तृतीयस्य वर्षस्यापवादः<षोडशे> <वर्षे>इति ।
<अन्यस्मिन्नपि नक्षत्रे>पुण्याह एव ।
पुनर्वसु नियमस्यापवादः ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.१२
<गोदानमिति>कर्मनामधेयम्॑यस्मिन्कर्मण्यङ्गभूतं गोदानयोश्शिरःप्रदेशाविशेषयोर्वपनम् ।
यत्रापि पक्षे शिखावर्जित सर्वकेशवपनं, यथर्षि च शिखाः॑तत्रापि गोदानयोर्वपनं कर्मनामधेयप्रवृत्तिनिमित्तं विद्यत एव ।
तद्गोदानाख्यं कर्म ।
<एवं> यथाचौलं ब्राह्मणभोजनादि वरदानान्तं कर्तव्यम् ।
तच्चन्य<स्मिन्नपि नक्षत्रे> रोहिण्यादौ,<वर्ष च षोडशे> भवति ॥१२॥
अत्र पक्षान्तरमाह
अग्निगोदानो वा स्यात् ॥ आपस्तम्बगृह्यसूत्र १६.१३ ॥
(प.६.,खं.१६१३)
टीकाः
अनुकूलावृत्ति १६.१३
अग्निर्देवता यत्र गोदाने तदग्निगोदानं यस्य वसोऽग्निगोदानः ।
(अग्निशब्देन तद्दैवत्यं गोदानं लक्ष्यते ।
अग्निर्गोदानमस्येति विग्रहः) ।
एकस्य गोदानशब्दस्य लोपः, उष्ट्रमुखवत् ।
तत्र बौधायनःषोडशे वर्षे गोदानम् ।
तस्य चौलवत्तूष्णीं प्रतिपत्तिरवसानं च ।
.....अग्नि गोदानो वा भवति ।
तस्य काण्डोपाकरकाण्डसमापनाभ्यां प्रतिपत्तिरवशानं च ।
(बौ.गृ.३२५२५८) इति ।
किमुक्तं भवति?आग्नेयानां काण्डानां उपाकरणसमापनयोर्यः कल्पः तत्र चौलधर्माः प्रवर्तन्त इति ।
षोडशे वर्षे भवति ।
सकृत्पात्राणि न शमयाः ।
अस्यास्मिन् गृह्येऽनुपदिष्टत्वात्यत्गोदानमुपदिष्टं तत्रैव शम्याविधिः ।
तत्र प्रयोगः ब्राह्मणान् भोजयित्वाऽशिषो वाचयित्वा तूष्णीं केशश्मश्रु वापयित्वाग्नेरुपसमाधानादि परिषेचनान्तानि आग्नियकाण्डोपाकरणवत्कृत्वा शुक्रियवद्देवतोपस्थानंऽअग्ने व्रतपते व्रतं चरिष्यामि"इति ।
अन्ये संवत्सरे व्रतचर्या ।
अन्ते विसर्गः ।
एवमेवाचारिषमित्यादि विकारः शुक्रियवत्दैवतम् ।
केशश्मश्रुवपनम् ।
अन्ते ब्राह्मणभोजनम् ।
उभयत्र नान्दीमुखश्राद्धं केचित्कुर्वन्ति ।
अपरे न ॥ १३ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.१३
अग्नये गोदानं यस्य<सोऽग्निगोदानो ब्रह्मचारी> ।
पुल्लिङ्गनिर्देशाच्चैवं विग्रहः ।
अस्मिन् पक्षे आज्यभागान्ते कृतेऽअग्नये काण्डर्षये स्वाहाऽइत्याज्येनैवैका प्रधानाहुतिः ।
ततो जयादि क्षुरप्रक्षालनान्तम् ॥१३॥
संवत्सरं गोदानव्रतमे (मित्ये) क उपदिशन्ति ॥ आपस्तम्बगृह्यसूत्र १६.१४ ॥
(प.६ हं.,१६१४)
टीकाः
अनुकूलावृत्ति १६.१४
कृतगोदानस्यापि तच्छेषतया<संवत्सरं> व्रतचरणमेकं आचार्या<उपदिशन्ति> ।
चौलगोदानेऽयं विकल्पः ।
अग्निगोदाने तु काण्डोपाकरणातिदेशात्नित्यमेव यदा व्रतचर्या तदा वरदानादूर्ध्व देवतोपस्थानं पूर्ववदन्ते, विसर्गश्च पूर्ववदेव ॥१४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.१४
अधीतेऽपि वेदे, अवश्यं<संवत्सरं गोदानव्रतं>ब्रह्मचर्य चरितव्यमित्येक उपदिशन्ति॑वैकल्पिकमित्यर्थः ॥१४॥
उभयोरपि गोदानयोश्चौलाद्विशेषमाह
२ तत्र वपने विशेषः ।
एतावन्नाना सर्वान् केशान् वापयते ॥ आपस्तम्बगृह्यसूत्र १६.१५ ॥
(प.६ हं.,१६१५)
टीकाः
अनुकूलावृत्ति १६.१५
अस्मिन् चौलगोदाने तु<एतावन्नाना>पृथग्भावश्चौलात् ।
अत्र<सर्वान् केशान् वापयते>सशिखान् ।
चौले तु यथर्षि शिखा निदधात् ।
अन्ये श्मश्त्वादीनां प्राप्त्यर्थ सर्वग्रहणं वर्णयन्ति ।
तेषां केशशब्द उपलणार्थः ।
तथा चाश्वलायनःकेशश्मश्रुलोमनखान्युदकसंस्थानि संप्रेष्यति ।
(आश्व.गृ.११८६) इति ॥१५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.१५
<एतावन्नाना>एतावान् भेदः ।
यदपिधानार्थयापि शिखया सद<सर्वान् केशान् वापयत>इति ।
ततस्चेह विनयनाभावाच्छलल्यादीनां निवृत्तिः ।
अत्र च वापयत इति णिजन्तनिर्देशादाचार्य एव गोदानकर्मणः कर्ता ।
वरदानञ्चाचार्यायैव ।
तथात्र शिखाया अपि वपनंऽएतावन्नाना सर्वान् केशान्वापयतेऽइत्यस्मादेव वचनात्॑सत्रवत् ।
अन्य आहुःऽरिक्तो वा एषोऽनपिहितो यन्मुडस्तस्यैतदपिधानं यच्छिखेति ।
सत्रेषु तु वचनात्वपनं शिखायाःऽ(आप.ध.११० ८.९)
इति सत्रेभ्योऽन्यत्र शिखाया वपनग्रतिषेधातिहापि नैव श्खाया वपनमिति ॥१५॥
उदकोपस्पर्शनमिति छन्दोगाः ॥ आपस्तम्बगृह्यसूत्र १६.१६ ॥
(प.३.,खं.१६१६)
टीकाः
अनुकूलावृत्ति १६.१६
अस्मिन् गोदानव्रते <अहरहरुदकोपस्पर्शनं>कर्तव्यमिति<छन्दोगा> उपदिशन्ति ।
त्रिषवणमिति केचित् ॥ १६ ॥
इति श्रीहरदत्तविरचितायामनाकुलायां गृह्यसूत्रवृत्तौ षोडशः खम्डः ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १६.१६
सांवत्सरिकगोदानव्रतपक्षे <अहरहरुदकोपस्पर्शनं छन्दोगा>उपदिशन्ति॑विकल्प इत्यर्थः ॥१६॥
इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने षोडशः खण्डः ॥
षष्ठः पटलस्समाप्तः ॥
====================================================================================
अथ सप्तमः पटलः ॥
सप्तदशः खण्डः ।
१६ गृहनिर्माणम्
१ तत्र खनित्रेणोद्धननोदूहने ।
दक्षिणाप्रत्यक्प्रवणमगरावकाशमुद्धत्य पालाशेन शमीमयेन वोदूहेनैतामेव दिशमुत्तरयोदूहति ॥ आपस्तम्बगृह्यसूत्र १७.१ ॥
यज्ञेष्वधिकरिष्यमाणस्य पुरुषस्य देहसंस्कारा व्याख्याताः ।
ते चऽशालीनस्योदवसायऽइति वचनाभावे गृह एव कर्तव्याः ।
विधिवच्च निर्मिते गृहे ।
विधिवत्प्रवेशादपेक्षितायुर्यज्ञधनादि फलसिद्धिः ।
अतो मन्त्राम्नानक्रमप्राप्तो गृहनिर्माणप्रवेशयोर्विधिर्व्याख्यायते (प६.,खं.१७१)
टीकाः
अनुकूलावृत्ति १७.१
अथ गृहसम्मानविधिः ।
गृहसम्मानं च न सर्वयज्ञादिवन्नित्यम् ।
नाप्यद्भुतकर्मप्रायश्चित्तादिवन्नैमित्तिकम् ।
किं तर्हि?काम्यम् ।
अतोऽक्रियायां न दोषः ।
क्रियायां चोदगयनादिनियमः ।
तत्र यस्मिन् प्रदेशेऽगारं चिकीर्षितं सोऽगारावकाशः स <दक्षिणाप्रत्यक्प्रवणो>भवति ।
दक्षिणा प्रतीच्योरन्तराले निम्ना भवति ।
एवंविधे देशे अगारं कर्तव्यमित्यर्थः ।
<तमगारावकाशं उद्धन्ति> खनित्रेण खनति यथा पांसव उत्पद्यन्ते ।
उद्धत्य तान् पासून् पालाशेन समीयेन वोदूहेन एतामेव दिशं प्रति उत्तरयर्चाऽयद्भूमेः क्रूरऽमित्येतया<उदूहति>उन्नतात्प्रदेशातवनते प्रापयति ।
उदूह्यतेऽनेनेत्युदूहः ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १७.१
योऽगारार्थत्वेनाभिपरेतोऽवकाशो भूमिभागो <दक्षिणाप्रत्यक्प्रवणः>दक्षिणाप्रतीच्यां नैतृत्यां दिशि निम्नस्तमुद्धत्य खनित्रादिना पांसूनुत्खाद्य <पालाशेन शमीमयेन वोदूहेन,> उदूह्यन्ते देशान्तरं प्राप्यन्ते पांसवोऽनेनेत्युदूहः॑वादुलूक इत्यर्थः तेनैतामेव कोणदिशं<उत्तरया>ऽयद्भूमेः क्रूरम्ऽइत्येतयोदूहति ॥१॥
एवं त्रिः ॥ आपस्तम्बगृह्यसूत्र १७.२ ॥
(प.७.,खं.१७२)
टीकाः
अनुकूलावृत्ति १७.२
एवं त्रिरुद्धत्य उधूहति ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १७.२
उदूहतीति सम्बन्धः ।
अत्र द्वितीयतृतीययोरप्युदूहयोः मन्त्रावृत्तिः, एवमिति वचनात् ।
अन्यथा उत्तरया त्रिरुदूहतीत्येव ब्रूयात्,ऽएवं त्रिःऽइति सूत्रान्तरं नारभेत ॥२॥
२ स्थूणागर्तखननम्, स्थूणानिखननं च ।
कॢप्तमुत्तरयाभिमृश्य प्रदक्षिणं स्थूणागर्तान् खानयित्वाभ्यन्तरं पांसूनुदुप्योत्तराभ्यां दक्षिणां द्वारस्थूणामवदधाति ॥ आपस्तम्बगृह्यसूत्र १७.३ ॥
(प.७.,खं.१७३)
टीकाः
अनुकूलावृत्ति १७.३
एवमुदूह्य ततस्तं भूमिबागं कल्पयन्ति यथा सर्वतस्समं सम्पद्यते ।
ततः तं कॢप्तं उत्तरयर्चाऽस्योना पृथिवीऽत्येतयाभिमृशति ।
ततः<प्रदक्षिणं स्थूणागर्तान्> खानयति नकारस्छान्दसः ।
<अभ्यन्तरं च> बहिरारभ्य मध्ये यथा समाप्यते तथेत्यर्थः ।
तत्र मद्यस्थूणासु वंशधारणार्थासु प्रदक्षिणमितिचाभ्यन्तरमिति च विशेषणस्यासम्भवात्पर्यन्तास्वेव भवति ।
तत्र प्राग्द्वारेऽगारे दक्षिणद्वारस्थूणागर्तमारभ्य प्रदक्षिणमोत्तरस्मात्द्वारस्थूणागर्तात्खानयित्वा ततो यावत्यो मध्यममस्थूणाः तावतीनां दक्षिणादारभ्योदगपवर्गः ।
एवमन्यथाद्वारेऽप्यगारे यथासम्भवं प्रदक्षिणमभ्यन्तरत्वं च सम्पाद्यम् ।
एवं<खानयित्वा> गर्तेभ्यः पासूनुदूप्य उद्धत्य तत<उत्तराभ्यां> ऋग्भ्यांऽइहैव तिष्ठेऽत्येताभ्यां दक्षिणाद्वारस्थूणां गर्ते अवदधाति ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १७.३
कॢप्तमुदूहेन प्रागुदक्प्रवणं कृतं<उत्तरया>ऽस्योना पृथिविऽइत्यनया<भिमृश्य स्थूणागर्तान्>स्थूणानां विभागार्थान् गर्तान् कर्मकरैः प्रदक्षिणं<खानयित्वा>भ्यन्तरमारभ्य, न बहिः,<पांसूनुदुप्य उत्तराभ्यां>ऽइहैव तिष्ठऽइत्येताभ्यां<दक्षिणां>निष्क्रामत एव, न प्रविशतः, द्वारस्थूणामवटे अ<वदधाति ।>
अत्र प्रादक्षिण्यस्य चाभ्यन्तरत्वस्य च विधानं प४ अन्तीयास्वेव स्थूणासु॑न तु मध्यमासु ॥३॥
एवमितराम् ॥ आपस्तम्बगृह्यसूत्र १७.४ ॥
(प.७.,खं.१७४)
टीकाः
अनुकूलावृत्ति १७.४
एताभ्यामेव द्वाभ्यामृग्भ्यां<इतरां> उत्तराञ्च द्वारस्थूणां अवदधातीत्य४ हः ।
अहदक्षिणामितरामितिनिष्क्रमतः सव्यदक्षिणे प्रत्येतव्ये॑न प्रविशतः ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १७.४
<इतरां>सव्यां द्वारस्थूणां<एवं>ऽइहैव तिष्ठऽइत्येताभ्यामेवावदधाति ॥४॥
यथाखातमितरा अन्ववधाय वंशमाधीयमानमुत्तेरण यजुषाभिमन्त्रयते ॥ आपस्तम्बगृह्यसूत्र १७.५ ॥
(प.७ हं.,१७५)
टीकाः
अनुकूलावृत्ति १७.५
द्वारस्थूणयोः यथाखातं अवधानं मन्त्रवच्च ।
इतरासं तु<यथाखातं> येन क्रमेण गर्ताः खाताः तेनावधानं तूष्णीम् ।
एवं सर्वास्ववहितासु मध्यमस्थूणासु वंशमादधति कर्मकर्तारः ।
<तैराधीयमानं वंशमुत्तरेण यजुषाऽ> <ऋतेन स्थूणा>" <वित्यनेना>भिमन्त्रयते ।
वंशग्रहणेन च पृष्ठवंशो गृह्यते, मुख्यत्वात् ।
व्यक्तञ्चैतत्भारद्वाजके"ऋतेन स्थूणेऽति पृष्ठवंश मधिरोपयतीऽति ।
तत्र मन्त्रे स्थूणाविति छान्दसो ल्ङ्गव्यत्ययः ।
द्विवचनञ्च यथासम्भवं द्रष्टव्यम् ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १७.५
<यथाखातं> खननक्रमेण<इतराः>स्थूणाः तूष्णी<मन्ववधाय>वंशं समतूपं समथूणास्वाधीयमानं<उत्तरेण यजुषा>ऽऋतेन स्थूणा वधिरोहऽ इत्यनेनाभिमन्त्रयते ॥५॥
सम्मितमुत्तरैर्यथालिङ्गम् ॥ आपस्तम्बगृह्यसूत्र १७.६ ॥
(प.७ हं.,१७६)
टीकाः
अनुकूलावृत्ति १७.६
ततस्तदगारं<सम्मितं>संकॢप्तं<उत्तरैर्मन्त्रैः>ऽब्रह्म च ते क्षत्रऽमित्यादिभिष्षड्भिः ।
किम्?अभिमन्त्रयते इत्येव ।
<यथालिङ्गमिति>यस्यागाराङ्गस्य लिङ्गं यस्मिन्मन्त्रे दृश्यते तेन तदभिमुखोऽगारमभिमन्त्रयत इत्यर्थः ।
यदापि पूर्वस्थूणा बद्धा तदापि द्वे एवाभिसन्धायाभिमन्त्रणम् ।
अगारस्य द्विवचनसंयोगात् ।
एवं सर्वत्र अगारमध्ये यः स्थूणाराजः स्तूपः ।
पृष्ठवंशः अत्रैके स्थूणालिङ्गेषु चतुर्षु मन्त्रेषुऽस्थूणे अभिरक्षतुऽइत्येवमनुषङ्गाम्च्छन्ति ।
यज्ञश्च दक्षिणाश्च दक्षिणे स्थूणे अभिरक्षतु इति ।
अन्येऽतेऽशब्दस्यापियज्ञश्च ते दक्षिणाश्चेति ।
साकांक्षत्वान्मन्त्राणाम्, नेति वयम् ।
धक्षिणा इषश्चोर्जश्चेतिबहुवचनान्तैः अभिरक्षत्वित्येकवचनान्तस्य सम्बन्धानुपपत्तेः, ऊहस्य चाविधानातभ्यातानवत्पाठाभावच्च सर्वानुषङ्गेषु दृष्टस्यान्ते पुनः पाठस्याभावाच्च ।
यत्तु साकांक्षत्वमुक्तं तदपि नानुषङ्गहेतुः सन्निधिमात्रेणाकाङ्क्षाया निवर्तनात् ।
यदि वा धर्मस्ते स्थूणाराज श्रीस्ते इत्यत्राभिरक्षत्वित्यस्य नापेक्षा , द्वयोरपि प्रथमान्तत्वात् ।
एवं दक्षिणा इत्यादिकं प्रथमान्तं द्रष्टव्यम् ।
तस्मादाकाङ्क्षैव नास्ति ।
सन्निधानाच्च स्थूणाप्रतिपत्तिः ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १७.६
<सम्मितं>निर्मितमगारं<उत्तराः>ऽब्रह्म च ते क्षत्रं चऽइत्यादिभिः पञ्चभिर्मन्त्रैः<यथालिङ्गं>मन्त्रलिङ्गावगतदिङ्मुखोऽभिमन्त्रयते तत्र पञ्चमेन मध्यमाभिमुखः, अनन्वितत्वात् ।
केचित्षड्भिः ।
तत्रऽधर्मस्ते स्थूणाराजःऽइति मध्यमश्चऽश्रीस्ते स्तूपःऽइति पृष्ठवंशमिति ।
अत्र यद्यपि मन्त्रैरगारावयवास्स्थूणाः स्तूयन्ते॑तथाप्येभिः स्थूणावदगारमेव स्तूयते, यथा पादवन्दनेन पादवानेव वन्द्यते ।
अत्र केचित्द्वितीयादिषु त्रिषु मन्त्रेषु वाक्यसमाप्त्यर्थऽस्थूणे अभिरक्षतुऽइत्याद्यनुङ्गं मन्यन्ते ।
अन्येऽतेऽशब्दस्यापि ।
तथाऽधर्मस्तेऽइत्यादौ अभिरक्षत्वित्यस्य च ।
अपरे तुनैवेह कस्याचित्क्वचिदप्यनुषङ्गः॑नुषज्यमानस्य वैरूप्यात्, अन्तेऽपि च पाठाभावाच्च ।
वाक्यसमाप्तिस्तु प्रकृततया बुद्धिस्थपदार्थान्वयात्सिध्यति, यथाऽइषे त्वाऽ(तै.सं.१११)इति मन्त्रस्य बुद्धिस्थच्छेदनान्वयात्छिनद्भीति वाक्यसमाप्तिरिति ॥६॥
अथ गृहप्रवेशविधिमाह
१७ गृहप्रवेशविधिः
१ गृहस्येशानदिग्भागेऽग्निप्रतिष्ठापनम् ।
पालाशं शमीमयं वेध्ममादीप्योत्तरयाग्निमुद्धृत्योत्तरेण यजुषागारं प्रपाद्योत्तरपूर्वदेशेऽगारस्योत्तरयाग्निं प्रतिष्ठापयति ॥ आपस्तम्बगृह्यसूत्र १७.७ ॥
(प.७,खं.,१७७)
टीकाः
अनुकूलावृत्ति १७.७
अथ प्रवेशनविधिः ।
अन्यथा सम्मितस्याप्यगारस्य प्रवेशे विधिरयं भवति ।
उदगयनाद्यपेक्षिमिति केचित् ।
नेत्यन्ये ।
बीजवतो गृहान् प्रतिपद्यते (आश्व.गृ.२१०२)इत्याश्वलायनः ।
बीजग्रहणं सर्वेषामेव गृहोपकरणानामुपलक्ष णम् ।
तत्र प्रवेक्ष्यन्<पालाशं समीमयं वा इध्मं>अग्नावादीपयति ।
इध्मश्चात्रार्थलक्षणो न नियतपरिमाणः ।
आदीप्य तमग्निपात्रं उद्धरच्यु<त्तरयर्ता>ऽउद्ध्रियमाणऽइत्येतया पञ्चपादया ।
यद्यहनि प्रवेशो रात्रिलिङ्गोऽविवादः प्रयोक्तव्यः ।
तथा रात्रावहर्लिङ्गो निर्विवादः प्रयोक्तव्यः ।
विभज्यविनियोगाभावात् ।
येषां तूदगयनापेक्षा ते रात्रौ प्रवेशं नेच्छन्ति ।
अहःकृतस्य रात्रिकृतस्य च पाप्मनो विनियोगः प्रपाद्यत इत्यर्थः ।
विरोधोऽपि नास्ति ।
यथाऽयदापो नक्तं दुरितं चरामेऽति ।
तमुद्धृतमग्निं <उत्तरेण यजुषा>ऽइन्द्र स्य गृहा वसुमन्तो वरूथिनःऽइत्यनेन<अगारं>प्रपादयति ।
<प्रपाद्य>अगारस्य<उत्तरपूर्वे देशे> तमग्निं <प्रतिष्ठापयति उत्तरयर्चा>ऽअमृताहुतिऽमित्यनया ।
अत्रागरस्येति न वक्तव्यं, अग्निमिति च ।
कस्मात्?उभयोरष्यत्रैव वाक्ये श्रुतत्वात् ।
एवं तर्हि नायमगारशब्दो देशविशेषणार्थः ।
किं तर्हि?अग्निविशेषणार्थः अगारस्याग्निं प्रतिष्ठापयतीति ।
कः पुनरगारस्याग्निः?यः पचनाग्निः ।
तस्मादौपासनादुद्वरणंमस्याग्नेर्न भवति ।
लौकिकादेव भवतीति केचित् ।
अपरे तु होमसंयोगादौपासन एवायमग्निरिति स्थिताः ।
तेषामगारस्येत्यग्निमिति च पदद्वयं व्यर्थम् ।
होमाश्च पचनेऽपि दृष्टा वैश्वदेवे ।
तस्मात्पचनाद्रिरेवायम् ।
ययप्येवं तथापि देशसंस्कारो भवत्येव ।
होमसंयोगात्. अथौपासनस्य वैहारिकाणां च तदैव प्रवेशनं प्रतिष्ठापनं च स्वे स्थाने ।
भार्यादीनां च तदैव प्रवेशः ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १७.७
<पासाशं शमीमयं वेध्मं>काष्ठबौपासनेऽग्नावादीपयति ।
इध्ममिति चऽअग्निषु महत इध्मानादधातिऽइतिवदनियतं संख्यादिकं विवक्षितम् ।
<उत्तरया>ऽउद्ध्रियमाणःऽइत्येतया ।
ततस्तमग्निमुद्धरति ।
अत्र च सानुषङ्गे चतुष्पदे त्रिष्टुभौ द्वे ऋचौ पञ्चभिः पादैराम्नाते ।
तयोरेकैवोद्धरणार्था ।
अन्या तु विकल्पार्था ।
उत्तरया इत्येकवचनेन विनियोगात् ।
व्यवस्थितश्चायं विकल्पोऽभिप्रेतःग्निहोत्रवत् ।
यद्यहनि प्रवेशस्तदा रात्रिलिङ्गया, रात्रौ चेदहर्लिङ्गया ।
रात्रौ च प्रवेशश्शिष्टाचारप्रसिद्ध इति पूर्वमेवोक्तः ।
<उत्तरेण>ऽइन्द्रस्य गृहाःऽइति <यजुषा> ।
उद्धृतमग्निमगारं प्रपाद्य अनन्तरं विधिवत्संस्कृते उत्तरपूर्वदेशेऽगारस्य<तमग्निमुत्तरया>अमृताहुतिम्ऽइत्येतया<प्रतिष्ठापयति> ।
तथा श्रौताग्नीनपि विधिवदानीतानस्मिन्नेव काले अगारं प्रपाद्याग्न्यगारे यथाविधि प्रतिष्ठापयति ।
केचितिहाग्निमुद्धृत्य अगारं प्रपाद्येति प्रकृतेऽपि पुनरुक्तयोरेतयोरर्थवत्त्वाय अगारस्याग्निमित्यन्वयादादीपनादिप्रतिष्ठापनान्तं पचनार्थ स्य लौकिकाग्नेरेव, नौपासनस्येति ।
तेषामेतत्तुल्यसूत्रे विवाहाङ्गे प्रविश्य होमे पचनाग्नेरेवोपसमाधानादि स्यात् ।
अथागारशब्दस्य शयनस्थानवाचित्वात्गृहशब्दस्य चातथात्वात्न तत्र तुल्यसूत्रतेति चेत्न॑गृहागारशब्दयोरेकार्थत्वे विवादाभावात् ।
इह चऽइन्द्रस्य गृहा वसुमन्तःऽइति मन्त्रस्थगृहशब्देनागाराभिधानात्,प्रत्युत धर्मशास्त्रेऽमध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् ।
उत्तर पूर्वदेशेऽगारस्योत्तरैश्चतुर्भिः ।
शय्यादेशे कामलिङ्गेनऽ(आप.ध.२३२२,२३॑२४१) इति शयनस्थानस्यागारादन्यत्वाभिधानाच्च ।
पिनरुक्तिः स्फुचार्थतयापि निर्वाह्या ।
किञ्चागारस्याग्निमित्यन्वयोऽपि अगाराग्निः शालाग्निः,गृह्याग्निपासनाग्निरित्येकार्थतया याज्ञिकानां प्रयोगादौपासलन एव प्रतिष्ठाप्यः, न पचनाग्निः ॥७॥
२ अग्नेर्दक्षिणत उदधानायतनकरणम् ।
तस्माद्दक्षिणमुदधानायतनं भवति ॥ आपस्तम्बगृह्यसूत्र १७.८ ॥
(प.७.खं.,१७८)
टीकाः
अनुकूलावृत्ति १७.८
एवं प्रतिष्ठतस्याग्नेः<दक्षिणमुदधानायतनं>कर्तव्यम् ।
उदकं धीयते यत्र ततुदधानं मणिकाख्यम् ।
________________________
गृह्यतात्पर्यदर्शनव्याख्या १७.८
<तस्मात्> प्रतिष्ठिताग्नेर्दक्षिण<मुदधानस्य>मणिकस्यायतनं भवति ॥८॥
३ तत्रायतने उदधानप्रतिष्ठापनम् ।
तस्मिन्विषूचीनाग्रान्दर्भान्संस्तीर्य तेषूत्तरया व्रीहियवान्न्युप्य तत्रोदधानं प्रतिष्ठापयति ॥ आपस्तम्बगृह्यसूत्र १७.९ ॥
(प.७.खं.,१७९)
टीकाः
अनुकूलावृत्ति १७.९
तस्मिन्नायतने <विषूचीनाग्रान्>सर्वतोदिक्कान्<दर्भान् संस्तीर्य> <तेषु>दर्भेषु<ब्रीहीन् यवांश्च>संयुक्तान्<निवपति> <उत्तरयर्चा>ऽअन्नपतऽइत्येतया ततस्तस्मिन्नायतने <उदधानं प्रतिष्ठापयति>यथा निश्चलं भवति तथा स्थापयति ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १७.९
<तस्मिन्> उदधानस्थाने <विषूचीनाग्रान्>नानादिगग्रान्<दर्भान् संस्तीर्य, तेषु>दर्भेषु<उत्तरया>ऽअन्नपतेऽन्नस्यऽइत्योतया<ब्रीहियवांश्च> संयुक्तान्<न्युप्य>तेषुदधानंप्रतिष्ठापयति ॥९॥
४ उदधानस्य जलेन पूरणम् ।
तस्मिन्नुत्तरेण यजुषा चतुर उदकुम्भानानयति ॥ आपस्तम्बगृह्यसूत्र १७.१० ॥
(प.७.खं.,१७१०)
टीकाः
अनुकूलावृत्ति १७.१०
<उत्तरेण यजुषा>ऽअरिष्टा अस्माकऽमित्यनेन ।
प्रतिकुंभं मन्त्रावृत्तिः ।
तत्र चतुर्भिर्वा कुम्भैः पृथगानयनमेकेनैव वाथ पुनः पूरयित्वा, यथाऽतिस्रः स्रु च उत्सिच्येऽति ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १७.१०
<तस्मिनुदधाने उत्तरेण>ऽअरिष्टा अस्माकंऽइत्यनेन<यजुषा चतुर उदकुम्भानानयति ।>
प्रतिकुम्भं मन्त्रावृत्तिः, द्रव्य भेदेन प्रकाश्यक्रियाभेदात् ।
यत्र पुनर्मधुपर्कप्राशनादौ आवृत्तिविधिस्तस्या एव क्रियायाः, तत्र सकृदेव मन्त्रः ॥१०॥
५ तस्य भेदनेऽनुमन्त्रणम् ।
दीर्णमुत्तरयानुमन्त्रयते ॥ आपस्तम्बगृह्यसूत्र १७.११ ॥
(प.७.खं.,१७११)
टीकाः
अनुकूलावृत्ति १७.११
अथ यदि तदुदधानां भिद्यते तत्<उत्तरयर्चा> भूमिर्भूमिऽमित्येतया<अनुमन्त्रयते> ।
कालान्तरे दीर्ण एतद्भवति उदधानान्तरेऽपि तत्स्थानापन्ने ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १७.११
यदि<दीर्ण>मणिकं स्यात्तदा<उत्तरया>ऽभूमिर्भूमिमगात्ऽइत्येतया<नुमन्त्रयते> ।
एतच्च प्रकरणात्कर्माङ्गमेव ॥११॥
६ प्रधानाहुतयः ।
अग्नेरुपसमाधानाद्याज्यभागान्ते उत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते ॥ आपस्तम्बगृह्यसूत्र १७.१२ ॥
(प.७ हं.,१७१२)
टीकाः
अनुकूलावृत्ति १७.१२
चतस्रः<उत्तराः> प्रधानाहुतयः"वास्तोष्पते प्रतिजानीहि, वास्तोष्पते शग्मया, वास्तोष्पते प्रतरणो न एधि, अमीवहा वास्तोष्पत"इति ।
तत्राज्यभागान्तवचनेनैव तन्त्रप्राप्तिस्सिद्धा, यथाऽपार्वणवदाज्यभागान्तेऽइत्यत्र ।
किमग्नेरुपसमाधानादिवचनेन?अग्निनियमार्त तुयोऽगारे पचनार्थ प्रतिष्ठापितोऽग्निः तस्यैव होमार्थमुपसमाधानं यथा स्यादिति ।
अन्यथा सर्वपाकयज्ञार्थे औपासन एव होमः स्यात् ।
जयादिवचनं स्थालीपाकप्रतिषेधार्थम् ।
का पुनः प्राप्तिः स्थालीपाकस्य?कस्पान्तरे दर्शनात् ।
कथं पुनः
जयादिवचनेन स्थालीपाकस्य प्रतिषेधः?उत्यतेस्विष्टकृत्प्रतिषेधस्तावत्गम्यतेउत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते न स्विष्टकृत्प्रतिषेधस्तावत्गम्यतेउत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते न स्विष्टकृतमिति ।
स च स्थालीपाकेषु भवति ।
अतस्यतत्प्रतिषेधद्वारेण स्थालीपाकप्रतिषेध एवायं सम्पद्यते ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १७.१२
<उत्तरा आहुती>श्चतस्रः प्रधानाहुतीः ताश्चऽवास्तोष्पते प्रतिजानीहिऽ(तै.सं.३४१०) इति द्वे,ऽवास्तोष्पते प्रतरणो नःऽइति द्वे ।
आज्यहविष्ट्वाच्च तन्त्रविधानम् ।
आज्यभागान्त इति वचनं त्वाज्यभागानन्तरमेव प्रधानहोमाः, नान्यदर्थकृत्यमपीति क्रमार्थम् ।
केचित्ऽपार्वणवदाज्यभागान्तेऽ(आप.गृ.१८६) इतिवदाज्यभागान्त इत्यनेनैव तन्त्रप्राप्तौ सिद्धायांऽअग्नेरुपसमाधानादिऽइति वचनं स्वमतेन प्रतिष्ठितः पचनाग्निरेवेह होमार्थ इत्येवमर्थमिति ।
तदयुक्तम् ,ऽकर्मस्मार्त विवाहाग्नौ कुर्वीत प्रत्यहं गृहीऽ ।
(यास्मृ.१९७)
इति सर्वस्मार्तहोमानामविशेषेण औपासनविधानात्, अस्य सूत्रस्योक्तविधयान्यार्थत्वात्, अस्मादीयानां गृह्यान्तरीयाणां चौपासन एव वास्तुहोमाचाराच्च ॥१२॥
७ गृगस्य परिषेचनम् ।
परिषेचनान्तं कृत्वोत्तरेण यजुषोदकुम्भेन त्रिः प्रदक्षिणमन्तरतोऽगारं निवेशनं वा परिषिच्य ब्राह्मणान् भोजयेदपूपैस्सक्तुभिरोदनेनेति ॥ आपस्तम्बगृह्यसूत्र १७.१३ ॥
(प.७.ख.,१७१३)
टीकाः
अनुकूलावृत्ति १७.१३
परिषेचनान्तवचनं आनन्तर्यार्थम् ।
तन्त्रशेषं समाप्यागारस्य परिषेचनमेव कर्तव्यम् ।
नान्यद्वैश्वदेवादिकमिति ।
<उत्तरेण यजुषा>ऽशिवं शिवऽमित्यनेन ।
<उदकुम्भेन>न हस्तेन ।
परिभाषयैव सिद्धे प्रदक्षिणमिति वचनात्परिषेचनमिदमेकमेव प्रदक्षिणं त्रिगुणीभूतं सकृदुपात्तेनैवोदकुम्भेन संततमविच्छिन्नं कर्तव्यम् ।
मेखलया परिव्याणवत्त्रीणि परिषेचननीति सिद्धं भवति ।
<अन्तरंत>इति वचनमगारात्बहिः परिषेचनं मा भूत् ।
अब्यन्तरमेव यथा स्यादिति ।
<अगारं>गृहं,<निवेशनं>शयनदेशः ।
<ब्राह्ममान्> युग्मान् भोजयेदपूपादिभिः ।
इतिशब्दः समुच्चयार्थः ॥१३॥
इति हगदत्तविरचितायां गृह्यसूत्रवृत्तावनाकुलायां सप्तदशः खण्डः ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १७.१३
परिषेचनान्त<मुत्तरेण>ऽशिवं शिवम्ऽइत्यनेन<यजुषा>उदकुम्भेन सकृदुपात्तेन<अगारं निवेशनं वान्तरतो> न बहिः<त्रिः प्रदक्षिणं> <परिषिच्य ब्राह्मणान् भोजयेदपूपादिभिः> ।
इतिशब्दस्समुच्चयार्थः ।
सक्तूनां तु भोजनात्प्रागेव उपयोगः, न मध्ये लोक प्रसिद्ध्यभावात् ।
ऽशुचीन्मन्त्रवतः सर्वकृत्येषु भोजयेत्ऽ(आप.ध.२१५११) इति सिद्धस्य भोजनस्य पुनर्वचनमपूपादिगुणविद्ध्यर्थम् ॥१३॥
इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने सप्तदशः खण्डः ।
अष्टादशः खण्डः ।
१ बालग्रहगृहीतस्य कुमारस्य तन्निवर्तकं कर्म ।
श्वग्रहहीतं कुमारं तपोयुक्तो जालेन प्रच्छाद्य कंसं किङ्किणिं वा ह्रादयन्नद्वारेण सभां प्रपाद्य सभाया मध्येऽधिदेवनमुद्धत्यावोक्ष्याक्षान्न्युप्याक्षेषूत्तानं निपात्य दध्ना लवणमिश्रेणाञ्जलिनोत्तरैरवोक्षेत्प्रातर्मध्यन्दिने सायम् ॥ आपस्तम्बगृह्यसूत्र १८.१ ॥
(प.८.खं.१८१)
टीकाः
अनुकूलावृत्ति १८.१
बहवो बालग्रहाः दिवसमासससमादिकाः ।
तत्र येन गृहीतः श्ववच्चेष्टते स<श्वग्रहः> ।
तेन वगृहातं कुमारं, पुल्लिङ्गनिर्देशात्कुमार्यान भवतीत्येके ।
<तपोयुक्तः>कर्ता पितेत्येके ।
यः कश्चिदित्यन्ये ।
तपो ब्रह्मचर्यादि ।
यावता तपसा सिद्धं मन्यते तावत्कृत्वेत्यर्थः<जालं>मत्स्यग्रहणं तेन<प्रच्छाद्य> ।
<कंसं>प्रसिद्धम् ।
<किङ्किणिः> घण्टाविशेषः ।
तयोरन्यतरं ह्रादयनन्यतरस्य ध्वनिं कारयन् केनचिदन्येन ।
स्वयं कुमारं गृहीत्वा<समां प्रपादयति अद्वारेण>छदीरपोह्यमार्ग कृत्वा तेनेत्यर्थः ।
किं तत्स्थानम्?सभा, तस्या मध्येऽ<धिदेवनं स्थानं>यत्र कितवा दीव्यन्ति तं प्रदेशं<उद्धत्याद्भिरवोक्ष्य>तत्राक्षान्निवपति ।
अक्षाश्शाराः ।
विभीतका इत्यन्ये ।
तान् पृथु प्रथयित्वाप्वेनमुत्तानं<निपातयति ।
>शाययति ।
ततो <दध्ना लवणमिश्रेणावोक्षेदञ्ज लिना उत्तरै>र्मन्त्रैःऽकूर्कुरस्सुकूर्कुरऽइत्यादिभिःऽश्वानमिच्छ्वादन्न पुरुषं छत्ऽइत्यन्तैः ।
प्रतिमन्त्रमवोक्षणम् ।
तत्रादितस्तिस्र ऋचः, ततो यजुषी द्वेऽतत्सत्यं, विगृह्यबाहूऽइति ततः पञ्चर्चोऽविभ्रन्निष्कञ्चेऽत्याद्याः, ततो यजुरेकंऽश्वानऽमिति, एवमेकादशैते मन्त्राः ।
यावत्कर्म समाप्यते तावत्संसकिङ्कण्योरन्यतरस्य ह्रादनम् ।
एवमेतत्कर्म जालप्रच्छादनादवोक्षणान्तं त्रिसन्ध्यं कर्तव्यम् ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १८.१
येन गृहीतः कुमारः श्वेव नदति, श्ववद्वा चेष्टते स श्वग्रहः ।
तेन गृहीतः<श्वग्रहगृहीतः>, पिशाचिशुना वा दष्टः ।
<तपोयुक्तः> यावन्मनस्तोषमनशनादियुक्तः पित्रीदिः कर्ता ।
<जालं>मत्स्यग्रहणसाधनम् ।
<कंसं किङ्किणिम् ।>
लोहघण्टां<ह्रदयन्>पुरुषान्तरेण ध्वानय्<अद्वारण>कुड्याद्यपोह्य मार्ग कृत्वा ।
अधिदेवनं यत्र दीव्यन्ति कितवाः ।
अक्षान् विभीतकफलानि ।
केचित्शारा इति ।
<उत्तरैर्मन्त्रैः>ऽकूर्कुरस्सुकूर्कुरःऽइत्यादिभिर्यजुर्दशमैः ।
यद्वैकादशभिः ।
तस्मिन् पक्षे आदितस्तिस्र ऋचः ततःऽतत्सत्यं यत्त्वेन्द्रःऽविगृह्य बाहू इति द्वे यजुषा ततोऽबिभ्रन्निष्कम्ऽइति पञ्चर्चः ।
ततःऽश्वानम्ऽइत्येकादशं यजुरेवेति विभागः ।
अवोक्षणं च सर्वेषां मन्त्राणामन्ते सकृदेव ।
केचित्द्वष्टोपकारकत्वात्प्रतिमन्त्रमिति ।
एवमेतज्जालप्रच्छादनाद्यवोक्षणान्तं प्रातरादिषु त्रिषु पुण्याहविशेषेषु कर्तव्यम् ।
अवोक्षणपर्यन्तं च ह्रादनम् ॥१॥
अगदो भवति ॥ आपस्तम्बगृह्यसूत्र १८.२ ॥
(प.८.खं.,१८२)
टीकाः
अनुकूलावृत्ति १८.२
<अगदः>अरोगः, रोगनिवृत्तिरस्य प्रयोजनमित्यर्थः ।
किं सिद्धं भवति?यदि भैषज्येन कुमारोऽगदः स्यात्न तत्रेदं कर्तव्यमिति ।
अन्यथा कुमार स्यास्मिन् रोगे पितुर्नैमित्तिकमिदमवश्यं कर्तव्यं विज्ञायेत गृहदाहेष्ट्यादिवत्. एवं ब्रुवतां दोषः यक्ष्मगृहीतामन्यां वेत्येतत्प्रकारान्तरेण रोगशान्तावपि कर्तव्यं स्यात्. तस्मादिदमन्यते प्रयोजनम् ।
एवमेतस्मिन् कर्मणि त्रिषु कासेषु कृते कुमारोऽगदो भवति ।
यदि न भवति पुनरपि तपोयुक्तेन कर्तव्यमिति ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १८.२
इह चऽशङ्खिनम्ऽइत्यत्र फलवचनं, सर्वत्र श्रुतितोर्ऽथतो वावगतस्य कामिनः कर्मोपदेशः सामर्थ्यात्फलसिद्ध्यवगमपर्यन्त इति प्रदर्शयितुम् ।
तेनऽयक्ष्मगृहीताम्ऽ(आप.गृ.९१०) इत्यादौ फलवचनाभोवेऽप्युपदोशः काम्यसिद्धिपर्यन्त एव ।
केचितेवमेतस्मिन् कर्मणि त्रिसन्ध्यं कृते, अगदो भवति ।
यदि न भवति तदा पुनरप्येतत्कर्म कर्तव्यं, यावदगदो भवति इति ।
नैतत्, स्वाभिमताभ्यासबोधकशब्दाभावात् ॥२॥
शङ्खिनं कुमारं तपोयुक्त उत्तराभ्यामभिमन्त्र्योत्तरयोदकुम्भेन शिरस्तोऽवनयेत्प्रातर्मध्यन्दिने सायम् ॥ आपस्तम्बगृह्यसूत्र १८.३ ॥
(प.७.खं.,१७३)
टीकाः
अनुकूलावृत्ति १८.३
शङ्खो नाम ग्रहः कुमाराणां भयङ्करः, येन गृहीतः शह्खवन्नदतीति ।
तेन गृहीतं<शङ्खिनमुत्तराभ्यां>एते ते प्रतिद्वश्येते इत्येताम्यामृग्भ्यां<अभिमन्त्र्य तत> उदकुंभेन<शिरस्तोऽवनयेत्>, अभिषिञ्चेदुत्तरयर्चाऽऋषिर्बोधः प्रबोधऽइत्येतया
एवमेतदभीमन्त्रणादि त्रिषु कालेषु कर्तव्यम् ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १८.३
शह्खोऽपि ग्रहः येन गृहीतः शङ्खवन्नदति तद्गृहीत<श्शङ्खी ।
उत्तराभ्यां>ऽएते ते प्रतिदृश्येतेऽइत्येताभ्यां<उत्तरया>ऽऋषिर्बोधः प्रबोधःऽइत्ये तया<शिरस्तोऽवनयेत्>शिरस्यभिषिञ्चेत्,<उदकुम्भेन>त्रिसन्ध्यम् ॥३॥
अगदो भवति ॥ आपस्तम्बगृह्यसूत्र १८.४ ॥
(प.८.खं.,१८४)
टीकाः
अनुकूलावृत्ति १८.४
पूर्ववदस्य प्रयोजनम् ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १८.४
उक्तर्थम् ॥४॥
अथ सर्पबलेर्यस्मिन् काले येन विधिनोपक्रमस्तमाह
१८ सर्पबलिः
१ तदुपक्रमे स्थालीपाकः ।
श्रावण्यां पौर्णमास्यामस्तमिते स्थालीपाकः ॥ आपस्तम्बगृह्यसूत्र १८.५ ॥
(प.७.खं१८५)
टीकाः
अनुकूलावृत्ति १८.५
अथ सर्पवलिर्नाम कर्म नित्यं संवत्सरे संवत्सरे कर्तव्यमुपदिश्यतेतस्य श्रावण्यां पौर्णमास्यामारम्भः
मार्गशीर्ष्यामुत्सर्गः ।
तस्योपक्रमे <श्रावण्यां पौर्णमास्यां अस्तमिते> आदित्ये <स्थालीपाको>भवति ।
असत्यपि नक्षत्रयोगे श्रावणस्य मासस्य पौर्णमासी श्रावणीत्युच्यते लक्षणया ।
तत्र श्लोकौमेषादिस्थे सवितरि योयो दर्शः प्रवर्तते ।
चान्द्रमासास्तदन्ताश्च चैत्रादया द्वादश स्मृताः ॥
तेषु या या पौर्णमासी सा सा चैत्र्यादिका स्मृता ।
कादाचित्केन योगेन नक्षत्रस्येति निर्णयः ॥
इति ॥
तत्र सायमाहुतिं हुत्वा स्थालीपाककर्म प्रतिपद्यते पार्वणेनातोऽन्यानीत्युक्तं, पौर्णमास्यां पौर्णमासीति च ।
श्रावण्यै पौर्णमास्यै सङ्कल्पितान् व्रीहिन् यवान् वा निरुप्य प्रतिष्ठिताभिधारणान्तं कृत्वाग्नेरुपसमाधानादि द्वन्द्वं न्यञ्चि पात्राणि किंशुकपुष्पैरारग्वधमयसमिद्भिश्च सह ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १८.५
श्रवणेन नक्षत्रेण युक्ता पौर्णमासी<श्रावणी> ।
अयुक्तापीह विवक्षिता, नित्यत्वात्सर्पबलेः ।
श्रावणमासस्य पौर्णमासीत्यर्थः ।
न तु श्रावणमासस्य श्रवणनक्षत्रम्, श्रावणस्य पौर्णमासीविशेषणार्थत्वात्,ऽपौर्णमास्यां (आप.प.२२०) इति वचनाच्च ।
अथ चान्द्रमसमासानां चैत्रादीनां, पौर्णमासीनां च चैत्र्यादीनां निर्णयार्थौ श्लोकौ
"मेषादिस्थे सवितरि ये ये दर्शः प्रवर्तते ।
चान्द्रा मासास्तत्तदन्ताश्चैत्राद्या द्वादश स्मृताः ॥
तेषु या या पौर्णमासी सा सा चैत्र्यादिका स्मता ।
कादाचित्केन योगेन नक्ष६ येति निर्णयः" ॥
इति ।
तस्यां<श्रावण्यां>पौर्णमास्यां,<अस्तमिते>आदित्ये, सायं होमान्तेऽपत्न्यवहन्तिऽ(आप.गृ.७२) इति विधिता प्रतिष्ठिताभिघारणान्तर <स्थालीपाकः>कर्तव्यः ॥५॥
२ तत्र किंशुकहोमः ।
पार्वणवदाज्यभागान्ते स्थालीपाकाद्धुत्वाञ्जलिनोत्तरैः प्रतिमन्त्रं किंशुकानि जुहोति ॥ आपस्तम्बगृह्यसूत्र १८.६ ॥
(प.७.खं.,१८६)
टीकाः
अनुकूलावृत्ति १८.६
सर्व पार्वणवदित्त्युच्यतेस्थालीपाकादेव पार्वणवज्जुहोति, न किंशुकानीति ।
तेन तेष्ववदानकल्पो न भवति ।
स्विष्टकृतश्चावदानं तेभ्यो न भवति ।
किंशुकैः समिधो व्याख्याताः ।
आज्यभागान्तवचनं तन्त्रप्राप्यर्थम् ।
श्रावण्यै पौर्णमास्यै स्वाहेति
स्थालीपाकादेधोमः ।
<उत्तरैर्मन्त्रेः>ऽजग्धो मश्कऽइत्यादिभिस्त्रिभिः ।
<किंशुकानि> ।
पलाशपुष्पाणि ।
पलाशानां कण्टकिनां पुष्पाणीत्यन्ये ।
प्रतिमन्त्रमित्त्युच्यते प्रतिमन्त्रं किंशुकानां बहुत्वं यथा स्यादिति ।
अन्यथा एकैकस्य किंशुकस्य होमः प्राप्नोति, यथा समिधाम् ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १८.६
ततः<पार्वण>वदग्नेरुपसमाधाना<द्याज्यभागान्ते>अग्निमुखान्त इत्यर्थः॑सर्वेष्वौषधहविष्केषु तन्त्रवत्सु कर्मसु अग्निमुखस्य विहितत्वात् ।
<श्थालीपाकाद्वि>धिवदवद