आपस्तम्ब गृह्यसूत्राणि, हरदत्तस्य अनुकूला, सुदर्शनसूरेः तात्पर्यदर्शनम् च/अष्टमः पटलः

विकिस्रोतः तः

पटलः १

पटलः २

पटलः ३

पटलः ४

पटलः ५

पटलः ६

पटलः ७

पटलः ८


अथाष्टमः पटलः ॥
एकविंशः खण्डः ।
पुनरपि पाकयज्ञान्तरं पुरुषत्रयसम्प्रदानकं तादृशानामष्टकादीनां प्रकृतिभूतं मासिश्राद्धसंज्ञिकं पित्र्यं कर्मोपदिश्यते
२२ मासिश्राद्धप्रकरणम्
१ मासि श्राद्धकालः ।
मासि श्राद्धस्यापरपक्षे यथोपदेशं कालाः ॥ आपस्तम्बगृह्यसूत्र २१.१ ॥
(प.८.खं.,२११)
टीकाः
अनुकूलावृत्ति २१.१
<मासिश्राद्धं>नाम पित्र्यं कर्म मासि मासि कर्तव्यम् ।
तत्र येऽपरपक्षे कालविशेषाः सामयाचारिकेषूपष्टाः"प्रथमेऽहनिक्रियमाणे (आप.ध.२१६८) इत्यादयः अपरपक्षस्यापराह्णः श्रेया"(आप.श्रौ.२१६४)निति च ते सर्वे <यथोपदेशं>यथा तत्रोपदिष्टाः तथैव मासि मासि प्रत्येतव्याः ।
यद्यपि ते विशेषाः तस्मादेव वचनात्सिद्धाः तथापि तस्य कर्मणः प्रयोगविधानमित उत्तरं क्रियत इति ज्ञापनार्थमिदं वचनम् ।
अन्यथा ज्ञापयेत शुचीन्मन्त्रवतः इत्यादि कस्मिन् कर्मणि विधीयत इति ।
एवं तर्हि मासिश्राद्धस्यैतदेवाधिकारार्थमस्तु ।
तस्मादिदमस्य प्रयोजनम्मासपरिमाणमनपेक्ष्यापरपक्षवशएन पर्वकाला यथेपदेशं यथा स्युरिति ।
तेन पूर्वस्मिन् पक्षे पञ्चदश्यामकृतश्राद्धस्यापरस्मिन् पक्षे प्रथमादिषु सर्वासु तिथिषु क्रियाभवति तत्तत्कामस्य ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २१.१
<मासिश्राद्धस्य>मासे मासे श्रद्धया कर्तव्यस्य ।
<अपरपक्षे>कृष्णपक्षे ।
<यथोपदेशं>ऽसर्वेष्वेवापरपक्षस्याहस्सु क्रियमाणे पितॄन् प्रीणाति ।
कर्तुस्तु कालाभिनियमात्फलविशेषःऽ(आप.ध.२१६७) इत्यादिधर्णशास्त्रसिद्धोपदेशानुसारेण काला भवन्ति ।
ऽअपरपक्षे यथोपदेशं कालाः, इति पुनर्वचनस्य प्रयेजनंऽअपरपक्षे पित्र्याणिऽ(आप.गृ.१७) इत्यत्रोक्तम् ।
केचित्यस्यां तिथौ प्रथममुपक्रमस्तस्यामेवोत्तरे प्रयोग इति नियमो नास्ति॑कुन्ति पूर्णेऽपि मासे अपरपक्ष एव यथोपदेशं तिथ्यन्तरेऽपि नित्यः काम्यश्च प्रयोग इति ॥१॥
२ भोजनीया ब्राह्मणाः ।
शुचीन्मन्त्रवतो योनिगोत्रमन्त्रासम्बन्धानयुग्मांस्त्र्यवराननर्थावेक्षो भोजयेत् ॥ आपस्तम्बगृह्यसूत्र २१.२ ॥
(प.८.,खं.२१२)
टीकाः
अनुकूलावृत्ति २१.२
<शुचीन्>सुद्धान्<मन्त्रवतः>श्रुताध्ययनसम्पन्नान्ऽशुचीन्मन्त्रवतस्सर्वकृत्येषु भोजयेत्ऽ(आप.ध.२१५११)
इत्येव सिद्धे पुनर्वचनमादरार्थम् ।
ब्राह्मणान्<योनिसम्बन्धाः>श्वशुरमातुलादयः,<गोत्रसम्बन्धाः>समानगोत्राः<मन्त्रसम्बन्धाःऽ>ऋत्विगाचार्यान्तोवासिनश्च ।
गुणहान्यां तु परेषामिति वक्ष्यति ।
अयुग्मानिति युग्मप्रतिषेधार्थम् ।
<त्र्यवरानिति> एकप्रतिषेधार्थम् ।
"नत्वेवैकं सर्वेषाम् ।
काममनाद्ये"(आश्व.गृ४७३) इतियाश्वलायनः ।
अनाद्ये आमश्राद्धे दुर्भिक्षे वा कुले एकमपि भोजये दित्यर्थः ।
यद्यपि स्त्रीभ्योऽपि पिण्डदानं दृश्यते तथापि ब्राह्मणभोजनमिह तभ्यो न भवति ।
होमाभिमर्शनयोरदर्शनात् ।
विप्रतिषे धाच्च युग्मवचनस्य ।
तस्मात्पितृपितामहप्रपितामहेभ्य एव त्रिभ्यो ब्राह्मणभोजनम् ।
एकैकस्मै त्रयः पञ्च वा, कल्पान्तरे धर्मशास्त्रेषु च दर्शनात् ।
विश्वेभ्यो देवेभ्यो ब्राह्मणभोजनं युग्मसंख्यया ।
"मातामहानामप्येवं तन्त्रं वा वैश्वदैविक"(या.स्मृ.१२२८ मिति या५ अल्क्यः ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २१.२
शुचित्वादिगुणयुक्तान् ब्राह्मणान्, अनर्तावेक्षः प्रत्युपकारादिदृष्टप्रयोजनानवेक्षो, भोजयेदिति वाक्यार्थः ।
पदार्थस्तु शुचयो वाङ्मनः कायशुद्धाः ।
न च वाच्यं धर्मशास्त्रेऽशुचीन्मन्त्रवतस्सर्वकृत्येषु भोजयेत्ऽ(आप.ध.२१५११) इति सर्वार्थमुक्तत्वादिह पुनश्शुचित्ववचनमनर्थकमिति॑यतोऽल्पाविद्यानपि शुचीनेव भोजयेत्, तदभावे वरं क्रियालोपो, न त्वशुचीनित्येवं शुचीत्वादरार्तम् ।
मन्त्रवतो मन्त्रब्राह्मणवतः<योनिगोत्रमन्त्रासम्बन्धानित्यत्र>ऽद्वन्द्वात्परं श्रूयमाणः प्रत्येकमभिसम्बन्ध्यतेऽइति न्यायेन, योन्या असम्बन्धाः, गोत्रेणासम्बंधाः याज्ययाजकाध्येत्रध्यापयितारः ।
यत्तु धर्मशास्त्रेऽमन्त्रान्तेवास्यसम्बन्धान्ऽ(आप.ध.२१७४) इति
मन्त्रसम्बन्धव्यातिरेकेणान्तेवास्यसम्बन्धानित्युक्तं तदङ्गाध्येतृश्रोतृलक्षणमन्त्रसम्बन्धनिषेधाभिप्रायम् ।
ननुसामयाचारिकेष्वेव ब्रह्मणानां मन्त्रवत्त्वं योनिगोत्रमन्त्रासम्बन्धत्वं व सिद्धम्॑तदिहं किमर्थ पुनरुक्तम् ?उच्यतेनित्ये मासिश्राद्धे गृह्योक्तगुणानपि भोजयेत्नावश्यं धर्मोक्तान् ब्रह्मविदोन्तेवास्यसम्बन्धानित्येवमर्थम् ।
<अयुग्मा>विषमसङ्ख्याकाः ।
<त्र्यवराः>त्रित्वमवरं सङ्ख्या येषां ते <त्र्यवराः> ।
एतच्च पितृपितामहप्रपितामहविषयम् ।
ततश्च पित्रादीनां त्रयाणां प्रत्यकं त्रीन् पञ्च वा न पुनस्सप्तादीन्, द्वो दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा ।
भोजयेत्सुसमृद्धोऽपि न प्रसज्येत विस्तरे ॥
(म.स्मृ.३१३५) इति मनुवचनात् ।
नन्वस्मिन्मनुवचनेऽपितृकार्ये त्रीन्ऽइत्युक्त्वाऽन प्रसज्येत विस्तरेऽइत्युक्तं, तत्किमितिऽप्च वाऽइत्युक्तम्?उच्यतेअयुग्मांस्त्र्यवरानिति सूत्रकारवचनात् ।
एवं तर्हिऽएकैकमुभयत्र वाऽइति विरुद्धः ।
न॑तस्यानु कल्पत्वात् ।
अत्र यद्यपि मात्रादिभ्यः पृथगेव पिण्डदानदर्शनं, तथापि तासां पृथग्ब्राह्मणभोजनं न भवति, हेमाभिमर्सनयोः पृथक्त्वादर्शनात्, पितृमात्रर्थब्राह्मणसङ्ख्यासङ्कलने सत्ययुग्मत्वविरोधात्, आचाराबावाच्च ।
अपि च
अष्टकासु च वृद्धौ च गयायां च मृतेऽहनि ।
मातुश्श्राद्धं पृथक्कुर्यादन्यत्र पतिना सह ॥
इति मनुवचनादष्टकादिभ्योऽन्यत्र मासिश्राद्धादौ पृथक्त्वाभावस्स्पष्ट एवावगम्यते ।
इह च सूत्रकारभाष्यकाराब्यामनुक्तमपि विश्वदेवार्थ युग्मानां भोजनं कर्तव्यम्ऽद्वौ दैवेऽइति मनुयाज्ञवक्ल्याभ्यामुक्तत्वात्, पिशाचा राक्षसा यक्षा भूता नानाविधास्तथा ।
विप्रलुम्पन्ति सहसा श्राद्धमारक्षवर्जितम् ।
तत्पालनाय विहिता विश्वेदेवास्स्वयम्भुवा ॥
इत्यादि झागलेयवचनात्, अविगीतशिष्टाचाराच्च ।
यदा त्वेक एव ब्राह्मणो लभ्यते, तदा तं पित्राद्यर्थमेव भोजयेत्, प्रधानत्वात् ।
अङ्गभूतस्य तु वैश्वदेवस्य यद्येकं भोजयेच्छ्राद्धे दैवं तत्र कथं भवेत् ।
अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च ॥
देवतायतने कृत्वा तत्र श्राद्धं प्रकल्पयेत् ।
प्रास्येदग्नौ तदन्नं तु दद्याद्द्वा ब्रह्मचारिणे ॥
(व.११३०,३१) इति वसिष्ठोक्तविधिनानुष्ठानम् ।
ननु च
मातामहानामप्येवं तन्त्रं वा वैश्वदैविकम् ।
(या.स्मृ.१२२८०),
तथा
मातामहनामप्येवं श्राद्धं कुर्याद्विचक्षणः ।
मन्त्रोहेन यथान्यायं शेषं मन्त्रविवर्जितम् ॥
(वि.स्मृ.७५०)
तथैव
पृथङ्मातामहानां च वैश्वदेवसमन्वितम् ।
कुर्वीत भक्तिसम्पन्नं तन्त्रं वा वैश्वदैविकम् ॥
(वि.पु.३१५१६)
इति याज्ञवल्क्यविष्णुस्मृत्योः विष्णुपुराणे च विधिदर्शनात्मातामहश्राद्धमपि नित्यमेवावगम्यते ।
तत्किमिति सूत्रकारभाष्यकारौ न ब्रूतः?
उच्यतेनैव तत्रापि स्मृत्यन्तरेषु पित्र्यवत्सर्वस्यैव जीवतो द्विजस्यावश्यं मातामहश्राद्धमपि नियमेन कर्तव्यमिति विधित्सितम् ।
कृते
अभ्युदयः, ॰करणे न प्रत्यवाय इति ।
कस्य तर्हि नियमेन कर्तव्यमिति विधिरिति चेत्॑यः पुत्रिकाकृताया आसुरादिविवाहो ढाया वा पुत्रो मातामहेन सह मातुस्सापिण्ड्यं करोति, तस्य मातामहश्राद्धं नियतमेव, अकरमे च प्रत्यवायः ।
मासिश्राद्धे तु मातुः पृथक्
श्राद्धाभावान्मातामहश्राद्धांशभागित्वोपपत्तेः ।
अथ वा यो दौहित्रोऽपुत्रस्य मातामहस्याखिलार्तहारी तस्यैतच्छ्राद्धं नियतम् ।
यथाह लौगाक्षिः
श्राद्धं मातामहानां च अवश्यं धनहारिणा ।
दौहित्रेण विधिज्ञेन कर्तव्यं विधिवत्सदा ॥
इति ।
इममेवार्थ बारुचिरप्याह
ऽयस्मिन् पक्षे अपुत्रो मातामहः, पुत्रिकासुतश्चाखिलद्रव्यहारी, तस्मिन् पक्षे तस्य पिण्डदाननियमःऽइत्यादिना ग्रन्थेन ।
मातामहश्राद्धप्रयोगश्च स्मृत्यन्तरेभ्यो न्यायतस्च प्रत्येतव्यः ।
तस्मात्सर्वस्य धौहित्रस्य पित्र्यवत्कर्तव्यमेवेति नियमाभावत्सूत्रकारभाष्यकारौ न ब्रूतः ॥ २ ॥
३ अन्नहोमाः ।
अन्नस्योत्तराभिर्जुहोति ॥ आपस्तम्बगृह्यसूत्र २१.३ ॥
(प.८.खं.,२१३)
टीकाः
अनुकूलावृत्ति २१.३
उत्तराभिःऽयन्मे मातेऽत्यादिभिः स्त्रीलिङ्गनिर्देशादृग्बिस्सप्तभिः अन्नस्यैकदेशं जुहोति ।
ब्राह्मणभोजनार्त कल्पितादन्नादुद्धृत्य जुहोतीत्यर्थः ।
तत्रऽअमुष्माऽइत्यस्य स्थाने आदितो द्वयोः पितुर्नामनिर्देशः ।
मध्यमयोः पितामहस्य ।
अन्त्ययोः प्रपितामहस्य ।
"यदि द्विपिता स्यादेकैकस्मिन् पिण्डे द्वौ द्वावुपलक्षये"(आप.श्रौ.१२७)दिति न्यायेन द्विपितुर्द्वयोरुपलक्षणममुष्मा
अमुष्मा इति ।
अन्ते स्वाहाकारः ।
केचित्ऽपितरौ वृञ्जेताऽमित्यूहं कु४ अन्ति ।
(ऋग्विकल्पं कुर्वन्ति वा)एतेन पितामहप्रपितामहौ व्याख्यातौ ।
तथाऽस्वाहा पित्रऽइत्यत्रापि केचिदूहं कुर्वन्ति ।
अपरे नपितृत्वमत्र विवक्षितं एकत्वमविवक्षितमिति ।
केचित्
मातामहानामप्यूहन होमं कुर्वन्तिऽयन्मे मातामही, यन्मे मातुः पितामही, यन्मे मातुः प्रपितामही, तन्मे रोतो मातामहो वृङ्क्तां इत्यादि ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २१.३
अत्रान्नशब्देन ब्रह्मणभोजनार्थमन्नं विवक्षितम्, षष्ठ्या चापादानापादेयभावः ।
तेनायमर्थःब्राह्मणभोजनार्थात्सर्वस्माद्धविष्यजातादोदनापूपादेर्होमार्थमेकस्मिन्पात्रे सहोद्धृत्य, तस्मात्पार्वणवदवदानधर्मेणावदायोत्तराभिःऽयन्मे माताऽइत्यादिभिस्सप्तभिः प्रत्यृचं प्रधानीहुतीर्जुहोति ।
न तु बहुमन्त्रक एको होमः,ऽएतद्वा विपरीतम्ऽ(आप.गृ.२१५) इति बहुत्वलिङ्गात् ।
लिङ्गं चऽएतद्वेऽति सूत्रव्याख्याने व्यक्तं भविष्यति ।
अत्र प्रथमद्वितीययोर्मन्त्रयोरमिष्मा इत्यस्य स्थाने विष्णुशर्मण इति चतुर्थ्या पितुर्नामग्रहणम् ।
एवं तृतीयचतुर्थयोः पितामहस्य पञ्चमषष्ठयोः प्रपितामहस्य ।
सप्तमे त्वदश्शब्दाभावान्नास्ति नामग्रहणम् ।
अनूहश्चात्र द्विपित्रादिकस्यापि,ऽतस्मादृचं नोहेत्ऽ (आश्व.श्रौ.) इति ऋगूहप्रतिषेधाच्च ।
तस्मात्ऽपिता वृङ्क्तामाऽइत्याद्येकवचनं पित्रादिशामान्यपरम् ।
अत एव प्रकृतौ दर्शपूर्णमासयोरनेकपत्नीकस्यापिऽपत्नी सन्नह्यऽइत्येकवचनेनैव सम्प्रैषः ।
ऊह इत्युपदेशः ।
प्रकृतावेव द्वादशाहे"अद्य सुत्यामित्यालेखनः"इत्यूहदर्शनात् ।
एषः ते तत मधुमानेऽइत्यादिष्वेष न्यायः ।
जीवपित्रादिकस्तु पित्रादेः पित्रादीनां त्रयाणां मृतानां नामानि गृह्णाति ।
यस्तु प्रमीतपितृकोऽयं ध्रियमाणपितामहस्स्यात्, स स्वपितुश्च तत्पितामहप्रपितामहयोश्च नामानि गृह्णीयात् ।
तथा मन्वेषु प्रतियोगिभेदेऽपि पितृपितामहप्रपितामहशब्दानामेव प्रयोगः ।
ऊहपक्षे तु, तत्तत्प्रतियोपिनिर्देशपूर्वकःऽपितुः पिता वृह्क्ताम्ऽपितुः पितामहो वृङ्क्ताम्ऽइत्यादिकः प्रयोगः ।
न च जीवपित्रादिकस्य मासिश्रीद्धं नास्तीत्याशङ्कनीयम्, ध्रियमाणे तु पितरि पूर्वषामेव नि४ अपेत् ।
पूर्वेषु त्रिषु दातव्यं जीवेच्चेत्त्रितयं यदि ॥
(म.स्मृ.३२२०) इत्यादिवचनजातात् ।
नन्वेमपि व्युत्क्रमाच्च प्रमीतपित्रादिकस्य नैव घटते,ऽव्युत्क्रमाच्च प्रमीतानां नैव कार्या सपिण्डता ।
ऽइति व्युत्क्रममृतानां सपिण्डीकरणनिषेधेन सपिण्डीकृतपितृसम्प्रदानके श्राद्धे तत्पुत्रादीनामधिकाराभावात् ।
मैवम्॑ पिता यस्य तु वृत्तस्स्याज्जीवेच्चापि पितामहः ।
पितुस्स नाम सङ्कीर्त्य कीर्तयेत्प्रपितामहम् ॥
पितामहो वा त्च्छ्राद्धं भुज्जीतेत्यब्रवीन्मनुः ॥
(म.स्मृ.३२२१,२२२) इति मनुवचनेन व्युत्क्रमप्रमीतपित्रादिकसयापि श्राद्धविधानात् ।
ततश्च व्युत्क्रमाच्चेति निषेधः पाक्षिक इति निश्चयादधिकारोऽपि पाक्षिकोऽविगम्यते ॥३॥
४ आज्यहोमाः ।
आज्याहुतीरुत्तराः ॥ आपस्तम्बगृह्यसूत्र २१.४ ॥
(प.८.खं.,२१४)
टीकाः
अनुकूलावृत्ति २१.४
षडाज्याहतीर्जुहोतिस्वाहा पित्र इत्याद्याः ।
तत्रऽस्वाहा पित्रऽ इति पुरस्तात्स्वाहाकारत्वान्नान्ते स्वाहाकारः ।
अत्राहुः मासिश्राद्धे ब्राह्मणभोजनं प्रधानकर्मतदङ्गमग्नौ करणं पिण्डश्च ।
तोन जीवपितृश्राद्धक्रिया न भवति ।
ऽयदि जीवपिता न दद्यात्ऽइति
निषेधात् ।
आहोमात्कृत्वा विरमेत्ऽइत्ययमपि विदिर्न भवति ।
होमस्य भोजनाङ्गत्वात्पिण्डपितृयज्ञे तु होमस्य प्रधानत्वादिति ।
अन्ये तु येभ्य एव पिता दध्यात्तेभ्य एव पुत्रोऽपीत्याहुः ।
अपर आह त्रीणि श्राद्धे प्रधानानिअग्नौ करणं भोजनं पिण्डदानमिति तेनाऽहोमात्कृत्वा विरमेऽदित्यस्यापि विधेरयं विषय इति
________________________
गृह्यतात्पर्यदर्शनव्याख्या २१.४
एवमन्नहोमात्दुत्वा,<अनन्तरमुत्तराः>ऽस्वाहा पित्रेऽइत्याद्याष्षडाज्याहुतीर्जुहोति ॥४॥
एतद्वा विपरीतम् ॥ आपस्तम्बगृह्यसूत्र २१.५ ॥
(प.७.खं.,२१५)
टीकाः
अनुकूलावृत्ति २१.५
पूर्वास्सप्ताज्याहुतयः उत्तराष्षडन्नाहुतय इत्यर्थः ।
मन्त्रास्तु यथाम्नातमेव ।
प्रयोगःपूर्वद्युर्निवेदनं सायं भोजनानन्तरं श्वः श्राद्धं भविष्यतीति ।
तत आगभ्यव्रतचर्या सर्वेषाम् ।
(वयं तु ब्रूमः पूर्वेद्युः सायं भोजनं न भवति ।
ऽयदनाश्वानुपवसेत्पितृदेवत्यस्स्या"दिति लिङ्गादिति) ।
अथापरेद्युः प्रातः द्वतीयं निवेदनमद्य क्रियत इति ।
अथाब्यङ्गस्ततोऽपराह्णे स्नातान् कतपच्छौचान्
तानमन्त्रयते ।
पूर्व विश्वेभ्यो देवेभ्यो यज्ञोपवीती युग्मान् द्वौ चतुरो वाऽमासि श्राद्धे विश्वेभ्यो देवेभ्यः क्षणः कर्तव्यऽइति ।
ऽओं तथेऽति प्रतिवचनम् ।
ऽप्राप्नोतु भवाऽनिति यथासनं प्रापणम् ।
ऽप्राप्नवानीऽति प्रतिवचनमे ।
देवेभ्यः प्राङ्मुखाः ब्राह्मणाः प्राङ्मृलेषु दर्मेषु ।
पितृभ्य उदङ्मुखाः द्विगुणभुग्नेषु दक्षिणाग्रेषु युवानः पित्रे ।
वृद्धाः पितामहाय ।
वृद्धतमाः प्रपितामहाय ।
एकैकस्य त्रयस्त्रयो वा ।
शुचौदेशे दक्षिणाप्रवणे श्राद्धागारं सर्वतः परिश्रितमुदगवाद्वारं तस्य पूर्वोत्तरे देशे अग्निरौपासनः ।
तस्या धक्षिणतः पिण्डदानार्थ स्थण्डिलम् ।
तस्य दक्षिणतः उदङ्मुखाः पित्रार्थाः पश्चात्प्राङ्मुखाः देवार्थाः ।
तस्मिन्नेव स्थण्डिले यथावकाशं त्रिषु पात्रेषु पितृभ्य उदकान्यर्घ्याणि दक्षिणापवर्गाणि तिलवन्ति ।
देवेभ्य एकस्मिन्यवमति ।
तानि पुष्पैरवकीर्यदर्भेषु सादयित्वा दर्भैः प्रच्छाद्य आसनगतानां बराह्मणानां हस्तेषु
स्वस्मात्स्वस्मातुदपात्रात्पात्रान्तरेमाप आदायऽविस्वे देवा इदं वोर्ऽघ्यऽऽपितः इदं तेर्ऽघ्य, पितामह इदं तेर्ऽघ्य, प्रपितामह इदं तेर्ऽघ्य, इत्यर्ग्याणि ददाति तूष्णीं वा ।
पुरस्तादुपरिष्टाच्च शुद्धोदकं ततो गन्धादिभिः वासोभिश्च द्विजानभ्यर्च्य ।
ऽउद्ध्रियतामग्नौ च क्रियताऽमित्यामन्त्रयते ।
ऽकाममुद्ध्रियतां काममग्नौ च क्रियतांऽइति प्रतिवचनम् ।
ततो ब्राह्मणार्थ संस्कृतादन्नादुद्धृत्यापरेणाग्निं बहिर्षि प्रतिष्ठाप्याभिघार्याग्नेरुपसमाधानाद्यज्यभागान्ते त्रयोदश प्रधानाहुतीर्जुहोति ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २१.५
यद्वा<विपरीतमेद्भवति>,ऽयन्मे माताऽइत्याद्याः पूर्वास्सप्ताज्याहुतयः,ऽस्वाहा पित्रेऽइत्याद्या उत्तराष्षडन्नाहुतय इति ॥५॥
५ अन्नाभिमर्शनम् ।
सर्वमुत्तरैरभिमृशेत् ॥ आपस्तम्बगृह्यसूत्र २१.६ ॥
(प.८.खं.,२१६)
टीकाः
अनुकूलावृत्ति २१.६
एवं प्रधानाहुतीर्हुत्वा सौविष्टकृतं हुत्वा जयादि प्रतिपद्यते ।
साङ्गे प्रधाने सर्वत्र प्राचीनावीतम् ।
न दायादय इत्यन्ये ।
परिषेचनान्तं कृत्वा प्रणीताश्च विमुच्य ततस्सर्वमन्नं होष्यं च समुपनिधाय हुतशेषं च तस्मनुत्सृज्य तमुत्तैरस्त्रिभिः अभिमृशेत्
ऽएष ते तत मधुमानिऽत्येतैः ।
अत्राप्यूहःऽएष ते मातामह मधुमाऽनित्यादि ॥
त्र ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २१.६
अथ ब्राह्मणभोजनार्थहविष्यमहविषयं च सर्वमन्नं उत्तरैःऽएष ते तत मधुमान्ऽइत्येतैस्त्रिभिर्मन्त्रैः अभिमृशेत् ।
एकयत्नेन सर्वस्याभिमर्शनासम्भवे मन्त्रावृत्तिः ॑शेषिपरतन्त्रत्वाच्छेषाणाम् ॥६॥
कॢप्तान्वा प्रतिपूरुषम् ॥ आपस्तम्बगृह्यसूत्र २१.७ ॥
(प.८.खं.,२१७)
टीकाः
अनुकूलावृत्ति २१.७
अथ वा भोजनपात्रेषु कॢप्तानोदनविशेषान् प्रतिपुरुषं पृथगभिमृशेत्यथालिङ्गम् ।
तत्र यावन्तः पित्रर्थे भोजयन्ते तावत्सु प्रथमस्य मन्त्रस्यावृत्तिःऽएवमुत्तरयोः ।
ततः पात्रेषु कस्पितानन्नशेषान् ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २१.७
अथवा पित्राद्यर्थेभ्यो ब्राह्मणेभ्यः प्रतिरूरूषं भोजनपात्रेषु कॢप्तान् प्रकस्पितान् भोजयपदार्थानेकैकेन मन्त्रेण यथालिङ्ग मभिमृशेत् ।
अत्रापि पित्रादेरेकैकस्य ब्राह्मणबहुत्वे युगपदभिमर्शनासम्भवे च तत्तन्मन्त्रावृत्तिः ॥७॥
६ भोक्तृभिरन्नोपस्पर्शनम् ।
उत्तरेण यजुषोपस्पर्शयित्वा ॥ आपस्तम्बगृह्यसूत्र २१.८ ॥
(प.८.खं.,२१८)
टीकाः
अनुकूलावृत्ति २१.८
उत्तरेण यजुषाऽपृथिवी ते पात्रऽमित्यनेन ब्राह्मणैः स्पर्शयित्वा भोजयेदिति शेषः ।
तत्र चऽब्राह्मणानां त्वा,ऽमैषां क्षेष्ठाःऽइति बहुत्वं दृश्यते तथापि प्रतिपुरुषं मन्त्रावृत्तिः उपरवमन्त्रवत्, वत्सापाकरणमन्त्रवच्च ।
तत्र पूर्व देवानामुपस्पर्शनंऽविश्वे देवासऽ इत्यनयर्चा, स्मृत्यन्तरे दर्शनात् ।
वैष्णव्येत्यपरे ।
इदं विष्णुरित्यन्ते विष्णो हव्यं रक्षस्वेति ।
तथा पित्र्येष्वप्यन्ते विष्णो कव्यं रक्षस्वेति ।
भुञ्जानेषु पराङावर्तते ।
रक्षोघ्नान् पित्र्यान् वैष्णव्यानन्यांश्च पवित्रान् धर्म्यान्मन्त्रान् धर्मशास्त्र मितिहासपुराणांश्चाभिश्रावयति ।
ततस्तृप्तानि ज्ञात्वा मधुमतीः श्रावयेतक्षन्नमीमदन्तेति च ।
अथ भूमावन्नं विकरतिऽये अग्निदग्धा येऽनग्निग्धा ये वा जाताः कुले मम ।
भूमौ दत्तेन पिणडेन तृप्ता यान्तु परां गतिऽमिति ।
अथाचान्तेषु पुनरपो दत्वाऽस्वदितऽमिति पित्रर्तान् वाचयतिऽरोचतऽइति वाश्वदेवार्तान् ।
ततो यथाश्रद्धं दक्षिणां दत्वा सर्वेभ्योऽन्नशेषेभ्यः पिण्डार्थ प्राशनार्थञ्चोद्धृत्य शेषं निवेदयोतन्नशेषैः किं क्रियतां इति ।
इष्टैस्सहोपभुज्यतामिति प्रतिवचनम् ।
ऽदातारो नोऽभिवर्दन्तां वेदास्सन्ततिरेव नः ।
श्रद्धा च नो मा व्यपगात्बहुदेयं च नोऽस्तुऽ ॥
इति प्रार्थयते ।
ऽदातारो वोऽभिवर्धन्ताऽमित्यूहेन प्रतिवचनम् ।
<भुक्तवतः> प्रदक्षिणीकृत्य, नमस्कारः ।
ओं स्वधेति पितृभ्यः ।
विश्वेदेवाः प्रीयन्तामिति विश्वेषां देवानाम् ।
तत्र सर्वकर्मणां वैश्वदेवेषु पूर्व प्रवृत्तिः पश्चात्पित्र्येषु ।
विसर्जने विपर्ययः ।
अभिश्रवणादि यज्ञोपवीती प्राक्पिण्डेभ्यः कल्पान्तरदर्शनात् ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २१.८
उत्तरेणऽपृथिवी ते पात्रम्ऽइत्यनेन यजुषा, कॢप्तानन्नाविशेषान् ब्राह्मणान्, हस्ते गृहीत्वोपस्पर्शयित्वा, तं भोजयेदिति शेषः ।
अत्र च मन्त्रे यद्यपि ब्राह्मणानामिति बहुवचनं ततापि युगपत्स्पर्सायितुमशक्यत्वात्प्रतिपूरुषं मन्त्रावृत्तिः, यथाऽवायवस्स्थऽ(तै. सं१११) इति मन्त्रः प्रतिवत्सम् ।
एवंविधेषु बहुवचनं प्रयोगसाधुत्वार्थ, एकप्रयोगवचनप्रयोज्यानेकव्यक्त्योभिप्रायं वा ॥८॥
७ भुक्तवतामनुव्रजनम्, पिण्डदानम्, शेषभक्षणं च ।
भुक्तवतोऽनुव्रज्य प्रदक्षिणीकृत्य द्वैधं दक्षिणाग्रान् दर्भान् संस्तीर्य तेषूत्तरैरपो दत्वोत्तरैर्दक्षिणापवर्गान् पिण्डान्दत्वा पूर्ववदुत्तरैरपो दत्वोत्तरैरुपस्थायोत्तरयोदपात्रेण त्रिःप्रसव्यं परिषिच्य न्युब्ज्य पात्राण्युत्तरं यजुरनवानं त्र्यवरार्घ्यमावर्तयित्वा प्रोक्ष्यपात्राणि द्वन्द्वमभ्युदाहृत्य सर्वतस्समवदायोत्तरेण यजुषा शेषस्य ग्रासवरार्घ्य प्राश्नीयात् ॥ आपस्तम्बगृह्यसूत्र २१.९ ॥
(प.८.खं.,२१९)
टीकाः
अनुकूलावृत्ति २१.९
ततस्तान्<भुक्तवतोऽनुव्रज्य प्रदीक्षणीकृत्य>प्रत्यावृत्य प्राचीनावीती पिण्डप्रदानदेशे <दक्षिणाग्रान् दर्भान्>
संस्तृणाति<द्वैधं>द्वयोः स्थानयोरसंभिन्नानित्यर्थः ।
तत्र पितृभ्यः पुरस्तात्स्तृमाति, मातृभ्यः पश्चात् ।
तथा चाश्वलायनः कर्षूष्वेके द्वयोष्षट्सु वा, पूर्वासु पितृब्यो दद्यात्, अपरासु स्त्रीभ्यः (आश्व.गृ.१५६,७,८) इति ।
ऽदक्षिणाग्रैः पित्र्येषुऽ(आप.गृ.१४) इत्यस्य परिस्तरणीवषयत्वादिह दक्षिणीनीत्युक्तम् ।
संस्तीर्य तेषूत्तरैर्मन्त्रैःऽमार्जयन्तां मम पितरऽइत्यादिभिरपो ददाति ।
पूर्ववदिति वक्ष्यमाणमन्त्राप्यपकृष्यन्ते ।
पिण्डं पूर्ववत्ददाति पिण्डपितृयज्ञे यत्पिण्डदानं तदित्यर्थः ।
तेन त्रीनुदकाञ्जलीनित्येवमादयोविशेषा इहापि भवन्ति ।
तत्र पितृलिङ्गैः पितृभ्यस्तीर्णेषु, मातृलिङ्गैर्मातृभ्यस्तीर्णेषु ।
एवमपो दत्वा तत उत्तरैर्मन्त्रैःऽएतत्ते ततासाऽवित्यादिभिस्तेषु दर्भेषूभयेषु<दक्षिणापवर्गान्> पिण्डान् ददाति यथालिङ्गं पितृभ्यश्च मातृभ्यश्च ।
असावित्यत्र सर्वत्र नामग्रहणं यथालिङ्गम् ।
अत्रापि पूर्ववदित्यस्य सबन्धात्सव्यं जान्वाच्यावाचीनपाणिरित्यादि विधानमिहापि भवति ।
अनेकपितृकस्योह इति पैङ्गिसूत्रम् ।
ऽएतद्वां ततौ यज्ञशर्मविष्णुशर्माणौ ये च युवामनु,ऽएतद्वां पितामहाऽ वित्यादि ।
एतद्वां मातरावसौ याश्च युवामनुऽइत्यादिदक्षिणापवर्गानित्युच्यतेउभयेषां पिण्डानां पृथक्दक्षिणापवर्गता यथा स्यादिति ।
तेन पितृपिण्डानां दक्षिणतो मातृपिण्डा न भवन्ति ।
किं तर्हि ?पश्चात् ।
एवं पिण्डान् दत्वा पूर्ववदुत्तरैरपो ददाति पितृभ्यश्च मातृभ्यश्च ।
मन्त्रसमाम्नायेऽमार्जन्तां मम पितर इत्येतेऽइति मन्त्राणां पुनरादिष्टत्वात्ऽउत्तरैरपो दत्वाऽइत्येव सिद्धे पूर्ववदित्यतिद्शः पिण्डपितृयज्ञप्रत्यवमर्शनार्थः पिण्डेषु चोदकाञ्जलिषु च ।
तत उत्तरैर्मन्त्रैः तानुपतिष्ठते यथालिङ्गंऽये च वोऽत्रेति पितॄन्, याश्च वेऽत्रेति मातॄ॑ते च वहन्तामिति पितृन्, ताश्च वहन्तानिति मातॄः, तृप्यंतु भव्त इति पितॄन्, तृप्यंतु भवत्यः इति मातॄः, तृप्यत तृप्यत तृप्यत इत्युभयान् ।
तत उत्तरयर्चाऽपुत्रान् पौत्रानित्येतयात्रिः प्रसव्यमुदपात्रेण पिम्डान् परिषिञ्चति . उभयास्तपर्यन्त्विति ल्ङ्गात्पिण्डानां सहपरिषेचनम् ।
उदपात्रवचनं हस्तेन मा भूदिति ।
प्रसव्यवचनमनुवादः प्रसव्यं त्रिगुणीभूतमेकमेव परिषेचनं सन्ततं यथा स्यात्, न पिण्डपितृयज्ञवत्त्रीणि परिषेचनानि पृथगिति ।
एवं परिषिच्य ततः पात्राणि यान्यत्र प्रकृतानि त्रीण्यर्घ्यपात्राणि परिषेचनपात्रामुदकुम्भः
यस्मिन् पिण्डार्थमन्नमुद्धृतं तच्चेति तानि<न्युब्ज्य>न्याञ्चि कृत्वा तत उत्तरं यजुःऽतृप्यत तृप्यत तृप्यतेऽत्येतत्<अनवानमनुछ्वसन् त्र्यवरार्ध्य> मावर्तयति त्रिरभ्यावृत्तिः अवरा मात्रा यस्यावर्तनस्य तत्<त्र्यवरार्ध्यम् ।>
यजुर्ग्रहणंऽतृप्यतेऽत्यस्य त्रिरावृत्तस्य पठितस्यैकयजुष्ट्व्ज्ञापनार्थम् ।
तस्य त्रिरावृत्तौ नवकृत्वोऽभ्यावृत्तिर्भवति ।
एवमावृत्य न्यक्कृतानि पात्रानि प्रोक्ष्य<द्वद्वमभ्युदाहरति>उदानयति ।
अभीति वचनातुत्तरं कर्म प्रत्युदाहरतीत्यर्थः ।
तेनोत्तरस्मिन्नपि श्राद्धकर्मणि तान्येव पात्राणीत्येके ।
नेत्यन्ये ।
एवमभ्युदाहृत्य शेषस्यान्नस्य<ग्रासवरार्घ्य ग्रा>सोऽवरार्ध्यो अवमा मात्रा यस्य तत्<ग्रासवरार्ध्यम्>छान्दसो ह्रस्वः ।
<तत्प्राश्नीयातुत्तरेण यजुषा>ऽप्राणे निविष्टोऽमृतं जुहोमिऽइत्यनेन<सर्वतस्सर्वभ्यः> श्राद्धशेषेभ्य अन्नशेषेभ्य इत्यर्थः ।
श्राद्धाङ्गमिदं प्राशनं, न नित्यस्याशनस्य नियमविधिः ।
तस्मात्तत्रापि प्राचीनावीतमेव ।
आचमने तु यज्ञोपवीतमनङ्गत्वात् ।
ततः पञ्चमहायज्ञानां प्रवृत्तिः ।
________________________
गृह्यतात्पर्यदर्शनव्याख्या २१.९
अत<भुक्तवतो> व्रजतो ब्राह्मणानागृहसीमान्त<मनुव्रज्य>प्रदक्षिणीकरोति ।
एतयोश्च यज्ञोपवीतम् ।
कथम्?प्रदक्षिणे तावत्
ऽयज्ञोपवीतिना प्रदक्षिणम्ऽइति साहचर्यात् ।
अनुव्रजनेऽप्यनुव्रज्य प्रदक्षिणीकृत्येति प्रदक्षिणसाहचर्यात् ।
तन्त्रेण चैतदुभयं, सम्भवात् ।
यदि तु कारणवशात्तन्त्राभावः, तदा पृथक्पृथक् ।
अथ प्रत्येत्य प्राचीनावीती पिण्डदानदेशे <दक्षिणाग्रान् दर्भान्, द्वैधं>द्वेघा संस्तृणाति ।
तत्र पुरस्तात्पित्राद्यर्थ, पश्चान्मात्राद्यर्थम्॑ाश्वलायने दर्शनात्, आचाराच्च ।
ततस्तेषु दर्बेषूत्तरैःऽमार्जयन्तां मम मातरःऽइत्यादिभिश्च यथार्ह दक्षिणापवर्गमपो दत्वा अनन्तरमुत्तरैःऽएतत्ते ततासौऽइत्यादिभिःऽएतत्ते मातसौऽइत्यादिभिश्च यथालिङ्गं त्रींस्त्रीन् <दक्षिणापवर्गान् पिण्डान् ददाति> ।
पिण्डाश्च हुतशेषात्भुक्तशेषाच्च समवदाय कर्तव्याः ।
अत्र पूर्वेषु त्रिषु मन्त्रेष्वसावि त्यस्य स्थाने पितृपितामहप्रपितामहानां नामानि सम्बुद्द्या यथाक्रमं गृह्णाति ।
उत्तरेषु तु त्रिषु माथृपितामहाप्रपितामहानाम् ।
ऽदक्षिणतोऽपवर्गःऽ(आप.गृ.१२०) इति
सामान्यविधिसिद्धस्येह पुनर्वचनं, पिण्डदान एव दक्षिणापवर्गःऽद्वैधं दर्बास्तरणेषु तु पश्चिमापवर्ग इति ज्ञापनार्थम्, तथोभयेषां पिण्डानां प्रत्येकं दक्षिणापवर्गसिद्ध्यर्थ च ।
अथ पूर्ववत्ऽमार्जयन्ताम्ऽइत्यादिभिरेवापो ददाति ।
केचित्ऽतेषूत्तरैरपो दत्वा उत्तरैर्दक्षिणापवर्गान् पिण्डान् दत्वाऽइत्येतयोरपिऽपूर्ववत्ऽइति पदमपकृष्य त्रिष्वपि सूत्रेषु चोद्यमानं पूर्ववत्पिण्डपितृयज्ञवत्कर्तव्यमिति व्याचक्षते ।
प्रयोजनं तु"त्रीनुदकाञ्जलीन्निनयति"(आप.श्रौ.१८१०)ऽसव्यं जान्वाच्यावाचीनपाणिःऽ(आप.श्रौ.१९१) इत्यादिविधानामिहापि भवतीति ।
तन्न॑पकर्षस्यैवायुक्तत्वात्, पूर्ववदित्यस्य पिण्डपितृयज्ञवदित्येवंबुद्ध्यनुदयाच्च ।
यदि त्वाचारबलात्ऽसव्यं जान्वाच्यऽइत्यादीहापि कर्तव्यमेवेत्युच्येत, तदा न कश्चिद्दोषः
अथोत्तरैःऽये च वोऽत्रऽइत्यादिभिष्षर्ड्र्भिमन्त्रैर्यथा क्रमं यथालिङ्गं पितॄन् त्रिस्त्रिरुपतिष्ठते ।
तृप्यतेत्यनेन त्रिरावृत्तेन उभयांस्तन्त्रेण ।
केचित्चत्वारो मन्त्राः न षट् ।
तत्र प्रथमो मन्त्रोऽये च वोऽत्रऽइत्यादिःऽताश्च वहन्ताम्ऽइत्यन्तः उभयोषामुपस्थानार्थः ।
ऽतृप्यन्तु भवन्तःऽ इति पितॄणाम् ।
ऽतृप्यन्तु भवत्यःऽइति मातॄणाम् ।
ऽतृप्यत तृप्यत तृप्यतऽइत्युभयेषामिति ॥
तत<उत्तरया>ऽपुत्रान्पौत्रान्ऽइत्येतया उभयेषां पिण्डान्युगपदुदपात्रेण त्रिः प्रसव्यमविच्छिन्नं<परिषिञ्चति> ।
सामान्यविधिसिद्धस्य प्रसव्यस्येह पुनर्वचनं पूर्वत्र"प्रदक्षिणीकृत्य"इति वचनादिहापि प्रादक्षिण्यं स्यादिति शङ्कानिरासार्थम् ।
अनन्तरं पात्राणि होमार्थानि पिण्डदानार्थानि च ।
केचित्भोजनार्थानि वोददानार्थानि च, न तु होमार्थानीति ।
<न्युब्ज्य>अधोबिलानि कृत्वा ।
तत<उत्तरं यजुः>ऽतृप्यत तृप्यत तृप्यतऽइत्याम्नानत एवं त्रिरभ्यस्तम् ।
<अनवानं>अनुच्छ्वसन् ।
<त्र्यवरार्ध्य> त्रिरभ्यावृत्तिरवरा मात्रा यस्यावर्तनस्य तत्त्त्र्यवरार्ध्यं यथा भवति तथावर्तयति ।
ततश्चावमायामपि मात्रायां तृप्यतेति नवकृत्वोऽभ्यासितव्यं भवति ।
एवमनवानं यावच्छत्त्यावर्त्य, ततः<पात्राणि> न्यगभूतानि वप्रोक्ष्य, द्वन्द्वमभ्युदाहरति ।
अत्राभ्युपसर्गादुत्तरं कर्म प्रत्युदाहरति ।
तेषां पात्राणां निरिष्टिकदोषो नास्तीति भावः अथ<शेषस्यान्नस्य>ग्रासवरार्ध्य ग्रासावरार्ध्यम् ।
छान्दसत्वाद्घ्रस्वः ।
<उत्तरेण यजुषा>ऽप्राणे निविष्टःऽ इत्यनेन प्राश्नीयात् ।
एतच्च सर्वतस्सर्वेभ्योऽन्नशेषेभ्यस्समवदाय कार्यम् ।
इदं च प्राशनं भोजनेच्छायामसत्यामपि ग्रासवरार्ध्यमवश्यं प्राश्यं॑ कर्माङ्गत्वात् ।
एवं प्राश्य, ततश्शुद्ध्यर्थ यज्ञोपवीत्याचामेत् ॥
अथात्र सूत्राणामपूर्णत्वादन्यतस्सिद्धानपि पदार्थानुपसंहृत्य यथाप्रतिभासं प्रयोग उत्यतेपूर्वेद्युस्सायमौपासनहोमं हुत्वा प्राचीनावीती
कृतप्राणायामः श्वो मासिश्राद्धं कर्तास्मीति सङ्कल्प्य शुचित्वादिगुणसम्पन्नेभ्यः श्वित्रादिदोषवर्जितेभ्यः कृतसायमाह्निकेभ्यो ब्राह्मणेभ्यो निवेदयेत् ।
तत्र प्रथमं यज्ञोपवीती भूत्वाऽश्वो मासिश्राद्धं भविता, तत्र भवद्भिर्विश्वदेवार्थे क्षणः कर्तव्यःऽइति विश्वदेवार्थेभ्यो ब्राह्मणेभ्यो निवेदयेत् ।
ततःप्राचीनामीतीऽपित्रर्थे क्षणः कर्तव्यःऽइति पित्रर्थेभ्यः ।
ऽपितामहार्थे क्षणः कर्तव्यःऽइति पितामहार्थेभ्यः ।
प्रपितामहार्थे क्षणः कर्तव्यःऽइति प्रपितामहार्थेभ्यः ।
एकब्रह्मणपक्षे तुऽपितृपितामहप्रपितामहार्थे क्षणः कर्तव्यःऽइति मातामहश्राद्धकारी चेत्, ऊहेनऽमातामहार्थे क्षणःऽइत्यादिना निवेदयेत् ।
तत्र चाधारयोस्तदर्तसमिधोराज्यभागयोरग्निमुखाहुतौ स्वविष्टकृति प्रायश्चित्ताहुतौ च यज्ञोपवीती तथा विश्वदेवार्थेषु सर्वेषु पदार्थेषु च प्रदक्षिणानुव्रजनयोश्च यज्ञोपवीतमेव ।
एभ्योऽन्यत्रासमाप्तेस्सर्वत्र प्राचीनावीतमेव ।
एतच्च प्रागेवोपपादितम् ।
कर्तुश्चात्र सङ्कल्पादारभ्य आसमाप्तेर्ब्रह्मचर्यादिव्रतचर्या अनशनं च भवति ।
भोक्तॄणामपि मनूक्तोऽक्रोधत्वादिः ।
अथापरेद्युः प्रातस्तान् ब्राह्मणान् गृहमानीय आचान्तानासनेषूपवेश्य पूर्ववद्द्वितायमामन्त्रणम् ।
अत्र त्वद्य श्राद्धं भविष्यतीति भेदः ।
ऽपूर्वेद्युर्निवेदनं अपरेद्युर्द्वितीयं तृतायं चामन्त्रणम्ऽइतिवचनात् ।
अथ तेषां पादान् कुण्डेषु सकूर्चतिलेष्ववनिज्याचमय्य, कृसरताम्बूलादीनि दत्वा अभ्यज्य स्नानार्थ प्रस्थापयेत् ।
ते च स्नायुः ।
ततस्स्वयं च स्नातो ब्राह्मण भोजनार्थादन्नादन्येनान्नेन वैश्वदेवं पञ्चमहायज्ञांश्च कुर्यात् ।
केचित्समाप्ते श्राद्धे इति ।
ततोऽपराह्णेप्राचीनावीती ब्राह्मणान् प्रक्षालितपाणिपादानाचान्तानासनेषूपवेशयति ।
तत्र विश्वदेवार्थान् प्राङ्मुखान् प्राक्कूलेषु दर्भेषु पित्राद्यर्थानुदङ्मुखान् द्विगुणभुग्नेषु दक्षिणाग्रेषु दर्भेषु ।
श्राद्धागारं च सुचौ देशे दक्षिणाप्रवणे सर्वतः परिश्रितमुदग्द्वारं च भवति ।
तस्योत्तरपूर्वदेशेऽग्निरौपासनड ।
अग्नेदक्षिणतः पिण्डप्रदानार्थ स्थणडिलम् ।
तस्य दक्षिणतः प्त्राद्यर्थानामासनम् ।
पश्चात्तु विश्वेदेवार्थानामासनम् ।
स्थण्डिलेषु यथावकाशं पित्रादिभ्यस्रिषु पात्रेषु एकस्मिन् वा शास्त्रान्तरोक्तविधिनार्घ्यार्थमुदकग्रहणम् ।
विश्वेभ्यो देवेभ्यश्च यथाविधि पात्रान्तरे ।
तानि गन्धादिभिरभ्यर्च्य, दर्भेषु सादयित्वा दर्भैः प्रच्छाद्याथासनगतानां ब्राह्मणानां हस्तेषु स्वस्मात्स्वस्मादुदपात्रात्पात्रान्तरेणाप आदायऽविश्व देवाः इदं वो अर्घ्यऽऽपितृपितामहप्रपितामहाइदं वो अर्घ्यऽइति वार्घ्याणि ददाति ।
इदमेवार्घ्यदानं श्राद्धे स्वधानिनयनमुदपात्रानयनमिति चोच्यते ।
पुरस्तादुपरिष्टाच्चर्घ्यदानाद्धस्तेषु शुद्धोदकदानम् ।
ततो गन्धादिभिर्वासोभिरङ्गुलीयकादिभिश्च यथाविभवं ब्राह्मणानामभ्यर्चनम् ।
ततस्तान्ऽउद्ध्रियतामग्नौ च ग्रियताम्ऽइति प्रतिब्रूयुः ।
ऽउदीच्यवृत्तिस्त्वासनगतानां हस्तेषूदपात्रानयनम् ।
उद्ध्रियतामग्नौ च क्रियता मित्यामन्त्रयते ।
काममुद्धियताकाममग्नौ च क्रियतामित्यतिसृष्ट उद्धरेज्जुहुयाच्चऽ(आप.ध.२१७१७,१८,१९) इति धर्मशास्त्रवचनात् ।
एतच्छोदपात्रानयनं उद्ध्रियतामित्यामन्त्रणं च पाक्षिकम्, भाष्यकारेणानुक्तत्वात्, उधीच्यवृत्तिरित्यस्य समासस्य उधीच्यानां वृत्तिरुदीच्येशु वृत्तिरित्युभयथापि विग्रहाभ्युपगमाच्च ।
अथ ब्राह्मणभोजनार्थादन्नाथविष्यमोदनापूपादिकं एकस्मिन् पात्रे समुद्धृत्य अहविष्यं क्षारादिसंसृष्टमन्यस्मिन् पात्रे उद्धृत्याथ हविष्यं प्रतिष्ठतमभिघारग्नेरुपसमाधानाद्यग्निमुखान्तं कृत्वाऽयन्मे माताऽइत्यादिभिस्त्रयोदश प्रधानाहुतीर्हुत्वा स्विष्टकृतं च तत उदीचीनमुष्णं भस्मापोह्य अहविष्यं स्वाहाकारेण हुत्वाथऽलेपयोःऽइत्यादि तन्त्रशेषं समाप्य ततःऽएष ते ततऽइत्यादिभिस्सर्वमन्नमभिमृश्य अथ पृथक्पृथक्तृतीयमामन्त्रणं पूर्ववदेव कृत्वा त्रिष्वपि चामन्त्रणेषुऽओं तथाऽइति प्रतिवचनं ब्राह्मणानाम् ।
ततः कर्तुः प्रार्थन्ऽइति ।
ततःऽप्राप्नवानिऽइत्यङ्गीकारो भोक्तॄणाम् ।
अपरे क्रमान्तरमाहुः वैश्वदेवपञ्चमहायज्ञानन्तरं अपराह्णे प्राचीनावीती अग्नेरुपसमाधानादि करोति ।
तत्र स्वधानिनयनपक्षे पात्रसंसादनकाले स्वधापात्राणामपि सादनम् ।
प्रणीताः प्रणीय विधिवत्स्वधाग्रहणम् ।
ततोऽब्राह्मणं दक्षिणतो निषाद्यऽ इत्याद्यग्निमुखान्ते कृतेपादप्रक्षालनादि ।
उद्धियतामित्यामन्त्र्य, अन्नमुद्ध्त्य प्रधानहोमादय इति ।
इहापि पक्षे स्वधानिनयनं पाक्षिकमेव अन्ये तु मासिश्राद्धे शास्त्रान्तरानुसारान्मन्त्रवन्नियमवद्भोजनदेशसंस्कारं, विश्वेषां देवानां चावाहनं, भोजयित्वोद्वासनं चेच्छन्ति ।
अत्र च पदार्थेषु क्रमे च शिष्टाचारादेव निर्णयः, सूत्रकारभाष्यकाराभ्यामनुक्तत्वात् ॥
अथ प्रकृतमुच्यतेभोजनपात्रकॢप्तानन्नविशेषान् यथास्वं ब्राह्मणानुपस्पर्शयतिऽपृथिवी ते पात्रं, इत्येतयाऽइदं विष्णुर्विचक्रमेऽइत्येतया च ।
तस्याश्चान्तेऽविष्णो बव्यं रक्षस्वऽइति विश्वेषां देवानां,ऽविष्णो कव्यं रक्षस्वऽइति पित्रादीनाम् ।
एवं स्पर्शयित्वाथ भोजयेत् ।
विभवे सति सर्पिर्मासादीनि विशिष्टानि दद्यात्॑भावे तैलं शाकमिति ।
भुञ्जानान् ब्राह्मणानाहवनीयार्थेन ध्यायेत्, पित्रादीन् देवतात्वेन, अन्नं चामृतत्वेन, आत्मानं ब्रह्मत्वेन ।
भुञ्जनेषु च पराङावृत्त्य राक्षोध्नान् पित्र्यान् वैष्णवानन्यांश्च (ख.ग.पवित्रान्) पावमानमन्त्रान् धर्मशास्त्रमितिहासपुराणानि चामिश्रावयति ।
तृप्तांश्च ज्ञात्वा मधुमतीश्श्रावयति,ऽअक्षन्नमीमदन्तऽइति च ।
अथ भूमावन्नं (ख.गप्रकिरति) परिकिरति
ये अग्निदग्धा येऽनग्निदग्धा ये वा जाताः कुले मम ।
भूमौ दत्तेन पिण्डेन तृप्ता यान्तु परां गतिम् ॥
इति ।
अथाचान्तेषु पुनरपो दत्वाऽस्वदितम्ऽइति पित्राद्यर्थान् वाचयति,ऽरोचयतेऽइति विश्वेदेवार्थान् ।
ततो यथाशक्ति दक्षिणां दत्वाथ सर्वेभ्योऽन्नसेषेभ्यः पिण्डार्थ प्राशनार्थ चोद्घृत्य (अन्नशेषैः) अन्नशेषः किं क्रियताम्ऽ?इति शेषं निवेदयेत् ।
ते चऽइष्टैस्सह भुज्यतांऽइति प्रतिब्रूयुः ।
अथ कर्ता
दातारो नोऽभिवर्धन्तां वेदास्सन्ततिरेव नः ।
(ख.ग.षैः)
श्रद्धा च नो मा व्यपगाद्बहु देयं च नोऽस्तु ॥
इति प्रर्थयते ।
दातारो वोऽभिवर्धन्तां वेदास्सन्ततिरेव वः ।
(ख.गच)
श्रद्धा च वो मा व्यगमद्बहु देयं च वोऽस्तु ॥
इति तेषां प्रतिवचनम् ।
अथ, अन्नं च नो बहु भवेदतिथींश्च लभेमहि ।
याचितारश्च नस्सन्तु मा च याचिष्म कञ्चन ॥
इति च प्रार्थयते ।
(ख.ग.झअतीर्थींश्च सभध्वम् ।
याचितारश्च वस्सन्तु मा च याचध्वं वञ्चन ।
इत्यधिकम् )ऽअन्नं च वो बहु भवेत्ऽइत्यबहेनैव प्रतिवचनम् ।
अनन्तरंऽओं स्वाधाऽइत्याह ।
ऽअस्तु स्वधाऽइति प्रतिवचनम् ।
अथ ब्राह्मणानां पित्राद्यर्थानां पूर्व विसर्जनम् ।
विश्वेषां देवानां पश्चाद्विसर्जनम् ।
पूर्वोक्तेषु निवेदनादिषु सर्वेषु पदार्थेषु दैवपूर्वत्वमेव ।
अथ यज्ञोपवीती भुक्तवतोऽनुव्रज्य प्रदक्षिणीकृत्य, प्राचीनावीतीऽद्वैधं दक्षिणाग्रान्ऽइत्यादि,ऽशेषस्य ग्रासवरार्ध्य प्राश्नीयात्ऽइत्येवमन्तं यथासूत्रं करोति ॥
अत्र चेदं वक्तव्यं ब्राह्मणभोजनं होमः पिण्डदानं च त्रीण्यपि मासिश्राद्धे प्रधानानि ।
अग्न्याधेये (ङ जभाष्यकेरेणेत्याधिकम्) ।
धूर्यस्वामिनोक्तत्वात्, वैश्वदेवे विश्वेदेवा इत्यत्र कपर्दिस्वामिनीक्तत्वाच्च ।
केचितिह ब्राह्मणभोजनमेव प्रधानम्, हेमः पिण्डदानं च तदङ्गम्, अनर्थावेक्षो भोजयेदिति प्रकृत्य तयोर्विधानातिति ।
अथास्य मुख्यकल्पासम्भवे आमश्राद्धविधिरनुकल्पतयोच्यते
आपद्यनग्नौ तीर्थे च चन्द्रसूर्यग्रहे तथा ।
आमश्राद्धं द्विजैः कार्य शूद्रः कुर्यात्सदैव हि ॥
इति (छबृहस्पतिवचनात्बृहत्प्रचेतोवचनाच्च ।
जवृहस्पतिप्रचेतसोर्वचनात्,) वृहत्प्रचेतोवचनात् ।
अत्र व्यासः
आवाहनं च कर्तव्यमर्ध्यदानं तथैव च ।
एष एव विधिर्यत्र (डअन्न. छआम) यत्र श्राद्धं विदीयते ॥
यद्यद्ददाति विप्रभ्यः शृतं वा यदि वाशृतम् ।
तेनाग्नौ करणं कुर्यात्पिण्डांस्तेनैव निर्वपेत् ॥
इति ।
अत्र षट्त्रिंशन्मतमामश्राद्धं यदा कूर्यात्पिण्डदानं कथं भवेत् ।
गृहादाहृत्य पक्वान्नं पिण्डान् जद्यात्तिलैस्सह ॥
इति ।
प्रयोगसंक्षेपस्तुपूर्वेद्युरपरेद्युर्वा ब्राह्मणान्निमन्त्र्य, पूर्वाह्णे स्नात्वा ब्राह्मणानाहूय, पादप्रक्षालनाद्यर्घ्यदानान्तं कृत्वा, यथाविभवं गन्धवस्त्रादिभिश्च यथार्हमभ्यर्च्य,ऽअग्नौ करिष्यामीऽत्यामन्त्र्य आथाग्निमुखान्ते तण्डुलाद्यमद्रव्येण होमकरणम् ।
ततस्तन्त्रशेषं समाप्य, तण्डुलाद्यामद्रव्यं श्राद्धार्थ ददाति ।
चरोरभावात्तद्धर्माणामभावः ।
भोजनाभावाच्च तत्सम्बन्धिनामब्यणावः ।
ततः पिण्डदानमामेन, गृहादाहृतेन पक्केन वेति ।
अत्यन्तापदि तुऽअपि ह वा हिरण्येन प्रदानमात्रंऽ, अपि ह वा हिरण्येन (ख.गङप्रधानमात्रं एवमुत्तरत्रापि) ।
प्रदानमात्रं अपि वा मूलफलैः प्रदानमात्रम्, इत्यादिबोधायनादिवचनाद्धिरण्यादेर्वा प्रदानमात्रं समस्तधर्मरहितं कुर्यात् ।
एवं सर्वथापि श्राद्धमवश्यं कर्तव्यम् ।
न तु कस्यांचिदप्यवस्थायां लोपः ।
अत्र च श्राद्धविषये यद्यपि, वसवः पितरो ज्ञेयाः रुद्राश्चैव पितामहाः ।
प्रपितामहास्तदित्याश्श्रुतिरेषा समातनी ॥
इत्यादिशास्त्रान्तरसिद्धं बहु वक्तव्यमस्ति॑तथापि विस्तरभयादुपरम्यते ॥९॥
एवं प्रकृतिभूतं मासिश्राद्धं व्याख्यायेदानीं तद्विकृतिभूतं प्रतिसंवत्सरमनुष्ठेयं अष्टकाख्यं पाकयज्ञान्तरं व्याख्यास्यन्, तस्य कालविधिमाह
२३ अष्टकाश्राद्धम्
१ तस्य क्रालः ।
या माघ्याः पौर्णमास्या उपरिद्व्यह्यष्टका तस्यामष्टमी ज्येष्ठया सम्पद्यते तामेकाष्टकेत्याचक्षते ॥ आपस्तम्बगृह्यसूत्र २१.१० ॥
(प.८.,ख.२१)
टीकाः
अनुकूलावृत्ति २१.१०
व्याख्यातः श्रद्धविधिः ।
अथाष्टका नाम पाकयज्ञः पित्र्यः संवत्सरे संवत्सरे कर्तव्यः स उपदिश्यते ।
तस्य कालविधिरयं या माधी तस्या<उपरिष्टाद्व्याष्टका>कृष्णपक्षः तस्यां या अष्टमी<तामेकाष्टका इत्याचक्षते>सा यदि<ज्येष्ठया> <सम्पद्यते>सङ्गच्छते तामप्येकाष्टकेत्याचक्षते इति द्वाविमौ योगौ ।
अन्यथा पौर्णमास्या उपरिष्टादष्टमी ज्येष्ठया सम्पद्यते तामेकाष्टकेत्याचक्षत इत्येतावता सिद्धम् ।
किं व्यष्टकत्वम् ।
<द्व्यष्टका>ग्रहणस्य प्रयोजनं मृग्यम् ।
किमर्थ ज्येष्ठया सम्पद्यत इति?यदा द्वयोरह्नोरष्टमी तदा ज्येष्ठासंयुक्तायां क्रिया यथा स्यादिदि ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २१.१०
<माध्याः>माघमासस्य सम्बन्धिन्याः<पौर्णमास्याः उपसिष्टादूर्ध्व या व्यष्टका>कृष्णपक्ष इत्यर्थः ।
<तस्यां>व्यष्टकायां या<अष्टमी> तिथिः<ज्येष्ठया>ज्येष्ठानक्षत्रेण<सम्पद्यते>सङ्गच्छते तामष्टमीमे <काष्टकेत्याचक्षते>कथयन्ति ब्रह्मवादिनः ।
तस्यामष्टका कर्तव्येति शेषः ।
एकाष्टकायां वपाहोमादि प्रधानं कर्तव्यमित्यर्थः ।
तामेकाष्टकेत्याचक्षत इति वचनं यान्यन्यान्यप्येकाष्टकायां विहितानि, यथा गवामयनदीक्षा यथा च दीर्घसत्रेषु विज्ञानार्थमपूपेन कक्षस्योपोषणं, यथाव चेखासम्भरणं, तानि च सर्वाणि यथोक्तलक्षणायामेवाष्टम्यां कार्यामीत्येवमर्थम् ।
अत्रायमभिप्रायः यद्यपि माघमासस्य सर्वा कृष्णपक्षाष्टमी ज्येष्ठया न सम्पद्यते॑तथापि तस्यामेकाष्टका कर्तव्यैव॑पाकयज्ञत्वेन नित्यत्वात्,ऽव्यष्टका तस्यांऽइत्यधिकग्रहणाच्चेति ।
ज्येष्ठया<सम्पद्यत>इति तु प्रायिकाभिप्रायम् ।
तेनायुक्तायामपि गवामयनदीक्षादीनि लभ्यन्ते ॥
केचित्यदा द्वयोरह्नोरष्टमी, यस्मिन्वा संवत्सरे द्वौ माघमासौ, तत्र या अष्टमी ज्येष्ठया सम्पद्यते तस्यामेव नास म्पन्नायामित्येवमभिप्राय इति ॥१०॥
तस्यास्सायमौपकार्यम् ॥ आपस्तम्बगृह्यसूत्र २१.११ ॥
(प.८.ख.२१)
टीकाः
अनुकूलावृत्ति २१.११
उप समीपे क्रियत इत्युपकारः ।
तत्र भवमौपकार्यम् ।
तस्या औपकार्यमित्यन्वयः ।
<तस्याः>एकाष्टकायाः समीपे यत्कर्म क्रियते पूर्वेद्युस्सप्तम्याम्, तत्र<चतुश्शरावमपूपं> श्रपयति ।
सायं सप्तम्यामस्तमिते आदित्ये अपूपहविष्कं कर्म कर्तव्यमित्यर्थः ।
तदेवमौपकार्यशब्दः कालाविधानार्थः ।
तस्यास्सायमित्यन्वये अष्टम्यामस्तमितेऽपूपं प्राप्नोति, नवम्यां पशुः,ऽदशम्यामन्वष्टकाऽ, तच्छास्त्रेष्वप्रसिद्धम् ।
औपकार्यशब्दश्चानर्थकः ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २१.११
त्रिपदमिदं सूत्रम् ।
तस्या अष्टकाया<औपकार्यमुपकारकम्> ।
उपकारं करोतीति कर्तरि यत्प्रत्ययः छान्दसः ।
अष्टकाया अङ्गभूतं कर्मेत्यर्थः ।
सायं पूर्वेद्युस्सप्तम्याः ।
सोमयागस्याग्नीषोमीयपशुयागवत्तस्या अष्टकाया अङ्गभूतं कर्म पूर्वेद्युस्सप्तम्यास्सायङ्काले कर्तव्यमिति
सूत्रार्थः ।
न त्विह तस्या अष्टकाया इति सम्बन्धः नवम्यां वपाहोमादि प्रधानप्रसङ्गात् ।
न चैतद्युक्तम्॑<या माध्या>इति
कालविधानस्यौपकार्यार्तत्वोपपत्तौऽप्रकरणात्प्रधानस्यऽइति न्यायविरोधात्, शास्त्रान्तरेष्वप्रसिद्धत्वाच्च ॥११॥
अथास्यैपकार्यस्य विधिमाह
व्रीहीणां<चतुश्सरावं>तूष्णीं निरुप्य पार्वणावत्पत्न्यवहन्तीत्यादिविधिनापूपं<श्रपयति> ।
अपूपः प्रथितावयवः प्रसिद्धः ।
प्रतिष्ठिताभिघारणान्तं च करोति ॥ आपस्तम्बगृह्यसूत्र २१.१२ ॥
२ अपूपवाकः ।
अपूपं चतुश्शरावं श्रपयति ॥१२॥
अष्टाकपाल इत्येके ॥ आपस्तम्बगृह्यसूत्र २१.१३ ॥
(प.८.,ख.,२१)
टीकाः
अनुकूलावृत्ति २१.१३
सायमपूपाष्टाकपालो हविः इत्येके मन्यन्ते ।
अष्टसु कपालेषु संस्कृतोऽष्टाकपालः ।
अस्मिन् पक्षे पुरोडाशस्यावृता श्रपणम् ।
पूर्वस्य तु लौकिक्यापूपस्यावृता ।
द्वयोरपि पक्षयोः औपासने श्रपणम् ।
एतच्च पित्र्यस्याङ्गमपि कर्म स्वयं पित्र्यं न भवति,ऽतेन प्राचीनावीतादि न भवति ॥१२॥
इति श्रीहगदत्तमिश्रविरचितायां गृह्यसूत्रवृत्तावनाकुलायामेकविंशःखण्डः ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २१.१३
अष्टसु कपोलेषु संस्कृतः पुरोडाशोऽष्टकपालः ।
सः श्रपयितव्य इत्येके ।
पुरोडाश इति च प्रसिद्ध आकृतिविशेषः तेन लौकिकेन प्रकारेण पाक औपासनं एव ॥१३॥
इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने एकविंशः खण्डः ॥
द्वाविंशः खण्डः ।
३ अञ्जलिनापूपहोमः ।
पार्वणवदाज्यभागान्तेऽञ्जलिनोत्तरयापूपाज्जुहोति ॥ आपस्तम्बगृह्यसूत्र २२.१ ॥
(प.८.ख.,२२१)
टीकाः
अनुकूलावृत्ति २२.१
प्रतिष्ठिताभिधारणान्ते कृते अग्नेरुपसमाधाज्यभागान्तं कृत्वा पार्वणवदवदानकल्पेनापूपादुत्तरयर्चा अञ्जलिना जुहोतिऽयां जनाः प्रतिनन्दन्तीऽत्येतया ।
सामर्थ्यादुपस्तरणाभिघारणयोरवदानस्य चान्यः कर्ता ।
आज्यभागान्तवचनं तन्त्रविधानार्थम् ।
एतदेव ज्ञापकं न पित्र्यमेतत्कर्मेति ।
अन्यथा यथा मासिश्राद्धेऽष्टकायां च यत्नाभावेऽपि तन्त्रं प्रवर्तते, पित्र्येषु यत्नाभावेऽपि तन्त्रं प्रवर्ततो इत्युक्तत्वात्, तथात्रापि सिद्धं स्यात् ।
पार्वणवद्वचनं अञ्जलिहोमानामधर्मग्राहकत्वातवदानकल्पप्राप्त्यर्थ अञ्जलिनापि जुह्वत्पार्वणवदवदानकल्पेन जुहोतीति ।
सादनप्रोक्षणसं मार्जनान्यञ्जलेर्न भवन्ति ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २२.१
ततः पार्वणवदग्नेरुपसमाधानाद्यग्निमुखान्ते, स्वकीयेनावदानधर्मेणापूपात्पुरोडाशाद्वावदाय उत्तरयर्चाऽयां जनाः प्रतिनन्दन्तिऽ इत्येतया अञ्जलिना जुहोति ।
अञ्जलेस्तुऽयेन जुहोतिऽइत्यादिसंस्कारलेपाञ्जनमुपस्तरणाभिगारणहविरवदानानि च विप्रतिषेधादन्यः कुर्यात् ।
स्विष्टकृतं तु दर्व्यैव जुहोति, नाञ्जलिना॑विकृतौ चोद्यमानो धर्मः प्रधानार्थो भवतीति न्यायात् ।
न च वाच्यमौपकार्यस्याङ्गत्वात्प्राधान्यमेव नास्तीति ॑यतोऽस्यापि स्वाङ्गापेक्षया प्राधान्यमस्त्येव ।
अत एवऽमन्दं दीक्षणीयायामनुव्रूयात्ऽ(आप.श्रौ । १०४११) इति वाङ्नियमस्सोमाङ्गभूतदीक्षणीयाप्रधानमात्रार्थः न तदङ्गप्रयाजाद्यर्थोऽपि ।
तथाऽततस्तूष्णीमाग्निहोत्रं जुहोतिऽ(आप.श्रौ.५१७६) इति तूष्णीकत्वमाधानाङ्गभूतस्य नैयमिकाग्निहोत्रविकृतेः प्रधानस्यैव धर्मः न तदङ्गानामपीति ।
औपकार्यस्य चौषधिहवुष्कत्वादेव सिद्धस्य तन्त्रस्य पुनर्वचनं एतत्स्नापन्नदधिहोमेऽपि प्राप्त्यर्थमित्युक्तमेव ॥१॥
था
४ शेषस्याष्टधा कृतस्य ब्राह्मणेभ्य उपहरणम् ।
सिद्धश्शेषस्तमष्टधा कृत्वा आब्रह्मणेभ्य उपहरति ॥ आपस्तम्बगृह्यसूत्र २२.२ ॥
(प.८.,ख.,२२२)
टीकाः
अनुकूलावृत्ति २२.२
तन्त्रस्य शेषस्सिद्धो भवति अविकृत इत्यर्थः ।
अञ्जलिना जुहोतीत्युभयं विशेषः स्विष्टकृति न भवतीतियर्थः ।
तेन स्विष्टकृतमवदानकल्पेन दर्व्या हुत्वा समिधमेकविंशतिमाधाय जयादि प्रतिपद्यते ॥२॥
ऽतेन सर्पिष्मता ब्राह्मणऽमित्ययेकस्य भक्षणे प्राप्तेऽष्टाभ्य इपहारो विधायते ।
तत्र ये ब्राह्मणाः श्वोभूते भोक्तारः तेभ्यो निवेद्योपवसति ॥ ३ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २२.२
अपूपस्य<शेषस्सिदधः उपहरति>प्राशनार्थमिति चानुवादः, तं शेषं सर्पिष्मन्तमष्टधा कृत्वा अष्टफ्यो <ब्रह्मणेभ्य>इति विधातुम् ।
तेनेहब्राह्मणैकत्वबाधः ।
केचित्सिद्धः शेषः इति सूत्रच्छेदः ।
सिद्धोऽविकृतस्तन्त्रस्य शेषः ।
तेन दर्व्या होमस्स्विष्टकृतः, जयादि प्रतिपद्यत इति च सिद्धमिति तेषां तमष्टधेत्यत्र तमपूपमिति व्यवहितस्य परामर्शो भवेत् ।
एवमौपकार्य कृत्वा मासिश्रादधवध्भोक्तृभ्यो ब्राह्मणेभ्यो निवेदयेत् ।
श्वोऽष्टकाश्राद्धं भविष्यतीति भेदः ॥२॥
५ गोरुपाकरणम् ।
श्वोभूते दर्भेण गामुपाकरोति पितृभ्यस्त्वा जुष्टामुपाकरोमीति ॥ आपस्तम्बगृह्यसूत्र २२.३ ॥
(प.८.ख.,२२३)
टीकाः
अनुकूलावृत्ति २२.३
दर्भेणेत्येकत्वमविवक्षितम् ।
गां स्त्रियं, जुष्टामितेल्ङ्गात् ।
पुरस्तात्प्रतीचीं तिष्ठन्तीं, श्रौते तथा दर्शनात् ।
पित्र्यं चा ।
॰टकाकर्म,<पितृभ्यस्त्वाजुष्टा>मितिदर्शनात् ।
पित्र्येषु यत्नमन्तरेणापि तन्त्रं प्रवर्तते इति पुरस्तादुक्तम् ।
तत आज्यभागान्ते तन्त्रे कृते उपाकरणादेः प्रवृत्तिः ।
अत्र प्रमाणं वक्ष्यामः ।
ऽअपरपक्षस्यापराह्णः श्रेयानिऽत्येष च कालः ।
सर्वत्र प्राचीनावीतम् ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २२.३
अथ स्वोभूते अष्टभ्याम् ।
ब्राह्मणान् गृहमानीयेत्याद्यग्निमुखान्तं सर्व मासिश्रीद्धवत्कृत्वा, अथ दर्भेणैकेन गां स्त्रियंऽपितृभ्यस्त्वा जुष्टामुपाकरोमि, इत्यनेन मन्त्रेणोपाकरोति ॥३॥
६ वपाहोमः ।
तूष्णीं पञ्चाज्याहुतीर्हुत्वा तस्यै वपां श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेनोत्तरया जुहोति ॥ आपस्तम्बगृह्यसूत्र २२.४ ॥
(प.८ ह्.,२२४)
टीकाः
अनुकूलावृत्ति २२.४
तूष्णीमित्यनुच्यमाने सम्प्रदानाभावे होमानिवृत्तेः देवताकल्पनायां प्राप्तायां या ऐताः पाशुबन्धिक्यः पश्वाहुयः
ऽउपाकृत्य पञ्च जुहोतीऽति विहिताः ता एता इति विज्ञायेत ।
ततश्च मन्त्रेष्वपि प्राप्तेषु तूष्णीं इत्युक्तम् ।
एवं ब्रूवनेतद्दर्शयति श्रौतस्य पशेरावृताषस्यापि पशोस्संस्कार इति ।
तेनऽपुरस्तात्प्रत्यञ्चं तिष्टव्तऽमित्येवमादयो विशेषा इहापि भवन्ति ।
तस्या इति वचनं तस्या वपाया एवात्र चोदितो विशेषो यथास्यात्श्रपणादि, नावदानमित्येवमर्थम्, तेन मांसौदनादेर्मासिश्राद्धवदन्यस्मिन्नग्नौ संस्कारः ।
आज्यग्रहणमनर्थकम् ।
अपिवोत्तरया जुहोतीतिवत्सिद्धम्, तत्क्रियते ज्ञापकार्थम्, एतत्ज्ञापयतिआज्यभागान्ते तन्त्रे कृते पशोरुपाकरणादीति ।
कथं कृत्वा ज्ञापकम्?सर्वत्र प्रधानाहुतिषु तान्त्रिकस्य हविषस्सधर्मकस्यानेकत्वे सति विशेषणं दृश्यतेस्थालीपाकादन्नादाज्याहुतिरितु, तदिहापि दृष्टम् ।
तत्ज्ञापयतितान्त्रिकेणैवाज्योनाहुतयोहबयन्त इति ।
उपाकरणस्य चैतासां चानन्तर्य दृश्यते
"उपाकृत्य पञ्च जुहोती"(तै.सं.३१५)ति ।
तस्मादाज्यभागान्ते पशोरुपाकरणमिति सिद्धं भवति ।
एवं पञ्चाज्याहुतीर्हुत्वा तूष्णीं संज्ञप्य वपाञ्च वपाश्रपणीभ्यां तूष्णीमुद्धृत्य औपासने श्रपयित्वाभिघार्य बर्हिषि प्रतिष्ठाप्य पुनरभिघार्य ततस्तामुपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेन जुहोति उत्तरयर्चाऽवह वपाऽमित्येतया ।
पर्मस्य वपाश्रपण्योश्च पात्रैस्सह सादनादि भवति ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २२.४
तूष्णीं स्वाहाकारेणापि विना<पञ्चाज्याहुतीर्जुहोति>, मन्त्रप्राप्त्यभावात् ।
देवता चासां प्रजापतिरेव ।
तस्यै वपामित्यादि व्याख्यातम् ।
<उत्तरया>वह<वपाम्ऽ> इत्येतया ॥४॥
७ मांसौदनहोमाः ।
मांसौदमुत्तराभिः ॥ आपस्तम्बगृह्यसूत्र २२.५ ॥
(प.८.,ख.२२५)
टीकाः
अनुकूलावृत्ति २२.५
(हुतायां वपायां पशोर्विशसनं कारयित्वा अन्वष्टकार्थ ...गृहेषु श्रपयित्वा अन्यानि च हविष्यौदनादीनि तान्यभिघार्य बर्हिषि प्रतिष्ठाप्य पुनरभिघार्य दर्व्या जुहोत्यवदानकल्पेन ।
नात्र सकृदुपघातकल्पः ।
स्विष्टकृति विप्रतिषेधात् ।
आज्येऽभावात्
मांसपिष्टौदनयोश्च भावात् ।
तत्र)मांसौदनमुत्तराभिः यां जनाः प्रतिनन्दन्तिऽइत्येताभिः सप्तभिः ।
मांसमिश्र ओदनो मांसौदनः ।
होमकाले च मिश्रणम् ।
न श्रपणकाले ।
पक्तिवैषम्यात् ।
अस्मिन् कर्मणि अष्टादशहोममन्त्राः समाम्नाताः ।
ऋचो दश यजूंष्यष्टौ ।
तत्राद्या ऋगपूपार्था ।
वपार्थोत्तरा ।
उत्तरादिभिरिति स्त्रीलिङ्गनिर्देशः ।
पिष्टान्नमुत्तरयेति वक्ष्यति ।
तेन सप्तभिऋग्भिर्मासौदनस्य होमः ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २२.५
मांसमिश्र ओदनो <मांसौदनः> तं उत्तराभिःऽयां जनाः प्रतिनन्दन्तिऽइत्यादिभिस्सप्तभिर्जुहोति ।
इदं चेह वक्तव्यम्
वपाहोमान्ते गोर्विशसनं कारयित्वान्वष्टकाब्राह्मणभोजनव्यञ्जनार्थ मांसमवशिष्य, इतरत्कृत्स्नं लौकिकप्रकारेण श्रपयित्वा, तदेकदेशं मासिश्राद्धवत्ब्राह्मणभोजनार्थादन्नद्धोमार्थमुद्धृतेऽन्ने संसृज्य, तेनैव मांसमिश्रेणौदनेन जुहोतीति ।
न च मांसौदनयोस्सहपाकश्शङ्कनीयः, गोरालम्भात्प्रागेव होमार्थान्नस्योद्धृतत्वात्, मांसौदनयोः पक्तिवैषम्याच्च ॥५॥
८ पिष्टान्नहोमाः ।
पिष्टान्नमुत्तरया ॥ आपस्तम्बगृह्यसूत्र २२.६ ॥
टीकाः
अनुकूलावृत्ति २२.६
पिष्टेन कृतमन्नं तस्य पयसि श्रपणमुत्तरयर्चाऽउक्थ्यश्चेऽत्येतया जुहोति ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २२.६
पिष्टेन कृतमन्नं पिष्टान्नं पयसि शृतं प्रसिद्धम् ।
तदुत्तरयाऽउक्थ्यश्चऽइत्यनया जुहोति ।
इह ब्राह्मणभोजनाद्यर्थमवश्यं पिष्टान्नं श्रपयितव्यम् ।
शृताच्च होमार्थ भेदेन पूर्वमेवोद्धरणम् ।
मांसौदनस्य पिष्टान्नस्य च पार्वणवत्स्वकीयोऽवदानधर्मः ।
पलाशपर्ण चेह वपाहोममात्रे ।
अन्यद्दर्व्यैव ॥६॥
९ आज्याहुतयः ।
आज्याहुतीरुत्तराः ॥ आपस्तम्बगृह्यसूत्र २२.७ ॥
टीकाः
अनुकूलावृत्ति २२.७
उत्तरैर्मन्त्रैःऽभूः पृथिव्यग्निनर्चेऽत्यादिभिः अष्टाभिराज्यस्य जुहोतीत्यर्थः ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २२.७
उत्तरमन्त्रकरणिका आज्याहुतीरष्टौ जुहोतीत्यर्थः ।
ते चऽभूः पृथिव्यग्निनाऽइत्यादयः यजूरूपाः ॥७॥
१० स्विष्टकृदादि ।
स्विष्टकृत्प्रभृति समानमापिण्डनिधानात् ॥ आपस्तम्बगृह्यसूत्र २२.८ ॥
टीकाः
अनुकूलावृत्ति २२.८
स्विष्टकृत्प्रभृति पिण्डनिधानान्तं कर्म कृत्स्नं मासिश्राद्धवदिहापि कर्तव्यमित्यर्थः ।
अत्र मांसौदनात्पिष्टाच्च स्विष्टकृत्, ततो जयादि ।
अथ ब्राह्मणानामुपवेशनं हस्तेषूदपात्रानयनमलङ्कारः ।
ततऽस्सर्वमुत्तरैरभिमृशेऽदित्यादि ग्रासवरार्ध्य प्राश्नीयातित्येवमन्तम् ।
एतदेवास्मिन्नहनि भोजनं, नान्यत् ।
आरब्धे चाभोजनमासमापनादिति ।
पञ्चयज्ञाश्च लुप्यन्ते ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २२.८
स्विष्टकृदादि तन्त्रशेषं सर्वाभिमर्शनादि च प्रदक्षिणीकृत्येत्येवमन्तं ब्राह्मणभोजनं, पिण्डनिधानं, ग्रासवरार्ध्य प्राश्नीयादित्येवमन्तं, सर्व पदार्थजातं मासिश्राद्धवदिहापि कर्तव्यमेवेत्यर्थः ।
तत्र च मांसौदनात्पिष्टान्नाच्च स्विष्टकृते सहावदानमिति भेदः ॥८॥
अन्वष्टकायामेवैके पिण्डनिधानमुपदिशन्ति ॥ आपस्तम्बगृह्यसूत्र २२.९ ॥
टीकाः
अनुकूलावृत्ति २२.९
न पिण्डनिधानमित्युच्यमानेऽन्वष्टकायामपि पिण्डनिधानं न स्यात् ।
अष्टका प्रकृता ।
तत्र कः प्रसङ्गो यदन्वष्टकायां न स्यात् ।
एवं तर्हि एतत्ज्ञापयति विकल्पोऽत्र विधिरयम् ।
अतः कृत्स्नस्य कर्मणो विषयो भवति सापूपस्य सान्वष्टकस्येति ।
तेन दध्यञ्जलिः कृत्स्नैकाष्टकाकरणात्विकल्प्यते सापूपेन सान्वष्टकेनेति केचित् ।
वयं तु ब्रूमः अष्टकायामकृतायां भोजनमस्य न भवतीत्येतदर्थमेव वचनमन्वष्टकायां यत्पिण्डदानं तदिह .... नास्मिन् कर्मणि पृथक्कर्तव्यमिति ॥१०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २२.९
या श्वोभूतोऽन्वष्टकेति विधास्यते तस्यामन्वष्टकायामेव पिण्डनिधानं पिण्डप्रदानं नाष्टकायामित्येके आचार्या उपदिशन्ति ।
केचित् न पिण्डनिधानमेके इति वक्तव्ये अन्वष्टकायामेवैक इत्येवं वचनमेतत्ज्ञापयति विकल्पोऽत्र विधीयमानः कृत्स्नस्य कर्मणः सापूपहोमस्य सान्वष्टकस्य विषये भवतीति ।
तेन दधिहोमः कृत्स्नेनान्वष्टकान्तेनाष्टकाकर्मणा विकल्प्यत इति ।
केचित्तु अन्वष्टकायां यत्पिण्डनिधानं, तदेवास्य, न पुनस्तदस्मिन् प्रदेशे पृथक्कर्तव्यमिति वचनव्यक्त्यास्य कर्मणोऽसमाप्तत्वसूचनम् ।
तेनान्वष्टकायामकृतायां न कर्तुर्भोजनं, नापि पञ्चमहायज्ञा इति ।
वस्तुतस्तु भाष्यकारेणात्रार्थविशेषस्यानुक्तत्वात्,ऽअन्वष्टकोभयोरपि पक्षयोऽरिति वक्ष्यमाणत्वात्, अवान्तरप्रयोगस्य समाप्तेस्स्पष्टत्वाच्च,ऽअन्वष्टकायामेवैकऽइत्येषोऽन्वष्टकायामेव पिण्डनिधानं नाष्टकायामिति फलाभिप्रायो व्यपदेश इति मन्तव्यम् ॥
अथ यज्ञोपवीतप्राचीनवीतयोर्विवेकः औपकार्ये च मांसौदनहोमेषु चादितश्चतुर्षु, षष्ठे च पिष्टान्नहोमे च, आज्यहोमे चादितष्,ट्सु, दधिहोमे चाघारादिषु च (प्राक्तेषु इत्यधिकम् ।
एव प्रतिषिद्धम्) यज्ञोपवीतं, मन्त्राणां देनलिङ्गत्वात् ।
अन्यत्र प्रकृतिवत्प्राचीनावीतमेव ।
ननु चात्र कलियुगे धर्मज्ञसमयाद्गोरालम्भो निषिद्धः ।
तेन यद्यपिऽमांसौदनमुत्तराभिःऽइत्यत्र हविरुपसर्जनीभूतमांसाभावेऽपि केवलौदनहविष्कहोमैः प्रधानान्तरसहितैः अष्टकाधिकारसिद्धेरुपपत्तिः॑तथापि वपाहोमे स्वरूपस्यैवाभावान्न युज्यते ।
मैवम्, प्रमाणबलेन कस्मिंश्चित्प्रधाने निषिद्धेऽपि प्रधानान्तरैरेव विषयप्रत्यभिज्ञानादधिकारसिद्धेरुपपन्नत्वात् ।
अत एव दर्शपूर्णमासयोःऽनासोमयाजी सन्नयेत्ऽ (तै.सं. २५५),ऽनासोमयाजिनो ब्राह्मणस्याग्नीषोमीयः पुरोडाशो विद्यतेऽ(आप.श्रौ. ) इति निषिद्धयोरपि सान्नाय्याग्नीषोमयोस्तद्व्यतिरिक्तैरेव प्रधानैरधिकारसिद्धिः ।
इयांस्तु भेदः क्वचिच्छ्रुतिर्निषेधिका, क्वचिद्धर्मज्ञसमय इति ।
धर्मज्ञसमयोऽपि वेदवत्प्रमाणम् ।
अथवा आज्यमेव वपामांसयोस्स्थाने प्रयोक्तव्यम् ।
ऽआज्येन शेषं संस्थापयेत्ऽइति पात्नीवते दर्शनात्ऽआज्यस्य प्रत्याख्यामवद्येत्ऽ(तै.सं.३१३) इति दर्शनाच्च ।
प्राप्तिस्तु नित्यत्वादेवाष्टकायाः कृत्स्नायाः ।
यद्वा गोस्स्थाने छाग एवालब्धव्यः, प्रस्तुतसमानयोगक्षेमेऽऐन्द्राग्नं पुनरुत्सृष्टमालभेतऽ(तै.सं.२१५) इत्यत्र गोः पुनरुत्सृष्टस्य स्थानेऽपुनरुत्सृष्टश्छागःऽइति भरद्वाजसूत्रदर्शनात् ।
अपि वात्यन्तलघुरपि दधिहोमपक्षः कलियुगे व्यवस्थितो द्रष्टव्यः ।
प्रमाणं तु त्रैविद्यवृद्धाश्शिष्टा एव ॥९॥
११ दध्यञ्जलिहोमः ।
अथैतदपरं दध्न एवाञ्जलिना जुहोति ययापूपम् ॥ आपस्तम्बगृह्यसूत्र २२.१० ॥
टीकाः
अनुकूलावृत्ति २२.१०
एवमष्टकायां मुख्यः कल्पो दर्शितः ।
अथानुकल्पः यया ऋचा जुहोतिऽयां जनाऽइत्येतया तया दध्नः पूर्णेनाञ्जलिना जुहोति ।
तन्त्रस्य विधानातञ्जलिना होमत्वाच्च अपूर्वो दध्यञ्जलिः ।
अञ्जलिनेति वचनात्दर्व्या निवृत्तिः ।
(२ क,ख, पुरस्तात्तन्त्रमुपरिष्टात्तन्त्रं च कृत्स्नं न भवति) ।
तन्त्रद्वयञ्च न भवति ।
कः पुनरस्य कालः ?अष्टमी ।
पूर्वाह्णे च क्रिया, दैवत्वात् ।
प्रातर्होमानन्तरं औपासनमुपसमाधाय सम्परिस्तीर्य तूष्णीं समन्तं परिषिच्य दध्नाञ्जलिं पूरयित्वाऽयां जनाऽइति जुहोति ।
न स्विष्टकृत् ।
पुनरपि तूष्णीं परिषेचनम् ।
अन्ये तु पुरस्तात्तन्त्रं स्विष्टकृच्चेच्छन्ति, न जयादीन् ।
अत्र मूलं मृग्यम् ।
एष कालः, आचार्यप्रवृत्तित्वात् ।
एषा ह्येवानुकल्पेष्वाचार्यस्य प्रवृत्तिः ।
तद्यथा समावर्तने तूष्णीमेव तीर्थे स्नात्वेति ।
दध्यञ्जलिश्चायमष्टकायां ये होमास्तेषां निवर्तकः, तदनन्तरमभिधानात्, नापूपहोमस्य ।
नान्वष्टकायाः ।
ब्राह्मणभोजनपिण्डनिर्वापणे च भवतः ।
होममात्रस्यैवायं दध्यञ्जलिर्निवर्तकः ।
एवं तर्ह्यत्र वचनं व्यज्यते यज्जुहोति तद्दध्न एवाञ्जलिनेति ।
(अपर आह अपूपाष्टकयोर्द्वयोरपि निवर्तकम् ।
नान्वष्टकायाः ।
यदि तस्या अपि प्रत्याम्नायः स्यात्तामभिधायायमनुकल्पो वक्तव्यस्स्यादिति) ।
अन्ये तु सापूपस्य सान्वष्टकस्य कृत्स्नस्याष्टकाकर्मणो निवर्तको दध्यञ्जलिरिति ॥ १० ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २२.१०
ययाऽयां जनाऽइत्येतया अपूपं जुहोति, तया ऋचा दध्नस्स्वावदानधर्मेणावदायाञ्जलिना जुहोति ।
पार्वणवच्चाग्निमुखान्ते दधिहोमः, अपूपहोमवच्चावदानम् ।
ऽयेन जुहोति तदग्नौ प्रतितप्यऽइत्यादिकं लेपाञ्जनं चान्येन कारयितव्यम् ।
अयं च दधिहोमोऽष्टम्यां पूर्वाह्णे ।
केचित् अञ्जलिहोमास्सर्वे अपूर्वाः, नैव तत्र पुरस्तादुपरिष्टात्तन्त्रमिति ।
अयं चानुकल्पोऽपूपहोमाद्याज्याहुतीरुत्तरा इत्येवमन्तानामेव स्थाने वेदितव्यः, नान्वष्टकाया अपि, आज्याहुत्यन्तं कर्म विधायान्वष्टकायाः प्रागेवानुकल्पस्य विधानात् ।
तेनोभयोरपि पक्षयोर्नवम्यामन्वष्टका नित्यैव ।
तेन दधिहोमपक्षेऽन्वष्टका नास्तीति निर्मूलम् ।
अयं च दधिहोमविधिर्होमानामेव स्थाने॑ऽदध्न एवाञ्जलिना जुहोतीऽति जुहोतिशब्दस्य स्वारस्यात् ।
तेनास्मिन्नपि पक्षे ब्राह्मणभोजन पिण्ड प्रदान योरावृत्तिः ।
तस्मात्सप्तम्यां रात्रौ ब्राह्मणान्निमन्त्र्याष्टभ्यां होमस्थाने दधिहोमः, ततोऽपराह्णे भोजनादि सर्वमविकृतं, नवम्यामन्वष्टकापीति सिद्धम् ॥१०॥
१२ अन्वष्टका ।
अत एव यथार्थ मांसं शिष्ट्वा श्वोभूतेऽन्वष्टकाम् ॥ आपस्तम्बगृह्यसूत्र २२.११ ॥
(प.८.,ख.२२११)
टीकाः
अनुकूलावृत्ति २२.११
अत एवास्या एव गोरेकाष्टकायामालब्धायां मांसं यस्य यथार्थ यावत्प्रयोजनं शिष्ट्वा श्वोभूते नवम्यामन्वष्टकानाम कर्म कर्तव्यम् ।
भूयांसमतो माहिषेणेत्यादीनां निवृत्त्यर्थ एवकारः ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २२.११
श्वोभूते मवम्यामन्वष्टकाख्यं कर्म कर्तव्यम् ।
अत एव गोरष्टकायामालब्धायाः मांसं यथार्थ यथाप्रयोजनं शिष्ट्वा इत्येतत्प्रथमपक्षविषयम् ॥११॥
तस्या मासिश्राद्धेन कल्पो व्याख्यातः ॥ आपस्तम्बगृह्यसूत्र २२.१२ ॥
(प.८.,ख.२२१२)
टीकाः
अनुकूलावृत्ति २२.१२
मासिश्राद्धवदन्वष्टका कर्तव्येत्यर्थः ।
कल्पातिदेशात्द्रव्यदेवतादि सर्वमिह प्राप्यते ।
ऽतत्रान्नस्योत्तराभिर्जुहोतीऽत्यत्र मांससंसृष्टस्यान्नस्य होममिच्छन्ति ।
अष्टकायां दर्शनात् ।
इह च यथार्थ मांसमिति वचनात् ।
अन्ये मासिश्राद्धातिदेशादन्नस्याव होममिच्छन्ति ।
यत्रैव तु कार्ये मासि श्राद्धे मांसं इहापि तत्रैवेति ।
अत्र केचित्दध्यञ्जलिपक्षेऽप्यन्वष्टकामिच्छन्ति ।
मध्ये तस्य विधानात् ।
यदि ह्यसावन्वष्टताया अपि प्रत्याम्नायः स्यात्तामप्यभिधाय वक्तव्यं स्यादिति ।
अत एव यथार्थ मांसं शिष्ट्वा श्वोभूतेऽन्वष्टका तस्या मासि श्राद्धेन कल्पो व्याख्यातः इति पूर्वत्र सम्बन्धः ॥
अथैकोद्दिष्टविधिः शास्त्रान्तरात् ।
प्रेतमेकमुद्दिस्य यच्छ्राद्धं क्रियते तदेकोद्दिष्टम् ।
अयुग्मा ब्राह्मणाः एकः त्रयः पञ्चेति ।
वृध्या फलभूयस्त्वम् ।
तत्र नाग्नौ करणं, नाभिश्रावणं, न पूर्व निमन्त्रणं, न दैवं, न धूपो, न दीपो, न स्वधा, न नमस्कारः, उदङ्मुखाः ब्राह्मणाः ।
सर्वस्मादन्नात्सकृत्सकृदवदाय दक्षिणतो भस्ममिश्रानङ्गारान्निरूह्य तेष्वेव जुहुयात्प्रेतायामुष्मै यमाय च स्वाहेति ।
प्रेतायेति वचनं प्रेतस्य नामनिर्देशार्थं यज्ञशर्मणे यमाय च स्वाहेति प्रयोगमिच्छन्ति ।
यज्ञशर्मणे प्रेताय यमाय चेत्यन्ये ।
अमुष्मै तृप्तिरस्त्विति अपां प्रतिग्रहणं विसर्जनं चा अस्ति तृप्तिरिति प्रतिवचनम् ।
अमुष्मा उपतिष्ठत्वित्यनुदेशनं, आशयेषु च पिंढदानं भोजनस्थान इत्यर्थः ।
तृप्यस्वेति संक्षालनम् ।
एतदेकोद्दिष्टं सर्ववर्णानां स्वाशौचान्ते प्रसिद्धम् ॥
अथान्यानि नवश्राद्धमासिकानि त्रैपक्षिकं षाण्मासिकं साम्वत्सरिकमिति ।
यत्प्रथमं क्रियते तन्नवश्राद्धम् ।
नवं च तच्छ्राद्धञ्चेति कृत्वा ।
तस्य वर्णानुपूर्वेण कालः
चतुर्थे पञ्चमे चैव नवमैकादशे तथा ।
यदत्र दीयते जन्तोः तन्नवश्राद्धमुच्यते ॥
इति ॥
सर्वेषामपि वर्णानां चत्वार्यपि नवश्राद्धानीत्यन्ये ।
तोषां द्वितीयादिषु नवशब्दो घटते ।
मासिकानि द्वादश प्रतिमासं मृताहे कर्तव्यानि ।
आद्यं तु स्वाशोचन्ते ।
अन्त्यं च सपिण्डीकरणेन सह मृताह एव त्रापक्षिकं षाण्मासिकं द्वितीयादिषु सम्वत्सरेषु प्रतिसम्वत्सरं मृताह एव साम्वत्सरिकमिति षोडशैतान्येकोद्दिष्टानि ।
साम्वत्सरिके च क्षेत्रजजारजयोः एकोद्दिष्टकल्पस्य च विकल्पः ।
इतरेषामेकोद्दिष्टमेव ।
ये नवश्राद्धानां समुच्चयमिच्छन्ति तेषां षोडशैकोद्दिष्टानीत्येषापि प्रसिद्धिर्दुरुपपादा ।
अत्र पठन्ति
नित्यश्राद्धं मासि मासि अपर्याप्तावृत्तुं प्रति ।
द्वादशाहेन वा भोज्या एकाहे द्वादशापि वा ॥
अथ सपिण्डीकरणं सम्वत्सर एकादशे चतुर्थे तृतीये वा मासि त्रिपक्षे अर्धमासे द्वादशे वाहनि उपनयनाभ्युदयप्राप्तौ वा ।
तत्र एकोद्दिष्टस्य मासिश्राद्धस्य च समुच्चयः ।
प्रेतस्यैकोद्दिष्टं तस्य ये प्त्रादयः तेभ्यो मासिश्राद्धं मन्त्रेषु च न क्श्चिद्विकारः ।
यन्मे मातेत्यादिषु यथैव ते पित्रा प्रेतेन पूर्व प्रयुक्तास्तथाव पुत्रेणापि प्रयोक्तव्याः ।
पुत्रादन्यस्य च सपिण्डीकरणे नाधिकारः, मासिश्राद्धाभावात् ।
सपिण्डीकरणास्य च मासिश्राद्धप्रयोगविकारत्वात् ।
तस्मादपुत्रस्य प्रेतस्य भार्या यावज्जीवमेकोद्दिष्टकल्पेनैव पत्ये मासिश्राद्धं ददाति ।
पुत्रोऽप्यकृतविवाह एवमेव ।
विवाहादूर्ध्व यदा मासिश्राद्धमारभते तदा पितुः सपिण्डीकरणेन सहारभते ।
अन्ये त्वेतदनुष्ठानं अन्यथापि भवति ।
तत्र पित्रे प्रेताय पूर्ववद्भस्मनि होमः इतरेभ्योऽन्नादाज्याच्च मासिश्राद्धवत् ।
पिण्डदानेमासिश्राद्धवत्पिण्डान् दत्वा तत्समीपे पृथक्स्तीर्णेषु दर्भेषु प्रेताय पिण्डः ।
पूर्ववदपो दत्वा तस्यान्ते अर्घ्यार्ध पितृपात्रेषु प्रेतपात्रं प्रसेचयेत्ऽये समामाऽइति द्वाभ्यां पिण्डं पिण्डेषु संसृजेत् ।
एतत्सपिण्डीकरणम् ।
एतस्मिन्कृते प्रेतः पितृत्वमापद्यते ।
चतुर्थश्चानुज्ञापित उत्सृष्टो भवति ।
अत्र विप्रतिप्त्तिः केचित्प्रपितामहस्य पात्रं पिण्डं चेतरेषु संसृजन्ति ।
प्रेतशब्देन स एवोच्यते प्रकर्षेण इतः प्रेत इति ।
स ह्यत्रानुज्ञातो भवति ।
प्रसिद्धस्त्वाचारः यस्य सपिण्डीकरणं स प्रेतः, तस्यैव च पात्रपिण्डयोरितरेषु संसर्गः ।
एवमपि प्रपितामहस्यैवानुज्ञेति ।
मातृसपिण्डीकरणे सा यदि पुत्रिका, आसुरादिविवाहोढा वा ततो मातामहादीनां पिण्डेषु संसर्गः ।
तत्पिण्डस्येतरत्र श्वश्त्वादि पिण्डेन एकाचित्यारूढायास्तु भर्तृपिण्डेनेति केचिद्व्यवस्थापयन्ति ।
प्रयोगस्तु पिरसिद्धाचारानुरोधेन कर्तव्यः ।
अत्र केचित्पठन्ति
भ्राता वा भ्रातृपुत्रो वा सपिण्डः श्ष्य एव वा ।
सहपिण्डक्रियाः कृत्वा कुर्यादभ्युदयं ततः ॥
इति ॥
तथा
अपुत्रायां मृतायां तु पतिः कुर्यात्सपिण्डतामिति ॥
अथ नाम्दीश्राद्धं तत्र बोधायनः अथाभ्युदयिकेषु प्रदक्षिणमुपचारो यज्ञोपवीतं प्रागग्रान् दर्भान्, युग्मान् ब्राह्मणान्, यवैस्तिलार्थः, पृषदाज्यं हविः ।
सोपयामेन पात्रेण नान्दीमुखाः पितरः प्रीयन्तामित्यपां प्रतिग्रहणं, संसर्जनं च ।
नान्दीमुखेभ्यः पितृभ्यः स्वाहेत्यग्नौकरणमनुदेशनं च ।
आशयेषु परिसमूढेषु दर्भेषु पृषदाज्येनानुप्रदानं नान्दीमुखेभ्यः पितृभ्यः स्वधा नमः इति सर्व द्विर्द्विरिति (बौ.गृ.३१२२....५)
तत्रैव प्रदेशान्तरे"तेषु भक्तवत्सु स्वधायै स्थानेऽमधु मनिष्ये मधु जनिष्यऽइत्येतद्यजुर्जपित्वा नान्दीमुखाः पितरः प्रीयन्तामित्यपो निनयति स्वधैवैषोक्ता भवति ।
नैकेनाह्ना दैवं पित्र्यं च कुर्वन्ति यस्यैकाह्ना पित्र्यं दैवं च कुर्वन्ति प्रजा हास्य प्रमायुका भवति, तस्मात्पितृभ्यः पूर्वेद्युः क्रियते, परेद्युर्देवानामिति ।
(बौ.गृ.प.१३१०११) तथा पुष्पफलाक्षतमिश्रैर्यवैः तिलार्थ उपलिप्य दध्योदनं समप्रकीर्येति ।
तत्र मासिश्राद्धं सर्वेषां पित्र्याणां प्रकृतिः ।
अस्माकं विशेषास्तु शास्त्रान्तरादागमयितव्याः ।
तेनऽपूर्वेद्युर्निवेदनऽमित्यादि सर्वमिहापि भवति ।
युग्मा ब्राह्मणाः अष्टौ षोडश वा ।
यद्युष्टौ द्वौ देवेभेयः पितृभ्यो द्वौ द्वौ ।
यदि षोडश देवेभ्यश्चत्वारो द्वादश पितृभ्य इत्यादि ।
यवैस्तिलार्थः मासिश्राद्धो यत्तिलकृत्यमर्घ्यादिषु तदत्र यवैः कर्तव्यः ।
पुष्पादिभिश्च मिश्रणम, प्रदेशान्तरे वचनात् ।
पृषदाज्यं हविः ।
र्मासौदनवत्पृषदाज्यमिश्रमित्येके, केवलमेवेत्यन्ये ।
सोपयामेनेति येनार्घ्य प्रदीयते तत्पात्रमन्येन पात्रेणोपयम्येत्यर्थः ।
नान्दीमुखाः प्रीयन्तामिति देवेभ्यस्तु विश्वेदेवाः प्रीयन्तामिति ।
तत्र पितॄणामेकपात्रं, न त्रीणि॑पितृपितामहप्रपितामहविशेषस्यानुपदेशात्, सर्वेषु मन्त्रेषु नान्दीमुखाः पितर इत्युपदेशात् ।
तस्मादेकमेव पात्रं पितॄणां, देवानां चैकम् ।
तत्र ब्राह्मणानुपवेश्याग्नेः प्रतिष्ठापनं अर्घ्यपात्रयोश्च ।
अग्निश्चौपासन एव ।
विवाहेष्वसंभवात् ।
अर्घ्य प्रदाय गन्धादिभिश्चालङ्कृत्यानुज्ञातो हविरुद्धृत्य पृषदाज्येन संसृज्याभिघार्याज्यभागान्ते नान्दीमुखेभ्यः पितृभ्यः स्वाहेत्येकां प्रधानाहुदीं जुहोति केवलेन पृषदाज्येन सौविष्टकृतं द्वितीयं जुहुयादिति ।
तन्त्रशेषं समाप्य क्लप्तान्वा प्रतिपूरुषमिति न्यायेनानेन नान्दीमुखेभ्यः पितृभ्यः स्वाहेत्यनेन मन्त्रेण पितृभ्योऽनुदिशति, देवेभ्यस्तु वुश्वेभ्यो देवेभ्यः स्वाहेति ।
मासिश्राद्धे ये होममन्त्राः
अनुदेशनमन्त्राश्च तेषां निवृत्तिः ।
उपस्पर्शनं तु भवत्येव प्रत्याम्नायाभावात् ।
पृथिवीते पात्रमित्याशयेषु च परिसमूढेष्विति आशयेषु भोजनस्थानेषु परिसमूढेषु परिसमूहनेन शोधितेषु पृषदाज्यमिश्रेण बविषा पृषदाज्येनैव तावत्पिण्डस्यानुप्रदानं नान्दीमुखेभ्यः स्वधानम इत्यनेन ।
एवं सर्व द्विर्द्विरिति ।
आसनप्रदानादिषु द्विर्द्विः प्रयत्नः कर्त्तव्य इत्यर्थः ।
उपलिप्य दध्योदनं सम्प्रकीर्य ततेऽये अग्निदग्धाऽइत्यस्मिन् स्थाने भवति ।
अथ दक्षिणां दत्वा विसर्जनं नान्दीमुखाः पितरः प्रीयन्तामिति ।
तत उदपात्रसमीपे मधु मनिष्य इति यजुर्जपित्वा विसर्जनमन्त्राभ्यां बर्हिषि पात्रे निनीय्य न्युब्जमिति ।
एवमेतन्नान्दीश्राद्धं तत्र कर्तव्यं यत्रापरेद्युर्देवयज्यानुष्ठानम् ।
केचित्वन्यथा पठन्ति च
मातुश्श्राद्धं तु पूर्व स्यात्पितॄणां तदनन्तरम् ।
ततो मातामहानां तु वृद्धौ श्राद्धत्रयं विदुः ॥
इति ॥
अस्मिन् पक्षे मात्रादीनां द्वौ द्वौ ।
एवं पित्रादीनां, एवं मातामहादीनां, देवार्थेद्वावेति विंशतिर्द्विजाः ।
तथा च मनुनान्यपरे वाक्ये दर्शितम्
प्रतिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे इति ।
(म.स्मृ.८३९२)
यात्राभ्युदयश्राद्धं भवति तद्विंशतिद्विजं कल्याणं भवति ।
पुनश्च पठंति
पुंसि जातान्नचौलोपस्नानपाणिग्रहेषु च ।
अग्न्याधाने तथा सोमे दशस्वभ्युदयस्स्मृतः ॥
इति ॥
प्रयेगश्चपार्वणश्राद्धवदेव ।
एतावदत्र नाना युग्मा ब्राह्मणाः प्रदक्षिणमुपचारो यज्ञोपवीतं यवास्तिलार्त इति ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २२.१२
तस्या अन्वष्टकायाः कल्पो मासिश्राद्धवत्कर्तव्य इत्यर्थः ।
कल्पातिदेशात्सर्वमिह द्रव्यदेवतादिकं प्राप्यते ।
तस्मान्निमन्त्रणादि ग्रासप्राशनान्तं सर्व मासिश्राद्धवदविकृतं कर्तव्यम् ॥१२॥
अथावशिष्टानां मन्त्राणां येषु विनियोगस्तानि कर्माणि व्याचष्टे
१ याच्ञार्थ गज्छता कर्तव्यो जपः ।
सनिमित्वोत्तरान् जपित्वार्ऽथ ब्रूयात् ॥ आपस्तम्बगृह्यसूत्र २२.१३ ॥
(प.८.,ख.२२१३)
टीकाः
अनुकूलावृत्ति २२.१३
सन्यर्थ दातारं गत्वा ।
भिक्षणलभ्यं धनं सनिरित्युच्यते ।
सनिमित्वा उत्तरान्मन्त्रान्ऽअन्नमिव ते दृशे भूयासऽमित्यादीन् सप्त जपित्वा ।
तमर्थ प्रब्रूयात्यदर्थमागत ।
सप्तमे मन्त्रे असावित्यत्र प्रदातुर्नामग्रहणं ,म्बुध्या ॥१३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २२.१३
सनिर्यात्ञा भिक्षणम् ।
केचित्भिक्षणलब्धं धनमिति ।
या सनिःऽभिक्षणे निम्त्तमाचार्यो विवाहो यज्ञे मातापित्रोर्बुभूर्षार्हतश्च नियमविलोपःऽऽतत्र गुणान् समीक्ष्य यथाशक्ति देयम्ऽ(आप.ध.२१०१,२) इति धर्मशास्त्रे.वगता, तामुद्दिश्य इत्वा गत्वा ।
उत्तरान्मन्त्रान्ऽअन्नमिव ते दृशे भूयासंऽइत्यादीन् सप्त जपित्वा तमर्थ प्रयोजनं ब्रूयात्, यं भिक्षेत तं बोधयतिऽआचार्यार्थं भिक्षामि भवन्तम्ऽइति ।
एवमुत्तरेष्वपि भिक्षणनिमित्तेषु विशेषः विवाहार्थमित्यादिः ।
सप्तमे च मन्त्रेऽअसाऽवित्यत्र समबुद्ध्या दातुर्नामग्रहणम् ॥१३॥
इदानीं यदि याच्ञया रथादीनि सब्धानि, तदा केन विधिना स्वीकारः?इत्युत्तरे विधये आरभ्यन्ते
२ रथलाभे चक्राभिमर्शनम् ।
रथं लब्ध्वा योजयित्वा प्राञ्चमवस्थाप्योत्तरया रथचक्रे अभिमृशति पक्षसी वा ॥ आपस्तम्बगृह्यसूत्र २२.१४ ॥
(प.८.,ख.२२१४)
टीकाः
अनुकूलावृत्ति २२.१४
यदि रथो लभ्यते ततस्तं लब्ध्वा योजयति कर्मकरैर्युगधुरोः करोति ।
तं प्राङ्मुखमवस्थाप्य उत्तरयर्चाऽअङ्कौ न्यङ्कावभितऽइत्येतया ।
रथचक्रे उभे सहाभिमृशति ।
पक्षसी रथस्येति शेषः पार्श्वे फलके इत्यन्ये ।
नेमी इत्यपरे ।
सकृदेव मन्त्रः ।
पाणिभ्यामुभाभ्यामभिमर्सनम् ।
तथा चाश्वलायनःऽरथमारोक्ष्यन्नाना पाणिभ्यां चक्रे अभ्मृशेत्(आश्व.गृ.२६१) इति ॥१४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २२.१४
रथश्चेल्लब्धः तं कर्मकरैर्वाहाभ्यां<योजयित्वाथ तं प्राञ्चं>प्राङमुखमवस्थाप्य उत्तरयाऽअङ्कौ न्यङ्कौऽइत्येतया रथचक्रे उभे पाणिभ्यां युगपदभिमृशति ।
अपि वा पक्षसी ईर्षे ।
अन्यथापि पदार्थमाहुः ॥१४॥
३ रथारोहृअमन्त्रः ।
उत्तरेण यजुषाधीरुह्योत्तरया प्राचीमुदीचीं वा दिशमभिप्रयाय यथार्थ यायात् ॥ आपस्तम्बगृह्यसूत्र २२.१५ ॥
(प.८.,ख.२२१५)
टीकाः
अनुकूलावृत्ति २२.१५
ततः<उत्तरण यजुषा>ऽअध्वनामध्वयत्ऽइत्येन ।
रथं स्वमधिरोहति ।
ततः उत्तरयर्चाऽअयं वामश्विमा रथऽइत्येतया ।
प्रचीमुदीचीं वा दिशमभिप्रपाद्य <यथार्थ यायात्> यत्र प्रयोजनं तत्र गच्छेत् ।
अधीरुह्येति दीर्घपाठश्छान्दसः ।
एताद्विधानं क्रयादिलब्धस्यापि रथस्य प्रथमारोहणे भवति ।
द्वितीयादिषु तु न भवति ।
लब्ध्वेति वचनात् ॥१५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २२.१५
तेन(ततः)<उत्तरेण>ऽअध्वनामध्वपतेऽइत्यनेन यजुषा रथं स्वयमधिरुह्य ।
दीर्घश्छान्दसः ।
<उत्तरया>ऽअयं वामश्विनौऽइत्येतया ।
<प्राचीमुदीचां वा दिशमभ्प्तयाय>प्रस्थायादृष्टार्थ, ततो <यथार्थ>प्रयोजनानुसारेण<यायान्>गच्छेत् ॥१५॥
केचित्लब्ध्वेतिवचनात्क्रयादिलब्धस्यापि रथादेः प्रथमारोहणे विधिरयं भवतीति ।
नैतत्॑प्रकृतयाच्ञादिना लब्धरथादिविषयत्वेनैवास्य वाक्यस्यार्थवत्त्वोपपत्तेः,ऽयाच्ञया रथादीनि लब्ध्वाऽइति भाष्यविरोधाच्च ॥१५॥
४ अश्वारोहणमन्त्रः ।
अश्वमुत्तरैरारोहेत् ॥ आपस्तम्बगृह्यसूत्र २२.१६ ॥
(प.८.,ख.२२१६)
टीकाः
अनुकूलावृत्ति २२.१६
लब्ध्वे त्यनुवर्तते ।
उत्तैरेकादशभिःऽअश्वोऽसि हयोऽसिऽइत्यादिभिः ।
रथलाभवदश्वलाभो व्याख्यातः ॥ १६ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २२.१६
अश्वश्चेद्याच्ञया लब्धः तमुत्तरैर्मन्त्रैःऽअश्वोऽसिऽ इत्यादिभिरारोहेत् ॥१६॥
५ हस्त्यारोहणमन्त्रः ।
हस्तिनमुत्तरया ॥ आपस्तम्बगृह्यसूत्र २२.१७ ॥
(प.८.ख.,२२१७)
टीकाः
अनुकूलावृत्ति २२.१७
लब्ध्वाऽगोहोदिति वर्तते ।
<उत्तरया>ऽहस्तियशसमसीऽत्येतया ।
तत्रासाविति हस्तिनो नामग्रहणम् ।
अभिनिदधामि नागेन्द्रेति ।
आरुह्य तूष्णीमङ्कुशाभिधानम् ।
मन्त्रे चाभिनिदधामीति द्रष्टव्यः ।
तेन मन्त्रे लिङ्गस्याविरोधः ॥१७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २२.१७
पूर्ववद्व्याख्यानम् ।
<उत्तरया>ऽहस्तियशसंऽइत्येतया ।
असावित्यत्र च सम्बुद्ध्या ऐरावतेति गजनामग्रहणम् ।
अत्र यद्यपिऽवज्रेणाभिनिदधाम्यसौऽइतिलिङ्गादङ्कुशाभिधानार्थता मन्त्रस्य॑तथापिऽहस्तिनमुत्तरयाऽरोहेत्ऽइति वाचनिकविनियोगस्य बलवत्त्वात्तदनु सार्येव मन्त्रो व्याख्यातव्यः ॥१७॥
ताभ्यां रेषणे पूर्ववत्पृथिवीमभिमृशेत् ॥ आपस्तम्बगृह्यसूत्र २२.१८ ॥
(प.८.ख.,२२१८)
टीकाः
अनुकूलावृत्ति २२.१८
ताभ्यां अस्वहस्तिभ्यां.<रेषणे>शरीरोपमर्दे जाते <पूर्ववत्>हेमन्तप्रत्यवरोहणवत्<पृथिवीमभिमृशेत्> ।
ऽस्योना पृथिविऽऽबडित्थेऽत्येताभ्याम् ।
पूर्ववदिति न जातकर्म गृह्यते, व्यवधानात् ॥१८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २२.१८
ताभ्यां तयोरश्वहस्तिनोः ।
रेषणे मरणे सति ।
पूर्ववथेमन्तप्रत्यवरोहणवत्ऽस्योना पृथिवीऽइत्येताभ्यां<पृथिवीमभिमृशेत्> ।
केचित्ताभ्यां अश्वहस्तिभ्याम् ।
प्रमादाद्भूमौ पतितस्य रेषणे शरीरोपमर्दे जाते इति ॥१८॥
१ छत्रदण्डयोरादानम् ।
संवादमेष्यन् सव्येन पाणिना छत्रं दण्डञ्चाऽदत्ते ॥ आपस्तम्बगृह्यसूत्र २२.१९ ॥
(प.८.ख.,२२१९)
टीकाः
अनुकूलावृत्ति २२.१९
यत्र स्थानेर्ऽथादिनिमित्ते प्रत्यर्थिभिः सम्वदते स<सम्वादः ।
तमेष्यन्> तत्रापराजयाय<सव्येन पाणिना छत्रं> <दण्डञ्चादत्ते> ।
पाणिग्रहणमुत्तरार्थम् ।
इह तु आदानपरत्वादेव सिद्धम् ।
तेन खलीकरणहोमः पाणिनैव कर्तव्यः, न पात्रेण अन्यथा मुष्टिशब्दस्य परिमाणवाचित्वस्यापि दरशनादस्याप्रसङ्गः ॥१९॥
इति श्रीहरदत्तमिश्रविरचितायां गृह्यवृत्तावनाकुलायां द्वाविंशः खण्डः ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २२.१९
<सम्वादः>ऋणादानादिव्यवहारः ।
केचित्यत्र स्थाने प्रयर्थिभिस्संवदत इति ।
ऋणादानादिव्यवहारं कर्तुमेष्यन् व्यवहारे जयमिच्छन्नित्यर्थः शेषं व्यक्तम् ॥१९॥
इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने द्वाविंशः खण्डस्समाप्तः ॥
अथ त्रयोविंश खण्डः ॥
२ फलीकरणमुष्टिहोममन्त्रः ।
दक्षिणेन फलीकरणमुष्टिमुत्तरया हुत्वा गत्वोत्तरां जपेत् ॥ आपस्तम्बगृह्यसूत्र २३.१ ॥
[एतदादिसूत्रत्रयमेकसूत्रतया परिगणितं हरदत्तमते इति ख.ड. पुस्तकयोः]
(प.७.ख.,२३१)
टीकाः
अनुकूलावृत्ति २३.१
छत्रदण्डौ सव्येन पाणिना धारयन्नेव<दक्षिणेन>पाणिना फलीकरणानां मुष्टिं जुहोति ।
<उत्तरयर्च्चा>(१ ग.घ. अवजिह्वकेति लिङ्गदर्शनात्)ऽअव जिह्वकेऽत्येतया ।
तत्रासाविति प्रत्यर्थिनो नामनिर्धेशः प्रथमया ।
होमश्चायमपूर्वः ।
उपसमाधानं परिस्तरणं तूष्णीमुभयतः पर्युक्षणमित्येतावत् ।
ततस्संवादं गत्वा प्रत्यर्थिनं दृष्ट्वा<जपेत्> ।
<उत्तरा>मृचंऽआ ते वाचमास्यांऽइत्येताम् ।
अत्राप्यसाविति प्रत्यर्थिनो नामनिर्देशः सम्बुध्या ।
अवाचीनेन मुष्टिना होमः ।
ऽअवयज इतिऽलिङ्गात् ।
दक्षिणेनेति वचनं होमकाले छत्रदण्डयोः सव्येन धारणार्थम् सव्यस्य व्यापृतत्वात्दक्षिणेनैव होमः इति ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २३.१
सव्यपाणिधृतच्छत्रदण्ड एव<दक्षिणेन>पाणिना<फलीकरणमुष्टिमुत्तरया>ऽअव जिह्वकऽइत्येतया स्वाग्नौ जुहोति ।
ऽअसाऽवित्यत्र सोमशर्मेति प्रथमया प्रत्यर्थिनो नामग्रहणम् ।
यावदुक्त (२ धर्मा चायं) धर्मश्चायं होम इति पूर्वमेवोक्तम् ।
केचित् परिस्तरणमुभयतस्तूष्णीं पर्युक्षणं च कर्तव्यम्, मुष्टिना चावाचीनेन होम इति ।
ततस्संवाददेशं<गत्वा>प्रत्यर्थिनं पश्यन्नुत्तरांऽआ ते वाचंऽइत्येतां जपेत् ।
इह च सम्बुध्या नामनिर्देशः प्रत्यर्थिन एव ॥१॥
३ क्रुद्धाभिमन्त्रणम् ।
क्रुद्धमुत्तराभ्यामभिमन्त्रयेत विक्रोधो भवति ॥ आपस्तम्बगृह्यसूत्र २३.२ ॥
टीकाः
अनुकूलावृत्ति २३.२
<उत्तराभ्यां>ऽया त एषा रराट्याऽइत्येताभ्याम् ।
तत्र मन्त्रयोर्लिङ्गे विशेषाभावात्कुद्धमिति लिङ्गमविवक्षितम् ।
तेन स्त्रियामपि भवति ।
शूद्रादिष्वपि भवति ।
नेत्यन्ये ।
क्रुद्धस्य दर्शने नैमित्तिकमिदं नियमेन कर्तव्यमिति प्राप्त आह विक्रोधो भवतीति ।
यस्य क्रोधविगमं चिकीर्षति तत्र कर्तव्यमित्यर्थः ।
क्रोधश्चात्मविषयः ।
परविषयो वा ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २३.२
यदि क्रुद्धः प्रत्यर्थी वा व्यवहारद्रष्टा वा, तत्क्रोधशान्तिं चासाविच्छति, तदा<उत्तराभ्यां>ऽया त एषाऽइत्येताभ्यां<क्रुद्ध>मितरं वा<भिमन्त्रयेत> ।
अनेन चाभिमन्त्रणेन क्रुद्धो <विक्रोधो>विगतक्रोधो <भवति> ।
फलविधिश्चायम् ।
नार्थवादमात्रं, सूत्रकारेण बद्धत्वात् ॥२॥
४ स्वभार्यायां परपुरुषसम्बन्धप्रतिरोधकं कर्म ।
असंभवेप्सुः परेषां स्थूलाढारिकाजीवचूर्णानि कारयित्वोत्तरया सुप्तायास्सम्बाध उपवपेत् ॥ आपस्तम्बगृह्यसूत्र २३.३ ॥
टीकाः
अनुकूलावृत्ति २३.३
(<असंभवेप्सुः>अमैथुनेप्सुः) ।
सम्भवो मैथुनम् ।
श्रूयते च काममाविजनितोः सम्भवामेति (तै.सं.२५५) ।
तदभावोऽसम्भवः ।
परेषां पुरुषाणां असम्भवमिच्छन्<आढारिका>सरीसृपविशेषः ।
शतचरणा वा ।
सा च द्विविधा स्थूला तन्वी च ।
अरण्येषु स्थूला अन्यत्र तन्वी ।
तत्र स्थूलायां जीवन्त्यां<चूर्णानि>कारयति, कर्मकर्तैव ।
<कारयित्वा>तानि यदा भार्या स्वपिति तदा तस्या<स्सम्बाधे>उपस्थे उपवपेत् ।
<उत्तरया>ऽअव ज्यामिव धन्वनऽइत्येतया ।
एवं कृते संबाध उपभोगयोग्यो न भवति व्यभिचारशङ्कायामिदम् ।
वेश्याविषयं वा ॥ ३ ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २३.३
यः प्रवत्स्यन् गृहे वा प्रजातन्तुं रक्षितुं स्वभार्यायां परपुरुषशुक्लस्यासम्भवमिच्छति स<परेषामसम्भवेप्सुः> ।
तस्योपायोपदेशः
स्थूलाढारिकाया जीवन्त्याश्चूर्णान्यन्येन कारयति ।
आढारिका गौलिका सरीसृपविशेषः, या शतचरणा नाम ।
सा च द्विविधा, ग्राम्या आरण्या च ।
तयोरारण्या स्थूला, ग्राम्या तन्वी ।
<जीवचूर्णानि>चाश्मादिना महता प्रहारेण मार्यमाणायां भवन्ति ।
ततस्तानि चूर्णा<न्युत्तरया>ऽअव ज्यामिव धन्वनऽइत्येतया<सुप्तायाः सम्बाधे>योनावुपवपेत् ।
एवं कृते सम्बाध उपभोगयोग्यो न भवति ॥३॥
५ पुनः सम्भवेच्छायां कर्तव्यम् ।
सिद्ध्यर्थे बभ्रुमूत्रेण प्रक्षालयीत ॥ आपस्तम्बगृह्यसूत्र २३.४ ॥
(इतः प्रभृति सूत्रपञ्चकं सूत्रद्वयरूपेण परिगणितं हरदत्तमते इति क,ख पुस्तकयोः ।
विभागप्रकारश्चेत्थम् सिध्यर्थे बभ्रु..पलायेरन् ।
तस्मिन्निण्वानि .. प्रक्षालयन्ति ॥
इति) ॥
टीकाः
अनुकूलावृत्ति २३.४
<सिध्यर्थे>कार्यसिद्धेः प्रार्थनायां उपभोग्ययोग्यत्वे चिकीर्षिते इत्यर्थः ।
तदा<बभ्रुमूत्रेण>सम्बाधस्य<प्रक्षालनं>कर्तव्यम् ।
इदमत्र भैषज्यमित्यर्थः ।
बभ्रूः कपिलवर्णा गौः ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २३.४
अथ यदा परपुरुषशङ्कापैति तदा स्वशुक्लसम्भवसिध्यर्थे भैषज्यमुच्यते कपिलायाः गोमूत्रेण प्रक्षालयीत सम्बाधम् ॥४॥
६ पण्यानां सिध्यर्थ होमः ।
सिद्ध्यर्थे यदस्य गृहे पण्यं स्यात्तत उत्तरया जुहुयात् ॥ आपस्तम्बगृह्यसूत्र २३.५ ॥
टीकाः
अनुकूलावृत्ति २३.५
<अस्य>कुटुम्बिनो गृहे<यत्> द्रव्यं<पण्यं>क्रय्यं तस्य सिद्यर्थे अर्धापकर्षादिना सिद्धिस्स्यादित्येवमर्थम् ।
तस्मात्द्रव्यात्किञ्चिदादाय <उत्तरयर्चा>ऽयदहं धनेनेऽत्येतया जुहुयात् ।
सिद्धिर्भवति ।
अत्र क्षारलवणादीनामपि होमो भवति ।
उक्तानि यथोपदेशं काम्यानि ।
तत्र द्रवद्रव्येषु दर्वी ।
इतरेषु हस्तः ।
फलीकरणहोमवच्चापूर्वार्थम् ।
अस्येति वचनं अस्य गृहे यत्पण्यं तस्यान्येनापि तद्धितैषिणा होमो यथा स्यादिति ।
न च मन्त्रेऽहमित्यस्य विरोधः॑स एव भूत्वा स करोतीति ।
गृहे पण्यमिति वचनात्क्षेत्रादिविषये न भवति ।
पुनः सिध्यर्थवचनं एस्य कर्मान्तरत्वज्ञापनार्थम् ।
अन्यथा पूर्वस्यैव विकल्पविधिस्सम्भाव्येत ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २३.५
क्रय्यद्रव्यानु सारेणाज्यभागान्तमग्निमुखान्तं वा कृत्वा, तस्मात्पण्यादादायोत्तरयाऽयदहं धनेनऽइत्येतया<जुहुयात्> ।
अत्र तत इति वचनान्न प्राणिद्रव्याद्धोमः, ततोऽवदानेऽङ्गवैकल्यापत्तेः ।
केचितस्येति वचनादन्येन तद्धितैषिणा होतव्यम् ।
मन्त्रे चाहमित्यस्य न विरोधः, स एव भूत्वा स जुहोतीति ॥५॥
७ भृत्यप्रीतिजनिका क्रिया ।
यं कामयेत नायं मच्छिद्येतेति जीवविषाणे स्वं मूत्रमानीय सुप्तमुत्तराभ्यां त्रिः प्रसव्यं परिषिञ्चेत् ॥ आपस्तम्बगृह्यसूत्र २३.६ ॥
टीकाः
अनुकूलावृत्ति २३.६
<यं>भृत्यं मत्तोऽयं न झिद्येतोति<कामयेत>नापगच्छेदिति यावज्जीवं मदधीन एव स्यादिति जीवतो गोर्विषाणं स्वयं पतितमादाय स्वं मूत्रमानीय तेन तं भृत्यं सुप्तं<उत्तराभ्यां>ऽपरि त्वा गिरेरऽमित्येताभ्यां त्रिः प्रसव्यं परिषिञ्चेत् ।
जीववचनं मृतस्य निवृत्यर्थम् ।
गौरित्युपदेशः ।
आनीयेति वचनात्पूर्वमन्यस्मिन् पात्रे मूत्रयित्वा शौचञ्च कृत्वा ततो विषाणोपनयनम् ।
परिषीतोऽसि इति मन्त्रलिङ्गात्स्त्रीष्विदं न भवति
________________________
गृह्यतात्पर्यदर्शनव्याख्या २३.६
<यं>भर्तारं सपत्न्यामन्यस्यां वा इन्द्रियदौर्बल्यादनुरक्तं या स्त्री<कामयेत>अयं भर्ता<मत्> मत्तो <न च्छिद्येत>अस्य मय्यविच्छेदेन स्नेहस्स्यादिति सा स्त्री<जीवविषाणे> जीवन्त्या गोर्विषाणे बलात्पातिते स्वं<मूत्रमानीय>तेन भर्तारं<सुप्तं उत्तराभ्यांऽ>परि त्वा गिरेरमिहंऽ इत्येताभ्यां<त्रिः प्रसव्यं परिषिञ्चेत्> ।
अत्र चीनीयेति वचनातपूर्वमन्यस्मिन्पात्रे मूत्रयित्वा शौचं च कृत्वा ततो विषाणेऽवनयनम् ॥६॥
केचित्भृत्यविषयमेतत्स्वामिनः कर्मेति ।
अथ भृत्यादीनां पलायितानां पुनरागमनकामस्य कर्माह
८ पलायितानां दासादीनां प्रतिनिवृत्यर्थ कर्म ।
येन पथा दासकर्मकराः पलायेरन् तस्मिन्निण्वान्युपसमाधायोत्तरा आहुतीजुहुयात् ॥ आपस्तम्बगृह्यसूत्र २३.७ ॥
टीकाः
अनुकूलावृत्ति २३.७
अथ भृत्यानां पलायितानां निवृत्तिमिच्छतः कर्म ये कुर्वन्ति दासा अन्ये वा ते दासकर्मकाराः<येन यथा पलायेरन्>तस्मिन् पथि <इण्वानि>दारुमयानि निगलानि<उपसमाधाय>प्रज्वाल्य तस्मिन्नग्नावुत्तराश्चतस्र आहुतीर्जुहुयात्ऽआवर्तन वर्तयेऽत्येताः ।
तत्र चतुर्णामिण्वानां मार्गे, क्रमेण भेदेनोपसमाधानं मन्त्राश्च क्रमेणेति केचित् ।
अन्ये सकृदेव बहूनामिण्वानामिपसमाधानं होमश्च तत्रैवेति ।
एकस्य द्वयोश्च पलायनेऽपि भवत्येवायं होमो न बहूनामेव ।
एकशोषनिर्देशात्दासकर्मकरश्च दासकर्मकरौ च दासकर्मराश्च दासकर्मकरा इति ।
अनिश्चिते चार्थे बहुवचनं प्रयुज्यते, यथाकति भवतः पुत्रा ।
इति ।
अनिश्चिते चार्थे बहुवचनं प्रयुज्यते, यथाकति भवत पुत्रा इति ।
मन्त्रेषु चऽपरिक्रोशोवऽइत्यादिबहुवचनमविवक्षितम्, देवताधानपरत्वात् ।
अयमप्यपूर्वो होमः ।
सर्वेष्वेतेषु यथा सम्भवमग्निरौपासन एव ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २३.७
दासाश्च भृतिकर्मकराश्च<दासकर्मकराः> ।
ते <येन पथा पलयेरन्> तस्मिन्पथि भूमावेव<इण्वानि>लेकप्रसिद्धानि दारुमयान्यु<पसमाधाय>निधाय तेष्वेवानग्नौऽपदे जुहोतिऽइतिवतुत्तराःऽआवर्तनवर्तयऽअत्याद्युत्तरमन्त्रकरीणकाश्चतस्र आज्याहुतीर्जुहुयात्
अपूर्व चेदं कर्म ।
अत्र यद्यपि दासकर्मकरा इति बहुवचनं, तथाप्येकस्य द्वयोर्वा पलायनेऽपि भवत्येवेदं कर्म ।
केचित्पथीण्वान्यग्नौ प्रज्वाल्य, तत्राग्नावेव होम इति ॥ ७ ॥
९ नैमित्तिकानि ।
यद्येनं वृक्षात्फलमभिनिपतेद्वयो वाभिविक्षिपेदवर्षतर्क्ये वा बिन्दुरभिनिपतेत्तदुत्तरैर्यथालिङ्गं प्रक्षालयीत ॥ आपस्तम्बगृह्यसूत्र २३.८ ॥
टीकाः
अनुकूलावृत्ति २३.८
<एनं>स्नातकं<वृक्षात्>प्रच्युतफलं<यद्यभिनियतेत्>शिरसि प्रदेशान्तरे वा ।
<वयः>पक्षी काकादिः एनमभिविक्षिपेत्शिरसि प्रदेशान्तरे वा ।
यदि वा अवर्षतर्क्ये वर्ष यत्र न तर्क्येत तस्मिन् काले देशे वा<बिन्दुः>अपां स्तेकः अभिनिपतेत्तदङ्गं<उत्तरैः>ऽयदि वृक्षादिऽत्यादिभिः यथालिङ्गं अद्भिः प्रक्षालयेत् ।
ऽयदि वृक्षाऽजिति फलस्य ।
ऽये पक्षिणंऽइति वयसः ।
"दिवो नु मा बृहतऽइति बिन्दोः ।
यथालिङ्गवचनं त्रयेऽपि मन्त्राः एकस्मिन्निमित्ते मा भूवन्निति ।
तीर्थाद्यतिक्रमवत्स्यात्प्रसङ्गः, विधेर्वलीयस्त्वात् ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २३.८
<यद्येनं>द्विजं<वृक्षात्फलं अभि> उपरि नीचैरकस्मात्पतेत्, यदि वा वयः पक्षी पक्षाभ्यामेनम<भिविक्षिपेत्>उपरि पक्षवातेन धुनुयात्, यदि<वा अवर्षतर्क्ये> अभ्रशून्ये नभसि तस्माद्दिन्दुरपां स्तोकः अभिनिपतोत्, व्याख्यातम् ।
तत्फलनिपातादिभिरुपहतं शरीराङ्गमुत्तरैर्मन्त्रैर्यथालिङ्गं प्रक्षालयीत ।
तत्रऽयदि वृक्षात्ऽइति फलाभिपाते,ऽये पक्षिणःऽइति वयोऽभिविक्षेपे,ऽदिवो नु मा बृहतःऽइति बिन्द्वभिनिपाते ।
यथालिङ्गमिति तु वचनमेकैकस्मिन्निमित्ते त्रिभिस्त्रिभिः प्रक्षालनं मा भूदिति ॥९॥
अथादिभुतप्रायश्चित्तम्
१० अद्भुतप्रायश्चित्तम् ।
आगारस्थूणाविरोहणे मधुन उपवेशने कुप्त्वां कपोतपददर्शनेऽमात्यानां शरीररेषणेऽन्येषु चाद्भुतोत्पातेष्वमावास्यायां निशायां यत्रापां न शृणुयात्तदग्नेरुपसमाधानाद्याज्यभागान्त उत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते ॥ आपस्तम्बगृह्यसूत्र २३.९ ॥
टीकाः
अनुकूलावृत्ति २३.९
अथादिभुतोत्पातप्रायश्चित्तम् ।
अद्भुतमपूर्वमदृष्टचरम् ।
तस्य (अद्भुतस्यादृष्टचरस्य) उत्पात उपजनः यद्वा ऊर्ध्वभवा
अद्भुताविशेषा एवोत्पाताः दिव्या आन्तरिक्ष्याश्च ।
रात्राविन्द्रधनुर्लोहिनी द्यौरादित्ये कीलदर्शनमित्यादयः ।
तस्मिन् पक्षेऽद्भुतशब्देन भौमान्युच्यन्ते गोवलीवर्दन्यायेन ।
द्वन्द्वश्च समासः ।
तत्रोदाहरणरूपेण कानिचिदद्भुतानि दर्शयति<अगारस्थूणेति ।
विरेहणं> अङ्कुरोपजननम् ।
अगारग्रहणातात्मीयेष्वपि शूद्ररृहादिषु न भवति ।
<मधुन उपवेशने>अगारे इत्येव ।
<कुप्तुः>चुल्लीभ्राष्ट्रमित्यनर्थान्तरम् ।
कपोतस्य पक्षिण आरण्यस्यपददर्शने पचनागारे तस्मिन् प्रविष्ट इत्यर्थः ।
अमात्याः पुत्रादयः ।
तेषां बहूनां युगपत्शरीररेषणे ।
व्याधौमरणे च ।
अन्येषु चैवंप्रकारेषु वल्मीकादिषु इन्द्रधनुरादिषु च ।
अन्येष्वितिवचनातमात्यानां शरीरेषणमप्यद्भुतरूपमेव गृह्यते ।
नैकस्य द्वयोर्वा रेषणे कालभेदे च न भवति ।
अत्र प्रायश्चित्तम्<अमावास्याथां निशायां> चतुर्धाविभक्तायां रात्रेः द्वतीयो भागो न्शा ।
यत्र प्रदेशे अपां कुम्भैरुदधानेष्वानीयमानानां शब्दं न शृणुयात्तत्र प्रदेशेऽग्नेरुपसमाधानाद्युत्तरा आहुतय एकादश इमं मे वरुण इत्यादयः ।
<प्रजापत> इतिऽप्रजापते न त्वदेतानीऽत्येषा गृह्यते ।
प्रसिद्धेः, नऽप्रजापते त्वं निधिपाऽइत्येषा ।
प्रजापते नत्वदिति चहुत्वा प्रधानहुर्तार्जुहुयातिति तन्त्रशेषं प्रतिपद्यते ।
आज्यभागान्त इत्येवं तन्त्रसमाप्तौ सिद्धायां अग्नेरुपमाधानादिवचनं अग्निमात्रस्योपसमाधानार्थम् ।
तेन औपासनाभावे लौकिकेऽपि भवति ।
एवंप्रकाराणामेतेषां नैमित्तिकानां दृष्टफलानां च पण्यहोमादीनां अन्यस्मिन्नप्यग्नौ प्रवृत्तिप्रदर्शनार्थ सर्वान्ते अग्निविधानार्थो यत्नः कृतः ।
दयादि वचनमानन्तर्यार्थम् ।
प्रधानाहुत्यनन्तरं जयाद्येव प्रति पत्यते, न सूत्रान्तरदृश्टा आहुतयोऽस्मिन् तन्त्रे होतव्याः इति ।
काः पुनस्ताः?कपोतश्चेदगारमुपहन्यादनुपतेद्वा देवाः कपोतः इति प्रत्यृचं जुहुयात्जपेद्वा ।
(आश्व३७७)
इत्याश्वलायनः ।
जयदिवचनेनैव तन्त्रसमुच्चयप्रेतिषेधः ।
तदपि प्रायश्चित्तं विकल्पेन भवति पृथक्तन्त्र इति ।
तत्रापि शम्याः परिध्यर्थे ।
अस्यापि प्रायश्चित्तस्यास्मिन्नेव शास्त्र उपदिष्टत्वात् ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २३.९
तत्रादुभताः स्वभावतः पूर्वमभूतास्सन्तो भवन्तीति ।
उत्पाता इति तु ऊर्ध्व भवन्ति अन्यक्तावस्थायां प्राप्नुनुवन्ति ।
अद्भुताश्चोत्पाताश्चेति द्वन्द्वसमास ।
शब्दभेदस्तु भौमदिव्यभेदाभिप्रायः ।
तत्र दिव्या उत्पाता रात्राविन्द्रधनु रादित्यकील इत्यादयः भौमांस्त्वद्भुतानगारस्थूणेत्यादिना स्वयमेवोदाहरति ।
अगारस्य स्थूणाः<अगारस्थूणाः, तासां विरोहणे> अङ्कुरोपजनने ।
स्थूणाग्रहणं चान्यस्यापि गृहसम्बन्धिनो वंशाद्रनिखातस्यापि प्रदर्शनार्थम्, निमित्तगतविशेषणत्वात्.<मधुन उपवेशन>इत्यगार एव ।
उपसर्जनस्याप्यगारशब्दस्य योग्यत्वेन बुद्ध्या विभज्य सम्बन्धः॑ारामादिष्वनद्भुतत्वात् ।
<कुप्तुः>चुल्ली भ्राष्ट्रमम्बरीषमित्यनर्थान्तरम् ।
तस्यां कुप्त्वां पचनागार इत्यर्थः ।
<कपोतस्या>प्यारण्यस्य पक्षिविशेषस्य<पददर्शने> ।
कुप्त्वामित्यति प्रदर्शनार्थम्॑न्तर्गृहेऽप्यस्यादुभुतत्वात् ।
अमा सह वसन्ती<त्यमात्याः>
एकपात्रभोजनाः पुत्रभ्रात्रादयः तेषां बहूनां सन्ततं<शरीररेषणे>शरीरनाशने मरण इत्यर्थः ।
केचितमात्यानां युगपद्व्याधावपीति ।
<अन्येषु चादुभुतोत्पातेषु>उक्तेभ्योऽन्येषु गृहमध्ये वल्मीकजननादिष्वदिभुतेषु उसातेषु च दृषेषु सत्सु तत्सूचितदुरितशान्त्यादिकामोऽमावास्यायां<निशायां रात्र्यां>मुहूर्तद्वयादूर्ध्वम् ।
केचित्द्वितीये याम इति ।
<यत्रापां>वहन्तीनां<शब्दं न शृणुयात्>केचित्कुम्भैरुदधानेष्वानीयमानास्विति ।
तथाबूते देशे <अग्नेरुपसमाधानादि>तन्त्रं प्रतिपद्यते ।
तन्त्रविधानं चास्य आज्यहविष्ट्वात्. आज्यबागान्ते इति त्वर्थकृत्यप्रतिषेधार्थम् ।
उत्तरा आहुतीःऽइमं मे वरुण, तत्वायामिऽइत्येकादशाहुतीर्हुत्वा वचनबला<ज्जयादि प्रतिपद्यते ।>
अत्र प्रजापति इति प्रतीकेनऽप्राजापत्या व्याहृतीःऽइतिवत्ऽप्रजापते न त्वदेतानिऽइत्येषैव गृह्यते ॥९॥
परिषेचनान्तं कृत्वाभिमृतेभ्य उत्तरया दक्षिणतोऽश्मानं परिधिं दधाति दधाति ॥ आपस्तम्बगृह्यसूत्र २३.१० ॥
टीकाः
अनुकूलावृत्ति २३.१०
अत अमात्यानां शरीररेषणे इत्यस्मिन्नद्भुते कश्चिद्विशेषः येषां पूर्वापरा अन्वञ्चः प्रमीयन्ते ते अभिमृतास्तेभ्यस्तदर्थ तेषां मृत्युशमनार्थ उत्तरं कर्म होममिमं कृत्वा परिषेचनान्तेऽश्मानं परिधि अन्तर्धानं मृत्त्युनिवारणार्थ प्रतिष्ठापयति<उत्तरयर्चा>ऽइमं जीवेभ्यऽ इत्येतया ।
अभ्यासः प्रश्वसमाप्तिद्योतकः ।
परिधिमिति वचनात्तस्याश्मनः प्रच्यावनं न कार्यम्, तत्रैव प्रतिष्ठितो भवति ॥१०॥
इति श्रीहरदत्तमिश्रविरचितायां गृह्यवृत्तावनाकुलायां त्रयोर्विंशः खण्डः ॥
समाप्तश्चोत्तमोऽष्टमः पटलः ॥
====================================================================================
॥ संपूर्णानाकुला वृत्तिः ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या २३.१०
ततः परिषेचनान्तं तन्त्रश्षं करोति ।
शम्याः परिध्यर्थे इति पूर्वमेवोक्तम् ।
केचिताज्यभागान्त इत्यनेन तन्त्रप्राप्तौ सिद्धायामग्नेरुपसमाधानादिवचनमग्निमात्रस्योपसमाधानार्थम् ।
तेनौपासनशून्यस्येदं कर्म लौकिकेऽपि भवति ।
अन्यानि चेवंप्रकाराणि दृष्टफलानि नैमित्तिकानि पण्यहोमादीनि, अस्य सर्वान्तेऽग्निविधानस्य सर्वार्थत्वावगमादिति ।
<अभिमृतेभ्य>इत्यादिनाऽअमात्यानां शरीररेषणेऽइत्यस्मिन्नद्भुते कश्चिद्विशेषोऽभिधीयते ।
<अभिमृता>अभिमुख्येन मृता योग्यतया जीवन्त एव अमात्यानां सन्ततमरणदर्शनेन स्वयमपि मरणाद्भीता इत्यर्थः ।
तेभ्यस्तदर्थ सन्ततमरणभयनिवृत्त्यर्त<उत्तरया>ऽइमं जीवेभ्यःऽ इत्यनया<परिधिं> मृत्योरन्तर्धानभूतं<अश्मानं दक्षिणतो> निदधाति ।
एतच्च तन्त्रशेषान्ते, कृत्वेति क्त्वाप्रत्ययबलात् ।
केचित्निदधाति प्रतिष्ठापयति ।
परिधिवचनाच्च तस्याश्मनः प्रच्यावनं न कर्तव्यमिति ।
दधाति ददातीतिग्विरुक्तिः प्रश्नसमाप्तिसूचनार्ता ॥१०॥
इत्थं सुदर्शनार्येण गृह्यतात्पर्यदर्शनम् ।
कृतं भाष्यानुसारेण यथामति यथाश्रुतम् ॥
अत्रानुक्तं दुरुक्तं वा मतेर्मान्द्याच्छुतस्य वा ।
सन्मार्गप्रवणानां नः क्षन्तुमर्हन्ति पण्डिताः ॥
इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने त्रयोविंशः खम्डः अस्टमश्च पटलस्समाप्तः ॥
॥ समाप्तेयं गृह्यसूत्रव्याख्या ॥