सामग्री पर जाएँ

आपस्तम्ब गृह्यसूत्राणि, हरदत्तस्य अनुकूला, सुदर्शनसूरेः तात्पर्यदर्शनम् च/पञ्चमः पटलः

विकिस्रोतः तः

पटलः १

पटलः २

पटलः ३

पटलः ४

पटलः ५

पटलः ६

पटलः ७

पटलः ८


अथ पञ्चमः पटलः
द्वादशः खण्डः ।
८ समावर्तनम्
पूर्वत्रोपनयनं व्याख्यातम् ।
उपनीतस्य च धर्मशास्त्रेऽअथ ब्रह्मचर्यविधिःऽ(आप.ध.१२१८) इत्यारभ्य धर्मा उपदिष्टाः ।
अध्यायकाण्डव्रतानामुपाकरणसमापनर्योर्विध्श्चऽउपाकरणे समापने च ऋषिर्यः प्रज्ञायतेऽ(आप.गृ.८१) इत्यत्र सम्पूर्णमेव व्याख्यातः
अथोजानीं वेदं व्रतानि वा पारं नीत्वा हयुभयमेव वा ॥
(याज्ञ.स्मृ.१५१) इत्यादिवचनार्थानुष्ठानेन कृतकृत्यस्य गुरुकुलात्समावृत्तस्यानुष्ठेयं समावर्तनापरपर्यायं स्नानाख्यं कर्म व्याख्यायते ।
केचित्ऽउपाकरणे समापने चऽ(आप.गृ.८१) इत्यत्रैतयोः कल्पस्याप्रसिध्धत्वात्, अवश्यमन्यत्र प्रसिद्ध आश्रयितव्य इति वदन्तः
ऽअथात उपाकरणोत्सर्जने व्याख्यास्यामः, इत्यादिकं व्रतपटलं नाम उपनयनानन्तरं व्याचक्षते ।
नैतत्॑ऽउपाकरणे समापने चऽ (आप.गृ.८१) इत्यत्रैवानयोर्विध्योर्भाष्यकारेण सम्पूर्णमेव व्याख्यातत्वात्, व्रतपटलाध्ययनस्य च विप्रतिपन्नत्वात्, भाष्ये प्रसङ्गभावाच्च ॥
१ उदयात्पूर्व गोष्ठप्रवेशविधानम् ।
वेदमधीत्य स्नास्यन् प्रगुदयाद्व्रजं प्रविश्यान्तर्लोम्ना चर्मणा द्वारमपरिधायाऽस्ते ॥ आपस्तम्बगृह्यसूत्र १२.१ ॥
टीकाः
अनुकूलावृत्ति १२.१
एवमुपनीतश्चर्तब्रह्मचर्योऽधीतवेदषडङ्गो यद्याचार्यकुलादन्यमाश्रमं प्रेप्सुर्भवति तस्य स्नानं विधिवत्भवति तदेतत्स्नानमित्युच्यते ।
स्नानं समावर्तनं तत्करिष्यान्नित्यर्थः ।
<प्रागुदयादित्या>दित्योदयो गृह्यते ।
<नैनमेतदहरादित्य>इति दर्शनात् ।
<व्रजं गोष्ठम् ।
>अन्तः
अभ्यन्तरं<लोमानि> यस्य तेन<चर्मणा>यस्य कस्यचित्मृगस्य ।
आसनवचनं निष्क्रमणप्रतिषेधार्थम् ।
वेदमित्यविवक्षितमेकवचनम् ।
वेदं वेदौ वेदान् वा<अधीत्य>पाठतश्चार्थतश्चाधिगम्येत्यर्थः ।
स्नास्यन्निति वचनं नैष्ठिकस्य उत्तरं कर्म मा भूदिति ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १२.१
वेदं मन्त्रब्राह्मणलक्षणम् ।
एकवचनं जात्यभिप्रायम्॑ऽवेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम्ऽ ॥
(म.स्मृ.३२)
इति मनुवचनात् ।
अधीत्य पाठतश्चार्थतश्चाधिगम्य, सषडङ्गं समीमांसं वेद मधीत्येत्यर्थः ।
अधीत्येति च विधिः ।
ऽवेदं व्रतानि वा पारं नीत्वा ह्यभयमेव वा ।
इत्यस्य प्रदर्शनार्थः ।
स्नास्यन् स्नानाख्यं कर्म करिष्यमाणः<प्रागुदयात्>प्रागादित्योदयात् ।
<व्रजं>गोशालां परिश्रितां<प्रविश्ये>त्त्यादि व्यक्तार्थम् ॥१॥
नैनमेतदहरादित्योऽभितपेत् ॥ आपस्तम्बगृह्यसूत्र १२.२ ॥
टीकाः
अनुकूलावृत्ति १२.२
<एनं>एतत्कर्म कुर्वाणम् ।
<एतदहः>एतस्मिन्नहनि कदाचिदपि<नाभितपेदादित्यः> ।
तेन मूत्रपुरीषादिकमपि तत्रैव व्रजे छायायामपि कर्तव्यम् ।
आदित्यग्रहणादग्नितापस्य न प्रतिषेधः ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १२.२
अस्मिन्नहनि यावदस्तमयं मूत्रपुरीषोत्सर्जनार्थमप्यसौ मण्डपाद्बहिर्न निर्गच्छेतित्यर्थः ॥२॥
२ वपनमुपनयनवत् ।
मध्यन्दिनेऽग्नेरुपसमाधानाद्याज्यभागान्ते पालाशीं समिधमुत्तरयाऽधायापरेणाग्निं कट एरकायां वोपविश्योत्तरया क्षुरमभिमन्त्र्योत्तरेण यजुषा वप्त्रे प्रदायापां संसर्जनाद्याकेशनिधानात्समानम् ॥ आपस्तम्बगृह्यसूत्र १२.३ ॥
टीकाः
अनुकूलावृत्ति १२.३
अथ तस्मिन्नहनि मध्यन्दिने कर्म प्रतिपद्यते ।
अग्नेरुपसमाधानादि ।
शम्याः ।
सकृत्पाभाणि क्षुरादिभिस्सह ।
स्वयमेव कर्ता नाचार्यः ।
आज्यभागान्तवचनं समिदाधानादेरुत्तरस्य कर्मणः कालोपदेशार्थम् ।
अनेनैव तन्त्रप्राप्तावपि सिद्धायां अघ्नेरुपसमाधानादिवचनं तन्त्रारम्भसेयैव मध्यन्दिननियमः, न कृत्स्नस्य कर्मणः ।
<उत्तरयर्चा>ऽइमं स्तोमऽमित्येतया ।
न स्वाहाकारः, जुहोतिचोदनाभावात् ।
<कटः> प्रसिद्धः<एरका>तत्प्रकृतिभूतं तृणम् ।
कशिप्वित्यन्ये ।
<उत्तरयर्चाऽ>त्र्यायुषऽमित्येतया ।
<क्षुरमभिमन्त्र्य ।
उत्तरेण यजुषाऽ>शिवो नामासीऽत्यनेन ।
<वप्ता> नापितः नाचार्यः ।
तस्मै क्षुरं प्रदाय ततःऽउष्णाः शीतास्वानीयेऽत्यादि <यदपां संसर्जनादि>कर्म<केशनिधानान्तं तदुपनयनेन> समानम् ।
<किं?> <कार>यतीत्यधायाहारः ।
केन कारयति?आचार्येण यद्यप्याचार्यकुलादयं निवृत्तः, तथापि स्नान काले विवाहकाले च समवैत्याचार्यः ।
समानवचनसामर्थ्यात् ।
योऽस्यापचितस्तमितरया (आप.गृ.३९) इति च दर्शनात् ।
स्पष्टं चाश्वलायनकेअथैतान्युपकल्पयति समावर्तमानर्ः (त्यमाने) (आश्व.गृ.३७१) इत्यादि ।
अन्ये त्वाचार्यकुल एव समावर्तमिच्छन्ति ।
तत्राचार्यस्संसर्जनोन्दने कृत्वा क्षुरं नापितादपादाय प्रतिदिशं प्रवाप्य पुनस्तस्मै प्रदाय तं च वपन्तमुत्तरयानुमन्त्रयते ।
एवमन्तमाचार्यकर्म ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १२.३
यथा मध्यन्दिने प्रधानहेमा भवन्ति तथा कर्म कुर्यात् ।
अत्र तु तन्त्रोपदेशोऽस्याज्यप्रधान हविष्ट्वात् ।
ऽआज्यभागान्तेऽइति च क्रमार्थम् ।
आज्यभागान्ते कृते समिदाधानमेव, न पुनरर्थकृत्यमपीति ।
अत्र च पात्रप्रयेगे दर्व्यादीनि द्वन्द्वम्, क्षुरकटादीनि सकृदेव, शम्याश्च परिध्यर्थे ।
केचित्दर्व्यादीन्यपि सकृदेवेति ।
<पालाशी पला>शवृक्षावयवभूताम्<उत्तरया>ऽइमं स्तोमम्ऽइत्येतया ।
<कटः>प्रसिद्धस्तृणमयः ।
<एरका> कटप्रकृतिभूतं पङ्क्तिकटाख्यं तृणम् ।
केचित्कशिप्विति ।
<उत्तरयार्त्र्कयायुषम्>इत्येतया<उत्तरेण>यजुषाऽशिवो नामासिऽइत्यनेन ।
वप्त्रे वपनकर्त्रे कस्मैचिन्मन्त्रविदे ब्राह्मणाय तत्क्षुरं प्रयच्छति ।
केचितिहाप्याचार्यो वपनं प्रारभते, नापितस्तु वप्ता अस्मै प्रयच्छतीति ।
तदयुक्तम्॑िहाचार्यस्यैवाभावात्, नापितस्यामन्त्रज्ञत्वाच्च ।
अथानुवाकस्य प्रथमेन यजुषाऽइत्यारभ्यऽतस्मिन् केशानुपयम्योत्तरयोदुम्बरमूले दर्भस्तम्बे वा निदधातिऽ(आप.गृ.१०८)
इत्येवमन्तमुपनयनेन समानं, भवतीति शेषः ॥३॥
३ मेखलाया ब्रह्मचारिणे दानम् ।
जघनार्धे व्रजस्योपविश्य विस्त्रस्य मेखलां ब्रह्मचारिणे प्रयच्छति ॥ आपस्तम्बगृह्यसूत्र १२.४ ॥
टीकाः
अनुकूलावृत्ति १२.४
अथोप्तकेशश्मश्रुनखो व्रजस्य जघनार्धे पश्चार्धे उपविश्य मेखला विस्रस्य विमुच्य, कस्मैचित्ब्रह्मचारिणे प्रयच्छति ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १२.४
अथोप्तकेशादिको <व्रजस्य जघनार्धे>पश्चार्धे <उपविश्येत्यादि>करोति ॥४॥
४ तेन तस्याः दर्भस्तम्बे निधानम् ।
तां स उत्तरेण यजुषोदुम्बरमूले दर्भस्तम्बे वोपगूहति ॥ आपस्तम्बगृह्यसूत्र १२.५ ॥
टीकाः
अनुकूलावृत्ति १२.५
<प्रच्छादयति ।
उत्तरेण यजुषा>ऽइदमहममुष्यामुष्येऽत्यादिना तत्रादश्सब्देषु नामग्रहणमिदमहं यज्ञशर्मणो गार्ग्यस्य पाप्मानमपगूहाम्युत्तरो यज्ञशर्मा द्विषद्भ्य इति ।
अथ यदि वा स्यात्यज्ञशर्मणो गार्ग्यायणेति ।
दण्डाजिनयोरप्यस्मिन् काले त्यागः ।
________________________
गृह्यतात्पर्यदर्शनव्याख्या १२.५
स तु ब्रह्मचारी तां मेखलां सूत्रोक्तदेशे उपगूहति अप्रकाशां करोतिऽइदमहं विष्णुशर्मणो गौतमस्य पाप्मानमुपगूहाम्युत्तरो विष्णुशर्मा द्विषद्भ्यःऽइत्यनेन यजुषा ।
अत्र च स्नातुर्नामगोत्रे ग्राह्ये ॥५॥
५ स्नानं उदुम्बरकाष्ठेन दन्तधावनं च ।
एवं विहिताभिरेवाद्भिरुत्तराभिष्षङ्भिस्स्नात्वोत्तरयोदुम्बरेण दतो धावते ॥ आपस्तम्बगृह्यसूत्र १२.६ ॥
टीकाः
अनुकूलावृत्ति १२.६
<एवंविहिताभिः>पूर्ववत्संसृष्टाभिः शीतोष्णाभिरित्यर्थः ।
तत्र संसर्जने मन्त्रस्य लोपः ऋग्भिः आपोहिष्ठीयाभिः हिरण्यवर्णी याभिश्च ।
तत्रऽयासु जातऽइत्यासां ग्रहणम् ।
प्रतिमन्त्रं चाभिषेकः ।
<दतो धावते>दन्तेभ्यो मलमपनयति ।
<उत्तरयर्चा>ऽअन्नाद्याय व्यूहध्वऽमित्येतया ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १२.६
<एवंविहिताभिस्तूष्णीं मिश्रिताभिश्शी>तोष्णाभिरद्भिः ।
ऽकेशान् वपतुऽइति मन्त्रलिङ्गविरोधातेवकाराच्च न मिश्रणमन्त्रः ।
<उत्तराभिष्षङ्भिः>ऽआपो हि ष्ठा इति तिसृभिश्च ।
स्नाति अभिषिञ्चति ।
एतच्च षण्णामन्ते सकृदेव ।
केचित्प्रत्यृचमिति ।
तन्न ॑गुणार्थ प्रधानाभ्यासकल्पनमयुक्तमित्युक्त्वात् ।
अथोदिम्बरेण काष्ठेन दन्तेभ्यो मलंऽअन्नाद्याय व्यूहध्वम्ऽइत्यनया अपनयति ॥६॥
६ स्नानीयद्रव्यैराच्छाद्य पुनः स्नानं, अहतस्यान्तरस्य वाससः परिधानं, चन्दनानुलेपनं, ग्रीवासु मणेराबन्धनं, बादरमणेस्सव्यपाणावाबन्धनं, उत्तरस्य वाससः परिधानञ्च ।
स्नानीयोच्छादितस्स्नातः ॥ आपस्तम्बगृह्यसूत्र १२.७ ॥
उत्तरेण यजुषाहतमन्तरं वासः परिधाय सार्वसुरभिणा चन्दनेनोत्तरैर्देवताभ्यः प्रदायोत्तरयानुलिप्य मणिं सौवर्णं सोपधानं सूत्रोतमुत्तरयोदपात्रे त्रिः प्रदक्षिणं परिप्लाव्योत्तरया ग्रीवस्वाबध्यैवमेव बादरं मणिं मन्त्रवर्ज सव्ये पाणावाबध्याहतमुत्तरं वासोऽरेवतीस्त्वेतिऽसमानम् ॥ आपस्तम्बगृह्यसूत्र १२.८ ॥
टीकाः
अनुकूलावृत्ति १२.८
ततः<स्नानीयैः>स्नानार्हऐः क्लीतकादिभिः<उच्छादितः>उद्वर्तितः अपकृष्टमलः पुनरपि तभिरेवाद्भिः<स्नातः उत्तरेण यजुषा>ऽसोमस्य तनूरसिऽइत्यनेन<अहतमन्तरं वासः>येन कटिः प्रच्छद्यते तदन्तरमित्युच्यते ।
येन बहिर्नीवि प्रच्छादनं उपवीतं वा क्रियते तदित्तरमिति ।
तयोरन्तरं वासः परिधाय चतुर्थ्यानुलेपनं करोति ।
केन?चन्दनेन ।
कीदृशेन ? ।
<सर्वसुरभिणा>सर्वाणि सुरभि द्रव्याणि यत्र भवन्ति तत्सर्वसुरभि ।
<सार्वसुरभिणेति>पाठे रूपसिद्धिर्मृग्या ।
तत्र पूर्वमुत्तरैर्मन्त्रैस्त्रिभिर्देवताभ्यः प्रयच्छतिऽनमो ग्रहायऽचेत्येवमादिभिः ।
तत उत्तरयाऽअप्सरस्सुयो गन्धःऽइत्येतया आत्मनोऽनुलेपनम् ।
ऽमुखमग्रे ब्राह्मणोऽनुलिम्पेत्बाहू राजन्य, उदरंवैश्यः, (आश्व.गृ.३७१०१२) इत्याश्वलायनः ।
अथ मणिमाबध्नाति<ग्रीवासु>प्रतिमुञ्चति ।
स च मणिः सौवर्णो भवति ।
उपदानेन च वैडूर्यादिनोपहितः ।
<सूत्रोतः>सूत्रेणोतः ।
सपाश इत्यर्थः ।
तं मणिं उत्तरयर्चाऽइयमोषधेऽऽत्येतया उदपात्रे त्रिः परिप्लावयति ।
सकृदेव मन्त्रः ।
अथ तं उत्तरयर्चाऽअपाशोऽस्युरऽइत्येतया ग्रीवास्वाबध्नाति ।
ग्रीवाशब्दोऽयं धमनिवचनः बहुवचान्तः तध्योगात्कण्ठे प्रयुज्यते ।
अस्यामृचि पृथिवी स्तूयते ।
तस्मादियमोषधिस्त्रायमाणेति भवितव्यम् ।
सकारलोपच्छान्दसः ।
अथ<बादरं>बदुरीबीजेन कल्पितमेवमेव सूत्रोतमुदपात्रे त्रिः प्रदक्षिणं परिप्लाव्य सव्ये पाणावाबध्नाति ।
तूष्णामेव परिप्लावने च बन्धने च मन्त्रप्रतिषेधः ।
पुनर्मणिग्रहणादुपधानमस्य न भवति ।
सूत्रोतस्तु भवति ।
आबध्य मणिं तत उत्तरं वासः करोति आहतमेव ।
तत्र रेवतीस्त्वेत्येवमादि कर्म समानमुपनयनेनैव प्रत्येतव्यम् ।
रेवतीस्त्वेत्येताभिरिति वा उत्तराभिरित्येव वा सिद्धे समानवचनमुपनयनवते प्रयोगार्थम् ।
तेन उत्तराभ्यामभिमन्त्रेयोत्यादि परिहितानुमन्त्रणान्तं गुरोः कर्म ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १२.८
स्नानोपकरणैः क्लीतकमधूकचूर्णादिभिः उद्वर्तितदेहः आमल कपिष्टादिभिः स्नानीयैस्स्नातश्च भवति ॥७॥
ऽसोमस्य तनूरसिऽइत्यनेन<यजुषा अहतमन्तरं वासः>अन्तर्वासोऽन्तरीयमित्यर्थः ।
तत्परिदधाति ।
अनेन सूत्रेणात ऊर्ध्व स्नातकस्य नित्यमन्तर्वासो विधीयते ।
यजुः पुनः कर्मार्थमेव, मकारणाम्नानात् ।
ततस्सार्वसुरभिणा सर्वैः कस्तूरिकादिभिर्गम्धद्रव्यैर्वासितेन<चन्दनेन> अनुलिम्पतीति व्यवहितेन सम्बन्धः ।
कथमनुलिम्पति ?इत्यत्राहौत्तरैरित्यादि ।
ऽनमो ग्रहाय चऽ इत्यादिभिस्त्रिभिर्मन्त्रैः देवताभ्यश्चन्दनं पूर्व<प्रदाय,> पश्चात्ऽअप्सरस्सु यो गन्धःऽइत्यनया आत्मान मनुलिम्पति ।
मुखस्य चाग्रेऽनुलेपः,ऽमुखमग्रे ब्राह्मणो लिम्पेत्ऽ(आश्व.गृ.३७१०) इत्याश्वलायनगृह्यात्. देवताभ्यः प्रदानं च नमश्सब्देन, न तु मन्त्रान्तेन॑नमस्कारस्यापि प्रदानार्थत्वात् ।
<मणिं>कीदृशं?<सौवर्ण>सुवर्णविकारम् ।
<सोपधानं>वज्रवैडूर्यादिना उभयतः परिगृहीतम् ।
<सीत्रोतं> सूत्रप्रोतम्ऽइयमोषधे त्रायमाणाऽइत्येतया सकृदुच्चरितया<उदपात्रे प्रदक्षिण>मविरतं त्रिः<परिप्लाव्य, उत्तरया>ऽअपाशोऽस्युरो मेऽइत्यादिकयाऽपुण्यायऽइत्यन्तया त्र्यवसानया तं मणिं<ग्रीवसु कण्ठे आबध्य,> बदरीबीजमयं<बादरं> सूत्रोतमेव मणिमेवमेवोदपात्रे <त्रिः> प्रदक्षिणं तूष्णीं परिप्लाव्य, तूष्णीमेव<सव्ये पाणावाबध्नाति ।>
<अहतमुत्तरं वासः> परिधानीयमेव, न तु उत्तरीयम् ।
तदुपनयनेन समानम् ।
स्वयं परिदधाति, इहाचार्याभावात् ।
ततश्चऽरेवतीस्त्वाऽ इति द्वाभ्यां परिधानीयं वासोऽभिमन्त्र्यऽया अकृन्तन्ऽइति तिसृभिः परिधायऽपरीदं वासःऽइत्यनुमन्त्रयते ।
ऽरेवतीस्त्वे ति समानम्ऽइति वचनबलाच्च मन्त्रस्थयुष्मदर्थलिङ्गबाध एव ।
यद्वा अन्यो विद्वान् ब्राह्मणः रेवतीस्त्वेति समानं करोति ।
कुतः पुनःऽअहतमुत्तरं वासःऽइत्यनेनापि परिधानमेवोच्यते नोत्तरीयम्?उच्यतेरोवतीस्त्वेति समानमुपनयनेनेति वचनातुपनयने चऽतिसृभिः परिधाप्य परिह्तमुत्तरया, (आप.गृ.१०१०)इति परिधानार्थवासोऽवगमात् ।
पूर्वस्यऽअहतमन्तरं वासःऽइति चोदितत्वाच्च ।
उत्तरीयं तुऽनित्यमुत्तरं कार्यम् (आप.ध.२४२१) इत्यादिधर्मशास्त्रवचनादत्रापि सिद्धमेव वासः ।
केचितिहोत्तरीयं विधीयते नैव परिधानीयम्॑ुत्तरमिति वचनात् ।
तथा आचार्य एवऽरेवतास्त्वा इत्याद्युपनयनेन समानं करोतीति ।
तन्न॑परिधाप्य,परिहितम्ऽइत्यनुपपत्तेरेव ।
तथा आचार्यकुलान्निवृत्तेनेदं स्नानं क्रियते ।
तत्राचार्यकर्तृकत्वा प्रसक्तिरेव ॥८॥
७ वाससोऽन्ते कुण्डले बध्वा तद्विशिष्टया दर्व्या प्रधानहोमाः, जयादयश्च ।
तस्य दशायां प्रवृर्तौ प्रबध्य दर्व्यामाधायाज्येनाभ्यानायन्नुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते ॥ आपस्तम्बगृह्यसूत्र १२.९ ॥
टीकाः
अनुकूलावृत्ति १२.९
<तस्यो>त्तरस्य वाससो <दशायां प्रवर्तौ> कर्णालङ्कारौ सौवर्णौ <प्रबध्य दर्व्यामाधायाज्येन>उत्तरा अष्टौ प्रधानाहुतिः जुहोति ।
<अभ्यानायन्>प्रवर्तयोरुपर्याज्येनानयनं कारयन्नित्यर्थः ।
अभ्यानयनिति वा पाठः ।
अस्मिन् पक्षे सव्येन पाणिनाभ्या नयनम् ।
अभ्यानायमिति णमुलन्तस्य युक्तः ।
अब्यानीयाभ्यानीयेत्यर्थः ।
सर्वथा प्रवर्तयोरुपर्यासिक्तेनाज्येन प्रधानहोमः ।
जयादिनचनं प्रवर्तावपनीय यतासिद्धं प्रतिपद्येतेत्येवमर्थम् ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १२.९
<तस्य अनन्तरप्रकृतस्य वाससो दशायां प्रवृर्तौ>कुण्डले सौवर्णे <प्रबध्य>तावुपायेन दर्व्या अग्रे स्थापयित्वा ।
<आज्येने ति> परिभाषाप्राप्तानुवादोभ्यानयनाविधानार्थः ।
अभ्यानायमिति णमुलन्तोर्ऽथपाठः ।
ततश्च स्वयमेव सव्येन हस्तेन स्थापितयोः प्रवर्तयोरुपरि
आज्यमानीय तेनैवाज्येन उत्तराःऽआयुष्यं वर्चस्यम्ऽइत्याद्या अष्टौ प्राधानाहुतीर्हुत्वा, ततो दर्व्या अग्रात्तावपनीय यथाप्रसिद्धं<जयादि> <प्रतिपद्यते> ।
सूचनात्सूत्रमिति निर्वचनाच्च सूत्रे सर्वत्रानेकार्थविधिनिबन्धनो ।
वाक्यभेदोऽपि नैव दोष इत्युक्तम्ऽअग्निमिध्वाऽ(आप.गृ.११२) इत्यत्र ।
केचित्सव्येन हस्तेन अभ्यानायन्नन्येन वाभ्यानायन्निति पाठेन भवितव्यमित्याचक्षते ॥९॥
८ तयोः कर्णयोराबन्धनम् ।
परिषेचनान्तं कृत्वैताभिरेव दक्षिणे कर्ण आबध्नीतैताभिस्सव्ये ॥ आपस्तम्बगृह्यसूत्र १२.१० ॥
टीकाः
अनुकूलावृत्ति १२.१०
परिषेचनान्तवचनमानन्तर्यार्थम् ।
तेनास्याहनि भोजनं न भवति ।
एताभिरेवाहुतिभिः आहुत्यर्थैर्मन्त्रैरित्यर्थः ।
वचनादेकं कर्म बहुमन्त्रं स्वाहाकारवांश्च मन्त्रः प्रयोज्यः ।
सव्ये चेत्युच्माने म्नत्राणां विभज्य विनियोगः स्यात् ।
तस्मात्पुनरेताभिरित्त्युक्तम् ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १२.१०
परिषेचनान्तरमेव<एताभिरेव>ऽआयुष्यं वर्चस्यम्ऽइत्यष्टाभिरेव<दक्षिणे कर्णे> प्रवर्तयोरेकं<आबध्रीत>प्रतिमुञ्चेत् ।
तथान्य
<मेताभिरेव सव्ये>कर्णे ।
अत्र च होममन्त्राणामेव आबन्धनकरणत्वेन सूत्रवाक्यसादृश्यानुमितया श्रुत्यैव चोदितत्वात्तैराबन्धनमपि गौण्या वृत्त्या प्रकाश्य मैन्द्रीवत् ।
तथैताभिरिति स्त्रीलिङ्गनिर्देशो बहुत्वादृचां ब्राह्मणग्रामवत् ।
न चात्र होमार्थानामेव आबन्धनार्थत्वेनापि विनियोगे देवदत्तीयेयं गौर्यज्ञदत्तीयेतिवद्विरोध ।
ऽपुरोडाशकपालेन तुषानुपवपतिऽइत्यादिवदधिष्ठानलक्षणया विनियुक्ताकारमतिरोधायापि विनियोगोपपत्तेः, ऋङ्मन्त्रविषये त्वनेकार्थत्वमपि नायुक्तमित्याग्नेय्यधिकरणे उक्तत्वाच्च ।
केचितेताभिरित्यनेन प्रकृताहुतिपरामर्शादाहुत्यर्था मन्त्रा लक्ष्यन्तेऽपितॄणां याज्यानुवाक्याभिरुपतिष्ठतेऽइतिवदिति ।
मैवम्॑यतः पूर्वत्रोत्तराहुतीरिति लक्षणया प्रकृतानां मन्त्राणामपि परामर्शो वरम्॑नत्विहापि वाक्ये लक्षणा ॥१०॥
९ शिरसि स्रजो धारणं, अक्ष्णोरञ्जनं, आदर्शावेक्षणं, उपानहोरुपमुञ्चनं, छत्रदण्योर्धारणं च ।
एवमुत्तरैर्यथालिङ्गं स्रजश्शिरस्याञ्जनमादर्शवेक्षणमुपानहौ छत्रं दण्डमिति ॥ आपस्तम्बगृह्यसूत्र १२.११ ॥
टीकाः
अनुकूलावृत्ति १२.११
एवमुत्तरैरपि मन्त्रैर्यथालिङ्गं स्नागादीनि षट्द्रव्याण्युपयुञ्जीत यथार्हम् ।
तत्रऽशुभिके शिरऽइति द्वाभ्यां स्रजश्शिरसि बन्धनम् ।
यथालिङ्गवचनात्द्वाभ्यामिमां तामपिनह्येऽइति)स्रज इति षष्ठ्येकवचनम्, न प्रथमाया द्वितीयाया वा बहुवचनम् ।
इमां तामित्यकेवचनात् ।
शिरसीति वचनातसयोर्न भवति ।
"न मालोक्ताम् ।
माले चेत्ब्रूयुः, स्रगित्यभिधापयीत"(आश्व.गृ.३.८१२) इत्याश्वलायनः ।
अथऽयदाञ्जनं त्रैककुदऽमिति द्वाभ्यामञ्जनं अक्ष्णोरुपयुञ्जीत ।
तत्र द्वाभ्यामपि मन्त्राभ्यां पूर्व दक्षिणस्याञ्जनम् ।
अथ ताभ्यामेव सव्यस्य ।
यद्यपिऽतेन वामाञ्जेऽइति मन्त्रे द्विवचनं भवति ।
तथापि एवमित्यतिदेशसामर्थ्यात्प्रवर्तयोराबन्धनवत्क्रियाभ्यावृत्तिः
मन्त्राभ्यावृत्तिश्च भवति ।
तत्र सान्नाय्यकुमभीवत्द्विवचनं, यथा"अप्रस्नसंसाययज्ञस्योखे उपदधाम्यह"मिति ।
अथादर्शस्यावेक्षणंऽयन्मे वर्चऽइत्येतया ।
अवेक्षणमित्यनुच्यमाने आदानमेव स्यादस्मिन् काले॑ऽइदं तत्पुनराददऽ इतिलिङ्गात्तस्मादवेक्षणग्रहणम् ।
ततः उपानहावुपमुञ्चतेऽप्रतिष्टे स्थऽइति यजुषा ।
आञ्जनवत्क्रियावृत्तिर्मन्त्रस्यावृत्तिश्च भवति ।
ततश्छत्रमादायात्मानमाच्छादयतिऽप्रजापतेश्शरणमसीऽति<यजुषा> ।
देवस्य त्वेति यजुषा दण्डमादत्ते ।
वैणवमित्याश्वलायनः ॥
(आश्व.गृ.३७१५) ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १२.११
यथा कर्ममध्ये समन्त्रकं प्रवर्तौ हि बद्धौ,<एवमुत्तरैर्मन्त्रैर्यथालिङ्गं>मन्त्रलिङ्गानुसारेण स्रगादिषट्कं आबध्नीत कर्तव्यमित्यादि यथार्ह वाक्यशेषः ।
तत्रऽशुभिके शिरःऽइत्यनयैकयैव शिरसि स्रजमाबध्नीत ।
ऽयामाहरत्ऽइत्येषा विकल्पार्था॑ऽएकमन्त्रणि कर्माणिऽ ।
ऽअवशिष्टा विकल्पार्थाःऽ(आप.प.१४१॑४१२) इति परिभाषावचनात् ।
स्रज इति द्वितीयैकवचनार्थे॑ऽशुभिके शिर आरोहऽऽयामाहरत्ऽ इत्याद्येकवचनलिङ्गात् ।
षष्ठ्येकवचनं वा ।
तथा सति, स्रज आबन्धनं कर्तव्यमिति शेषः ।
तथाऽयदाञ्जनं त्रैककुदम्ऽइत्येकयैव सकृदुच्चरितया त्रिककुत्पवर्तजाताञ्जनेन युगपदक्ष्णोरञ्जनं कर्तव्यम् ।
अत्रापिऽमयि पर्वतऽइत्यादीनि चत्वारि यजूषि विकल्पार्थान्येव ।
न चाक्ष्णोः पर्यायेणाञ्जनम्॑ऽतेन वाम्ऽइति द्विवचनलिङ्गविरोधात् ।
तथैवऽयन्मे वर्चः परागतम्ऽइत्येतया आदर्शावेक्षणं कर्तव्यम् ।
तथैवऽप्रतिष्ठे स्थःऽइत्यनेन यजुषोपानहौ युगपदुपमुञ्चते॑ऽप्रतिष्ठे स्थःऽइति द्विवचनलिङ्गात् ।
तथैव तूष्णीं छत्रमादायऽप्रजापतेः शरणमसिऽइति यजुषा आत्मानमभिच्छादयति ।
तथैव दण्डं वैणवंऽदेवस्य त्वाऽइत्यादियजुषा आदत्ते ।
इति एतानि षट्द्रव्याणीत्यर्थः ।
केचित्ऽशुभिके शिर आरोहऽऽयामाहरत्ऽइति द्वाभ्यामपि स्रज आबन्धनम् ।
तथाऽयदाञ्जनंऽऽमयि पर्वत पूरुषम्ऽइति द्वाभ्यामप्यावृत्ताभ्यां दक्षिणसव्ययोरक्षणोः क्रमेणाञ्जनम्॑ऽएवमुत्तरैर्यथालिङ्गम्ऽइति वचनबलात् ।
ततश्चऽतेन वाम्ऽइति लिङ्गमपि विधिबलाद्वाध्यमेव ।
यथैकस्यां सान्नाय्यकुम्भ्यांऽउखे उपधाम्यहम्ऽइति द्विवचनलिङ्गम् ।
उपानहोरुपमोचनेऽप्यञ्जनवदेव व्याख्येति ।
तदसत्,ऽएकमन्त्राणिऽ(आप.प.१४१) इत्यादिपरिभाषाविरुद्धत्वात् ।
ऽएवमुत्तरैर्यथालिङ्गम्ऽइत्यस्य च पूर्वव्याख्यानेऽप्युपपत्तेः ।
ऽमयि पर्वत पूरुषम्ऽइत्यत्र पाठे प्रश्लिष्टेऽपि विभागे निराकाङ्क्षत्वात्, वाक्यभेदावगतेश्च ॥११॥
१० वाग्यमः, दिगुपस्थानं, नक्षत्राणां चन्द्रमसश्चोपस्थानम् ।
वाचं यच्छत्यानक्षत्रेभ्यः ॥ आपस्तम्बगृह्यसूत्र १२.१२ ॥
उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्योत्तरेणार्र्धचेन दिश उपस्थायोत्तरेण नक्षत्राणि चन्द्रमसमिति ॥ आपस्तम्बगृह्यसूत्र १२.१३ ॥
टीकाः
अनुकूलावृत्ति १२.१३
ततः उत्तरेणार्दर्चेनऽदेवीष्षडुर्वीऽरित्यनेन प्राङ्मुख प्राञ्जलिः सर्वा दिशो मनसि कृत्वा मन्त्रान्तेन प्रदक्षिणमावृत्य समनुवीक्षते ।
षडेव दिशः ,डुर्वीरिति लिङ्गात् ।
प्राच्याद्याश्चतस्रः ऊर्ध्वा अधरा चेति ।
तत<डत्तरेणार्र्धचेन>ऽमा हास्महीऽत्यनेन<नक्षत्राणि चन्द्रमसं>च सहोपतिष्ठते ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १२.१३
इदं च व्याख्यातम् ॥१२॥
उ<त्तरेणार्र्धचेन>ऽदेवाष्षडुर्वीः इत्यनेन<दिशः>अवाचीषष्ठा उपस्थाय, उत्तरेणऽमा हास्महिऽइत्यर्र्धचेन<नक्षत्राणि चन्द्रमसं>चोपतिष्ठते ।
श्रुतिबलाच्चऽमा हास्महिऽइत्यत्र नक्षत्राणीत्यध्याहृत्य तानि प्रकाश्यान्येव ॥१३॥
११ मित्रेण सम्भाषणं, यथेष्टगमनं च ।
रातिना सम्भाष्य यथार्थ गच्छति ॥ आपस्तम्बगृह्यसूत्र १२.१४ ॥
टीकाः
अनुकूलावृत्ति १२.१४
<रातिना>बन्धुना<संभाष्य>किं मया कर्तव्यम्?क आश्रमः प्रतिपत्तव्यः?इति संभाषणं कृत्वा तेन रातिना सह<गच्छति> अनधृतमाश्रमं प्रतिनद्यत इत्यर्थ ।
ऽबुध्वा कर्माणि यत्कामयेत तदारभेतेऽ(आप.ध.२२१५) त्यनेनैव सिद्धे पुनर्वचनं प्रव्रजतेऽपि संभाषणान्तं स्नानकर्म यथा स्यादिति ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १२.१४
<रातिः>मित्रं रमयतीति व्युत्पत्या ।
तेन सह विस्रब्धस्सम्भाष्य आत्मशक्त्याद्यनुरूपं धर्मादिकं विचार्य निश्चित्य ।
यथार्थ गच्छति तेन रातिना सह योर्ऽथो धर्मो मोक्षो वा साध्यत्वेनावधृत, तदनुरूपमाश्रमं गार्हस्थयं मौनं वा प्रतिपद्यते ।
एवं च ब्रह्मचर्यादेव प्रव्रजतोऽपि सम्भाषणान्तं स्नानं कृत्वैव प्रव्रज्यात् ॥१४॥
इति श्रीसुदर्शनाचार्याविरचिते गृह्यतात्पर्यदर्शने द्वादशः खण्डः समाप्तः ॥
त्रयोदशः खण्डः ।
९ मधुपर्कः
१ पूज्येन कूर्चे उपवेशः ।
अथैतदपरं तूष्णीमेव तीर्थे स्नात्वा तूष्णी समिधमादधाति ॥ आपस्तम्बगृह्यसूत्र १३.१ ॥
टीकाः
अनुकूलावृत्ति १३.१
व्याख्यातं स्नानकर्म गरीयश्च मुख्यं च ।
अथेदानीमेतदपरं स्नानविधानं लघीयश्च गौणं च व्याख्यायते ।
किं तत्?तूष्णामेव तीर्थे भूमिष्ठे जले स्नाति ।
नोद्धृताभिश्शीताभिः ।
तूष्णींच समिधमादधाति ।
न म्नत्रेण ।
पालाशी समित् ।
एतावदेव अस्मिन् विधौ कार्यम् ।
नान्यत्किञ्चित्ऽप्रागुदयात्व्रज मित्यादिकम् ।
वपनादि तु लौकिक मधर्मकं भवति ।
तत्र प्रयोगःकेशश्मश्रुनखलोमानि वापयित्वा मे खलादण्डमजिनमित्यपनीय तूष्णीमेव तीर्थे स्नात्वा दन्तझावनमौदुम्बरेण काष्ठेन कृत्वा स्नानीयोच्छादितः पुनः स्नात्वा अहते वाससी परिधायाचम्याग्निमुपसमाधाय संपरिस्तीर्य पालाशीं समिधमग्निं मनसा ध्यायन्नाधाय मणिप्रभृतीन्यलङ्करणानि यथोपपादमुपादत्ते तूष्णीमेव सर्वम् ॥ १ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.१
अथापरमेतद्विधानम् ।
उच्यते इति शेषः ।
तीर्थे पुण्यनद्यादौ ।
समिधं पालाशीं, अविरोधात् ।
एवकाराच्चास्मिन् विधौ नान्यत्किञ्चिदनुष्ठेयम् ।
ननुपूर्वस्मिन्नेव विधौ स्नानसमिदाधानयोरन्य प्रकारो वै कल्पिक इति किमिति नास्थीयते ?उच्यतेएवकारवैयर्थ्यप्रसङ्गात्,स्नान समिदाधानयोरिह व्युत्क्रमेणाभिधानात्, अस्य सूत्रस्य बह्वक्षरत्वाच्च ।
यदि ह्ययं पूर्वस्मिन्नेव विधौ वैकल्पिकोऽभिप्रेतोऽभविष्यत्, तदा तत्रैवऽपालाशींऽसमिधमुत्तरयाधाय तूष्णीं वाऽऽएवंविहिताभिरेवाद्भिरुत्तराभिः षड्भिः स्नात्वा तीर्थे वा तूष्णीम्ऽइत्यल्पैरेवाक्षरै रसूत्रयिष्यत् ।
किञ्च सूत्रकाराणां नैवेयं सैली दृष्टचरीयदुत साङ्गं प्रधानमुक्त्वा पश्चादथादिना सूत्रेण वैकल्पिकानां प्रकारभेदानाम भिधानमिति ।
एव मेवऽअथैतदपरं दघ्न एवाञ्जलिना जुहोति (आप.गृ.२२१०) इत्यस्यापि व्याख्यानम् ।
प्रयोगस्तुब्रह्मचारिलिङ्गानि मेखलादीनि त्यक्त्वा तीर्थे तूष्णीं स्नात्वा, वासोऽन्तरपरिधानादि कृत्वा, श्रोत्रियागारादग्निमाहृत्यऽयत्र क्व चाग्निम्ऽइति विधिनोपसमाधाय, तत्र प्रजापतिं मनसा ध्यायन् तूष्णीमेव समिधमादधाति ।
केचित्केशश्मश्रु वपनादिकमन्यदप्यविरोधि तूष्णीमेव करोतीति ॥१॥
यत्रास्मा अपचितिं कुर्वन्ति तत्कूर्च उपविशति यथापुरस्तात् ॥ आपस्तम्बगृह्यसूत्र १३.२ ॥
टीकाः
अनुकूलावृत्ति १३.२
उक्तयोरन्यतरेण स्नातको भवति ।
तस्यास्मिन् काले बन्धुभिरपचितिः कार्या॑गोमधुपर्करहो वेदाध्याय इति वचनात् ।
आवेद्यार्घ्य दद्या(बौ.गृ.१२१)दिति कल्पान्तरम् ।
साधु व्रतस्नात मर्घयिष्यामो भवन्तमिति निगदेनावेदनं कौषीतकिनस्समामनन्ति ।
"विष्टरं पाद्यमर्घ्यमाचमनीयं मधुपर्को गौरित्येतेषां त्रिस्त्रिरेकैकं वेदयन्ते"(आश्व.गृ.१२१६) इत्याश्वलायनः ।
तत्र यत्र देशेऽस्मै <अपचितिं> <कुर्वन्ति> बान्धवाः, तत्र तैर्दत्ते <कूर्चे उपविशति यथापुरस्तादुपनयने>आचार्यः ।
कूर्च प्रत्तमुपादायोदगग्रं निधाय तस्मिन्ऽराष्ट्रभृदसीऽत्यनेनोपविशतीत्यर्थः ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.२
यत्र यस्मिन् स्वधर्मयुक्तस्य कुटुम्बिनो गृहे आतिथ्यार्थमागतायास्मै स्नातकायापचितिं पूजां मधुपर्कअख्यां कुर्वते कुटुम्बिनः ।
बहुवचनं चानुपादेयगतत्वादविवक्षितम् ।
अत एवोत्तरत्र प्राहैत्येकवचनम् ।
तत्तत्र गृहे तैर्दत्ते कूर्च उपविशति ।
<यथापुरस्तात्> उपनयने आचार्यःऽराष्ट्रभृदसिऽइति यजुषा उपविशति तथा उपविशेदित्यर्थः ॥२॥
२ राजस्थपत्योरुपवेशनमन्त्रः ।
एवमुत्तराभ्यां यथालिङ्गं राजा स्थपतिश्च ॥ आपस्तम्बगृह्यसूत्र १३.३ ॥
टीकाः
अनुकूलावृत्ति १३.३
<एवंराजा स्थपतिश्च> यथा ब्राह्मणः स्नातकः कूर्चे उपविशति ।
यथालिङ्गमाचार्यासन्दीति ।
एवं राजा स्थपतिश्च पूज्य मानौ <उत्तराभ्यां>यजुर्भ्या यथालिङ्गमुपविशतः ।
तत्र क्षत्रियो राष्ठ्राधिपतिरभिष्क्तो राज्याय साम्राज्यं तस्य लिङ्गम् ।
स एव जनाधिपतिः ।
स्थापत्त्यायाभिषिक्तः<स्थपतिः ।>
आधिपत्यं तस्य लिङ्गम् ।
उत्तराभ्यां राजा स्थपतिश्चेत्येव सिद्धेऽएवंऽऽयथालिङ्गऽ मित्युच्यतेयथा प्रथमस्य मन्त्रस्य लिङ्गात्विनियोगः एवमुत्तरयोरपि प्रज्ञापनार्थम् ।
तेन प्रथमो मन्त्रो ब्राह्मणस्यैव भवति ।
आचार्या सन्दीति लिङ्गात् ।
ब्राह्मण आचार्यः स्मर्यत इतिचोक्तत्वात् ।
तेन क्षत्रियवैश्ययोः तूष्णीमुपवेशनम् ।
तत्रा"चार्यायर्त्विजे श्वशुराय राज्ञ"इति रज्ञोऽपचितिः ।
अधिपतेस्तु श्वशुरत्वेनापचितिः ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.३
यथा ब्राह्मणः पूज्यो मन्त्रेणोपविष्टः,<एवं राजा स्थपतिश्चोत्तराभ्यां>यथालिङ्गंऽराष्ट्रभृदसि सम्राडासन्दीऽइति राजा,ऽ राष्ट्रभृदस्याधिपत्न्यासन्दीऽइति स्थपतिश्चोपविशेदित्यर्थः ।
राजा च क्षत्रिय एव, न तु प्रजापालनकर्तान्यवर्णोऽपि ।
ननु क्षत्रिये राजशब्दप्रयोग आन्ध्राणां, भार्याणां तु प्रजापालनादिकर्र्तयेव, तत्कथं बलवदार्यप्रयोगबाधेन राजा क्षत्रिय एवेति?मैवम् ।
आर्यवरस्य भगवतः पाणिनेः गणपाठेऽराजासेऽइति विशेषस्मरणस्यान्ध्रप्रयोगमूलत्वमेव युक्तमिति अवेष्ट्यधिकरणे साधितत्वात् ।
स्थपतिश्च महदाधिपत्यं प्राप्तोऽन्यवर्णोऽपि ।
अन्येवैश्यः स्थपतिरिति ।
केचित्तुक्षत्रिय एव राज्याभिषिक्त इति ॥३॥
३ पद्यनिवेदनम् ।
आपः पाद्याऽइति प्राह ॥ आपस्तम्बगृह्यसूत्र १३.४ ॥
टीकाः
अनुकूलावृत्ति १३.४
अथ मधुपर्कप्रदाता पादप्रक्षालनार्थ अप उपसंगृह्यऽ<आपः पाद्याऽ>इति प्राह ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.४
अथ अपचेता पादप्रक्षालनार्था अप उपसङ्गृह्यऽआपः पाद्याःऽइति प्राह ।
एतच्च सम्वादवचनं अनन्तरं यत्कर्तव्यं तत्कुर्वित्येवमर्थम् ।
एवमेव प्रयोजनंऽअर्हणीया आपःऽइत्यादिष्वपि ॥४॥
४ प्रक्षालयित्रे पादप्रसारणम् ।
उत्तरयाभिमन्त्र्य दक्षिणं पादं ब्राह्मणाय प्रयच्छेत्सव्यं शूद्राय ॥ आपस्तम्बगृह्यसूत्र १३.५ ॥
टीकाः
अनुकूलावृत्ति १३.५
अथ पूज्यमानस्ता अपः उत्तरयर्चा"आपः पादावनेजनी"रित्ये तयाभिमन्त्र्य प्रक्षालयित्रेऽ<ब्राह्मणाय> दक्ष्णं पादं <पूर्व प्रयच्छेत्> प्रसारयेत् ।
<सव्यं शूद्राय>क्षत्रियवैश्याभ्यामनियमः ।
पुंलिङ्गस्याविवक्षितत्वात् ।
स्त्रीष्वप्येवम् ।
ऽस्त्री प्रक्षालयति पुमानभिषिञ्चति ।
विपरीतमेकेऽ(बौ.गृ१२)इति कल्पान्तरम् ।
पत्नीयजमानौ जङ्घे धावत इति यज्ञे विशेषः ।
आपः पाद्या इति प्रकरणादेव सिद्धे पादग्रहणमुत्तरत्र पादप्रत्ययो माभूदित्येवमर्थम् ।
तेन प्रक्षालयित्रुपस्पर्शन पादे न भवति ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.५
अथ पूज्यस्ता अपःऽआपः पादावनेजनीःऽइत्येतयाभिमन्त्र्य प्रथमं<दक्षिणं पादं ब्राह्मणाय>प्रक्षालयित्रे <प्रयच्छेत्> ।
शूद्राय तु पूर्व सव्यम् ।
अत्र ब्राह्मणशूद्रावेव प्रक्षालयितारौ, न तु राजन्यवैश्यौ॑तयोरनभिधानात् ।
अन्ये तुक्षत्रियवैश्याभ्यां अनियमेन पूर्व पादं प्रयच्छेदिति ॥५॥
५ प्रक्षालयितुरुपस्पर्श आत्माभिमर्शश्च ।
प्रक्षालयितारमुपस्पृश्योत्तरेण यजुषाऽत्मानं प्रत्यभिमृशेत् ॥ आपस्तम्बगृह्यसूत्र १३.६ ॥
टीकाः
अनुकूलावृत्ति १३.६
तथा स्वेन हस्तेनावनेक्तुः पाणी संस्पृशे (बौ.गृ१२)दिति कल्पान्तरम् ।
<उत्तरेण यजुषा>ऽमयि महःऽइत्यनेन प्रतीचीन मभिमर्शनम् ।
तच्च हृदयदेशे भवति ।
आत्मनः स्थानं हि तत् ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.६
ततः प्रक्षालितपादस्तं प्रक्षालयितारं पाणावुपस्पृश्यऽमयि महःऽइति यजुषा आत्मानं हृदयदेशे प्रत्यभिमृशेत्प्रतिलोमेन पाणिना स्पृशेत् ।
ततोऽपामुपस्पर्शनम् ॥६॥
६ अर्ध्यनिवेदनम् ।
कूर्चाभ्यां परिगृह्य मृन्मयेनार्ऽहणीया आपऽइति प्राह ॥ आपस्तम्बगृह्यसूत्र १३.७ ॥
टीकाः
अनुकूलावृत्ति १३.७
ततः प्रदाता मृण्मये पात्रे उपनीता अपः<कूर्चाभ्या>मधस्तादुपरिष्टाच्च परिगृह्यऽअर्हणीया आपऽइति प्राह निवेदयति ।
पुष्पाक्षतैस्संयुक्ता इति कल्पान्तरम् ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.७
अथार्हयिता मृन्मये पात्र अर्हणार्थाः पुष्पाक्षतसंयुक्ताः अप आनीय, कूर्चाभ्यामधस्तादुपरिष्टाच्च परिगृह्यऽअर्हणीया आपःऽइति प्राह ॥ ७ ॥
७ तदेकदेशस्य पूज्याञ्जलावानयम् ।
उत्तरयाभिमन्त्र्याञ्जलावेकदेश आनीयमान उत्तरं यजुर्जपेत् ॥ आपस्तम्बगृह्यसूत्र १३.८ ॥
टीकाः
अनुकूलावृत्ति १३.८
अर्हणीया अपः निवेदिता<उत्तरया>ऽआमागऽन्नित्येतया अभिमन्त्रयते ।
पूज्यमानस्ततोऽञ्जलिं कृत्वा हस्तेन ततस्तस्याञ्जलौ
एतासामेकदेशमानयति प्रदाता ।
तस्मिन्ना<नीयमाने उत्तरं यजुः>ऽविराजो दोहोऽसीऽत्येतत्<जपेत्>पूज्यमानः ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.८
अथ पूज्यस्ता अपःऽआमागन्ऽइत्येतयाभिमन्त्र्य तासामेकदेशे स्तोके स्वाञ्जलौ दात्रा<आनीयमाने>ऽविराजो दोहीऽसिऽइति यजुर्जपेत् ॥८॥
शेषं पुरस्तान्निनीयमानमुत्तरयानुमन्त्रयते ॥ आपस्तम्बगृह्यसूत्र १३.९ ॥
टीकाः
अनुकूलावृत्ति १३.९
अथ तासामपां शेषं पृर्वस्यां दिशि नयति प्रदाता ।
तत्नीयमानं<उत्तरयर्चाऽ> समुद्रं वऽइत्येतयाभिमन्त्रयते पूज्यमानः मानः ।
एतस्मिन्काले वस्त्रयुगलं कुण्डलयुगं गां स्रजं यच्चान्यदलङ्करणार्थ तत्सर्व दद्यात् ।
भोजनान्त इत्यन्ये ।
तत्सर्वमपचितिशब्देन चोदितं द्रष्टव्यम् ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.९
अथ तासां शेषं दात्रा पुरस्तात्नीयमानं पूज्यःऽसमुद्रं वःऽइत्येतया अनुमन्त्रयते ।
केचितस्मिन् काले भोजनान्ते वा पूज्याय वस्त्रकुण्डलयुगाद्यालङ्करणं दातव्यम्॑न्यथायं पूजित एव न भवति ।
एतच्चाप चिति शब्देनास्माकमपि चेदितमेवेति ॥९॥
८ मधुपर्कदानम् ।
दधि मध्विति संसृज्य कांस्येन वर्षीयसा पिधाय कूर्चाभ्यां परिगृह्यऽमधुपर्कऽइति प्राह ॥ आपस्तम्बगृह्यसूत्र १३.१० ॥
टीकाः
अनुकूलावृत्ति १३.१०
<वर्षीयसा> बृहता कांस्येन पात्रेण मधुपर्क प्राह ।
कांस्येन वर्षीयसा पिधायेत्येवमपि सम्बन्धः ।
तेनोभयोः पात्रयोः कांम्य नियमः सिद्धो भवति ।
इतिशब्दः प्रकारेदधि मध्विति वा पयो मध्विति वेति ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.१०
दधि मध्वित्येतद्द्वयं नियमविधानात्कस्मिश्चित्पात्रे संसृज्य, ततो वर्षीयसा बृहता कांस्येन पात्रेण पिधाय ।
शेषं व्यक्तम् ।
अन्ये तु अपिधानं कांस्यं प्रदर्शनार्थम्, तेनेतरदपि कांस्यमेवेति ॥१०॥
९ मधुपर्कद्रव्याणि ।
त्रिवृतमेके घृतं च ॥ आपस्तम्बगृह्यसूत्र १३.११ ॥
टीकाः
अनुकूलावृत्ति १३.११
त्रयाणां द्रव्याणां समुदायः<त्रिवृत्> ।
पूर्वोक्ते द्वे दधि मध्विति वा पयो मध्विति वा,घृतञ्च तृतीयम् ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.११
त्रयाणां द्रव्याणां समाहारस्त्रिवृच्छब्देनोच्यते ।
तस्मिन् पक्षे पूर्वोक्ते दधिमधुनी घृतं च संसर्जनीयानि ॥११॥
पाङ्क्तमेके धानास्सक्तूंश्च ॥ आपस्तम्बगृह्यसूत्र १३.१२ ॥
टीकाः
अनुकूलावृत्ति १३.१२
पञ्चानां द्रव्याणां समुदायः<पाङ्क्तम् ।
>दधि मधु घृतं धानास्सक्तवः इति ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.१२
इहापि पञ्चानां समुदायः पाङ्क्तः ।
शेषं पूर्ववत् ॥१२॥
१० मधुपर्कप्राशनम् ।
उत्तराभ्यामभिन्त्र्य यजुर्भ्यामप आचामति पुरस्तादुपरिष्टाच्चोत्तरया त्रिः प्राश्यानुकम्प्याय प्रयच्छेत् ॥ आपस्तम्बगृह्यसूत्र १३.१३ ॥
टीकाः
अनुकूलावृत्ति १३.१३
अथ तं मधुपर्कमुत्तराभ्यामृग्भ्यांऽत्रय्यै विद्यायै,ऽआमागन्निऽत्येताभ्यामभिमन्त्र्य पूज्यमानः प्रतिगृह्णाति ।
पाद्यादीनामभिमन्त्र्य प्रतिग्रहदर्शनात्मधुपर्कस्याभिमन्त्र्य प्रतिग्रहः, न प्रतिगृह्याभिमन्त्रणम् ।
ततस्तंऽयन्मधुनऽइत्येतया त्रिः प्राश्नाति ।
सकृन्मन्त्रेण द्विस्तूष्णीम् ।
ततः प्राशनस्य पुरस्तादुपरिष्टाच्च यजुर्भ्यामनन्तरपठिताभ्या"ममृतोपस्तरणमस्यमृतोपिधानमसीऽत्येताभ्यां यथाक्रमं अप आचामति ।
तत्र प्रयोगः अमृतोपस्तरणसीत्युपस्तरणीया अप आचम्य मधुपर्क मन्त्रेण प्राश्याचम्य एवं द्विस्तूष्णीं प्राश्यापिधानीया अप आचामति ।
पश्चात्शौचार्थमाचमनम् ।
<शेषं> मधुपर्कप्राशनशेषं<अनुकम्प्याय>अनुग्राह्याय पुत्राय भ्रात्रे वा समावृत्तायैव प्रयच्छेत् ।
सोऽपि तं प्राश्नाति ।
सोमभक्षणे मधुपर्कप्राशने भोजने च मध्ये नोच्छिष्टतेति शिष्टाः स्मरन्ति ॥१३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.१३
अथ पूज्यस्तं मधुपर्क प्रतिगृह्यापिधानपात्रमपनीयऽत्रय्यै विद्यायैऽऽआमागन् यशशाऽइति द्वाभ्यामभिम्नत्र्य ।
ऽअमृतोपस्तरणमसिऽ इति यजुषा<पुरस्तात्प्रा>शनादपः पिबति ।
तत आचम्यऽयन्मधुनो मधव्यम्ऽइत्यनया त्रिः प्राश्नाति ।
द्विस्तूष्णीम् ।
ततःऽअमृतापिधानमसिऽ इति यजुषा<उपरिष्टादप्यपः>पिबेत् ।
अताचम्य शेषमनुकम्प्याय अनुग्राह्याय पुत्राशिष्यादये समावृत्तायैव प्राशितुं<प्रयच्छेत्॑> न तु ब्रह्मचारिणे,ऽन चास्मै श्रुतिविप्रतिषिद्धमुच्छिष्टं दद्यात्ऽ(आप.ध.१४५) इति निषेधात् ।
नन्विह मध्ये शुद्ध्यर्थमुपस्तरणानन्तरमाचमनं न कर्तव्यम्॑स्माकं वचनाभावात् ।
न्यायतेऽपि नैव॑भोजनवदपिधानान्तमेक कर्मत्वात् ।
अपरथा भोजमेऽपि प्रतिग्रासमाचमनं प्रसज्येत ।
अथ सर्वदेशकालकर्तृव्याप्ताचारबलात्तत्कर्तव्यमिति चेत्, न॑यमाचार उक्तलक्षणो न वेत्यर्वाचीनानां दुर्निश्चेयत्वात् ।
अत्रोच्यतेनायमाक्षेपः बोधायनादिगृह्येषूपस्तरणानन्तरमाचमनविधिदर्शनेनास्माकमप्याचारः सर्वदेशादिव्यापीति निश्चेतुं सुशकत्वात् ।
उक्तं चैतत्"अथ कर्माण्याचाराद्यानिऽ(अप.गृ.११) इत्यत्र गार्ह्यअणीति स्वशब्दं विहाय, आचारादित्युपलक्षणतो व्याख्येयगार्ह्यकर्मनिर्देशात्, गृह्यान्तराद्युपदिष्टविषयोऽप्यस्मदीयानामाचारो वेदमूल एवेति ।
भोजने तु न प्रतिग्रासमाचमनप्रसक्तिः॑क्वचिदपि वचनाभावात्, आचाराभावाच्च ।
सोमपाने पुनःऽन सोमेनोच्छिष्टा भवन्तिऽइति वचनादन्तेऽपि नैवाचमनम् ।
अपि चैतदाचमनम्
शिकाबन्धनादिवत्कर्तुः संस्कारकम्, सन्निपाति च अनुक्तमप्यपेक्षितमन्यतो ग्राह्यमिति न्यायविदः ।
तस्मादिहोपस्तरणानन्तमाचमनं कार्यमेव ।
केचित्बौधायनादिभिरुपस्तरणापिधानयोस्तदर्थानां चापां निवेदनस्य पृथगुपदेशातुपस्तरणादूर्ध्वमाचमनविधानाच्च उपस्तरणादेः
बहिरङ्गत्वेन कर्मान्तरत्वावगतेर्युक्तं तेषां प्राशनात्त्प्रागप्याचमनम् ।
अस्माकं तु तथाविधोपदेशाभावात्, अन्तरङ्गत्वेन उपस्तरणाद्य पिधानान्तं भोजनवदेकं कर्मेति मध्ये सुद्ध्यर्थमाचमनं न युक्तमिति ।
मैवम्॑यतोऽस्माकमपिऽयजुर्भ्यामप आआचामतिऽइति शब्दान्तरेणाचमनयोः पृथगोवोपदेशः ।
अस्मादेव पृथगुपदेशात्तदर्थानामपामावेदनं चाक्षेप्यम् ।
अतोऽस्माकं तेषां चोपदेशे वैषम्य भावात्तुल्ययोगक्षेममेवाचमनम् ॥ १३ ॥
११ मधुपर्कप्रतिग्रहीता राजा स्थपतिर्वा चेत्तेन तस्य पुरोहिताय दानम् ।
प्रतिगृह्यैव राजा स्थपतिर्वा पुरोहिताय ॥ आपस्तम्बगृह्यसूत्र १३.१४ ॥
टीकाः
अनुकूलावृत्ति १३.१४
एवकारात्प्राशनमकृत्वा पुरोहिताय प्रदानम् ।
स विधिवत्प्राश्नाति ॥१४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.१४
<राजा स्थपतिश्च>मधुपर्क<प्रतिगृह्यैव पुरोहिताय> प्रयच्छेत् ।
एवकारादभिमन्त्रणमकृत्वा ।
अभिमन्त्रणादि तु प्रशनान्तं पुरोहितस्यैव ।
प्राशनान्तं पुरोहितस्यैव ।
पुनश्चोत्तरं कर्म राजादेरेव ॥१४॥
१२ गोनिवेदनम् ।
गौरिति गां प्राह ॥ आपस्तम्बगृह्यसूत्र १३.१५ ॥
टीकाः
अनुकूलावृत्ति १३.१५
अथाचाम्योपविष्टाय गां निवेदयतेगौरिति ।
स्त्री च गौर्भवति, गौर्धनुभव्येति दर्शनात् ।
यद्वा पुमानपि भवति ।
श्रूयतोहि
"तद्यथैवादो मनुष्यराज आगतेऽन्यस्मिन् वार्ऽहति उक्षाणं वेहतं वा क्षदन्ते"इति ।
(ऐ.ब्रा.१३४) एवमर्थमेवात्र गामित्युक्तं गोजातिमात्रस्य न्वेदनं यथा स्यात्. अन्यथा गौरिति प्रहेत्येतावता सिद्धं यथा पाद्यदिषु ॥१५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.१५
प्राशने कृते दाताऽगौःऽ<इति गां प्राह>कथयति ।
गैश्च स्त्री,ऽगौर्धेनुभव्याऽइति स्त्रीलिङ्गनिर्देशात् ।
एतच्च कथनं, किमियं गौस्संज्ञप्यतामुत्सृज्यतां वा?इति पूज्याभिप्रायनिश्चयार्थम् ।
स च स्वाभिप्रायं दीतुर्ब्रूयात् ॥१५॥
१३ गोर्वपां श्रपयित्वा तस्याः पलाशपर्णेन होमः ।
उत्तरयाभिमन्त्र्य तस्यै वपां श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेनोत्तरया जुहोति ॥ आपस्तम्बगृह्यसूत्र १३.१६ ॥
टीकाः
अनुकूलावृत्ति १३.१६
अनुजानीयदित्यध्याहारः ।
कल्पान्तरे तथा दर्शनात् ।
ओंकुरुत्ति कारयिष्यननुजानीयादिति ।
प्रोक्तायां गवि तां<उत्तरया>ऽगौरस्यपहतपाप्मेऽत्येतया पूज्यमानोऽभिमन्त्र्य ।
यद्यस्य आलम्भनमिच्छननुजानीयात् ।
यद्यप्येक एवार्र्धचस्समाम्नायते तथापि स्त्रीलिङ्गनिर्देशादृगेवैषागायत्री ।
तत्रामुष्येत्यस्य स्थाने प्रदातुर्नामनिर्देशः मम च यज्ञशर्मणश्चेति ॥१६॥
ततः प्रदाता तेनासम्भनेऽनुज्ञाते लौकिक्याऽवृता तस्या गोरालम्भं कृत्वा वपामुत्खिद्य वपाश्रपणीभ्यां परिगृह्य औपासने पचने वा
<श्रपयित्वा तामुपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेनोत्तरयर्चाऽ> <ग्निः प्रा>श्नात्विऽत्येतया तस्मिन्नेवाग्नौ <जुहोति ।>
<उपस्तीर्याभिघारितामिति>उपस्तरणाभिघारणे कृत्वेत्यर्थः ।
हुत्वा ततो मांसं संस्कृत्यान्नेन सह तस्मा उपहरन्ति ।
ऽअविकृतमातिथ्यऽमिति वचनातुपस्तरणाभिघारणयोरप्रसङ्गे वचनम् ।
पलाशपर्णेनेत्येव सिद्धे मध्यमेनान्तमेनेतिवचनं द्विपर्णस्य पलाशवृन्तस्य पर्णेन होमो मा भूदिति ।
अभावविकल्पार्थ वा पूर्व मध्यमेन तदभावे अन्तमेनेति ॥१७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.१६
यदि प्रतिहीता संज्ञपनमिच्छेत्, तदाऽगौरस्यपहतपाप्माऽइत्येतयानवसानया गामभिमन्त्रयते ।
अमुष्येत्यस्य स्थाने चार्हयितुर्नाम विष्णुशर्मण इति गृह्णाति ।
ततस्सुकमासीत ।
दातुरेव वपाहोमान्तं कर्म ।
अभिमन्त्र्येति च क्तवाप्रत्ययः क्रियाविधान मात्रार्थ एव, न तु समानकर्तृकत्वार्थः ।
<तसायै>तस्याः संज्ञपनं कृत्वा, वपामुत्थिद्य,<श्रपयित्वा, मध्यमेनान्तमेन वा पलाशपर्णेन> लौकिकेनाज्येनोपस्तीर्य कृत्स्नां वपां सकृदेवावदायाभिघार्यऽअग्निः प्राशनातुऽइत्येतया तेन पर्णेन स्वागेनौ <जुहोति ।>
तत्र च मध्यमेनान्तमेन वेति वचनं द्विपर्णप्रतिषेधार्थमभावविकल्पार्थ वा ।
शिष्टैश्चावदानैस्संस्कृतैस्सहान्नं भोजयेत् ।
अयं च संज्ञपनपक्षः कलियुगानाचारेषु पठितत्वादिदानीं त्याज्य एव ॥१६॥
१४ गोरुत्सर्गपक्षे कर्तव्यः प्रकारः ।
यद्युत्सृजेदुपांशूत्तरां जपित्वोमुत्सृजते त्युच्चैः ॥ आपस्तम्बगृह्यसूत्र १३.१७ ॥
टीकाः
अनुकूलावृत्ति १३.१७
अथ यदि गामुत्सृजत्ययं पूज्यमानः स गौरिति प्रोक्ते मन्त्रानुत्तरांश्चतुरोऽयज्ञे वर्धताऽमित्युपांशु जपति ।
जपित्वाऽओमुत्सृजतेऽ<त्युच्चैः>प्रसौति ।
प्रदाता च तामुत्त्सृज्यान्यत्मांसं कल्पयति,ऽनामांसो मधुपर्को भवतीऽ(आश्व.गृ.१९२८) तु कल्पान्तरात् ।
तत्र पुङ्गवालम्भे गौर्धनुभव्यामातारुद्राणामेतयोर्लोपः लिङ्गविरोदात्, नेत्यन्ये ।
जपत्वादेव सिद्धे उपांशुवचनं नियमार्थमुत्तरे चत्वार एव मन्त्राः
उपांशु वक्ततव्याः ।
न प्रणव इति ।
शास्त्रान्तरदर्शनात्प्रसङ्गः ।
प्रणवद्युच्चैः, ऊर्द्व वा प्रणवातिति ।
तेन ब्रह्मणः एवैष विकल्पः सिद्धो भवति ।
इहप्रसवांविध्रभावेऽपि उत्यैरिति वचनादेव प्रसौतिर्द्रष्टव्यः ॥१८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.१७
यदि पूजेयो गामुत्सृज्यमानामिच्छेत् ।
अयं च कामप्रवेदने लिङ् ।
तदोत्तरान् त्रीन्मन्त्रान्ऽयज्ञो वर्धताम्ऽइत्यादिकानु<पांशु> <जपित्वाऽ> <ओमुत्सृजतऽ> <इत्युच्चैः>प्रब्रूयादिति शेषः ।
केचित्यज्ञ इत्यादिकाश्चत्वारो मन्त्रा इति ।
इयं च गौरुत्सर्जनपक्षेऽपि भोक्तुरेव ॥ १७ ॥
१५ अन्ननिवेदनम् ।
अन्नं प्रोक्तमुपांशूत्तरैरभिमन्त्र्य ओं कल्पयते त्युच्चैः ॥ आपस्तम्बगृह्यसूत्र १३.१८ ॥
टीकाः
अनुकूलावृत्ति १३.१८
अथान्नं सामिषं समाहृत्य तस्मे प्राहभूतमिति ।
सिद्धेऽन्ने भूतमिति प्राह (बौ.गृ१२५५) इति कल्पान्तरम् ।
अस्माकं च वैश्वदेवे ।
तस्मात्भूतमित्येव निवेदनम् ।
तदन्नं पेरोक्तमुत्तरैः पञ्चभिर्मन्त्रैर्भूतमित्यादिभिः भोक्तोपांश्वभिमन्त्र्य ओंकल्पयतेत्युच्चैः प्रसौति ।
प्रसूताः परिवेष्टारः परिवेषन्ति चतुरो नानागोत्रान् ब्राह्मणान् भोजयतेति ब्रूयेत्तोषु भुक्तवात्स्वन्नमस्मा उपाहरन्तीति (बौ.गृ.१२) कल्पान्तरम् ॥१९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.१८
अथ दाता सिद्धमन्नंऽभूतंऽइति मन्त्रेण पूज्याय प्रब्रूयान्निवेदेत् ।
कुत एतत्?ऽसिज्झेऽन्ने तिष्ठन् भूतमिति स्वामिने प्रब्रूयात्ऽ (आप.ध.२३१०) इति वैश्वदेवे दर्शनात् ।
मधुपर्कप्रकरण एवऽसिद्धेन्ने तिष्ठन् भूतमिति प्राहऽइति कल्पान्तराच्च ।
एवं प्रोक्तमन्नं भोक्ता
उत्तरैर्मन्त्रैःऽसुभूतम्ऽइत्यादिभिः पञ्चभिरुपांश्वभिमन्त्र्य,<ओं कल्पयतेत्युच्चैः ।>
अत्राप्यनुजानीयांदिति शेष ।
ततो भोजनं ॑न्ननिवेदनस्य दृष्टार्थत्वात्, आचाराच्च ॥१८॥
१६ मधुपर्करहअः ।
आचार्यायर्त्विजे श्वशुराय राज्ञ इति परिसंवत्सरादुपतिष्ठद्भ्य एतत्कार्यम् ॥ आपस्तम्बगृह्यसूत्र १३.१९ ॥
टीकाः
अनुकूलावृत्ति १३.१९
आचार्यादयः प्रसिद्धाः ।
तेभ्यश्चतुर्भ्यः परिसंवत्सरं विप्रेष्योपतिष्ठद्भ्यः गृहमातिश्येनागतेभ्यः एतदपचित्कर्म कूर्चादि भोजनान्तं कर्तव्यम् ।
केन?गृहस्थेन ।
निवेशे हि वृत्ते नैयमिकानि?श्रूयन्ते अग्निहोत्रमतिथयः इति वचनात् ।
अत्र केचिदाहुः
आचार्यायर्त्विजे श्वशुराय राज्ञ इत्येतत्कार्यम् ।
इत्येको योगः ।
अथ परिसंवत्सरादुपतिष्ठद्भ्यश्चायं कार्यः इति ।
तेन विवाहाद नन्तरं आचार्यश्वशुराभ्यां निमन्त्र्यापचितिः कर्तव्या ।
ऋत्विजे च कर्मणि, राज्ञे चाभिषेकानन्तरम् ।
अथ तेभ्य एव संवत्सरं विप्रो ष्योपगतेभ्यश्च कर्तव्यमिति ॥२०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.१९
यदेतदर्हणं कूर्चादि भोजनान्तं गृहस्थेन स्नातकाय स्नानदिवस एवागताय कर्तव्यमिति विहितं, तदाचार्यादिभ्यःपरि<संवत्सरात्>संवत्सरादूर्ध्व गृहमुपतिष्ठद्भ्यः उपागतेभ्यः पुनः पुनः कार्य॑न तु स्नातकवत्सकृत् ।
न चाप्यर्वाक्संवत्सरात् ।
अत्र चेतिशन्दश्चार्थः ।
ननु धर्मशास्त्रेऽगोमधुपर्करहो वेदाध्यायः ।
आचार्य ऋत्विक्स्नातको राजा वाधर्मयुक्तः ।
आचार्यायर्त्विजे श्वशुराय राज्ञ इति परिसंवत्सरादुपतिष्ठद्भ्यो गौर्मधुप४ अश्च ।
दधिमधुसंसृष्टं मधुपर्कः पयो वा मधुसंसृष्टम् ।
अभाव उदकम्, (आप.ध.२८५...९) इति स्नातकायाचार्यायर्त्विजे उपाध्यायाय श्वशुराय राज्ञे च दक्षिणार्थगवा सह मधुपर्को विहितः ।
किमर्थमिह पुनर्विधीयते?उत्यते इह विकल्पेन विहितस्य त्रिवृतः पाङ्क्तस्य च तस्मिन् गोमधुपर्के अवेदाध्यायाय श्वशुराय च दीयमाने च प्राप्त्यर्थम् ।
यत्तु तत्रैवऽगौर्मधुपर्कश्चऽइति पुनर्वचनं, तदाचार्यर्त्विदाध्यायश्वशुरराजभ्य एव परिसंवत्सरादुपतिष्ठद्भ्यः पुनः पुनः कार्यम्, स्नातकवेदाध्यायतिथिभ्यस्तु सकृदेवेत्येवमर्थम् ॥१९॥
सकृत्प्रवक्त्रे चित्राय ॥ आपस्तम्बगृह्यसूत्र १३.२० ॥
टीकाः
अनुकूलावृत्ति १३.२०
सकृत्न प्रतिवतसरं कलौ गोरालम्भ्स्य न्षेधाद्रौरित्युत्त्का यज्ञो वर्धतामित्यादि जपेत्मध्यमन्त्रलोपः)प्रवक्त्रे वेदस्य वेदार्थस्य च चित्राय प्रसिद्धाय भिन्नसंशयायेत्यर्थः ।
एवं भूतायोपस्थिताय सकृदेतदपचितिकर्म कर्तव्यं, न प्रतिसंवत्सरमिति ॥२१॥________________________
गृह्यतात्पर्यदर्शनव्याख्या १३.२०
प्रवक्ता यः पदवाक्यप्रमाणाभ्यां प्रकर्षेण वक्ति साधुशब्दानामुच्चारयिता, प्रमाणोपंपन्नं व्याख्याता चेत्यर्थः ।
चित्रः प्रकाशः लोके प्रसिद्ध इत्यर्थः . इदं प्रवक्तुरेव विशेषणम् ।
तस्मै सकृदेवैतत्गार्ह्य गेरहितं कार्यम् ।
अयं च प्रवक्ता न वेदाध्यायः ।
स हि गोमधिपर्करहः ।
यस्सषडङ्गं वेदमधीते, अर्थाश्च जानाति स वेदाध्यायः ।
ननुसामयाचारिके गोमधुपर्के धर्मा नोपदिष्टाः, स कथं कर्तव्यः?उच्यतेनामधेयं धर्मग्राहकम्ति मीमांसकाः ।
तेन गृह्ये याज्ञिकप्रसिद्ध्या मधुपर्कसंशिके कर्मणि उपदिष्टा एव धर्माःऽगोमधिपर्करहःऽइत्यत्र मधुपर्कनाम्ना अतिदिश्यन्ते,ऽमासमग्निहेत्रं जुहोतिऽइतिवत् ।
ऽदधिमन्थो मधुमन्थःऽ(मधुपर्कः)(आप. श्रौ.६३२५) इत्यत्र तु दक्षिणाद्रव्यस्य कर्मवद्धमार्कअङ्क्षा भावान्नातिदेशः ।
अत्र च वेदाध्यायातिथिपूजायामयं विशेषः,ऽदधिमधुसंसृष्टं मधुपर्कःऽइति प्रत्यक्षविधानादतिदेशप्राप्तं त्रिवृत्त्वं पाङ्क्तत्वं च बाध्यत(आप.श्रौ.२८८) इति ।
अयमत्र निश्चितोर्ऽथः आचार्यायर्त्विजे वेदाध्यायाय श्वशुराय राज्ञे च दक्षिणार्थाधिकगवा विना गार्ह्यः सामयाचारिको वा मधिपर्कः कार्यः ।
परिसंवत्सरादिपागतेभ्यः पुनः पुनः कार्यः ।
अवेदाध्यायाय श्वशुरायाधिकगवा विना गार्ह्यः
अतिथिवरापचितेभ्यो वेदाध्यायेभ्यः सह गवा धर्मोक्तः ।
अवेदाध्यायाभ्यां तु वरापचिताभ्यां स्नातकाय च स्नानदिन एवागताय गवा विना गृह्योक्तो धर्मोक्तो वा ।
प्रकाशाय च प्रवक्त्रे विना गवा गार्ह्यः ।
आचार्यादिभ्यश्चतुर्भ्योऽन्येषां सकृदेवेति ।
केचितत्र योगविभागमाहुः ।
आचार्यादिभ्य॑चतुर्भ्य एतत्कार्यमित्येको योगः ।
तेन विवाहानन्तरमाचार्यश्वशुराभ्यां निमन्त्र्यापि पूजा कार्या ।
अन्यथा संवत्सरमपि प्रोषिताभ्यां सकृदपि न सिध्येत् ।
ऋत्विजे च कर्मणि कर्मणि पूजा कार्या ।
राज्ञे चाभिषिक्ताय नियमेनैव ।
तथाऽपरिसंवत्सरादुपतिष्ठद्भ्यः पुनः पुनःऽइत्यन्यो योगः ।
स्पष्टश्चायं सामयाचारिकेषु विभागः,ऽगोमधुपर्करहःऽइति पूर्व विधाय, पश्चात्ऽआचार्यायऽइत्यादिना पुनर्विधानात् ।
पूर्वयोगे च श्वशुरशब्दो निपातयितव्यः ।
न चात्रान्य तरविध्यारम्भो व्यर्थः ।
सामयाचारिकेषु सर्वाचरणार्थेन विहितायां पूजायां, गार्ह्यस्यास्मदीयानां धर्मातिदेशार्थत्वात् ।
न च नाम्ना धर्मातिदेशः, गोमधुपर्कशब्दयोःऽमधुमन्थो मधुपर्कःऽ इतिवत्द्रव्याभिधायकत्वात् ।
अतोर्ऽथभेदात्गृह्ये धर्मे च विध्यारम्भोर्थवान् ।
तथा वेदस्य वेदार्थस्य च प्रवक्त्रे च्त्राय एतत्सकृत्कार्यमिति ।
तच्चिन्त्यम् ॥२०॥
इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने त्रयोदशः खण्डः ॥
पञ्चमश्च पटलस्समाप्तः ॥