आपस्तम्ब गृह्यसूत्राणि, हरदत्तस्य अनुकूला, सुदर्शनसूरेः तात्पर्यदर्शनम् च/सप्तमः पटलः
अथ सप्तमः पटलः ॥
सप्तदशः खण्डः ।
१६ गृहनिर्माणम्
१ तत्र खनित्रेणोद्धननोदूहने ।
दक्षिणाप्रत्यक्प्रवणमगरावकाशमुद्धत्य पालाशेन शमीमयेन वोदूहेनैतामेव दिशमुत्तरयोदूहति ॥ आपस्तम्बगृह्यसूत्र १७.१ ॥
यज्ञेष्वधिकरिष्यमाणस्य पुरुषस्य देहसंस्कारा व्याख्याताः ।
ते चऽशालीनस्योदवसायऽइति वचनाभावे गृह एव कर्तव्याः ।
विधिवच्च निर्मिते गृहे ।
विधिवत्प्रवेशादपेक्षितायुर्यज्ञधनादि फलसिद्धिः ।
अतो मन्त्राम्नानक्रमप्राप्तो गृहनिर्माणप्रवेशयोर्विधिर्व्याख्यायते (प६.,खं.१७१)
टीकाः
अनुकूलावृत्ति १७.१
अथ गृहसम्मानविधिः ।
गृहसम्मानं च न सर्वयज्ञादिवन्नित्यम् ।
नाप्यद्भुतकर्मप्रायश्चित्तादिवन्नैमित्तिकम् ।
किं तर्हि?काम्यम् ।
अतोऽक्रियायां न दोषः ।
क्रियायां चोदगयनादिनियमः ।
तत्र यस्मिन् प्रदेशेऽगारं चिकीर्षितं सोऽगारावकाशः स <दक्षिणाप्रत्यक्प्रवणो>भवति ।
दक्षिणा प्रतीच्योरन्तराले निम्ना भवति ।
एवंविधे देशे अगारं कर्तव्यमित्यर्थः ।
<तमगारावकाशं उद्धन्ति> खनित्रेण खनति यथा पांसव उत्पद्यन्ते ।
उद्धत्य तान् पासून् पालाशेन समीयेन वोदूहेन एतामेव दिशं प्रति उत्तरयर्चाऽयद्भूमेः क्रूरऽमित्येतया<उदूहति>उन्नतात्प्रदेशातवनते प्रापयति ।
उदूह्यतेऽनेनेत्युदूहः ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १७.१
योऽगारार्थत्वेनाभिपरेतोऽवकाशो भूमिभागो <दक्षिणाप्रत्यक्प्रवणः>दक्षिणाप्रतीच्यां नैतृत्यां दिशि निम्नस्तमुद्धत्य खनित्रादिना पांसूनुत्खाद्य <पालाशेन शमीमयेन वोदूहेन,> उदूह्यन्ते देशान्तरं प्राप्यन्ते पांसवोऽनेनेत्युदूहः॑वादुलूक इत्यर्थः तेनैतामेव कोणदिशं<उत्तरया>ऽयद्भूमेः क्रूरम्ऽइत्येतयोदूहति ॥१॥
एवं त्रिः ॥ आपस्तम्बगृह्यसूत्र १७.२ ॥
(प.७.,खं.१७२)
टीकाः
अनुकूलावृत्ति १७.२
एवं त्रिरुद्धत्य उधूहति ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १७.२
उदूहतीति सम्बन्धः ।
अत्र द्वितीयतृतीययोरप्युदूहयोः मन्त्रावृत्तिः, एवमिति वचनात् ।
अन्यथा उत्तरया त्रिरुदूहतीत्येव ब्रूयात्,ऽएवं त्रिःऽइति सूत्रान्तरं नारभेत ॥२॥
२ स्थूणागर्तखननम्, स्थूणानिखननं च ।
कॢप्तमुत्तरयाभिमृश्य प्रदक्षिणं स्थूणागर्तान् खानयित्वाभ्यन्तरं पांसूनुदुप्योत्तराभ्यां दक्षिणां द्वारस्थूणामवदधाति ॥ आपस्तम्बगृह्यसूत्र १७.३ ॥
(प.७.,खं.१७३)
टीकाः
अनुकूलावृत्ति १७.३
एवमुदूह्य ततस्तं भूमिबागं कल्पयन्ति यथा सर्वतस्समं सम्पद्यते ।
ततः तं कॢप्तं उत्तरयर्चाऽस्योना पृथिवीऽत्येतयाभिमृशति ।
ततः<प्रदक्षिणं स्थूणागर्तान्> खानयति नकारस्छान्दसः ।
<अभ्यन्तरं च> बहिरारभ्य मध्ये यथा समाप्यते तथेत्यर्थः ।
तत्र मद्यस्थूणासु वंशधारणार्थासु प्रदक्षिणमितिचाभ्यन्तरमिति च विशेषणस्यासम्भवात्पर्यन्तास्वेव भवति ।
तत्र प्राग्द्वारेऽगारे दक्षिणद्वारस्थूणागर्तमारभ्य प्रदक्षिणमोत्तरस्मात्द्वारस्थूणागर्तात्खानयित्वा ततो यावत्यो मध्यममस्थूणाः तावतीनां दक्षिणादारभ्योदगपवर्गः ।
एवमन्यथाद्वारेऽप्यगारे यथासम्भवं प्रदक्षिणमभ्यन्तरत्वं च सम्पाद्यम् ।
एवं<खानयित्वा> गर्तेभ्यः पासूनुदूप्य उद्धत्य तत<उत्तराभ्यां> ऋग्भ्यांऽइहैव तिष्ठेऽत्येताभ्यां दक्षिणाद्वारस्थूणां गर्ते अवदधाति ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १७.३
कॢप्तमुदूहेन प्रागुदक्प्रवणं कृतं<उत्तरया>ऽस्योना पृथिविऽइत्यनया<भिमृश्य स्थूणागर्तान्>स्थूणानां विभागार्थान् गर्तान् कर्मकरैः प्रदक्षिणं<खानयित्वा>भ्यन्तरमारभ्य, न बहिः,<पांसूनुदुप्य उत्तराभ्यां>ऽइहैव तिष्ठऽइत्येताभ्यां<दक्षिणां>निष्क्रामत एव, न प्रविशतः, द्वारस्थूणामवटे अ<वदधाति ।>
अत्र प्रादक्षिण्यस्य चाभ्यन्तरत्वस्य च विधानं प४ अन्तीयास्वेव स्थूणासु॑न तु मध्यमासु ॥३॥
एवमितराम् ॥ आपस्तम्बगृह्यसूत्र १७.४ ॥
(प.७.,खं.१७४)
टीकाः
अनुकूलावृत्ति १७.४
एताभ्यामेव द्वाभ्यामृग्भ्यां<इतरां> उत्तराञ्च द्वारस्थूणां अवदधातीत्य४ हः ।
अहदक्षिणामितरामितिनिष्क्रमतः सव्यदक्षिणे प्रत्येतव्ये॑न प्रविशतः ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १७.४
<इतरां>सव्यां द्वारस्थूणां<एवं>ऽइहैव तिष्ठऽइत्येताभ्यामेवावदधाति ॥४॥
यथाखातमितरा अन्ववधाय वंशमाधीयमानमुत्तेरण यजुषाभिमन्त्रयते ॥ आपस्तम्बगृह्यसूत्र १७.५ ॥
(प.७ हं.,१७५)
टीकाः
अनुकूलावृत्ति १७.५
द्वारस्थूणयोः यथाखातं अवधानं मन्त्रवच्च ।
इतरासं तु<यथाखातं> येन क्रमेण गर्ताः खाताः तेनावधानं तूष्णीम् ।
एवं सर्वास्ववहितासु मध्यमस्थूणासु वंशमादधति कर्मकर्तारः ।
<तैराधीयमानं वंशमुत्तरेण यजुषाऽ> <ऋतेन स्थूणा>" <वित्यनेना>भिमन्त्रयते ।
वंशग्रहणेन च पृष्ठवंशो गृह्यते, मुख्यत्वात् ।
व्यक्तञ्चैतत्भारद्वाजके"ऋतेन स्थूणेऽति पृष्ठवंश मधिरोपयतीऽति ।
तत्र मन्त्रे स्थूणाविति छान्दसो ल्ङ्गव्यत्ययः ।
द्विवचनञ्च यथासम्भवं द्रष्टव्यम् ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १७.५
<यथाखातं> खननक्रमेण<इतराः>स्थूणाः तूष्णी<मन्ववधाय>वंशं समतूपं समथूणास्वाधीयमानं<उत्तरेण यजुषा>ऽऋतेन स्थूणा वधिरोहऽ इत्यनेनाभिमन्त्रयते ॥५॥
सम्मितमुत्तरैर्यथालिङ्गम् ॥ आपस्तम्बगृह्यसूत्र १७.६ ॥
(प.७ हं.,१७६)
टीकाः
अनुकूलावृत्ति १७.६
ततस्तदगारं<सम्मितं>संकॢप्तं<उत्तरैर्मन्त्रैः>ऽब्रह्म च ते क्षत्रऽमित्यादिभिष्षड्भिः ।
किम्?अभिमन्त्रयते इत्येव ।
<यथालिङ्गमिति>यस्यागाराङ्गस्य लिङ्गं यस्मिन्मन्त्रे दृश्यते तेन तदभिमुखोऽगारमभिमन्त्रयत इत्यर्थः ।
यदापि पूर्वस्थूणा बद्धा तदापि द्वे एवाभिसन्धायाभिमन्त्रणम् ।
अगारस्य द्विवचनसंयोगात् ।
एवं सर्वत्र अगारमध्ये यः स्थूणाराजः स्तूपः ।
पृष्ठवंशः अत्रैके स्थूणालिङ्गेषु चतुर्षु मन्त्रेषुऽस्थूणे अभिरक्षतुऽइत्येवमनुषङ्गाम्च्छन्ति ।
यज्ञश्च दक्षिणाश्च दक्षिणे स्थूणे अभिरक्षतु इति ।
अन्येऽतेऽशब्दस्यापियज्ञश्च ते दक्षिणाश्चेति ।
साकांक्षत्वान्मन्त्राणाम्, नेति वयम् ।
धक्षिणा इषश्चोर्जश्चेतिबहुवचनान्तैः अभिरक्षत्वित्येकवचनान्तस्य सम्बन्धानुपपत्तेः, ऊहस्य चाविधानातभ्यातानवत्पाठाभावच्च सर्वानुषङ्गेषु दृष्टस्यान्ते पुनः पाठस्याभावाच्च ।
यत्तु साकांक्षत्वमुक्तं तदपि नानुषङ्गहेतुः सन्निधिमात्रेणाकाङ्क्षाया निवर्तनात् ।
यदि वा धर्मस्ते स्थूणाराज श्रीस्ते इत्यत्राभिरक्षत्वित्यस्य नापेक्षा , द्वयोरपि प्रथमान्तत्वात् ।
एवं दक्षिणा इत्यादिकं प्रथमान्तं द्रष्टव्यम् ।
तस्मादाकाङ्क्षैव नास्ति ।
सन्निधानाच्च स्थूणाप्रतिपत्तिः ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १७.६
<सम्मितं>निर्मितमगारं<उत्तराः>ऽब्रह्म च ते क्षत्रं चऽइत्यादिभिः पञ्चभिर्मन्त्रैः<यथालिङ्गं>मन्त्रलिङ्गावगतदिङ्मुखोऽभिमन्त्रयते तत्र पञ्चमेन मध्यमाभिमुखः, अनन्वितत्वात् ।
केचित्षड्भिः ।
तत्रऽधर्मस्ते स्थूणाराजःऽइति मध्यमश्चऽश्रीस्ते स्तूपःऽइति पृष्ठवंशमिति ।
अत्र यद्यपि मन्त्रैरगारावयवास्स्थूणाः स्तूयन्ते॑तथाप्येभिः स्थूणावदगारमेव स्तूयते, यथा पादवन्दनेन पादवानेव वन्द्यते ।
अत्र केचित्द्वितीयादिषु त्रिषु मन्त्रेषु वाक्यसमाप्त्यर्थऽस्थूणे अभिरक्षतुऽइत्याद्यनुङ्गं मन्यन्ते ।
अन्येऽतेऽशब्दस्यापि ।
तथाऽधर्मस्तेऽइत्यादौ अभिरक्षत्वित्यस्य च ।
अपरे तुनैवेह कस्याचित्क्वचिदप्यनुषङ्गः॑नुषज्यमानस्य वैरूप्यात्, अन्तेऽपि च पाठाभावाच्च ।
वाक्यसमाप्तिस्तु प्रकृततया बुद्धिस्थपदार्थान्वयात्सिध्यति, यथाऽइषे त्वाऽ(तै.सं.१११)इति मन्त्रस्य बुद्धिस्थच्छेदनान्वयात्छिनद्भीति वाक्यसमाप्तिरिति ॥६॥
अथ गृहप्रवेशविधिमाह
१७ गृहप्रवेशविधिः
१ गृहस्येशानदिग्भागेऽग्निप्रतिष्ठापनम् ।
पालाशं शमीमयं वेध्ममादीप्योत्तरयाग्निमुद्धृत्योत्तरेण यजुषागारं प्रपाद्योत्तरपूर्वदेशेऽगारस्योत्तरयाग्निं प्रतिष्ठापयति ॥ आपस्तम्बगृह्यसूत्र १७.७ ॥
(प.७,खं.,१७७)
टीकाः
अनुकूलावृत्ति १७.७
अथ प्रवेशनविधिः ।
अन्यथा सम्मितस्याप्यगारस्य प्रवेशे विधिरयं भवति ।
उदगयनाद्यपेक्षिमिति केचित् ।
नेत्यन्ये ।
बीजवतो गृहान् प्रतिपद्यते (आश्व.गृ.२१०२)इत्याश्वलायनः ।
बीजग्रहणं सर्वेषामेव गृहोपकरणानामुपलक्ष णम् ।
तत्र प्रवेक्ष्यन्<पालाशं समीमयं वा इध्मं>अग्नावादीपयति ।
इध्मश्चात्रार्थलक्षणो न नियतपरिमाणः ।
आदीप्य तमग्निपात्रं उद्धरच्यु<त्तरयर्ता>ऽउद्ध्रियमाणऽइत्येतया पञ्चपादया ।
यद्यहनि प्रवेशो रात्रिलिङ्गोऽविवादः प्रयोक्तव्यः ।
तथा रात्रावहर्लिङ्गो निर्विवादः प्रयोक्तव्यः ।
विभज्यविनियोगाभावात् ।
येषां तूदगयनापेक्षा ते रात्रौ प्रवेशं नेच्छन्ति ।
अहःकृतस्य रात्रिकृतस्य च पाप्मनो विनियोगः प्रपाद्यत इत्यर्थः ।
विरोधोऽपि नास्ति ।
यथाऽयदापो नक्तं दुरितं चरामेऽति ।
तमुद्धृतमग्निं <उत्तरेण यजुषा>ऽइन्द्र स्य गृहा वसुमन्तो वरूथिनःऽइत्यनेन<अगारं>प्रपादयति ।
<प्रपाद्य>अगारस्य<उत्तरपूर्वे देशे> तमग्निं <प्रतिष्ठापयति उत्तरयर्चा>ऽअमृताहुतिऽमित्यनया ।
अत्रागरस्येति न वक्तव्यं, अग्निमिति च ।
कस्मात्?उभयोरष्यत्रैव वाक्ये श्रुतत्वात् ।
एवं तर्हि नायमगारशब्दो देशविशेषणार्थः ।
किं तर्हि?अग्निविशेषणार्थः अगारस्याग्निं प्रतिष्ठापयतीति ।
कः पुनरगारस्याग्निः?यः पचनाग्निः ।
तस्मादौपासनादुद्वरणंमस्याग्नेर्न भवति ।
लौकिकादेव भवतीति केचित् ।
अपरे तु होमसंयोगादौपासन एवायमग्निरिति स्थिताः ।
तेषामगारस्येत्यग्निमिति च पदद्वयं व्यर्थम् ।
होमाश्च पचनेऽपि दृष्टा वैश्वदेवे ।
तस्मात्पचनाद्रिरेवायम् ।
ययप्येवं तथापि देशसंस्कारो भवत्येव ।
होमसंयोगात्. अथौपासनस्य वैहारिकाणां च तदैव प्रवेशनं प्रतिष्ठापनं च स्वे स्थाने ।
भार्यादीनां च तदैव प्रवेशः ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १७.७
<पासाशं शमीमयं वेध्मं>काष्ठबौपासनेऽग्नावादीपयति ।
इध्ममिति चऽअग्निषु महत इध्मानादधातिऽइतिवदनियतं संख्यादिकं विवक्षितम् ।
<उत्तरया>ऽउद्ध्रियमाणःऽइत्येतया ।
ततस्तमग्निमुद्धरति ।
अत्र च सानुषङ्गे चतुष्पदे त्रिष्टुभौ द्वे ऋचौ पञ्चभिः पादैराम्नाते ।
तयोरेकैवोद्धरणार्था ।
अन्या तु विकल्पार्था ।
उत्तरया इत्येकवचनेन विनियोगात् ।
व्यवस्थितश्चायं विकल्पोऽभिप्रेतःग्निहोत्रवत् ।
यद्यहनि प्रवेशस्तदा रात्रिलिङ्गया, रात्रौ चेदहर्लिङ्गया ।
रात्रौ च प्रवेशश्शिष्टाचारप्रसिद्ध इति पूर्वमेवोक्तः ।
<उत्तरेण>ऽइन्द्रस्य गृहाःऽइति <यजुषा> ।
उद्धृतमग्निमगारं प्रपाद्य अनन्तरं विधिवत्संस्कृते उत्तरपूर्वदेशेऽगारस्य<तमग्निमुत्तरया>अमृताहुतिम्ऽइत्येतया<प्रतिष्ठापयति> ।
तथा श्रौताग्नीनपि विधिवदानीतानस्मिन्नेव काले अगारं प्रपाद्याग्न्यगारे यथाविधि प्रतिष्ठापयति ।
केचितिहाग्निमुद्धृत्य अगारं प्रपाद्येति प्रकृतेऽपि पुनरुक्तयोरेतयोरर्थवत्त्वाय अगारस्याग्निमित्यन्वयादादीपनादिप्रतिष्ठापनान्तं पचनार्थ स्य लौकिकाग्नेरेव, नौपासनस्येति ।
तेषामेतत्तुल्यसूत्रे विवाहाङ्गे प्रविश्य होमे पचनाग्नेरेवोपसमाधानादि स्यात् ।
अथागारशब्दस्य शयनस्थानवाचित्वात्गृहशब्दस्य चातथात्वात्न तत्र तुल्यसूत्रतेति चेत्न॑गृहागारशब्दयोरेकार्थत्वे विवादाभावात् ।
इह चऽइन्द्रस्य गृहा वसुमन्तःऽइति मन्त्रस्थगृहशब्देनागाराभिधानात्,प्रत्युत धर्मशास्त्रेऽमध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् ।
उत्तर पूर्वदेशेऽगारस्योत्तरैश्चतुर्भिः ।
शय्यादेशे कामलिङ्गेनऽ(आप.ध.२३२२,२३॑२४१) इति शयनस्थानस्यागारादन्यत्वाभिधानाच्च ।
पिनरुक्तिः स्फुचार्थतयापि निर्वाह्या ।
किञ्चागारस्याग्निमित्यन्वयोऽपि अगाराग्निः शालाग्निः,गृह्याग्निपासनाग्निरित्येकार्थतया याज्ञिकानां प्रयोगादौपासलन एव प्रतिष्ठाप्यः, न पचनाग्निः ॥७॥
२ अग्नेर्दक्षिणत उदधानायतनकरणम् ।
तस्माद्दक्षिणमुदधानायतनं भवति ॥ आपस्तम्बगृह्यसूत्र १७.८ ॥
(प.७.खं.,१७८)
टीकाः
अनुकूलावृत्ति १७.८
एवं प्रतिष्ठतस्याग्नेः<दक्षिणमुदधानायतनं>कर्तव्यम् ।
उदकं धीयते यत्र ततुदधानं मणिकाख्यम् ।
________________________
गृह्यतात्पर्यदर्शनव्याख्या १७.८
<तस्मात्> प्रतिष्ठिताग्नेर्दक्षिण<मुदधानस्य>मणिकस्यायतनं भवति ॥८॥
३ तत्रायतने उदधानप्रतिष्ठापनम् ।
तस्मिन्विषूचीनाग्रान्दर्भान्संस्तीर्य तेषूत्तरया व्रीहियवान्न्युप्य तत्रोदधानं प्रतिष्ठापयति ॥ आपस्तम्बगृह्यसूत्र १७.९ ॥
(प.७.खं.,१७९)
टीकाः
अनुकूलावृत्ति १७.९
तस्मिन्नायतने <विषूचीनाग्रान्>सर्वतोदिक्कान्<दर्भान् संस्तीर्य> <तेषु>दर्भेषु<ब्रीहीन् यवांश्च>संयुक्तान्<निवपति> <उत्तरयर्चा>ऽअन्नपतऽइत्येतया ततस्तस्मिन्नायतने <उदधानं प्रतिष्ठापयति>यथा निश्चलं भवति तथा स्थापयति ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १७.९
<तस्मिन्> उदधानस्थाने <विषूचीनाग्रान्>नानादिगग्रान्<दर्भान् संस्तीर्य, तेषु>दर्भेषु<उत्तरया>ऽअन्नपतेऽन्नस्यऽइत्योतया<ब्रीहियवांश्च> संयुक्तान्<न्युप्य>तेषुदधानंप्रतिष्ठापयति ॥९॥
४ उदधानस्य जलेन पूरणम् ।
तस्मिन्नुत्तरेण यजुषा चतुर उदकुम्भानानयति ॥ आपस्तम्बगृह्यसूत्र १७.१० ॥
(प.७.खं.,१७१०)
टीकाः
अनुकूलावृत्ति १७.१०
<उत्तरेण यजुषा>ऽअरिष्टा अस्माकऽमित्यनेन ।
प्रतिकुंभं मन्त्रावृत्तिः ।
तत्र चतुर्भिर्वा कुम्भैः पृथगानयनमेकेनैव वाथ पुनः पूरयित्वा, यथाऽतिस्रः स्रु च उत्सिच्येऽति ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १७.१०
<तस्मिनुदधाने उत्तरेण>ऽअरिष्टा अस्माकंऽइत्यनेन<यजुषा चतुर उदकुम्भानानयति ।>
प्रतिकुम्भं मन्त्रावृत्तिः, द्रव्य भेदेन प्रकाश्यक्रियाभेदात् ।
यत्र पुनर्मधुपर्कप्राशनादौ आवृत्तिविधिस्तस्या एव क्रियायाः, तत्र सकृदेव मन्त्रः ॥१०॥
५ तस्य भेदनेऽनुमन्त्रणम् ।
दीर्णमुत्तरयानुमन्त्रयते ॥ आपस्तम्बगृह्यसूत्र १७.११ ॥
(प.७.खं.,१७११)
टीकाः
अनुकूलावृत्ति १७.११
अथ यदि तदुदधानां भिद्यते तत्<उत्तरयर्चा> भूमिर्भूमिऽमित्येतया<अनुमन्त्रयते> ।
कालान्तरे दीर्ण एतद्भवति उदधानान्तरेऽपि तत्स्थानापन्ने ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १७.११
यदि<दीर्ण>मणिकं स्यात्तदा<उत्तरया>ऽभूमिर्भूमिमगात्ऽइत्येतया<नुमन्त्रयते> ।
एतच्च प्रकरणात्कर्माङ्गमेव ॥११॥
६ प्रधानाहुतयः ।
अग्नेरुपसमाधानाद्याज्यभागान्ते उत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते ॥ आपस्तम्बगृह्यसूत्र १७.१२ ॥
(प.७ हं.,१७१२)
टीकाः
अनुकूलावृत्ति १७.१२
चतस्रः<उत्तराः> प्रधानाहुतयः"वास्तोष्पते प्रतिजानीहि, वास्तोष्पते शग्मया, वास्तोष्पते प्रतरणो न एधि, अमीवहा वास्तोष्पत"इति ।
तत्राज्यभागान्तवचनेनैव तन्त्रप्राप्तिस्सिद्धा, यथाऽपार्वणवदाज्यभागान्तेऽइत्यत्र ।
किमग्नेरुपसमाधानादिवचनेन?अग्निनियमार्त तुयोऽगारे पचनार्थ प्रतिष्ठापितोऽग्निः तस्यैव होमार्थमुपसमाधानं यथा स्यादिति ।
अन्यथा सर्वपाकयज्ञार्थे औपासन एव होमः स्यात् ।
जयादिवचनं स्थालीपाकप्रतिषेधार्थम् ।
का पुनः प्राप्तिः स्थालीपाकस्य?कस्पान्तरे दर्शनात् ।
कथं पुनः
जयादिवचनेन स्थालीपाकस्य प्रतिषेधः?उत्यतेस्विष्टकृत्प्रतिषेधस्तावत्गम्यतेउत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते न स्विष्टकृत्प्रतिषेधस्तावत्गम्यतेउत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते न स्विष्टकृतमिति ।
स च स्थालीपाकेषु भवति ।
अतस्यतत्प्रतिषेधद्वारेण स्थालीपाकप्रतिषेध एवायं सम्पद्यते ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १७.१२
<उत्तरा आहुती>श्चतस्रः प्रधानाहुतीः ताश्चऽवास्तोष्पते प्रतिजानीहिऽ(तै.सं.३४१०) इति द्वे,ऽवास्तोष्पते प्रतरणो नःऽइति द्वे ।
आज्यहविष्ट्वाच्च तन्त्रविधानम् ।
आज्यभागान्त इति वचनं त्वाज्यभागानन्तरमेव प्रधानहोमाः, नान्यदर्थकृत्यमपीति क्रमार्थम् ।
केचित्ऽपार्वणवदाज्यभागान्तेऽ(आप.गृ.१८६) इतिवदाज्यभागान्त इत्यनेनैव तन्त्रप्राप्तौ सिद्धायांऽअग्नेरुपसमाधानादिऽइति वचनं स्वमतेन प्रतिष्ठितः पचनाग्निरेवेह होमार्थ इत्येवमर्थमिति ।
तदयुक्तम् ,ऽकर्मस्मार्त विवाहाग्नौ कुर्वीत प्रत्यहं गृहीऽ ।
(यास्मृ.१९७)
इति सर्वस्मार्तहोमानामविशेषेण औपासनविधानात्, अस्य सूत्रस्योक्तविधयान्यार्थत्वात्, अस्मादीयानां गृह्यान्तरीयाणां चौपासन एव वास्तुहोमाचाराच्च ॥१२॥
७ गृगस्य परिषेचनम् ।
परिषेचनान्तं कृत्वोत्तरेण यजुषोदकुम्भेन त्रिः प्रदक्षिणमन्तरतोऽगारं निवेशनं वा परिषिच्य ब्राह्मणान् भोजयेदपूपैस्सक्तुभिरोदनेनेति ॥ आपस्तम्बगृह्यसूत्र १७.१३ ॥
(प.७.ख.,१७१३)
टीकाः
अनुकूलावृत्ति १७.१३
परिषेचनान्तवचनं आनन्तर्यार्थम् ।
तन्त्रशेषं समाप्यागारस्य परिषेचनमेव कर्तव्यम् ।
नान्यद्वैश्वदेवादिकमिति ।
<उत्तरेण यजुषा>ऽशिवं शिवऽमित्यनेन ।
<उदकुम्भेन>न हस्तेन ।
परिभाषयैव सिद्धे प्रदक्षिणमिति वचनात्परिषेचनमिदमेकमेव प्रदक्षिणं त्रिगुणीभूतं सकृदुपात्तेनैवोदकुम्भेन संततमविच्छिन्नं कर्तव्यम् ।
मेखलया परिव्याणवत्त्रीणि परिषेचननीति सिद्धं भवति ।
<अन्तरंत>इति वचनमगारात्बहिः परिषेचनं मा भूत् ।
अब्यन्तरमेव यथा स्यादिति ।
<अगारं>गृहं,<निवेशनं>शयनदेशः ।
<ब्राह्ममान्> युग्मान् भोजयेदपूपादिभिः ।
इतिशब्दः समुच्चयार्थः ॥१३॥
इति हगदत्तविरचितायां गृह्यसूत्रवृत्तावनाकुलायां सप्तदशः खण्डः ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १७.१३
परिषेचनान्त<मुत्तरेण>ऽशिवं शिवम्ऽइत्यनेन<यजुषा>उदकुम्भेन सकृदुपात्तेन<अगारं निवेशनं वान्तरतो> न बहिः<त्रिः प्रदक्षिणं> <परिषिच्य ब्राह्मणान् भोजयेदपूपादिभिः> ।
इतिशब्दस्समुच्चयार्थः ।
सक्तूनां तु भोजनात्प्रागेव उपयोगः, न मध्ये लोक प्रसिद्ध्यभावात् ।
ऽशुचीन्मन्त्रवतः सर्वकृत्येषु भोजयेत्ऽ(आप.ध.२१५११) इति सिद्धस्य भोजनस्य पुनर्वचनमपूपादिगुणविद्ध्यर्थम् ॥१३॥
इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने सप्तदशः खण्डः ।
अष्टादशः खण्डः ।
१ बालग्रहगृहीतस्य कुमारस्य तन्निवर्तकं कर्म ।
श्वग्रहहीतं कुमारं तपोयुक्तो जालेन प्रच्छाद्य कंसं किङ्किणिं वा ह्रादयन्नद्वारेण सभां प्रपाद्य सभाया मध्येऽधिदेवनमुद्धत्यावोक्ष्याक्षान्न्युप्याक्षेषूत्तानं निपात्य दध्ना लवणमिश्रेणाञ्जलिनोत्तरैरवोक्षेत्प्रातर्मध्यन्दिने सायम् ॥ आपस्तम्बगृह्यसूत्र १८.१ ॥
(प.८.खं.१८१)
टीकाः
अनुकूलावृत्ति १८.१
बहवो बालग्रहाः दिवसमासससमादिकाः ।
तत्र येन गृहीतः श्ववच्चेष्टते स<श्वग्रहः> ।
तेन वगृहातं कुमारं, पुल्लिङ्गनिर्देशात्कुमार्यान भवतीत्येके ।
<तपोयुक्तः>कर्ता पितेत्येके ।
यः कश्चिदित्यन्ये ।
तपो ब्रह्मचर्यादि ।
यावता तपसा सिद्धं मन्यते तावत्कृत्वेत्यर्थः<जालं>मत्स्यग्रहणं तेन<प्रच्छाद्य> ।
<कंसं>प्रसिद्धम् ।
<किङ्किणिः> घण्टाविशेषः ।
तयोरन्यतरं ह्रादयनन्यतरस्य ध्वनिं कारयन् केनचिदन्येन ।
स्वयं कुमारं गृहीत्वा<समां प्रपादयति अद्वारेण>छदीरपोह्यमार्ग कृत्वा तेनेत्यर्थः ।
किं तत्स्थानम्?सभा, तस्या मध्येऽ<धिदेवनं स्थानं>यत्र कितवा दीव्यन्ति तं प्रदेशं<उद्धत्याद्भिरवोक्ष्य>तत्राक्षान्निवपति ।
अक्षाश्शाराः ।
विभीतका इत्यन्ये ।
तान् पृथु प्रथयित्वाप्वेनमुत्तानं<निपातयति ।
>शाययति ।
ततो <दध्ना लवणमिश्रेणावोक्षेदञ्ज लिना उत्तरै>र्मन्त्रैःऽकूर्कुरस्सुकूर्कुरऽइत्यादिभिःऽश्वानमिच्छ्वादन्न पुरुषं छत्ऽइत्यन्तैः ।
प्रतिमन्त्रमवोक्षणम् ।
तत्रादितस्तिस्र ऋचः, ततो यजुषी द्वेऽतत्सत्यं, विगृह्यबाहूऽइति ततः पञ्चर्चोऽविभ्रन्निष्कञ्चेऽत्याद्याः, ततो यजुरेकंऽश्वानऽमिति, एवमेकादशैते मन्त्राः ।
यावत्कर्म समाप्यते तावत्संसकिङ्कण्योरन्यतरस्य ह्रादनम् ।
एवमेतत्कर्म जालप्रच्छादनादवोक्षणान्तं त्रिसन्ध्यं कर्तव्यम् ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १८.१
येन गृहीतः कुमारः श्वेव नदति, श्ववद्वा चेष्टते स श्वग्रहः ।
तेन गृहीतः<श्वग्रहगृहीतः>, पिशाचिशुना वा दष्टः ।
<तपोयुक्तः> यावन्मनस्तोषमनशनादियुक्तः पित्रीदिः कर्ता ।
<जालं>मत्स्यग्रहणसाधनम् ।
<कंसं किङ्किणिम् ।>
लोहघण्टां<ह्रदयन्>पुरुषान्तरेण ध्वानय्<अद्वारण>कुड्याद्यपोह्य मार्ग कृत्वा ।
अधिदेवनं यत्र दीव्यन्ति कितवाः ।
अक्षान् विभीतकफलानि ।
केचित्शारा इति ।
<उत्तरैर्मन्त्रैः>ऽकूर्कुरस्सुकूर्कुरःऽइत्यादिभिर्यजुर्दशमैः ।
यद्वैकादशभिः ।
तस्मिन् पक्षे आदितस्तिस्र ऋचः ततःऽतत्सत्यं यत्त्वेन्द्रःऽविगृह्य बाहू इति द्वे यजुषा ततोऽबिभ्रन्निष्कम्ऽइति पञ्चर्चः ।
ततःऽश्वानम्ऽइत्येकादशं यजुरेवेति विभागः ।
अवोक्षणं च सर्वेषां मन्त्राणामन्ते सकृदेव ।
केचित्द्वष्टोपकारकत्वात्प्रतिमन्त्रमिति ।
एवमेतज्जालप्रच्छादनाद्यवोक्षणान्तं प्रातरादिषु त्रिषु पुण्याहविशेषेषु कर्तव्यम् ।
अवोक्षणपर्यन्तं च ह्रादनम् ॥१॥
अगदो भवति ॥ आपस्तम्बगृह्यसूत्र १८.२ ॥
(प.८.खं.,१८२)
टीकाः
अनुकूलावृत्ति १८.२
<अगदः>अरोगः, रोगनिवृत्तिरस्य प्रयोजनमित्यर्थः ।
किं सिद्धं भवति?यदि भैषज्येन कुमारोऽगदः स्यात्न तत्रेदं कर्तव्यमिति ।
अन्यथा कुमार स्यास्मिन् रोगे पितुर्नैमित्तिकमिदमवश्यं कर्तव्यं विज्ञायेत गृहदाहेष्ट्यादिवत्. एवं ब्रुवतां दोषः यक्ष्मगृहीतामन्यां वेत्येतत्प्रकारान्तरेण रोगशान्तावपि कर्तव्यं स्यात्. तस्मादिदमन्यते प्रयोजनम् ।
एवमेतस्मिन् कर्मणि त्रिषु कासेषु कृते कुमारोऽगदो भवति ।
यदि न भवति पुनरपि तपोयुक्तेन कर्तव्यमिति ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १८.२
इह चऽशङ्खिनम्ऽइत्यत्र फलवचनं, सर्वत्र श्रुतितोर्ऽथतो वावगतस्य कामिनः कर्मोपदेशः सामर्थ्यात्फलसिद्ध्यवगमपर्यन्त इति प्रदर्शयितुम् ।
तेनऽयक्ष्मगृहीताम्ऽ(आप.गृ.९१०) इत्यादौ फलवचनाभोवेऽप्युपदोशः काम्यसिद्धिपर्यन्त एव ।
केचितेवमेतस्मिन् कर्मणि त्रिसन्ध्यं कृते, अगदो भवति ।
यदि न भवति तदा पुनरप्येतत्कर्म कर्तव्यं, यावदगदो भवति इति ।
नैतत्, स्वाभिमताभ्यासबोधकशब्दाभावात् ॥२॥
शङ्खिनं कुमारं तपोयुक्त उत्तराभ्यामभिमन्त्र्योत्तरयोदकुम्भेन शिरस्तोऽवनयेत्प्रातर्मध्यन्दिने सायम् ॥ आपस्तम्बगृह्यसूत्र १८.३ ॥
(प.७.खं.,१७३)
टीकाः
अनुकूलावृत्ति १८.३
शङ्खो नाम ग्रहः कुमाराणां भयङ्करः, येन गृहीतः शह्खवन्नदतीति ।
तेन गृहीतं<शङ्खिनमुत्तराभ्यां>एते ते प्रतिद्वश्येते इत्येताम्यामृग्भ्यां<अभिमन्त्र्य तत> उदकुंभेन<शिरस्तोऽवनयेत्>, अभिषिञ्चेदुत्तरयर्चाऽऋषिर्बोधः प्रबोधऽइत्येतया
एवमेतदभीमन्त्रणादि त्रिषु कालेषु कर्तव्यम् ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १८.३
शह्खोऽपि ग्रहः येन गृहीतः शङ्खवन्नदति तद्गृहीत<श्शङ्खी ।
उत्तराभ्यां>ऽएते ते प्रतिदृश्येतेऽइत्येताभ्यां<उत्तरया>ऽऋषिर्बोधः प्रबोधःऽइत्ये तया<शिरस्तोऽवनयेत्>शिरस्यभिषिञ्चेत्,<उदकुम्भेन>त्रिसन्ध्यम् ॥३॥
अगदो भवति ॥ आपस्तम्बगृह्यसूत्र १८.४ ॥
(प.८.खं.,१८४)
टीकाः
अनुकूलावृत्ति १८.४
पूर्ववदस्य प्रयोजनम् ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १८.४
उक्तर्थम् ॥४॥
अथ सर्पबलेर्यस्मिन् काले येन विधिनोपक्रमस्तमाह
१८ सर्पबलिः
१ तदुपक्रमे स्थालीपाकः ।
श्रावण्यां पौर्णमास्यामस्तमिते स्थालीपाकः ॥ आपस्तम्बगृह्यसूत्र १८.५ ॥
(प.७.खं१८५)
टीकाः
अनुकूलावृत्ति १८.५
अथ सर्पवलिर्नाम कर्म नित्यं संवत्सरे संवत्सरे कर्तव्यमुपदिश्यतेतस्य श्रावण्यां पौर्णमास्यामारम्भः
मार्गशीर्ष्यामुत्सर्गः ।
तस्योपक्रमे <श्रावण्यां पौर्णमास्यां अस्तमिते> आदित्ये <स्थालीपाको>भवति ।
असत्यपि नक्षत्रयोगे श्रावणस्य मासस्य पौर्णमासी श्रावणीत्युच्यते लक्षणया ।
तत्र श्लोकौमेषादिस्थे सवितरि योयो दर्शः प्रवर्तते ।
चान्द्रमासास्तदन्ताश्च चैत्रादया द्वादश स्मृताः ॥
तेषु या या पौर्णमासी सा सा चैत्र्यादिका स्मृता ।
कादाचित्केन योगेन नक्षत्रस्येति निर्णयः ॥
इति ॥
तत्र सायमाहुतिं हुत्वा स्थालीपाककर्म प्रतिपद्यते पार्वणेनातोऽन्यानीत्युक्तं, पौर्णमास्यां पौर्णमासीति च ।
श्रावण्यै पौर्णमास्यै सङ्कल्पितान् व्रीहिन् यवान् वा निरुप्य प्रतिष्ठिताभिधारणान्तं कृत्वाग्नेरुपसमाधानादि द्वन्द्वं न्यञ्चि पात्राणि किंशुकपुष्पैरारग्वधमयसमिद्भिश्च सह ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १८.५
श्रवणेन नक्षत्रेण युक्ता पौर्णमासी<श्रावणी> ।
अयुक्तापीह विवक्षिता, नित्यत्वात्सर्पबलेः ।
श्रावणमासस्य पौर्णमासीत्यर्थः ।
न तु श्रावणमासस्य श्रवणनक्षत्रम्, श्रावणस्य पौर्णमासीविशेषणार्थत्वात्,ऽपौर्णमास्यां (आप.प.२२०) इति वचनाच्च ।
अथ चान्द्रमसमासानां चैत्रादीनां, पौर्णमासीनां च चैत्र्यादीनां निर्णयार्थौ श्लोकौ
"मेषादिस्थे सवितरि ये ये दर्शः प्रवर्तते ।
चान्द्रा मासास्तत्तदन्ताश्चैत्राद्या द्वादश स्मृताः ॥
तेषु या या पौर्णमासी सा सा चैत्र्यादिका स्मता ।
कादाचित्केन योगेन नक्ष६ येति निर्णयः" ॥
इति ।
तस्यां<श्रावण्यां>पौर्णमास्यां,<अस्तमिते>आदित्ये, सायं होमान्तेऽपत्न्यवहन्तिऽ(आप.गृ.७२) इति विधिता प्रतिष्ठिताभिघारणान्तर <स्थालीपाकः>कर्तव्यः ॥५॥
२ तत्र किंशुकहोमः ।
पार्वणवदाज्यभागान्ते स्थालीपाकाद्धुत्वाञ्जलिनोत्तरैः प्रतिमन्त्रं किंशुकानि जुहोति ॥ आपस्तम्बगृह्यसूत्र १८.६ ॥
(प.७.खं.,१८६)
टीकाः
अनुकूलावृत्ति १८.६
सर्व पार्वणवदित्त्युच्यतेस्थालीपाकादेव पार्वणवज्जुहोति, न किंशुकानीति ।
तेन तेष्ववदानकल्पो न भवति ।
स्विष्टकृतश्चावदानं तेभ्यो न भवति ।
किंशुकैः समिधो व्याख्याताः ।
आज्यभागान्तवचनं तन्त्रप्राप्यर्थम् ।
श्रावण्यै पौर्णमास्यै स्वाहेति
स्थालीपाकादेधोमः ।
<उत्तरैर्मन्त्रेः>ऽजग्धो मश्कऽइत्यादिभिस्त्रिभिः ।
<किंशुकानि> ।
पलाशपुष्पाणि ।
पलाशानां कण्टकिनां पुष्पाणीत्यन्ये ।
प्रतिमन्त्रमित्त्युच्यते प्रतिमन्त्रं किंशुकानां बहुत्वं यथा स्यादिति ।
अन्यथा एकैकस्य किंशुकस्य होमः प्राप्नोति, यथा समिधाम् ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १८.६
ततः<पार्वण>वदग्नेरुपसमाधाना<द्याज्यभागान्ते>अग्निमुखान्त इत्यर्थः॑सर्वेष्वौषधहविष्केषु तन्त्रवत्सु कर्मसु अग्निमुखस्य विहितत्वात् ।
<श्थालीपाकाद्वि>धिवदवदायऽश्रावण्यै पौर्ममास्यै स्वाहाऽइति हुत्वाऽजग्धो मशकःऽइत्यादिभिस्त्रिभिः<उत्तरैः प्रतिमन्त्रं किंशुकानि> पलाशस्य पुष्पाणि जुहोति ।
केचित्पलाशसूदृशस्य कण्टकिनः पुष्पाणीति ॥
एतानि च वसन्त एव सङ्गृहीतव्यानि ।
अत्र चाञ्जलेस्संस्कारः उपस्तरणादिरवदानधर्मः,किंशुकशेषादपि स्विष्टकृते समवदानम् ।
अञ्जलेरपि दर्व्या सह लेपाञ्जनं च भवत्येव॑मुख्येन धर्मप्रवृत्तेरुक्तत्वात् ।
विप्रतिषिद्धं त्वन्यः कुर्यात् ।
केचितअञ्जलिहोमा लाजहोमवद्यावदुक्तधर्माण एवेति ॥६॥
३ आरग्वधसमिद्धोमः ।
उत्तराभिस्तिसृभिरारग्वधमय्यस्समिधः ॥ आपस्तम्बगृह्यसूत्र १८.७ ॥
(प.७.,खं.१८७)
टीकाः
अनुकूलावृत्ति १८.७
<आरग्वधो>राजवृक्षः ।
यस्य सुवर्णवर्णानि पुष्पाणि अरत्निमात्राणि फलानि ।
उत्तराभिस्तिसृभिः ऋग्भिःऽइन्द्र इति जहि दन्दशूकऽमित्यादिभिः ।
समिध आदधाति जुहोति वा ।
सर्वथा स्वाहाकारान्ता मन्त्राम् ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १८.७
अथो <त्तराभिस्तिसृभिः>ऽइन्द्र जहि दन्दशूकऽइत्यादिभिः प्रत्यृचम् ।
<आरग्वधमय्यस्समिधः,>आरग्वधविकारास्समिधः ।
किम्?
जुहोतीति सम्बन्ध ।
तेनात्र समिधां मान्त्रवर्णिकदेवतोद्देशेन त्यागः कर्तव्य एव ॥७॥
४ आज्याहुतयः ।
आज्याहुतीरुत्तराः ॥ आपस्तम्बगृह्यसूत्र १८.८ ॥
(प.७ हं.,१८८)
टीकाः
अनुकूलावृत्ति १८.८
<उत्तरा>श्चतस्र<आज्याहुती>र्जुहोति तत्सत्यं यत्तेऽमावास्यायां,ऽनमो अस्तु सर्पेभ्यऽइति तिस्रः ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १८.८
<उत्तरा>श्चतस्रःऽतत्सत्यं यत्तेऽभावास्यायाम्ऽइत्येका,ऽनमो अस्तु सर्पेभ्यःऽइति त्स्रश्च ॥८॥
जयादि प्रतिपद्यते ॥ आपस्तम्बगृह्यसूत्र १८.९ ॥
(फ.७ हं.,१८९)
टीकाः
अनुकूलावृत्ति १८.९
एवमेता एकादश प्रधानाहुतीर्हुत्वा सौविष्टकृतं च स्थालीपाकादेव हुत्वा ततो जयादि प्रतिपद्यते किंशुकप्रभृतीनामप्याहुतीनां प्राधान्यज्ञापनार्थमिदं नचनम् ।
अन्यथा पौर्णमास्यामस्तमिते स्थालीपाक इति विहितत्वात्पौर्ममास्यां पौर्णमासीति च तस्य देवताभिधानादर्शकर्मकत्वाच्च किंशुकानां प्रधानत्वं न गम्येत ।
ततश्च पार्णवदुपहोमान्तं कृत्वा ततः किंशुकादीनां हेमः प्राप्नोति ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १८.९
एतच्च वचनं जयादिप्राप्यर्थम्, स्थालीपाककिंशुकसमिदाज्याहुतीनामेकदशानां प्राधान्यत्रापनार्थ च ।
जयाद्यनन्तरं स्विष्टकृदित्युक्तमेव ॥ ९ ॥
५ गृहादीशान्यां दिशि स्थण्डिलं कल्पयित्वा तत्र सक्तुनिवापः ।
परिषेचनान्तं कृत्वा वाग्यतस्संभारानादाय प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य स्थण्डिलं कल्पयित्वा तत्र प्राचीरुदीचीश्च तिस्त्रस्तिस्त्रो लेखा लिखित्वाद्भिरुपनिनीय तासूत्तरया सक्तून्निवपति ॥ आपस्तम्बगृह्यसूत्र १८.१० ॥
(प.७ हं.,१८१०)
टीकाः
अनुकूलावृत्ति १८.१०
परिषेचनान्तवचनमानन्तर्यार्थम् ।
परिषेचनान्ते उपनिष्क्रमणमेव नान्दिति किं सिद्धं भवति ?तेन सर्पिष्मता ब्राह्मणं भोजयेत्ऽइत्यादेरुत्कर्षस्सिद्धो भवति ।
<वाग्यतः>शब्दमकुर्वन्<धानाः लाजाः अ॰जनाभ्यञ्जने स्थगरोशीरमु> दपात्रमिति संभाराः ।
उपलिप्तो भूमिभागः स्थण्डिलम् ।
कल्पयित्वेति वचनात्स्वयमेव कल्पनं नान्यैः कल्पितस्य परिग्रहः ।
तत्रेति वचनात्स्थण्डिलस्य मध्ये बलेरायतनं भवति ।
श्लोकश्च भवति
प्राचीः पूर्वमुदक्संस्थं दक्षिणारम्भमालिखेत् ।
अथोदीचीः पुरस्संस्थं पश्चिमारंभमालिखेत् ॥
अपरे तु प्राचीनानां दक्षिणत आरम्भमिच्छन्ति ।
(प्राचीः प्रागायतः एवमुदीचीः उदगायताः क्रमस्य विवक्षितत्वात्) ।
प्रथमं प्राचीस्तत इदीचीः ।
एकं चेदं लेखाकरणं नाम कर्मऽपुरस्तादिदग्वोपक्रमस्तथापवर्गःऽइत्युक्तम् ।
तत्रेह प्रागुपक्रमस्यासंभवातुदगुपक्रमः प्रागपवर्गः ।
एतेनऽयत्र क्वचाग्निऽमिति एतल्लेखारणं व्याख्यातम् ।
एवं लोखा लिखित्वाद्भिरुपनिनयति तासां समीपे अपो निनयति सर्वदेवजनेभ्यो ददाति यथापितृभ्यः पिण्डदाने ।
ततस्तासु लेखासूत्तरयर्चाऽनमोऽस्तु सर्पेभ्यो ये पार्थिवाऽइत्येतया सक्तून्निवपति हस्तेन दर्व्या वा, आश्वलायनके दर्शनात् ।
तास्विति वचनं ताः सर्वा लेखाः यथा बलिर्व्याप्नुयादित्येवमर्थम् ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १८.१०
अथ तन्त्रशेषं समाप्य,<सम्भारानु>त्तरत्रोपयोक्ष्यमाणान् सक्तवादीनादाय,<वाग्यतः प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य, स्थणडिलं> <पीठं कल्पयित्वा तत्र> पीठे दक्षिणस्या आरभ्य<प्राचीस्तिस्रः>प्रतीच्या आरभ्य<उदीचीस्तिस्रश्च रेखा लिखित्वाद्भिरु>पनिनीय तासु षचिसु लेखासु लेखनक्पमेणोत्तरयाऽनमो अस्तु सर्पेभ्यो ये पार्थिवाःऽइत्यादिकयाऽबलिं हरिष्यामिऽइत्यन्तयां<सक्तून्निन्निवपति> ।
सकृदेव मन्त्रः ।
न च स्वाहाकारः॑जुहोतिचेदितत्वात्, नमस्कारस्यापि प्रदीनार्तत्वादित्युक्तत्वाच्च ।
केचित्सर्वासु रेखासु यथा युगपत्याप्नुयाद्वलिः तथा निवपति ॥१०॥
६ तत्राक्षतादीनां निवपनम् ।
तूष्णी सम्पुष्का धाना लाजानाञ्जनाभ्यञ्जने स्थगरोशीरमिति ॥ आपस्तम्बगृह्यसूत्र १८.११ ॥
(प.७ हं.,१८११)
टीकाः
अनुकूलावृत्ति १८.११
<संपुष्का>अक्षता अखण्डितास्तण्डुलैः कृताः स्थगरञ्चोशीरञ्च गन्धद्रव्ये एतानि षट्द्रव्याणि तासु निवपति ।
इति शब्दः समुच्चयार्थः तेन सर्वत्र पूर्वेण मन्त्रेणैव निवपने प्राप्ते तूष्णीमिति मन्त्रप्रतिष्धः ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १८.११
<सम्पुष्काः>सम्पुष्टा इति धानाविशे,णं अखण्डिततण्डुलैः कृता<धाना>इत्यर्थः ।
<स्थगर>मापणस्थं गन्धगद्रव्यम् ।
अन्यानि प्रसिद्धानि ।
इति शब्दस्समुच्चयार्तः ।
एतानि षट्द्रव्याणि तूष्णी रेखस्वेव निवपति ॥११॥
७ उपस्थानान्तरं गृहमागत्य तत्परिषिच्य ततो ब्राह्मणभोजनम् ।
उत्तरैरुपस्थायापः परिषिच्याप्रतीक्षस्तूष्णीमेत्या पश्वेत पदेत्येताभ्यामुदकुम्भेन त्रिः प्रदक्षिणमन्तरतोऽगारं निवेशनं वा परिषिच्य ब्राह्मणान् भोजयेत् ॥ आपस्तम्बगृह्यसूत्र १८.१२ ॥
(प.७.,खं.१८१२)
टीकाः
अनुकूलावृत्ति १८.१२
एवमेवैतं बलिं सप्तभिर्द्रव्यैर्दत्वा ततस्तां बलिदेवतामुपतिष्ठते ।
उत्तरैर्मन्त्रैः"तक्षक वेशालेये"त्यादिभिः
अष्टादशभिः ।
तेभ्य इमं बलिमहार्षमिति पूर्वस्या एवोत्तरस्य पादस्य सन्नामः न मन्त्रान्तरम् ।
वक्ष्यति टऽबलिमन्त्रस्य सन्नामःऽइति ।
एवमुपस्थाय अपः<परिषिञ्चति>सर्वतस्सिञ्चति ।
न्युप्तस्य बलेः प्रकृतत्वात् ।
ततोऽप्रतीक्षः पृष्टतः अप्रतीक्षमाणस्तूष्णीं वाग्यतः<प्रत्येति> ।
प्रत्येत्यऽअपश्वेत पदाऽइत्येताभ्यां ऋग्भ्यां उदकुंभेन उ<न्तरतोऽगारं> निवेशनं वापरिषिच्य<ब्रह्मणान् युगमान् भोजयेत्> स्थालीपाकश्षादिभिः ॥१२॥
इति श्रीहरदत्तविरचितायां गृह्यवृत्तावनाकुलायामष्टादशः खण्डः ॥१७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १८.१२
अथ उत्तरैर्मन्त्रैःऽतक्षक वेशालेयऽइत्यादिबिरष्टादशभिः मान्त्रवर्णिकीं बलिदेवतामुपतिष्ठते ।
तत्र चऽओजस्विनी नामासिऽ इत्यादिषु चतुर्षु पर्यायेषु दशभ्यः पदेभ्य ऊर्ध्वऽरक्षिता यश्चाधिपतिःऽइत्यादेरनुषङ्गः ।
तथाऽहेतयो नाम स्थऽइत्यादिष्वपि पञ्चस्वेकादशभ्य उर्ध्वऽवातनामं तेभ्यो वो नमःऽइति आदेः ।
यत्तुमध्येतेभ्य इमंबलिमहार्षमिति तत्पूर्वस्या एव बलिहरणार्थाया ऋचः
उत्तरभागस्योत्सर्जनार्थः सन्नामः ।
वक्ष्यति हि तत्रऽअहार्षमिति बलिमन्त्रस्य सन्नामःऽ(आप.गृ.१९४)इति ।
अथ न्यप्तं बलिमद्भिः परिषिच्य तमप्रतीक्षमाणः तूष्णीं वाग्यतो गृहान्प्रत्येत्यऽअप श्वेत पदाऽइत्येताभ्यामित्यादि यथासूत्रं करोति ।
तत्राति ब्राह्मणभोजनवचनं क्रमार्थम् ।
उपनयनवद्भुक्तवद्भिराशीर्वचनम् ॥१२॥
इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने अष्टादशः खण्डः ॥
एकोनविंशः खण्डः ।
८ कुमाराणां बलिशिष्टधानाप्राशनम् ।
धानाः कुमारान् प्राशयन्ति ॥ आपस्तम्बगृह्यसूत्र १९.१ ॥
(प.७.,खं.१८१)
टीकाः
अनुकूलावृत्ति १९.१
बलिहरणशिष्टाः<धानाः कुमारान् प्राशयन्ति>ये प्राशने समर्थाः ।
कुमारीणामपि प्राशनमेकशेष निर्देशात् ॥ १ ॥
९ मार्गशीर्षीपर्यन्तं प्रतिदिनं बलिहरणम् ।
एवमत ऊर्ध्व यदशनीयस्य सक्तूनां वैतं बलिं हरेदामार्गशीर्ष्याः ॥ आपस्तम्बगृह्यसूत्र १९.२ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १९.२
<धानाः>या बलिहरणशिष्टाः<कुमारान् प्राशयन्ति> ।
के?शिष्टास्सामर्थ्यात् ॥१॥
१० मार्गशीर्ष्या स्थालीपाकविधानम् ।
मार्गशीर्ष्या पौर्णमास्यामस्तमिते स्थालीपाकः ॥ आपस्तम्बगृह्यसूत्र १९.३ ॥
(प.७ हं.,१८२)
टीकाः
अनुकूलावृत्ति १९.३
यदिदं बलिहरणं वाग्यतस्संभारानादायेत्याद्यप्रतीक्षमाणस्तूष्णीमित्येतदन्तं (आप.गृ.१८१०१२) तदस्मात्कर्मण<ऊर्ध्वमामार्गशीर्ष्याः पर्वणश्चतुर्षु मासेषु यदसीयस्या>न्नविशेषस्य<सक्तूनां वाहरहः>कर्तव्यम् ।
यद्यदन्नमशनार्थ गृहे क्रियते तदशनीयम् ।
अगारपरिष्टनादिस्तु स्थालीपाकस्यैव शेषः, न बलेः ।
तेनैतदिह विधीयत् ।
यद्यप्याञ्जनादीन्यलङ्करणार्थनि नाभ्यवहार्याणि तथापि"तासूत्तरया सक्तून्निवपति ।
तूष्णीं संपुष्काः धाना"इत्यादि सर्वेषां तुल्या चेदना ।
मन्त्रे च तुल्यवदभिधानं तेभ्य इमं बलिं हरिष्यामि इति ।
तस्मात्सप्तापि बलिद्रव्याणि ।
तेषां सर्वेषामयं प्रत्याम्नायो नादितस्त्रयाणामेव ।
अपां तु न भवति, चोदनाभेदात् ।
उपनिनीय परिषिच्येति ।
एवंशब्दः कालविधानार्तः ।
यथात्रास्तमिते बलिहरणं, एवंमत ऊर्ध्वमप्यस्तमिते कर्तव्यमिति ।
एतंसभ्दस्तु धर्मविधानार्तः ।
एतं बलिमेवंधर्मकमिति ।
नचान्यतरेणैवोभयसिद्धिः ।
यदि ह्येवशब्द उभयार्थस्स्यात्रात्रौ पार्वणः प्राप्नोति ।
कथम्?रात्रावाग्नेयस्थालीपाक उत्पन्नः एवमतऊर्ध्वमिति पार्वणः ।
तथा यद्येतच्छब्द उभयार्थस्स्यात्"परिसंवत्सरादुपतिष्ठद्भ्यः एतत्कार्य"मिति रात्रावपचितिः प्राप्नोति॑समावर्तने रात्रावुत्पन्नत्वादपचितेः ।
तस्मादुभयार्त मुभयं वक्तयम् ।
एवं तावत्रात्रौ सकृद्वलिहरणमिति ।
अपर आहौभयोः कालयोः बलिहरणमिति ।
कथम्?यदशनीयस्येति वचनात्यदशनीयस्येति वचनात्यद्यदन्नमशनार्थ यदा क्रियते तस्य तस्य तदा कर्तव्यमिति हि तस्यार्थः ।
द्वयोश्च कालयोरशनम्॑कालयोर्भोजनमिति वचनात् ।
ततश्च यदा गृहमेधिनो यदशनीयस्य होमा बलयश्चेत्त्युत्पन्नस्य वैश्वदेवस्य द्वयोः कालयोः प्रवृत्तिः एवमस्यापि ।
स्पष्टञ्चैतदाश्वलायनके"सर्पदेवजेनभ्यस्स्वा हेति सायं प्रातर्बलिं हरेदा प्रत्यवरोहणात्(आश्व.२११४) इति ।
अस्मिन् पक्ष एवंशब्द उत्तरार्थः ।
<अत ऊर्ध्वमिति>वचनम स्मिन् प्रथमे बलिहरणे द्रव्यविकल्पोमा विज्ञायीति ।
आमार्गशीर्ष्या इति बलिहरणस्यावसानकालोपदेशः ।
यद्येवं नार्थ एतेन ।
अत्रैनमुत्सृजतीति (आप.गृ.१९५)
वक्ष्यति ।
प्रयोजनमस्य तत्रैव वक्ष्यामःः२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १९.३
<अत ऊर्ध्व>अस्माच्छ्रावण्यां कृतात्कर्मण ऊर्ध्वम् ।
<आमार्गशीर्ष्याः>यावन्मार्गशीर्षी यावदुत्सर्जनं तावदित्यर्थः ।
एतमनन्तरचोदितं सक्तूनां सम्बन्धिनं बलिम् ।
एवंऽसम्भारानादाय वाग्यतः प्राचीमुदीचीं वाऽइत्यादिऽअप्रतीक्षस्तूष्णीमेत्यऽ (आप.गृ.१८१०....१२) इत्येवमन्तेतिकर्तव्यताकमहरहः सायङ्काले बलिं हरेत् ।
<यदशनीयस्य वा> सम्बन्धिनमिति वाशब्दस्य व्यवहितेन सम्बन्धः, यदशनीयस्येत्यस्य पदस्य धानादीनां निवृत्त्यर्थत्वात् ।
अगारपरिषेचनादिकं तु स्थालीपाकस्यैव शेषो न बलिहरणस्य, भिन्नदेशत्वात् ।
केचितुभयोः कालयोर्बलिहरणम्, यदशनीयस्येति वचनात्, वैश्वदेववतशनस्य चऽकालयोर्बोजनम्ऽ(आप.ध.२१२० इतिवचनेनोभयकालिकत्वात्,ऽसायं प्रातर्बलिं हरेदा प्रत्यवरोहणात्ऽ(आश्व२११४) इत्याश्वलायनवचनाच्च ।
तथा एतमितिशब्दस्यैव अपेक्षितकृत्स्नधर्मप्रापकत्वातेवमिति शब्द उत्तरसूत्रार्थ इति ।
तन्न॑समभिव्याहृतसकलपदानां सम्भूयैकार्थ प्रत्ययविरोधात्
मार्गशीर्ष्या बौर्णमास्यामस्तमिते स्थालीपाकः ॥३॥
(प.७ हं.,१८३)
टीकाः
अनुकूलावृत्ति १९.३
श्रावण्यां पौर्णमास्यामित्यनेनैतत्व्याख्यातम् ।
एवंशब्दश्चात्रानुवर्तते ।
यथेदं श्रावण्यां कर्म कतं एवं मार्गशीर्ष्यामपीति ।
तेनऽपार्वणवदाज्यभागान्तऽइत्यादेः धानाः कुमारान् प्राशयन्तीऽत्यन्तस्य कृत्स्नस्य कल्पस्यात्र प्रवृत्तिः ।
एतावन्नानामार्गशीर्ष्यै पौर्णमास्यै स्वाहेति स्थालीपाकस्य होमः ।
श्रावण्यां पौर्णमास्यां इति प्रकृते पुनः पौर्णमास्यामित्युच्यते ज्ञापनार्थम्
तत्पौर्णमासीग्रहणमस्मिन् प्रकरणे नानुवर्तते इति ।
तेन पूर्वसूत्रे आमार्गशीर्ष्या इति कर्मावधित्वेन न गृह्यते ।
यत्तत्र चोदितमनेन सूत्रेण न कालः ।
तेन मार्गशीर्ष्या पौर्णमास्यामहनि यदशनीयस्य बलिहरणं भवति ।
कालवाचित्वे तु न प्राप्नोति यदि च मर्यादायामाकारः ।
अथ त्भिविधौ, अस्तमितेऽपियदशनीयं तस्यैव प्राप्नोति ।
इष्यते चास्तमिते स्थालीपाककर्मणि सप्तर्भिर्द्रव्यैर्ब लिहरणमहनि च यदशनीयस्य ।
तस्मात्पूर्वत्र कर्मण्यपदेशो यथा स्यात्, कालस्य व्यपदेशो मा भूदिति पौर्णमास्यामिति विशेषणम् ।
एवञ्च यदशनीयवचनेनोभयोः कालयोर्बलिहरणमिति यदुक्तं तदेव स्थितं भवति ।
अस्तमित इत्त्युच्यतेअहनिमा भूदिति ।
एवमित्यस्य धर्मप्रापणे कालविधौ चोभयत्र शक्तिर्नास्तीत्युक्तम् ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १९.३
शाकाङ्क्षत्वादेवंशब्दोऽनुवर्तते ।
यथा श्रावणायां<स्थालीपाकः>कृतः एवं<मार्गशीर्ष्यमप्यस्तमिते>कर्तव्यः ।
पत्न्यवहन्तीत्यादि धानाप्राशनान्तं कृत्स्नं कर्मानुष्ठेयमित्यर्थः . स्थालीपाकहोमे तुऽमार्गशीर्ष्यैपौर्णमास्यै स्वाहेऽति विशेषः ॥३॥
अहार्षमिति बलिमन्त्रस्य सन्नामः ॥ आपस्तम्बगृह्यसूत्र १९.४ ॥
टीकाः
अनुकूलावृत्ति १९.४
<सन्नामः> ऊहःहरिष्यामीत्यस्य स्थाने अहार्षमिति ।
यद्यप्ययं सन्नामस्तस्मिन्नेव मन्त्रे पठितः तथाप्यसत्यस्मिन् वचने बलिहरणमन्त्रे चतुर्थपादस्य पृथग्विनियोगाभावात्चतुष्पादा सा विज्ञायेत ।
तस्मात्सन्नामविधिरारभ्यते ।
त्रिपदैव सा तस्या एव तृतीयस्य पादस्य सन्नामोऽयमुत्तमः पठितः तस्यैव विनियोगकालो न प्रागिति ।
किञ्च कृत्स्नमेवैतत्कर्म धानाप्राशनान्तं स्थालीपाकशब्देन गृह्यते एतच्च दर्शितं भवति ।
बलिहरणस्योत्तरसूत्रे प्रयोजनम् ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १९.४
उक्तार्थमेतत् ॥४॥
११ सर्पबलेरुत्सर्गः ।
अत्रैनमुत्सृजति ॥ आपस्तम्बगृह्यसूत्र १९.५ ॥
(प.७.खं.,१८५)
टीकाः
अनुकूलावृत्ति १९.५
अत्र मार्गशीर्षसंज्ञके कर्मण्येनं बलिमुत्सृजति ।
एवमित्यनेन वचनेन श्रावणीविधानस्य कृत्स्नस्यातिदिष्टत्वादस्यापि स्थालीपाकस्य शेषत्वेन बलिहरणप्राप्तिः ।
तत्र श्रावण्यामित्यवधिः कल्पेत ।
तस्मात्मार्गशीर्षशेषस्य अहार्षमित्येव विधिः ।
शिष्टस्य बलेः प्रतिषेधार्थमिदम् ।
आमार्गशीर्ष्या इत्येतत्तु श्रावणशेषस्य बलेखसानविधानार्थम् ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १९.५
अत्रास्मिन्नुत्सर्जने कृते, एनमहरगः क्रियमाणं बलिमुत्सृजति ।
न चायमात्यन्तिक उत्सर्गः,नित्यत्वेन सर्पबलेस्संवत्सरे सम्वत्सरे कर्तव्यत्वात् ॥५॥
अनाहिताग्नेराग्रयणम् ॥ आपस्तम्बगृह्यसूत्र १९.६ ॥
(प.७.खं.,१८६)
टीकाः
अनुकूलावृत्ति १९.६
एतिरत्र प्राशनार्थः ।
अग्रे प्रथमं अयनं यत्र तत्<आग्रयणम्> ।
अग्रायणमिति प्राप्ते छान्दसो दीर्घव्यत्ययः ।
तत्कर्म वक्ष्यतेतत्र अनाहिताग्निग्रहणमाहिताग्नेरौपासनवतः श्रौतेनाग्रयणेन सह समुच्चयप्रतिषेधार्थम् ।
तेन पार्वणादिषु समुच्चयो भवति ।
तत्र स्मार्तस्य करणेऽभ्युदयः ।
अकरणे न प्रत्यवायः ।
आग्रयणमिति नाम्ना श्रौताग्रयणस्य धर्माः प्राप्यन्ते ।
नानिष्ट्वाग्रयणेनाहिताग्निर्नवस्याश्नीयादिति ।
(आप.श्रौ.६२९२) वर्षासु श्यामाकैर्यजेत, शरदि व्रीहिभिः, वसन्ते यवैः, यथुर्तु<वेणु>यवैरिति च ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १९.६
उपदिश्यत इति शेषः ।
अत्रानाहिताग्नेर्ग्रहणं सशेषाधानिनोऽप्याहिताग्नेर्नेदं स्मार्तमाग्रयणं श्रैतेन समुच्चेतव्यमित्यर्थम् ।
औपासनहोमादेस्तु अग्निहोत्रहोमादिना समुच्चय एव ।
पिण्डपितृयज्ञो मासिश्राद्धं च आहिताग्न्यनाहिताग्न्योरुभयोरपि समुच्चेतव्ये ।
ऽसोऽयमेवंविहित एवानाहिताग्नेरौपासनेऽ(आप.श्रौ.६२८) इति वचनात्, पितृयज्ञे तु निर्र्वत्य विप्रश्चन्दक्षयेऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् ॥
(म.स्मृ.३१२२) इति मनुवचनाच्च ।
सर्वाधीनिनोऽपि मासिश्राद्धं होमवर्ज कर्तव्यमेव उपद्शमतं तुसशेषाधानिनश्चाहिताग्ने ।
पार्वणयोरौपासनहोमस्य च निवृत्तिः॑दर्शपूर्णमासाभ्यामग्निहोत्रेण च कृतार्थत्वात्, कालैक्येन विरोधाच्चेति ।
आग्रयणमिति कर्मनामधेयम्, येन कर्मणा अग्रे नवद्रव्यं देवान् प्रापयतीति ।
यत्कर्मकृत्वेव वाग्रयणं प्रथमायनं नवान्नप्राशनप्राप्तिर्भवतीति ॥६॥
१९ आग्रयणस्थालीपाकः
१ नवव्रीह्यादितण्डुलैः पक्वैराग्रयणानुष्ठानं, तत ओदनपिण्डस्यागारस्तूप उद्वेधनविधिः ।
नवानां स्थालीपाकं श्रपयित्वाऽग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थाभ्यो हुत्वा तण्डुलानां मुखं पूरयित्वा गीर्त्वाऽचम्यौदनपिण्डं संवृत्त्योत्तरेण यजुषागारस्तूप उद्विद्धेत् ॥ आपस्तम्बगृह्यसूत्र १९.७ ॥
(प.७.खं.,१८७)
टीकाः
अनुकूलावृत्ति १९.७
नवानां व्रीहीणां यवानां वा औपासने श्रपयित्वा प्रतिष्ठितमभिघार्याग्निमुपसमाधाय संपरिस्तीय तूष्णीं समन्तं परिषिच्य दुर्वी संमृच्य स्थालीपाकादुपघातं चतस्र आहुतीर्जुहोत्याग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थाभ्यःिन्द्राग्निभ्यां स्वाहा ।
अग्नीम्द्राभ्यामिति वा ।
ततो व्श्वेभ्यो देवेभ्यः, ततो द्यावापृथिवीभ्यां, अग्नये स्विष्टकृत इति ।
पूर्ववत्परिषेचनम् ।
एतावदेव कर्म नान्यत्किञ्चित्, पार्पकाभावात् ।
केचित्सर्व कुर्वन्ति ।
ततः तण्डुलानां मुखं पूरयति ।
अत्र तण्डुलशब्दः ओदनावयवेषु पुलाकेषु वर्तते ।
यथा मेक्षणे तण्डुला इत्यत्र ।
तेन हविषश्शेषादवदाय पूरणम् ।
अन्ये शुद्धानेव तण्डुलानिच्छन्ति ।
तान् गीर्त्वा भक्षयित्वाऽचम्य तत ओदनपिण्डं संवर्तयाति प्रयत्नेन सम्पादयति ।
यथा स्तूपे उद्विध्यमानो न संशीर्यति तथा संवर्त्य तमगारस्तूपे उद्विध्येत्<उत्तरेण यजुषा>ऽपरमेष्ठ्यसीऽत्यनेन ऊर्ध्व विध्येत्
यथा स्तूपे निपततति ।
स्तूपः पृष्टवंशः ।
विद्धेदित्यपपाठः, छान्दसो वा ।
आग्रयणवचनादेव सिद्धे नवानामिति वचनमनाहिताग्नेर्नवानां स्थालीपाक एव यथा स्यात् ।
अन्ये कल्पा श्रौतदृष्टा मा भूवन्निति ।
स्विष्टकृच्चतुर्थवचनं सोमनिवृत्यर्थम् ।
तेन श्यामाकानां वेणुकानां वेणुयवानां चाग्रयणं अनाहिताग्नेर्भवति ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १९.७
नवानां व्रीहीणां यवानां वा सम्बन्धिनां पत्न्यवहन्तीत्यादिविधिना<स्थालीपाकमेव>श्रपयित्वाग्नेरुपसमाधानाद्यग्निमुखान्ते कृते
आग्रयणप्रधानदेवताभ्यः श्रौते चोदिताभ्यः<स्विष्टकृच्चतुर्थाभ्यः>स्विष्टकृच्चतुर्थो यासां ताभ्यो जुहोति ।
तत्र प्रथममिन्द्राग्निभ्यां अग्नीन्द्राभ्यां वा स्वाहेति जुहोति ।
ततो विश्वेभ्यो देवेभ्यस्स्वाहेति ।
ततश्च द्यावापृथिवीभ्यां स्वाहेति तन श्चान्ययेस्विष्टकृतेस्वाहेति ।
सर्वत्र च स्वेनैवावदानधर्मेण ।
अथ लेपयोरित्यादितन्त्रशेषसमाप्तिः ।
ननुश्रौतेऽआग्नेयमष्टाकपालं निर्वपति पुराणानां व्रीहीणांऽइत्यग्निः प्रथमदेवता ।
तत्कथमिहेन्द्राग्निभ्यामग्नीन्द्राभ्यां वा प्रथमाहुतिः?सत्यं॑ स तु तत्राग्निराङ्गदेवता, न प्रधानदेवता॑ाग्रयणदेवताभ्य इति च प्रधानदेवतानामेव सम्प्रत्ययः॑न्यथा अतिप्रसङ्गात् ।
अप्रधान्यं चाग्नेः
ऽआग्रयणं भवति हुताद्यायऽइत्यत्रेन्द्राग्न्याददीनामेवोपदेशातैन्द्राग्नस्य मुख्यप्रधानत्वे चामावास्यातन्त्रमिति तन्त्रनि यमस्योपपत्तेः,दशहुविषां द्वे स्विष्टकृतःऽइत्यत्राग्नेययोर्ज्यानुवाक्ययोरभावाच्च ।
अत्र च स्विष्टकृच्चतुर्थाभ्य इति वचनं श्रौतवदिह व्रीह्याग्रयणेन श्यामाकाग्रयणस्य पाक्षिकी समानतन्त्रता मा भूदित्यावमर्थम् ।
तेनानाहितग्नीनां नानातन्त्रमेव ।
वर्षासु पर्वणि सोमाय श्यामाकाग्रयणं कर्तव्यम्, द्रव्यदेवताकालानामनुक्तानामप्याग्रयणनामधेयादवगतानां आकाङ्क्षितानां स्वीकारे विरोधाभावात् ।
अत एव न्यायाच्छरदि व्रीहीणामाग्रयणं, वसन्ते च यवानां पर्वण्येव ।
केचित्स्विष्टकृच्चतुर्थवचनाहिताग्नेः स्यामाकादीनां वेणुयवानां चाग्रयणमेव न भवतीति ।
तन्न॑कृताग्रयणस्य नवश्यामाकाद्यशनाभ्युपगमेऽतिप्रसङ्गात्, स्विष्टकृच्चतुर्थवचनस्योक्तार्तत्वाच्च ॥
ततस्तन्त्रशेषे समाप्ते तण्डुलानां मुखमास्यं पूरयति ।
तण्डुलाश्चाशृताः, प्रसिद्धत्वात् ।
शृता इत्यपरे ।
ऽये मेक्षणे तण्डुलाऽइति दर्शनात् ।
शृतपक्षे हुतशेषात्प्रतिपत्त्यपेक्षादुपादाय मुखपूरणम् ।
ततो निगीर्य तण्डुलानाचामति अपस्सकृत्पिबतीत्यर्थः ।
कर्माङ्गतया चेदमाचमनविधानं, प्रकरणात् ।
सुद्ध्वार्थाचमनमपिऽआसीनस्त्रिराचामेत्ऽ(आप.ध.११६२) इत्याद्यनेकपदार्थान्वितं शास्त्रान्तरप्राप्तं कर्तव्यमेव ।
तत ओदनेन हुतशेषेण पिण्डं संवर्तयति यथा उद्विद्यमानो न शीर्यति तथा सुदृढं करोति ।
ततस्तं पिण्डमुत्तरेण यजुषाऽपरमेष्ठ्यसिऽइत्यनेन उद्विद्धेतूर्ध्व विक्षिपेत् ।
यथागारस्तूपे पृष्ठवंशे पतति तथा विद्धेत् ।
यकारलोपश्छान्दसः ॥७॥
२० हेमन्तप्रत्यवरोहणम्
हेमन्तप्रत्यवरोहणम् ॥ आपस्तम्बगृह्यसूत्र १९.८ ॥
१ प्रत्यवरुह्य नवस्वस्तरे संवेशनम् ।
उत्तरेण यजुषा प्रत्यवरुह्योत्तरैर्दक्षिणैः पार्श्वैः नवस्वस्तरे संविशन्ति ॥ आपस्तम्बगृह्यसूत्र १९.९ ॥
(प.७.खं.,१९८,९)
टीकाः
अनुकूलावृत्ति १९.९
हेमन्तप्रत्यवरोहणं नाम कर्म नित्यं संवत्सरे संवत्सरे कर्तव्यम्, तदुपदिश्यतेहेमन्ते प्राप्ते खट्वां विहाय पलाशस्वस्तरे शेते ।
हेमन्तं ऋतुं प्रति खट्वाया अवरोहणं<हेमन्तप्रत्यवरोहणं>,<तदुत्तरेण यजुषा>कर्तव्यंऽप्रत्यवरूढो नो हेमन्तऽइत्यनेन ।
कः पुनरस्य कालः? यस्यां व्युष्टायां हेमन्तः प्रवर्तते शरन्निवर्तते, सा रात्रिरस्य कालः ।
(अपर आहमार्गशीर्ष्या पौर्णमास्यामस्तमिते स्थालीपाकान्ते प्रत्यवरोहणं सर्वषां प्रसिद्धत्वादिति ।
अनेयोमार्गशीर्ष्या पौर्णमास्यामित्यनुवर्तयन्ति) ।
तत्र प्रत्यवरुह्य तत<उत्तरैर्मन्त्रैः>ऽप्रतिक्षत्रऽइत्यादिभिः पञ्चभिः<नवस्स्तरे>नवैः पलाशैः कस्पिते शयनीये <दक्षिणैः पार्श्वैः>दक्षिणानि पार्श्वान्यधः कृत्वा<संविशन्ति>शेरते ।
गृहमेधिनः अमात्याश्च पुत्रादयः कुमार्यश्चाप्रत्ताः ।
नित्यसेयैव संवेशनस्य नियम विधिरयम्निशायां यत्संवेशनं संवप्नार्थ तदस्यां निशायामेव कर्तव्यमिति ।
प्रत्यवरोहणन्त्रोऽपि तस्मिन्नेव काले वक्तव्यः ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १९.९
यस्मिन् कर्माणि हेमन्ते स्वष्ट्वातः प्रत्यवरोहणं तद्धेमन्तप्रत्यवरोहणं नाम कर्मोपदिश्यत इति शेषः ।
अस्मादेव च यौगिकान्नामधेयात्ऽप्रत्यवरूडो नो हेमन्तःऽइति मन्त्रलिङ्गाच्चेदं कर्म हेमन्ते प्रथमायां रात्रौ कर्तव्यमिति विधिः कल्प्यते ।
केचित्मार्गशीर्ष्या पौर्णमास्यामस्तमितेऽ(आप.गृ.१९३) इत्यनुवर्तनात्तत्रेदं कर्तव्यमिति ॥८॥
उत्तरेण यजुषाऽप्रत्यवरूढो नो हेमन्तःऽइत्यनेन गृहस्थः पत्न्यादयश्च नवस्वस्तरे आरुह्य स्वष्ट्वातो हेमन्ते प्रत्यवरोहन्ति यावद्धेमन्तस्तावत्खष्ट्वां शय्यां विमुच्य नवस्वस्तर एव शयमिहीति बुद्धिं कुर्वन्तीत्यर्थः ।
न पुनः पूर्वमदृष्टार्थ खष्ट्वामारुह्य मन्त्रेण स्वस्तरं प्रत्यवरोहन्तीति ।
अनन्तरमुत्तरैर्मन्त्रैःऽप्रतिक्षत्रेऽइत्यादिभिः प्रथमैः पञ्चभिः ।
नवस्वस्तरे नवैः पलाशैः कल्पिते शयनीये <दक्षिणैः पार्श्वैः>
दक्षिणानि पार्श्वान्यधः कृत्वा प्रक्छिरसस्संविशन्ति ॥९॥
पुनरपि सूत्रद्वयेन संवेशनमेव विशिनष्टि
२ संवेशनप्रकारः ।
दक्षिणतः पितोत्तरा मातैवमवशिष्टानां ज्येष्ठो ज्येष्ठोऽनन्तरः ॥ आपस्तम्बगृह्यसूत्र १९.१० ॥
(प.७.खं१९१०)
टीकाः
अनुकूलावृत्ति १९.१०
तेषां संविशतां यः पिता स दक्षिणश्शेते या माता सोत्तरा ।
तयोरन्योन्यापेक्ष दक्षिणोत्तरत्वं"सामात्यः प्राक्शिरा उदङ्मुखः"(आश्वग.२३६) इकत्याश्वलायनः ।
"मन्त्रविदो मन्त्रान् जपेयुःऽ(अश्व.गृ.२३९) इति च ॥९॥
अवशिष्टा अमात्यास्तेषां यो यो ज्येष्टः कुमारः कुमारी वा स पितुर्दक्षिणतः तदनन्तरो मातुरुत्तरतः ।
तृतीयः प्रथमस्य दक्षिणतः चतुर्थो द्वितीयस्योत्तरत इत्यादि ।
अनेयो मातुरेवोत्तरतोऽनुज्येष्ठं संवेशनमिच्छन्ति ।
सर्वे प्राक्श्रसः उदङ्मुखाः मन्त्रविदश्च मन्त्रान् जपेयुः ।
अनन्तरवचनं संश्लेषार्थम् ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १९.१०
<दक्षिणतः पितोत्तरा मातेति>दक्षिणोत्तरत्वमन्योन्यापेक्षम् ।
<अवशिष्टानां>पुत्रादीनां मध्ये यो यो ज्येष्ठः पुत्रो दुहिता वा स स दक्षिणोऽनन्तरश्च, यो यः कनीयान् स स उत्तरोऽनन्तरश्च॑ेवमित्यतिदेशात् ।
एतदुक्तं भवतियस्सर्वज्योष्ठस्स मातुरुत्तरोऽनन्तरः,यो द्वितीयो ज्येष्ठस्स सर्वज्येष्ठस्य उत्तरोऽनन्तर इत्यादि ।
केचित्सर्वज्येष्ठः पितुर्दक्षिणस्तदनन्तरज्येष्ठो मातुरुत्तर इत्यादीति ॥१०॥
३ उत्थाय पृथिव्यभिमर्शनम् ।
संहायोत्तराभ्यां पृथिवीमभिमृशन्ति ॥ आपस्तम्बगृह्यसूत्र १९.११ ॥
(प.७.खं.,१९११)
टीकाः
अनुकूलावृत्ति १९.११
एवं संविश्य किञ्चित्सुप्त्वा संहाय सम्पूर्वो जहतिः शयनादुत्त्थायासने दृष्टःऽकलिश्शयानो भवति संजिहानस्तु द्वापर"इति ।
(ऐतरेय ब्र.पं.७)उत्त्थायाचम्योत्तराभ्यां ऋग्भ्यांऽस्योना पृथिविऽऽबडित्थेऽत्येताभ्यां स्योनापृथिवीध्येत्ताभ्यां पृथिवीमभिमृशन्ति ।
अत्र च मन्त्रोच्चारणर्योग्यानामोव, न त्वमन्त्रवतामपि वाचनम् ॥११॥
एवं संवेशनादि त्रिः ॥ आपस्तम्बगृह्यसूत्र १९.१२ ॥
(प.७ हं.,१९१२)
टीकाः
अनुकूलावृत्ति १९.१२
एवं संवेशनं संहायाभिमर्शनं च मन्त्रवत्त्रिरावर्तनीयमित्यर्थः ।
प्रत्यवरोहणं तु सकृदेव ।
"उदित आदित्ये सौर्याणि स्वस्त्ययनानि च जपित्वान्नं संस्कृत्य ब्राह्मणान् भोजयित्वा स्वस्त्ययनं वाचयित्वे"(आश्व.गृ.४६१८) त्याश्व लायनः ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १९.१२
एवमेतत्संवेशनादि समन्त्रकमेव त्रिरावर्तनीयम् ।
कथं पुनः उदगयनपूर्वपक्षाहःपुण्याहेषु कार्याणि (आप.गृ.१२) इत्यहः पुण्याहविधाने सति, तद्विरुद्धंरात्राविदं कर्तव्यमित्युपदिश्यते ?उच्यतेनैवात्र संवेशेनं विधीयते, येनेदमह्नि पुण्याहे स्यात् ।
किं तर्हि?यदेव रागप्राप्तं रात्रौ संवेशनं तदाश्रत्य मन्त्रा नियमाश्च विधीयन्ते॑यथा रागप्राप्तं भोजनमाश्रित्य उपस्तरणप्राणाग्निहोत्रादयः ।
यथा वाऽपयस्वतीरोषधयः इति पुरा बर्हिष आहर्तोर्जायापती अश्नीतःऽ(आप.श्रौ.४२३) इत्यादि ।
तेन रात्रावेवेदं कर्मेत्युपपन्नम् ।
अन्ते च ब्राह्मणभोजनम्ऽशुचीन्मन्त्रवतस्सर्वकृत्येषु भोजयेत्ऽ(आप.ध.२१५११) इति वचनात् ॥१२॥
अथेशानबलिर्नाम नित्यः पाकयज्ञो मन्त्राम्नानक्रमप्राप्तो व्याख्यायते तस्य च सामान्यविधिसिद्धोदगयनादिरेव कालः॑िह सर्पबलिवत्कालविशेषस्यानुपदेशात् ।
ततश्च प्रतिसंवत्सरमिदं कर्म नावर्तनीयम्॑सकृत्कृते कृतश्शास्त्रार्थः इति न्यायात् ।
केचित्शास्त्रान्तरात्प्रतिसंवत्त्सरमावृत्तिः सकृत्प्रयोगश्च विकल्प्यते ।
तथा शास्त्रान्तरादेव गवां शान्त्यर्थः पुत्रादिकामार्थश्च प्रयोगः प्रत्येतव्य इति ।
२१ ईशानबलिः
१ स्थालीपाकश्रपणम्, ग्रामाद्वहिः गत्वा स्थण्डिलकरणं च ।
ईशानाय स्थालीपाकं श्रपयित्वा क्षैत्रपत्यं च प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य स्थण्डिलं कल्पयित्वाग्नेरुपसमाधानादि ॥ आपस्तम्बगृह्यसूत्र १९.१३ ॥
(प.७ हं.,१९१३)
टीकाः
अनुकूलावृत्ति १९.१३
अथ ईशानबलिर्नाम पाकयज्ञो वक्ष्यते शूलगव इति यस्य प्रसिद्धिः गवालम्भनं च तत्र शास्त्रान्तरे
चोदितमश्माकं तु स्थालीपाकएव ।
एतावत्गोरालम्भस्थानमिति नियमात् ।
नित्यश्चायं पुरुषसं स्कारः न काम्योनैमित्तिको वा ।
कामनिमित्तयोरेश्रुतत्वात् ।
सकृच्च कर्तव्यः कालसंयोगाभावात् ।
कालसंयोगे ह्यभ्यावृत्तिर्बवति ।
तस्य कालस्य पुनः पुनस्सम्बन्धात् ।
कः पुनरस्य कालः?शरदि वसन्ते वेति शास्त्रान्तरम् ।
आर्द्रया कर्तव्यमिति च ।
उदगयनादिनियमश्चास्माकम् ।
तत्र फल्गुने मासि पूर्वपक्षे
अष्टम्यार्द्रयासम्पद्यते सोऽस्य मुख्यः कालः ।
तेन यक्ष्यमाणो गृहे स्थालीपाकं श्रपयति औपासने <ईशानाय>देवाय सङ्कल्पितमेकं,<क्षेत्रपतये> चापरम् ।
तैस्सह<प्राचीमुदीचीं वा दिशं> ग्रामात्बहि<रुपनिष्क्रम्य>यत्र यक्ष्यमाणो भवति तत्र देवयजनाय देवगृहयोश्च पर्याप्तमेकं <स्थण्डिलं कल्पयित्वा>तस्य पूर्वार्धे अगन्यायतनमुल्लिख्याग्निं प्रतिष्ठाप्योपसमाधानादि तन्त्रं प्रतिपद्यते ।
द्वन्द्व पात्राणि, परिधयः ॥१३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १९.१३
ईश ऐश्वर्ये"इति धात्वथेस्मृतेः निरतिशयमैश्वर्य यस्य स<ईशानः>प्रणवोपासनादिभिरुपास्यो महेश्वर इत्यर्थः ।
तस्मै <ईशानाय> <स्थालीपाकं>होमादिभ्यः पर्याप्तं पार्वणवदौपासने <श्रपयित्वा,> प्रतिष्ठिताभिघारणान्तं करोति ।
केचित्त्रीनोदानान् कल्पयित्वाग्निमभ्यानीय ततो बहिः प्रतिष्ठाप्य त्रयाणामभिघारणमिति ।
तेन<क्षैत्रपत्यं>च स्थालीपाकं लौकिकाग्नौ श्रपयति, तस्यानग्नौ प्रदेयत्वात् ।
अथ यथार्थ सम्भारानादाय ग्रामात्<प्राचीमुदीचीं वा> <दिशमुपनिष्क्रम्या>ग्निकुट्यादिभ्योऽलं<स्थण्डिलादि कल्पयित्वा>, तस्मिन्ऽयत्र क्वचाग्निऽ(आ.ध.२१२३) मिति विधिनाग्निं प्रतिष्ठाप्य,<अग्नेरुपसमाधानादि>तन्त्रं प्रतिपद्यते ।
तन्त्रविधानं च क्रमार्थमित्युक्तमेव ॥१३॥
२ अग्नेः पश्चात्कुटीद्वयकरणम् ।
अपरेणाग्निं द्वे कुटी कृत्वा ॥ आपस्तम्बगृह्यसूत्र १९.१४ ॥
(प.७ हं.,१९१४)
टीकाः
अनुकूलावृत्ति १९.१४
तत अग्नेः पश्चात्द्वे कुटी करोति देवाय देव्यै च ।
प्रत्यग्द्वारे प्राग्द्वारे वा ।
दक्षिणोत्तरे उदगपवर्गः ।
तयोर्देवस्य देव्याश्च प्रतिकृती कृत्वा ॥१४॥
इति श्रीहरदत्तमिश्रविरचितायां गृह्यसूत्रवृत्तावनाकुलायां एकोनविंशः खण्डः ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १९.१४
अग्निमुखान्ते कृते अपरेणाग्निं द्वे कुटी प्राग्द्वारो उदगपर्गे कृत्वा ॥१४॥
इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने एकोनविंशः खण्डस्समाप्तः ॥
विंशः खण्डः ।
३ दक्षिणस्यां कुट्यामीशानावाहनम् ।
उत्तरया दक्षिणस्यामीशानमावाहयति ॥ आपस्तम्बगृह्यसूत्र २०.१ ॥
(प.७ हं.,२०१)
टीकाः
अनुकूलावृत्ति २०.१
मध्ये जयंतस्य प्रतिकृतिमाकाश एव कृत्वा दक्षिमस्यामीशानमावाहयति उत्तरयर्चाऽआ त्वा वहन्तिऽत्येतया ।
अग्नेरुपसमाधानादीत्त्युक्तत्वात्प्रधानाहुतीनां च वक्ष्यमाणत्वाताज्यभागान्ते कुटीकरणमेव भवति ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २०.१
अथोत्तरयाऽआ त्वा वहन्तुऽइत्येतया<दक्षिणस्यां>कुट्या<मीशानमावाहयति> ।
मूर्तिमानिहागच्छेति ध्यायेत् ॥१॥
४ उत्तरस्यां देव्याः मध्ये च जयन्तस्य ।
लौकिक्या वाचोत्तरस्यां मीढुषीम् ॥ आपस्तम्बगृह्यसूत्र २०.२ ॥
मध्ये जयन्तम् ॥ आपस्तम्बगृह्यसूत्र २०.३ ॥
(प.७ हं.,२०२,३)
टीकाः
अनुकूलावृत्ति २०.३
<उत्तरस्यां लौकिक्या वाचा मीढुषीं> देवीं आवाहयति ।
मध्ये जयन्तमावाहयति ।
लौकिक्या वाचाआयाहि जयन्त, जयन्तमावाहयामीति वा ।
जयन्तः स्कन्दः ।
लौकिक्येत्यनुच्यमाने पूर्वेण मन्त्रेणावाहनं प्राप्नोति ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २०.३
तथोत्तरस्यां कुट्यां<लौकिक्या वाचा>ऽआयाहि मीढुषिऽइति मीढुषीमीशानस्य पत्नीं आवाहयतीत्येव जय कर्माणमिन्द्रम् ॥२॥
कुट्योर्मध्ये आकाशे जयन्तमिन्द्रसूनुं स्कन्दं वाऽआयाहि जयन्तऽइत्यावाहयति ।
अत्र सूत्रे अनुक्क्तमप्यौचित्यादावाहितेभ्य आसानानि ददाति ॥३॥
५ आवाहितेभ्योर्ऽध्यादिदानम्, प्रधानहोमाः, स्विष्टकृच्च ।
यथोढमुदकानि प्रदाय त्रीनोदनान् कल्पयित्वाग्निमभ्यानीयोत्तरैकुपस्पर्शयित्वा उत्तरैर्यथास्वमोदनेभ्यो हुत्वा सर्वतस्समवदायोत्तरेण यजुषाग्निं स्विष्टकृतम् ॥ आपस्तम्बगृह्यसूत्र २०.४ ॥
(प.७ हं.,२०४)
टीकाः
अनुकूलावृत्ति २०.४
(येन शब्देन येषु स्थानेषु येन क्रमेणावाहनं चोदितं तद्देवताकान्यर्ध्याणि प्रयच्छति) ।
पृथक्पात्रैः कल्पितानि आर्ध्यत्वात्पुष्पाक्षतैस्संयुक्तानि ।
ईसानेदं ते अर्घ्यम्, जयन्तेदं ते अर्घ्यमिति ।
ततो गन्धपुष्पघूपदीपैरभ्यर्च्य ततः स्थालीपाकादुद्धृत्य त्रीनोदनान् कल्पयति त्रिषु पात्रेषु देव्यै स्कन्दाय च देवाय होमार्थ उपहारार्थ च ।
स्थाल्यां च भूयांसमोदनम वशिनष्टि ब्राह्मणभोजनार्थम् ।
ततस्तानोदनानग्निसमीपमानीय्यापगेणाग्निं बर्हिषि प्रतिष्ठापयति दक्षिणत उत्तरतोमध्ये च ।
अत्र प्रतिष्ठि ताभिघारणमू ।
तत उत्तरैर्मन्त्रैस्त्रिभिर्यथोढं त्रीनोदनानुपस्पर्शयति ।
स्वस्वामिसम्बन्धं कारयति ।
उत्तरैर्मन्त्रैःऽउपस्पृशतु मीढ्वान्ऽइत्यादिभिः ।
यथादेवतमभिमृशतिऽइदमग्नेरित्याग्नेयऽमितिवत् ।
एवमुपस्पर्शयित्वा तत उत्तरैर्मन्त्रैस्सप्तदशभिः प्रधानाहुतीर्जुहोति<यथास्वमोदनेभ्यः>
येनौदनेन यस्यै देवतायै त्वत्वसम्बन्ध उपस्पर्शनेनोपलक्षितः तस्मात्तस्य जुहोतीत्यर्थः ।
तत्र भवाय देवायेऽत्यादिभिरष्टाभिः देवस्यौदनात् ।
ऽभवस्य देवस्य पत्न्यै स्वाहेऽत्यष्टाभिः मीढुष्याः ।
ऽजयन्ताय स्वाहेऽति जयनातस्य ।
एवं प्रधानाहुतीर्हुत्वा ततस्<सर्वतः समवादायोत्तरेण> <यजुषावऽ>अग्नये स्विष्टकृते सुहुतऽइत्यनेनाग्निं <स्विष्टकृतं>यजति ।
<सर्वतस्समव दाये>त्त्युच्यते यथा स्वमोदनेभ्यः पृथक्पृथक्स्विष्टकृन्माभूदिति ।
यद्यपि स्विष्टकृतोऽनन्तरमिदमुक्तमुपस्थानादि, तथापिऽजयादीनुपजुहोतिऽइत्यत्रोपशब्दश्रवणात्प्रधानहोमानन्तरं जयादयः ।
परिषेचनान्ते
उपस्थानादि ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २०.४
अथ<यथेढं येन क्रमेणोढा आवाहितास्तेन क्रमेण ।
वौदकानि>पाद्यादीनि प्रत्येकं स्वैस्स्वैर्नामभिर्नमोन्तैः<प्रददाति>प्रकर्षेण भक्तिपुरस्सरं ददाति ।
उदकग्रहणस्य प्रदर्शनार्थत्वात्दीपान्तं प्रददातीत्युपदेशः ।
अथेशानस्थालीपाकादुद्धृत्य<त्रीनादेनान्>त्रिषु पात्रेषु <कल्पयति> ईशानमीढुषीजयन्तेभ्यो होमार्थं बल्यर्थढ्च ।
स्थाल्यां च ब्राह्मणानां भोजनानार्थ भूयांसमोदनमवशिनष्टि ।
ततस्तानोदनानग्नेस्समीपमानीय अपरेणाग्निं प्रतिष्ठापयति ।
अथैतानुत्तरैस्त्रिभिर्मन्त्रैःऽउपस्पृशतु मीढ्वान्ऽइत्यादिभिर्यथासङ्ख्यं यथादेवतमुपस्पर्शयति ।
अस्य चोपस्पर्शनविधेर्द्वितीयतृतीययोरोदनयोरपनीतेशानदेवताकयोर्मीढुषीजयन्ताख्यदेवतान्तरसम्बन्धविज्ञाने तात्पर्यम्, अब्युदयेष्ट्यादिवत् ।
प्रथमे त्वीशानसम्बन्धस्थापने मीढ्वच्छब्दस्येशानवाचकत्वात् ।
अथोत्तरैर्मन्त्रैःऽभवाय देवायऽ इत्यादिभिस्सप्तदशभिः<यथास्वमोदनेभ्यः>यो य ओदनो यस्या यस्या देवतायास्स्वभूतस्तस्मात्तस्माद्यथालिङ्गं पार्वणवदानधर्मेणावदा य प्रधानाहुतीर्जुहोति ।
तत्रऽभवायेऽत्यष्टभिरीशानस्यौदनात् ।
युक्तं चैतत्भवशर्वादिशब्दानां ईसानवाचकत्वादिति ।
ऽभवस्य देवस्येऽत्यष्टाभिस्तु मीढुष्यास्स्वात् ।
ऽजयन्तायेऽति जयन्तस्य स्वात् ।
ततस्सर्वतस्सर्वेभ्यस्त्रिभ्य ओदनेभ्यः स्विष्टकृतोऽवदानधर्मेण<समवदाय> सह्वदाय<उत्तरेण यजुषा>ऽअग्नये स्विष्टकृते सुहुत हुतऽइत्यनेनाग्निं <स्विष्टकृतं>जुहोति ।
अतः<सर्वतस्समवदायेति> वचनं आग्रयणमासिश्राद्धादिवत्सकृदेवावदाय स्विष्टकृदिति शह्कानिरासार्थम् ॥४॥
६ देवताभ्यः सहौदनानां पर्णानां दानम् ।
उत्तरेण यजुषोपस्थायोत्तरैस्सहौदनानि पर्णान्येकैकेन द्वे द्वे दत्वा दश देवसेनाभ्यो दशोत्तराभ्यः ॥ आपस्तम्बगृह्यसूत्र २०.५ ॥
(प.७ हं.,२०५)
टीकाः
अनुकूलावृत्ति २०.५
<उत्तरेण यजुषा>ऽस्वस्तिनः पूर्णमुखऽइत्यनेन उपस्थानं च महादेवस्य, तत्प्रधानत्वात्क४ अणः ।
ऽपूर्णमुखऽ इत्यपि तस्यैव निर्देशः ।
पूर्माहुतिभिः पूर्ममुखः ।
उपस्थायततौत्तरैर्मन्त्रैः"गृहपोपस्पृशे, त्यादिभिः अष्टादशभिः<सहौदनानि>पर्णानि मन्त्रप्रतीताभ्यो देवताभ्यो ददाति ।
तत्र चादितस्सप्तभिः प्रतिमन्त्रं द्वे द्वे पर्णेददाति ।
अष्टमेन दशदेवसेनाभ्य इति वदन्मन्त्रप्रतीता देवता दर्शयति ।
तत्र गृहप इति महादेवाभिधानं मन्यते गृहान् पातीति ।
ऽनमो रुद्राय वास्तोष्पतयऽइति च मन्त्रान्तरम् ।
तस्मादनेन देवाय पर्णद्वयं तस्यैवौदनात् ।
गृबपी देवी, तस्मादनेन मन्त्रेण देव्यै दातव्यं तस्या एवौदनात् ।
<घोषिणी>इत्यादयः, सर्वगणा देवस्यानुचराः ।
तेभ्योऽपि देवकुटीसमीपे तस्यावोदनात्पर्णद्वयानि ।
<देवसेना> भूतगणाः ।
तेभ्योऽपि सर्पगणवत् ।
<देशोत्तराभ्यः> "या आख्याता" इत्यस्मिन्नुत्तरे मन्त्रे प्रतीता उत्तरा देवताः ।
ताभ्यो धश पर्मानि तेनैव मन्त्रेण देवस्यैवौदनात् ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २०.५
<उत्तरेण यजुषा>ऽस्वस्ति नः पूर्णमुखऽइत्यनेन अग्निमीशानं वो परिष्ठते ।
इदं च यथापाठं स्विष्टकृतोऽनन्तरम् ।
ततो लेपयोरित्यादितन्त्रशेषसमाप्तिःऽपरिषेचनान्तं कृत्वा पर्णदानम्ऽइति भाष्यकारवचनात् ।
केचितुपस्थानादि तन्त्रशेषसमाप्तिरिति ।
ततो यथास्वमोदनेभ्य एव याज्ञियेषु<पर्णान्युत्तरैः>ऽगृहपोपस्पृशऽइत्यादिभिस्सप्तभिर्ददातीति सामान्येन विधाय विशिनष्टि<एकैकेन>मन्त्रेण<द्वे द्वे>पर्णे इति ।
अथ द्वे द्वे इत्येतदपवदतिदशेत्यादिना ।
देवस्येशानस्य सेनाः<देवसेनाः>, ताभ्यो दश पर्णानि दक्षिणस्यां कुट्यां देवस्यैवौदनादवदाय ददाति ।
तथा<दशैव>पर्णान्युत्तराभ्यो देवसेनाभ्यः ।
उत्तरस्मिन्मन्त्रेऽया आक्याता याश्चानाख्याताऽइति गुणद्वयवत्यस्ता उत्तरा देवसेनाः ॥५॥
पूर्ववदुत्तरैः ॥ आपस्तम्बगृह्यसूत्र २०.६ ॥
(प.७ हं.,२०५)
टीकाः
अनुकूलावृत्ति २०.६
पूर्ववदुत्तरैर्मन्त्रैःऽद्वारापोस्पृशेऽत्यादिभिः चतुर्भिः पर्मानि देयानि<पूर्ववदे>कैकेन द्वे द्वे इत्यर्थः ।
अत्र<द्वारापो> देवः द्वारपालः ।
<द्वारापी>देवी च द्वारापाला ।
<अभ्यासरिणो>ऽपि देव्या अनुचराः ।
<निषिङ्गिन्निति>जयन्तस्याभिधानम् ।
तेभ्यो यथा स्वमोदनैस्तत्र तत्र दानम् ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २०.६
पूर्व यथाऽगृहपोपस्पृशऽइत्यादिभिर्दक्षिणेत्तरकुट्योर्मध्ये च स्वेभ्य एवौदनेभ्यो द्वे द्वे पर्णे प्रतिमन्त्रं दत्ते, एवं<उत्तरैः>ऽद्वारापोपस्पृशऽ इत्यादिभिस्चतुर्भिर्दद्यात् ॥
अथ प्रयोगःपरिषेचनान्ते कृतेऽगृहपोपस्पृशऽइति दक्षिणस्याम् ।
ऽगृहप्युपस्पृशेऽत्युत्तरस्याम् ।
ऽघोषिणःऽइति मद्ये ।
ततश्चऽश्वासिनःऽ
इति दक्षिणस्याम् ।
ऽविचिन्वन्तःऽइत्युत्तरस्याम् ।
ऽप्रपुन्वन्तःऽइति मध्ये ।
ततःऽसमश्नन्तःऽइति दक्षिणस्याम् ।
एतदन्तं द्वे द्वे पर्णे ।
ततो दक्षिणस्यामेवऽदेवसेनाःऽइति दश पर्णानि ।
तथैवऽया आक्याताःऽइति दश पर्णानि ।
तस्यामेव ततः पुनरपि तत्रैवऽद्वारापोपस्पृशऽइति द्वे पर्णे ।
ऽद्वारापिऽइत्युत्तरस्यां द्वेऽअन्वासारिणःऽइति मध्ये द्वे ।
ऽनिषङ्गिन्ऽइति दक्षिणस्यां द्वे इति ।
अत्र यद्यपि केचन मन्त्रा अव्यक्तलिङ्गका बहुवचनलिङ्गकाश्च, तथापीशानमीढुषीजयन्ता एव देवताः ।
प्रमाणं चऽगृहपिऽऽद्वारापिऽ
ऽनिषङ्गिन्ऽइति मन्त्रलिङ्गदर्शनम् ।
ऽदश देवसेनाभ्यो दशोत्तराभ्य, इत्यत्र तु सूत्रकारवचनाद्देवस्येशानस्य सेना देवसेना एव देवताः ।
ममकारास्पदीभूतस्य च पुत्रभृत्यादेः पूजापि पितृस्वाम्यादिपूजैव, पुत्रादिपूजायां सत्यां पित्रादेरहमेव पूजित इति मानसप्रत्यक्षोदयात् ।
अत एव च जातेष्टेस्संवलिताधिकारत्वम् ।
तस्मादिह देवस्यौदनाद्देवसेनाभ्यो दानं न विरुध्यते ।
केचित्मान्त्रवर्णिक्य एव देवताः ।
तेन गृहपेति देवाय॑ऽरुद्रः खलु वै वास्तोष्पतिःऽ(तै.सं.३४१०) इति श्रुतेः ।
ऽगृहपीऽति देव्यै ।
ऽघोषिणऽइति तु पञ्चभिर्देवस्यानुचर्भ्यः सर्षगमेभ्यः ।
आश्वलायनीयेस्पष्टत्वात् ।
ततोऽदेवसेनाःऽइति द्वाभ्यां देवसोनाभ्यः ।
ऽद्वारापेऽति देवस्य द्वारपालाय ।
द्वारपीऽति देव्यै द्वारपालायै ।
ऽअन्वासारिणऽइति देव्या वस्या एवानुचरेभ्यः ।
ऽनिषङ्गिन्ऽइति जयन्ताय, तस्याप्यावाहितस्य बलिना भाव्यत्वादिति ॥६॥
७ वृक्षाग्रे पर्णपुटस्थौदनस्याऽसञ्जनम् ।
ओदनपिण्डं संवृत्य पर्णपुटेऽवधायोत्तरेण यजुषा वृक्ष आसजति ॥ आपस्तम्बगृह्यसूत्र २०.७ ॥
(प.७.खं.,२०७)
टीकाः
अनुकूलावृत्ति २०.७
अथ तस्यैवोदनात्पिण्डं उभाब्यां हस्ताब्यां<संवृत्य>दृढं कृत्वा पर्णैस्स्यूतैः कृते <पुटेऽवधाय>तं शिक्ये
कृत्वोत्तरेण यजुषाऽनमो निषङ्गिण इषुधिमते, इत्यनेन वृक्ष<आसजति>अवसम्बयति ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २०.७
अथ होमबलिशेषेभ्यः त्रिभ्यः ओदनेभ्य उपादाय<पिण्डं>संवर्तयति सुदृढं करोति ।
शेषाणां प्रतिपत्त्यपेक्षत्वात् ।
केचित्जयन्तस्योदनादिति ।
ततस्तं पिण्डं पर्मपुटेऽवधायोत्तरेण यजुषाऽनमो निषङ्गिण इषुधिमतेऽइत्येतावतैव मन्त्रसमाम्नायगतेन वृक्षे कस्मिश्चिदासजति शिक्ये
कृत्वावलम्बयति ॥७॥
८ अत्र रुद्रजपः ।
अत्र रुद्रान् जपेत् ॥ आपस्तम्बगृह्यसूत्र २०.८ ॥
(प.७.खं.,८)
टीकाः
अनुकूलावृत्ति २०.८
अत्र अस्मिन्काले रुद्रान्ऽनमस्ते रुद्र मन्यव"इत्यादीनेकादशानुवाकान् जपेत् ।
एतैरेव देवमुपतिष्ठेतेत्यर्थः ।
(तत्रोत्तमस्यानुवाकस्यादितो दशस्वृक्षुऽतेषां सहस्रयोजनऽइत्यनु,ङ्गः ।
अन्ततस्त्रयो मन्त्राःऽनमोरुद्रेभ्यो ये पृथिव्यां येषामन्नमिषवःऽऽनमो रुद्रेभ्यो येऽन्तरिक्षे येषां वातःऽऽनमो रुद्रेभ्यो ये दिवि येषां वर्षमिषवस्तेभ्यःऽइत्यादि सर्वत्रानुषङ्गः ॥७॥ ॥)॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २०.८
अत्रास्मिन्काले ।
अन्ये तुअत्र वृक्षसमीप इति ।
रुद्रन्ऽनमस्ते रुद्र मन्यवेऽ(तै.सं.४५१.) इत्येकादशानुवाकान् जपेत्चातुस्स्वर्येण तत्रोत्तमानुवाकेऽअस्मिन्महतिऽइत्यादिष्वष्टसुऽतेषां सहस्रयोजनेऽ(तै.सं.८५११)इत्याद्यनुषह्गः ।
तथाऽनमो रुद्रेभ्यो ये पृथिव्यां येषामन्नमिषवस्तेभ्यःऽऽनमो रुद्रेभ्यो येऽन्तरिक्षे येषां वात इषवस्तेभ्यःऽनमो रुद्रेभ्यो ये दिवि येषां वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणाऽइत्याद्यनुषङ्गः । ८ ।
प्रथमोत्तमौ वा ॥ आपस्तम्बगृह्यसूत्र २०.९ ॥
(प.७.खं.,२०९)
टीकाः
अनुकूलावृत्ति २०.९
अथ वा प्रथमोत्तमाभ्यामेवानुवाकाभ्यामुपस्थानं कर्तव्यम् ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २०.९
अथ वा रुद्राणां<प्रथमोत्तमावे>वानुवाकौ जपेत् ॥९॥
अथ प्रधानहोमकाल एव यत्कर्तव्यं तदाह
९ अग्नेरभितो गवां स्थापनम् ।
अभित एतमग्निं गास्स्थापयति यथैना धूमः प्राप्नुयात् ॥ आपस्तम्बगृह्यसूत्र २०.१० ॥
(प.७.खं.,२०१०)
टीकाः
अनुकूलावृत्ति २०.१०
<एतं>हूयमानमग्निमभितो <गाः>आत्मीयाः यथा<स्थापयति>स्थापने <एना गाः धूमः प्राप्नुयात्> ।
अनुवातं समीप इत्यर्थः ।
प्रधानहोमकाले च... तदर्थमेवैतमित्युक्तं एतं हूयमानमग्निमिति ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २०.१०
<एतं> होमार्त<माग्निमभितः>होमाग्नेस्समीप इत्यर्थः ।
<गाः>स्वकीयास्स्थापयत्यनुवातं,<यथैना> गा होमधूमः<प्राप्नुयात्> ।
केचित्गोशान्त्यर्थमपीदं कर्मेत्यत्रैतत्ज्ञापकमिति ॥१०॥
१० गवामवोक्षणम् ।
ता गन्धैर्दर्भग्रुमुष्टिनावोक्षति वृषाणमेवाग्ने ॥ आपस्तम्बगृह्यसूत्र २०.११ ॥
(प.७.खं.,२०११)
टीकाः
अनुकूलावृत्ति २०.११
ता गन्धैस्सुरभिचन्दनादिभिरवोक्षति दर्भग्रुमुष्टिना, न हस्तेन ।
गुरुमुष्टिः ग्रुमुष्टिः छान्दस उकारलेपः ।
सन्नखेन दर्भमुष्टिनेत्यर्थः ।
तत्र होम कालवचनं प्रोक्षणं तस्मिन् काले ॥१०॥
वृषाणं वृषभं तमेवाग्रे प्रोक्षति ।
यद्यप्यसावुपक्रमे न तिष्ठेत्तथापि अह्गत्वात्तस्यैवावोक्षणम् ।
अग्रे तदर्थ एव कालः । ११ ।
________________________
गृह्यतात्पर्यदर्शनव्याख्या २०.११
ता गन्धैश्चान्दनादिना युक्तैः ।
<दर्भग्रुमुष्टिना> दर्भाणां गुरुमुष्टिर्दर्भग्रुमुष्टिः ।
उकारलोपश्छान्दसः ।
सन्नखो दृढमुष्टिरित्यर्थः ।
तेनावोक्षति ।
तत्र विशेषः<वृषाणं>, वृषभमे <वाग्रेऽवोक्षति ।
>एवकारात्तस्मिन्नवोक्ष्यमाणेऽन्या काचिद्रौर्नावोक्ष्यते ।
ततो गोचराय गाः प्रस्थापयति ॥११॥
११ गवां मार्गे क्षेत्रपतियागः ।
गवां मर्गेऽनग्नौ क्षेत्रस्य पतिं यजते ॥ आपस्तम्बगृह्यसूत्र २०.१२ ॥
(प.७.खं.,२०१२)
टीकाः
अनुकूलावृत्ति २०.१२
अथ क्षैत्रपत्यस्थालीपाकस्य विधिः<मर्गे>मार्गे छान्दसो हस्वः ।
<अनग्नौ>भूमावेव ।
गवामपगच्छन्तीनां कस्याश्चित्गोः पथि यागविधानातग्नौ प्राप्ते प्रतिषेधः ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २०.१२
ततः प्रसिथितानां<गवां मर्गे मार्गे> ।
छान्दसो हस्वः ।
अनग्नौ भूमावेव<क्षेत्रस्य पतिं यजते ॥ १२ >॥
(प.७.खं.,२०१३)
टीकाः
अनुकूलावृत्ति २०.१२
तस्य क्षेत्रपतेरावाहनं ईशानवत्कर्तव्यम् ।
ऽआ त्वा वहन्त्विऽत्यनयर्चेत्यर्थः ।
शर्वशब्दोऽपि तस्य पर्यायनाम द्रष्टव्यम् ॥१३॥
ईशानवदावाहनम् ॥ आपस्तम्बगृह्यसूत्र २०.१३ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २०.१३
क्षेत्रस्य पते <रावाहनमीशानवत्>,ऽआ त्वा वहन्तुऽइत्येतयेत्यर्थः ॥१३॥
१२ तस्मै पर्णदानम् ।
चतुर्षु सप्तसु वा पर्णेषु नामादेशं दधाति ॥ आपस्तम्बगृह्यसूत्र २०.१४ ॥
(प.७.खं.,२०१४)
टीकाः
अनुकूलावृत्ति २०.१४
आवाह्यार्घ्य दत्वा गन्धादिभिरभ्यर्च्य स्थालीपाकमासाद्याभिघार्य चत्वारि सप्त वा पर्णानि देवस्य समीपे कृत्वा
तेषु<नमोदेशं>नामादिश्यैदनपिण्डं दधाति स्थालीपाकात् ।
तत्र पूर्वेषु पर्मदानमन्त्रेषु स्वाहाकारान्तत्वनियमातिहापि क्षेत्रस्य पतये स्वाहेति पर्णदानम् ।
एष एवास्य यागः ॥१४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २०.१४
चत्वारि सप्त वा पर्मानि भूमौ स्थापयित्वा तेषु क्षैत्रपत्यात्स्थालीपाकादोदनमादाय<नामदेशं>नाम चतुर्थ्यन्तमादिश्यऽक्षेत्रस्य पतये त्वां ददामि, इति<दधाति> ।
ऽडुधाञू धारणपोषणयोःऽइति स्मरणात् ।
केचित्क्षेत्रस्य पतये स्वाहेति ददाति ।
पूर्वत्र बलिमन्त्रेषु स्वाहाकारस्य दृष्टत्वादिति ।
अत्र तु न सहौदनानि पर्मानि देयानि॑पर्णेष्विति सप्तमीनिर्देशात् ॥१४॥
१३ तस्य शीघ्रकरणविधिः ।
क्षिप्रं यजेत पाको देवः ॥ आपस्तम्बगृह्यसूत्र २०.१५ ॥
(प.७.खं.,२०१५)
टीकाः
अनुकूलावृत्ति २०.१५
पाको बालस्तद्वत्गमनशीलोऽयं देवः तस्माच्छीघ्रं यजेतेत्यर्थः ॥१५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २०.१५
अयं चौदनदानात्मको यागः क्षिप्रमावाहनानन्तरमुदकमेव प्रदाय कर्तव्यः ।
गन्धादिप्रदानं तु यागोत्तरकालमेव॑यतः पाकं अल्पो देवः ।
एतदुक्तं भवतिअनित्यदर्सनत्वात्क्षेत्रस्य पतेः शग्रिमेव बलिर्देय इति ।
केचित्पाकः बालः बालवद्गमनशीलः ।
तथा गन्धादि दत्वैवात्रापि बलिरिति ॥१५॥
१४ तस्योपस्थानम् ।
उत्तराभ्यामुपतिष्ठते ॥ आपस्तम्बगृह्यसूत्र २०.१६ ॥
(प.७.खं.,२०१६)
टीकाः
अनुकूलावृत्ति २०.१६
<उत्तराभ्यां>ऽक्षेत्रस्य पतिना वयऽमिति द्वाभ्याम् ॥१६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २०.१६
ऽक्षेत्रस्य पतिना वयम्ऽइति द्वाभ्यामृग्भ्यामुपतिष्ठते ॥१६॥
ऽओदनपिण्डं संवृत्यऽइत्यादिना होमबलिशेषाणां प्रतिपत्तिरुक्ता ।
इदानीमीशानस्थालीपाकशेषस्य प्रतिपत्तिमाह
१५ स्थालीपाकशेषात्ब्राह्मणानां भोजनम् ।
स्थालीपाकं ब्राह्मणान् भोजयेत् ॥ आपस्तम्बगृह्यसूत्र २०.१७ ॥
(प.७.खं.२०१७)
टीकाः
अनुकूलावृत्ति २०.१७
ऽतेन सर्पिष्मताऽइति पार्वणातिदेशेनैव सिद्धे बहुत्वविधानार्थ वचनम् ॥१७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २०.१७
अयं च प्राकृतप्रतिपत्त्यनुवादो ब्राह्मणबहुत्वं विधातुम्, सर्पिष्मत्त्वं निवर्तयितुं वा ॥१७॥
क्षैत्रपत्यस्य प्रतिपत्तिमाह
१६ क्षैत्रपत्यचरोः बन्धुभिस्सह भोजनम् ।
क्षैत्रपत्यं प्राश्नन्ति ये सनाभयो भवन्ति ॥ आपस्तम्बगृह्यसूत्र २०.१८ ॥
(प.७.खं.,२०१८)
टीकाः
अनुकूलावृत्ति २०.१८
<सनाभय>स्समानयोनयः पुत्राः भ्रातरश्च ।
सनाभय इत्येव सिद्धे<ये भवन्ति> इति वचनं दौहित्रादीनामपि सम्बन्धिनां प्रतिग्रहार्थम् ॥१८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २०.१८
<सनाभयस्सापिण्डाः> ॥१८॥
यथा वैषां कुलधर्मस्स्यात् ॥ आपस्तम्बगृह्यसूत्र २०.१९ ॥
(प.७.खं.,२०१९)
टीकाः
अनुकूलावृत्ति २०.१९
एषां यजमानकुलजातानां यथा<कुलध्र्बः>तथा वा प्राशनम्यदि पुत्राणामेव, तथा प्राशनम् ।
अथ सर्वेषां स्वकुलजातानां, तथा प्राशनम् ।
अथ स्वस्रीयादीनामपि, तथा प्राशनमिति ॥१९॥
इत्यनाकुलायां हरदत्तमिश्रविरचितायां गृह्यवृत्तौ विंशः खण्डः सप्तमश्च पटलः ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २०.१९
यद्येषामनुष्ठातॄणां असपिण्डकर्तृकप्राशनमपि कुलधर्मस्तर्हि तथा वा स्यात् ॥१९॥
सप्तमे पटलेऽप्येवं कृतं भाष्यानुसारतः ।
श्रीमत्सुदर्शनार्येण गृह्यतात्पर्यदर्शनम् ॥१॥
अत्रानुक्तं दुरुक्तं वा यत्प्रमादादिहेतुकम् ।
वेदमार्गानुवर्तित्वा त्तत्क्षन्तव्यं मनीषिभिः ॥३॥
इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने विंशः खण्डः ॥
समाप्तस्सप्तमश्च पटलः ॥